लोमहर्षण उवाच
इत्यृषेर्वचनं श्रुत्वा मार्कण्डेयस्य धीमतः ।
नदी प्रवाहसंयुक्ता कुरुक्षेत्रं विवेश ह ॥१॥
तत्र सा रन्तुकं प्राप्य पुण्यतोया सरस्वती ।
कुरुक्षेत्रं समाप्लाव्य प्रयाता पश्चिमां दिशम् ॥२॥
तत्र तीर्थसहस्त्राणि ऋषिभिः सेवितानि च ।
तान्यहं कीर्तयिष्यामि प्रसादात परमेष्ठिनः ॥३॥
तीर्थानां स्मरणं पुण्यं दर्शनं पापनाशनम् ।
स्नानं मुक्तिकरं प्रोक्तमपि दुष्कृतकर्मणः ॥४॥
ये स्मरन्ति च तीर्थानि देवताः प्रीणयन्ति च ।
स्त्रान्ति च श्रद्धानाश्च ते यान्ति परमां गतिम् ॥५॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत कुरुक्षेत्रं स बाह्याभ्यन्तरः शुचिः ॥६॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
इत्येवं वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥७॥
ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥८॥
सरस्वतीदृषद्वत्योर्द्वेवनद्योर्यदन्तरम् ।
तं देवनिर्मित्तं देशं ब्रह्मावर्तं प्रचक्षते ॥९॥
दूरस्थोऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम् ।
एवं यः सततं ब्रूयात् सोऽपि पापैः प्रमुच्यते ॥१०॥
तत्र चैव सरः स्त्रायी सरस्वत्यास्तटे स्थितः ।
तस्य ज्ञानं ब्रह्ममयमुत्पत्स्यति न संशयः ॥११॥
देवता ऋषयः सिद्धाः सेवन्ते कुरुजाङ्गलम् ।
तस्य संसेवनान्नित्यं ब्रह्म चात्मनि पश्यति ॥१२॥
चञ्चलं हि मनुष्यत्वं प्राप्य ये मोक्षकाङ्क्षिणः ।
सेवन्ति नियतात्मानो अपि दुष्कृतकारिणः ॥१३॥
ते विमुक्ताश्च कलुषैरनेकनन्मसम्भवैः ।
पश्यन्ति निर्मलं देवं हदयस्थं सनातनम् ॥१४॥
ब्रह्मवेदिः कुरुक्षेत्रं पुण्यं संनिहितं सरः ।
सेवमाना नरा नित्यं प्राप्नुवन्ति परं पदम् ॥१५॥
ग्रहनक्षत्राराणां कालेन पतनाद् भयम् ।
कुरुक्षेत्रे मृतानां च पतनं नैव विद्यते ॥१६॥
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।
गन्धर्वाप्सरसो यक्षाः सेवन्ति स्थानकाङ्क्शिणः ॥१७॥
गत्वा तु श्रद्धया युक्तः स्त्रात्वा स्थाणुमहाहदे ।
मनसा चिन्तितं कामं लभते नात्र संशयः ॥१८॥
नियमं च ततः कृत्वा गत्वा सरः प्रदक्षिणम् ।
रन्तुकं च समासाद्य क्षामयित्वा पुनः पुनः ॥१९॥
सरस्वत्यां नरः स्त्रात्वा यक्षं दृष्ट्वा प्रणम्य च ।
पुष्पं धूपं च नैवेद्यं दत्त्वा वाचमुदीरयेत् ॥२०॥
तव प्रसादाद यक्षेन्द्र वनानि सरितश्च याः ।
भ्रमिष्यामि च तीर्थानि अविघ्नं कुरु मे सदा ॥२१॥