नारद उवाच
यान् जप्यान् भगवद्भक्त्या प्रह्लादो दानवोऽजपत् ।
गजेन्द्रमोक्षणादींस्तु चतुरस्तान् वदस्व मे ॥१॥
पुलस्त्य उवाच
श्रृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन ।
दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः ॥२॥
गजेन्द्रमोक्षणं त्वादौ श्रृणुष्व तदनन्तरम् ।
सारस्वतं ततः पुण्यौ पापप्रशमनौ स्तवौ ॥३॥
सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः ।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥४॥
क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः ।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥५॥
अप्सरोभिः परिवृतः श्रीमान् प्रस्त्रवणाकुलः ।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥६॥
विद्याधरैः सपत्नीकैः संयतैश्च तपस्विभिः ।
वृकद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते ॥७॥
पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः ।
चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः ॥८॥
शालैस्तालैस्तमालैश्च सरलार्जुनपर्पटैः ।
तथान्यैर्विविधैर्वृक्षैः सर्वतः समलड्कृतः ॥९॥
नानाधात्वङ्कितैः श्रृङ्गैः प्रस्त्रवद्भिः समन्ततः ।
शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः ॥१०॥
मृगैः शाखामृगैः सिहैर्मातङ्गैश्च सदामदैः ।
जीवंजीवकसंघुष्टैश्चकोरशिखिनादितैः ॥११॥
तस्यैकं काञ्चनं श्रृङ्गं सेवते यं दिवाकरः ।
नानापुष्पसमाकीर्णं नानागन्धादिवासितम् ॥१२॥
द्वितीयं राजतं श्रृङ्गं सेवते यं निशाकरः ।
पाण्डुराम्बुदसंकाशं तुषारचयसंनिभम् ॥१३॥
वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन् दिशः ।
तृतीयं ब्रह्मसदनं प्रकृष्टं श्रृङ्गमुत्तमम् ॥१४॥
न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
नातप्ततपसो लोके ये च पापकृतो जनाः ॥१५॥
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥१६॥
कुमुदोत्पलकह्लारैः पुण्डरीकैश्च मण्डितम् ।
कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम् ॥१७॥
पत्रैर्मरकतप्रख्यैः पुष्पैः काञ्चनसंनिभैः ।
गुल्मैः कीचकवेणूनां समन्तात् परिवेष्टितम् ॥१८॥
तस्मिन् सरसि दुष्टात्मा विरुपोऽन्तर्जलेशयः ।
आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेक्षणः ॥१९॥
अथ दन्तोज्ज्वलमुखः कदाचिद गजयूथपः ।
मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः ॥२०॥
वासयन्मदगन्धेन गिरिमैरावतोपमः ।
गजो ह्यञ्जनसंकाशो मदाच्चलितलोचनः ॥२१॥
तृषितः पातुकामोऽसौ अवतीर्णश्च तज्जलम् ।
सलीलः पङ्कजवने यूथमध्यगतश्चरन् ॥२२॥
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥२३॥
ह्नियते पङ्कजवने ग्राहेणातिबलीयसा ।
वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः ॥२४॥
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ।
विस्फूर्य च यथाशक्ति विक्रोशंश्च महारवान् ॥२५॥
व्यथितः स निरुत्साहो गृहीतो घोरकर्मणा ।
परमापदमापन्नो मनसाऽचिन्तयद्धरिम् ॥२६॥
स तु नागवरः श्रीमान् नारायणपरायणः ।
तमेव शरणं देवं गतः सर्वात्मना तदा ॥२७॥
एकात्मा निगृहीतात्मा विशुद्धेनान्तरात्मना ।
जन्मजन्मान्तराभ्यासाद भक्तिमान् गरुडध्वजे ॥२८॥
नान्यं देवं महादेवात् पूजयामास केशवात् ।
मथितामृतफेनाभं शङ्खचक्रगदाधरम् ॥२९॥
सहस्त्रशुभनामानमादिदेवमजं विभुम् ।
प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम् ।
आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत् ॥३०॥
गजेन्द्र उवाच
ॐ नमो मूलप्रकृतये अजिताय महात्मने ।
अनाश्रिताय देवाय निः स्पृहाय नमोऽस्तु ते ॥३१॥
नम आद्याय बीजाय आर्षेयाय प्रवर्तिने ।
अनन्तराय चैकाय अव्यक्ताय नमो नमः ॥३२॥
नमो गुह्याय गूढाय गुणाय गुणवर्तिने ।
अप्रतर्क्याप्रमेयाय अतुलाय नमो नमः ॥३३॥
नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने ।
सनातनाय पूर्वाय पुराणाय नमो नमः ॥३४॥
नमो देवाधिदेवाय स्वभावाय नमो नमः ।
नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः ॥३५॥
नमोऽस्तु पद्मनाभय नमो योगोद्भवाय च ।
विश्वेश्वराय देवाय शिवाय हरये नमः ॥३६॥
नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ।
नारायणाय विश्वाय देवानां परमात्मने ॥३७॥
नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥३८॥
गुह्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय ।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ॥३९॥
नागेन्द्रदेहशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय ।
पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमोऽजराय ॥४०॥
नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतयशोधराय ।
नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय वरदाय नमो वराय ॥४१॥
भक्तिप्रियाय वरदीप्तिसुदर्शनाय फुल्लारविन्दविपुलायतलोचनाय ।
देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय ॥४२॥
ब्रह्मायनाय त्रिदशायनाय लोकाधिनाथाय भवापनाय ।
नारायणायात्महितायनाय महावराहाय नमस्करोमि ॥४३॥
कूटस्थमव्यक्तमचिन्त्यरुपं नारायणं कारणमादिदेवम् ।
युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये ॥४४॥
योगेश्वरं चारुविचित्रमौलिमज्ञेयमग्र्यं प्रकृतेः परस्थम् ।
