ऋषय ऊचुः
कथमेषा समुत्पन्ना नदीनामुत्तमा नदी ।
सरस्वती महाभागा कुरुक्षेत्रप्रवाहिनी ॥१॥
कथं सरः समासाद्य कृत्वा तीर्थानि पार्श्वतः ।
प्रयाता पश्चिमामाशां दृश्यादृश्यगतिः शुभा ।
एतद विस्तरतो ब्रूहि तीर्थवंशं सनातनम् ॥२॥
लोमहर्षण उवाच
प्लक्षवृक्षात् समुद्भूता सरिच्छ्रेष्ठा सनातनी ।
सर्वपापक्षयकरी स्मरणादेव नित्यशः ॥३॥
सैषा शैलसहस्त्राणि विदार्य च महानदी ।
प्रविष्टा पुण्यतोयौघा वनं द्वैतमिति स्मृतम् ॥४॥
तस्मिन् प्लक्षे स्थितां दृष्टवा मार्कण्डेयो महामुनिः ।
प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम् ॥५॥
त्वं देवि सर्वलोकानां माता देवारणिः शुभा ।
सदसद देवि सर्वलोकानां माता देवारणिः शुभा ।
सदसद देवि यत्किंचिन्मोक्षदाय्यर्थवत् पदम् ॥६॥
तत सर्वं त्वयि संयोगि योगिवद देवि संस्थितम् ।
अक्षरं परमं देवि यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं ब्रह्म विश्वं चैतत् क्षरात्मकम् ॥७॥
दारुण्यवस्थितो वह्निर्भूमौ गन्धो यथा ध्रुवम् ।
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥८॥
ॐकाराक्षरसंस्थानं यत तद देवि स्थिरास्थिरम् ।
तत्र मात्रात्रयं सर्वमस्ति यद देवि नास्ति च ॥९॥
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ।
त्रीणि ज्योतीषि वर्गाश्च त्रयो धर्मादयस्तथा ॥१०॥
त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् ।
त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥११॥
एतन्मात्रात्रयं देवि तव रुपं सरस्वति ।
विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥१२॥
सोमसंस्था हविः संस्था पाकसंस्था सनातनी ।
तास्त्वदुच्चारणाद देवि क्रियन्ते ब्रह्मवादिभिः ॥१३॥
अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम् ।
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥१४॥
तवैतत परमं रुपं यन्न शक्यं मयोदितुम् ।
न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥१५॥
स विष्णुः स वृषो ब्रह्मा चन्द्रार्कज्योतिरेव च ।
विश्वावासं विश्वरुपं विश्वात्मानमनीश्वरम् ॥१६॥
सांख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् ।
अनादिमध्यनिधनं सदसच्च सदेव तु ॥१७॥
एकं त्वनेकधाप्येकभाववेदसमाश्रितम् ।
अनाख्यं षडगुणाख्यं च ब्रह्वाख्यं त्रिगुणाश्रयम् ॥१८॥
नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् ।
सुखात् सुखं महत्सौख्यं रुपं तत्त्वगुणात्मकम् ॥१९॥
एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥२०॥
येऽथां नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः ।
ये वा भूमौ येऽन्तरिक्षेऽन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः ॥२१॥
यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किंचित् ।
यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥२२॥
एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।
प्रत्युवाच महात्मानं मार्कण्डेयं महामुनिम् ।
यत्र त्वं नेष्यसे विप्र तत्र यास्याम्यतन्द्रिता ॥२३॥
मार्कण्डेय उवाच
आद्यं ब्रह्मसरः पुण्यं ततो रामहदः स्मृतः ।
कुरुणा ऋषिणा कृष्टं कुरुक्षेत्रं ततः स्मृतम् ।
तस्य मध्येन वै गाढं पुण्या पुण्यजलावहा ॥२४॥