पुलस्त्य उवाच
ततः प्रवृत्ते संग्रामे भीरुणां भयवर्धने ।
सहस्त्राक्षो महाचापमादाय व्यसृजच्छरान् ॥१॥
अन्धकोऽपि महावेगं धनुराकृष्य भास्वरम् ।
पुरंदराय चिक्षेप शरान् बर्हिणवाससः ॥२॥
तावन्योन्यं सुतीक्ष्णाग्रैः शरैः संनतपर्वभिः ।
रुक्मपुङ्खैर्महावेगैराजघ्नतुरुभावपि ॥३॥
ततः क्रुद्धः शतमखः कुलिशं भ्राप्य पाणिना ।
चिक्षेप दैत्यराजाय तं ददर्श तथान्धकः ॥४॥
आजघान च बाणोघैरस्त्रैः शस्त्रैः स नारद ।
तान् भस्मसात्तदा चक्रे नगानिव हुताशनः ॥५॥
ततोऽतिवेगिनं वज्रं दृष्ट्वा बलवतां वरः ।
समाप्लुत्य रथात्तस्थौ भुवि बाहुसहायवान् ॥६॥
रथं सारथिना सार्धं साश्वध्वजसकूबरम् ।
भस्म कृत्वाथ कुलिशमन्धकं समुपाययौ ॥७॥
तमापतन्तं वेगेन मुष्टिनाहत्य भूतले ।
पातयामास बलवाञ्जगर्ज च तदाऽन्धकः ॥८॥
तं गर्जमानं वीक्ष्याथ वासवः सायकैर्दृढम् ।
ववर्ष तान् वारयन् स समभ्यायाच्छतक्रतुम् ॥९॥
आजघान तलेनेभं कुम्भमध्ये पदा करे ।
जानुना च समाहत्य विषाणं प्रबभञ्च च ॥१०॥
वाममुष्ट्या तथा पार्श्वं समाहत्यान्धकस्त्वरन् ।
गजेन्द्रं पातयामास प्रहारैर्जर्जरीकृतम् ॥११॥
गजेन्द्रात् पतमानाच्च अवप्लुत्य शतक्रतुः ।
पाणिना वज्रमादाय प्रविवेशामरावतीम् ॥१२॥
पराङ्मुखे सहस्त्राक्षे तद दैवतबलं महत् ।
पातयामास दैत्येन्द्रः पादमुष्टितलादिभिः ॥१३॥
ततो वैवस्वतो दण्डं परिभ्राप्य द्विजोत्तम ।
समभ्यधावत् प्रह्लादं हन्तुकामः सुरोत्तमः ॥१४॥
तमापतन्तं बाणौघैर्ववर्ष रविनन्दनम् ।
हिरण्यकशिपोः पुत्रश्चापमानम्य वेगवान् ॥१५॥
तां बाणवृष्टिमतुलां दण्डेनाहत्य भास्करिः ।
शातयित्वा प्रचिक्षेप दण्डं लोकभयंकरम् ॥१६॥
स वायुपथमास्थाय धर्मराजकरे स्थितः ।
जज्वाल कालाग्निनिभो यद्वद दग्धुं जगत्रयम् ॥१७॥
जाज्वल्यमानमायान्तं दण्डं दृष्ट्वा दितेः सुताः ।
प्राक्रोशान्ति हतः कष्टं प्रह्लादोऽयं यमेन हि ॥१८॥
तमाक्रन्दितमाकर्ण्य हिरण्याक्षसुतोऽन्धकः ।
प्रोवाच मा भैष्ट मयि स्थिते कोऽयं सुराधमः ॥१९॥
इत्येवमुक्त्वा वचनं वेगेनाभिससार च ।
जग्राह पाणिना दण्डं हसन् सव्येन नारद ॥२०॥
तमादाय ततो वेगाद भ्रामयामास चान्धकः ।
जगर्ज च महानादं यथा प्रावृषि तोयदः ॥२१॥
प्रह्लादं रक्षितं दृष्ट्वा दण्डाद दैत्येश्वरेण हि ।
साधुवादं ददुर्हष्टा दैत्यदानवयूथपाः ॥२२॥