क्षेत्रमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ॥४५॥
अदृश्यमव्यक्तमचिन्त्यमव्ययं महर्षयो ब्रह्ममयं सनातनम् ।
वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥४६॥
यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात् प्रमुच्यते ।
तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि शाश्वतम् ॥४७॥
कार्यं क्रिया कारणमप्रमेयं हिरण्यबाहुं वरपद्मनाभम् ।
महाबलं वेदनिधिं सुरेशं व्रजामि विष्णुं शरणं जनार्दनम् ॥४८॥
किरीटकेयूरमहार्हनिष्कैर्मण्युत्तमालड्कृतसर्वगात्रम् ।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥४९॥
भवोद्भवं वेदविदां वरिष्ठं योगात्मनां सांख्यविदां वरिष्ठम् ।
आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मवन्तम् ॥५०॥
श्रीवत्साङ्कं महादेवं देवगुह्यमनौपमम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥५१॥
प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम् ।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ॥५२॥
भगवन्नं गुणाध्यक्षमक्षरं पुष्करेक्षणम् ।
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ॥५३॥
त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम् ।
योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम् ॥५४॥
आदिदेवमजं शम्भुं व्यक्ताव्यक्तं सनातनम् ।
नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम् ॥५५॥
नमो वराय देवाय नमः सर्वसहाय च ।
प्रपद्ये देवदेवेशमणीयांसमणोः सदा ॥५६॥
एकाय लोकतत्त्वाय परतः परमात्मने ।
नमः सहस्त्रशिरसे अनन्ताप महात्मने ॥५७॥
त्वामेव परमं देवमृषयो वेदपारगाः ।
कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम् ॥५८॥
नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ।
सुब्रह्नण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥५९॥
पुलस्त्य उवाच
भक्तिं तस्यानुसंचिन्त्य नागस्यामोघसम्भवः ।
प्रीतिमानभवद् विष्णुः शङ्खचक्रगदाधरः ॥६०॥
सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः ।
गरुडस्थो जगत्स्वामी लोकाधारस्तपोधनः ॥६१॥
ग्राहग्रस्तं गजेन्द्रं तं तं च ग्राहं जलाशयात् ।
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥६२॥
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।
मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम् ॥६३॥
स हि देवलशापेन हूहूर्गन्धर्वसत्तमः ।
ग्राहत्वमगमत् कृष्णाद् वधं प्राप्य दिवंगतः ॥६४॥
गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुः पुमान् ।
आपद्विमुक्तौ युगपद् गजगन्धर्वसत्तमौ ॥६५॥
प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः ।
अभवत् त्वथ देवेशस्ताभ्यां चैव प्रपूजितः ॥६६॥
इदं च भगवान् योगी गजेन्द्रं शरणागतम् ।
प्रोवाच मुनिशार्दूल मधुरं मधुसूदनः ॥६७॥
श्रीभगवानुवाच
ये मां त्वां च सरश्चैव ग्राहस्य च विदारणम् ।
गुल्मकीचकरेणूनां रुपं मेरोः सुतस्य च ॥६८॥
अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ।
संस्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः ॥६९॥
कीर्तायिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचिव्रताः ।
दुः स्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति ॥७०॥
मात्स्यं कौर्मञ्च वाराहं वामनं तार्क्ष्यमेव च ।
नारसिंहं च नागेन्द्रं सृष्टिप्रलयकारकम् ॥७१॥
एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ।
सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः ॥७२॥
पुलस्त्य उवाच
एवमुक्त्वा हषीकेशो गजेन्द्रं गरुडध्वजः ।
स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ॥७३॥
ततो दिव्यवपुर्भूत्वा गजेन्द्रो मधुसूदनम् ।
जगाम शरणं विप्र नारायणपरायणः ॥७४॥
ततो नारायणः श्रीमान् मोक्षयित्वा गजोत्तमम् ।
पापबन्धाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ॥७५॥
ऋषिभिः स्तूयमानश्च देवगुह्यपरायणैः ।
गतः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥७६॥
गजेन्द्रमोक्षणं दृष्ट्वा देवाः शक्रपुरोगमाः ।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ॥७७॥
महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम् ।
विस्मयोत्फुल्लनयनाः संस्तुवन्ति जनार्दनम् ॥७८॥
प्रजापतिपतिर्ब्रह्मा चक्रपाणिविचेष्टितम् ।
गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत् ॥७९॥
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।
प्राप्नुयात् परमां सिद्धिं दुः स्वप्नस्तस्य नश्यति ॥८०॥
गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रणाशनम् ।
कथितेन स्मृतेनाथ श्रुतेन च तपोधन ।
गजेन्द्रमोक्षणेनेह सद्यः पापात् प्रमुच्यते ॥८१॥
एतत्पवित्रं परमं सुपुण्यं संकीर्तनीयं चरितं मुरारेः ।
यस्मिन् किलोक्ते बहुपापबन्धनात् लभ्येत मोक्षो द्विरदेन यद्वत् ॥८२॥
अजं वरेण्यं वरपद्मनाभं नारायणं ब्रह्मनिधिं सुरेशम् ।
तं देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम् ॥८३॥
एतत् तवोक्तं प्रवरं स्तवानां स्तवं मुरारेर्वरनागकीर्तनम् ।
यं कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदं पुरुषो लभेत ॥८४॥