भ्रामयन्तं महादण्डं दृष्ट्वा भानुसुतो मुने ।
दुः सहं दुर्धरं मत्वा अन्तर्धानमगाद यमः ॥२३॥
अन्तर्हिते धर्मराजे प्रह्लादेऽपि महामुने ।
दारयामास बलवान् देवसैन्यं समन्ततः ॥२४॥
वरुणः शिशुमारस्थो बद्द्ध्वा पाशैर्महासुरान् ।
गदया दारयामास तमभ्यगाद विरोचनः ॥२५॥
तोमरैर्वज्रसंस्पर्शैः शक्तिभीर्मार्गणैरपि ।
जलेशं ताडयामास मुद्गरैः कणपैरपि ॥२६॥
ततस्तं गदयाभ्येत्य पातयित्वा धरातले ।
अभिद्गुत्य बबन्धाथ पाशैर्मत्तगजं बली ॥२७॥
तान् पाशशतधा चक्रे वेगाच्च दनुजेश्वरः ।
वरुणं च समभ्येत्य मध्ये जग्राह नारद ॥२८॥
ततो दन्ती च श्रृङ्गाभ्यां प्रचिक्षेप तदाऽव्ययः ।
ममर्द च तथा पदभ्यां सवाहं सलिलेश्वरम् ॥२९॥
तं मर्द्यमानं वीक्ष्याथ शशाङ्कः शिशिरांशुमान् ।
अभ्येत्य ताडयामास मार्गणैः कायदारणैः ॥३०॥
स ताडयमानः शिशिरांशुबाणैरवाप पीडां परमां गजेन्द्रः ।
दुष्टश्च वेगात् पयसामधीशं मुहुर्मुहुः पादलैर्ममर्द ॥३१॥
स मृद्यमानो वरुणो गजेन्द्रं पदभ्यां सुगाढं जगृहे महर्षे ।
पादेषु भूमिं करयोः स्पृशंश्च मूर्द्धानमुल्लाल्य बलान्महात्मा ॥३२॥
गृह्याङ्गुलीभिश्च गजस्य पुच्छं कृत्वेह बन्धं भुजगेश्वरेण ।
उत्पाट्य चिक्षेप विरोचनं हि सकुञ्जरं खे सनियन्तृवाहम् ॥३३॥
क्षिप्तो जलेशेन विरोचनस्तु सकुञ्जरो भूमितले पपात ।
साट्टं सन्यत्रार्गलहर्म्यभूमिं पुरं सुकेशेरिव भास्करेण ॥३४॥
ततो जलेशः सगदः सपाशः समभ्यधावद् दितिजं निहन्तुम् ।
ततः समाक्रन्दमनुत्तमं हि मुक्तं तु दैत्यैर्घनरावतुल्यम् ॥३५॥
हा हा हतोऽसौ वरुणेन वीरो विरोचनो दानवसैन्यपालः ।
प्रह्लाद हे जम्भकुजम्भकाद्या रक्षध्वमभ्येत्य सहान्धकेन ॥३६॥
अहो महात्मा बलवाञ्जलेशः संचूर्णयन् दैत्यभटं सवाहम् ।
पाशेन बदध्वा गदया निहन्ति यथा पशुं वाजिमखे महेन्द्रः ॥३७॥
श्रुत्वाथ शब्दं दितिजैः समीरितं जम्भप्रधाना दितिजेश्वरास्ततः ।
समभ्यधावंस्त्वरिता जलेश्वरं यथा पतङ्गा ज्वलितं हुताशनम् ॥३८॥
तानागतान् वै प्रसमीक्ष्य देवः प्राह्लादिमुत्सृज्य वितत्य पाशम् ।
गदां समुदभ्राम्य जलेश्वरस्तु दुद्राव ताञ्जम्भमुखानरातीन् ॥३९॥
जम्भं च पाशेन तथा निहत्य तारं तलेनाशनिसंनिभेन ।
पादेन वृत्रं तरसा कुजम्भं निपातयामास बलं च मुष्टया ॥४०॥
तेनार्दिता देववरेण दैत्याः संप्रादवन् दिक्षु विमुक्तशस्त्राः ।
ततोऽन्धकः स त्वरितोऽभ्युपेयाद रणाय योद्धुं जलनायकेन ॥४१॥
तमापतन्तं गदया जघान पाशेन बद्ध्वा वरुणो सुरेशम् ।
तं पाशमाविध्य गदां प्रगृह्य चिक्षेप दैत्यः स जलेश्वराय ॥४२॥
तमापतन्तं प्रसमीक्ष्य पाशं गदा च दाक्षायणिनन्दनस्तु ।
विवेश वेगात् पयसां निधानं ततोऽन्धको देवबलं ममर्द ॥४३॥
ततो हुताशः सुरशत्रुसैन्यं ददाह रोषात् पवनावधूतः ।
तमभ्ययाद् दानवविश्वकर्मा मयो महाबाहुरुदग्रवीर्यः ॥४४॥
तमापतन्तं सह शम्बरेण समीक्ष्य वह्निः पवनेन सार्धम् ।
शक्त्या मयं शम्बरमेत्य कण्ठे सन्ताडय जग्राह बलान्महर्षे ॥४५॥
शक्त्या स कायावरणे विदारिते संभिन्नदेहो न्यपतत् पृथिव्याम् ।
मयः प्रजज्वाल च शम्बरोऽपि कण्ठावलग्ने ज्वलने प्रदीप्ते ॥४६॥
स दह्यमानो दितिजोऽग्निनाथ सुविस्वरं घोरतरं रुराव ।
सिंहाभीपन्नो विपिने यथैव मत्तो गजः क्रन्दति वेदनार्त्तः ॥४७॥
तं शब्दमाकर्ण्य च शम्बरस्य दैत्येश्वरः क्रोधविरक्तदृष्टिः ।
आः किं किमेतन्ननु केन युद्धे जितो मयः शम्बरदानवश्च ॥४८॥
ततोऽब्रुवन् दैत्यभटा दितीशं प्रदह्युते ह्येष हुताशनेन ।
रक्षस्व चाभ्येत्य न शक्यतेऽन्यैर्ह्युताशनो वारयितुं रणाग्रे ॥४९॥
इत्थं स दैत्यैरभिनोदितस्तु हिरण्यचक्षुस्तनयो महर्षे ।
उद्यम्य वेगात् परिघं हुताशं समाद्रवत् तिष्ठ तिष्ठ ब्रुवन् हि ॥५०॥
श्रुत्वाऽन्धकस्यापि वचो व्ययात्मा संक्रुद्धचित्तस्त्वरितो हि दैत्यम् ।
उत्पाद्य भूम्यां च विनिष्पिपेष ततोऽन्धकः पावकमाससाद ॥५१॥
समाजघानाथ हुताशनं हि वरायुधेनाथ वराङ्गमध्ये ।
समाहतोऽग्निः परिमुच्य शम्बरं तथाऽन्धकं स त्वरितोऽभ्यधावत् ॥५२॥
तमापतन्तं परिघेण भूयः समाहनन्मूर्ध्नि तदान्धकोऽपि ।
स ताडितोऽग्निर्दितिजेश्वरेण भयात् प्रदुद्राव रणाजिराद्धि ॥५३॥
ततोऽन्धक्को मारुतचन्द भास्करान् साध्यान् सरुद्राश्विवसून महोरगान् ।
यान या शरेण स्पृशते पराक्रमी पराङ्मुखांस्तान् कृतवान् रणाजिरात् ॥५४॥
ततो विजित्यामरसैन्यमुग्रं सैन्द्रं सरुद्रं सयमं ससोमम् ।
संपूज्यमानो दनुपुंगवैस्तु तदाऽन्धको भूमिमुपाजगाम ॥५५॥
आसाद्य भूमिं करदान् नरेन्द्रान् कृत्वा वशे स्थाप्य चराचरं च ।
जगत्समग्रं प्रविवेश धीमान् पातालमग्र्यं पुरमश्मकाह्वम् ॥५६॥
तत्र स्थितस्यापि महासुरस्य गन्धर्वविद्याधरसिद्धसंघाः ।
सहाप्सरोभिः परिचारणाय पातालमभ्येत्य समावसन्त ॥५७॥