ऋषय ऊचुः
देवानां ब्रूहि नः कर्म यदवृत्तास्ते पराजिताः ।
कथं देवाधिदेवोऽसौ विष्णुर्वामनतां गतः ॥१॥
लोमहर्षण उवाच
बलिसंस्थं च त्रैलोक्यं दृष्ट्वा देवः पुरंदरः ।
मेरुप्रस्थं ययौ शक्रः स्वमातुर्निलयं शुभम् ॥२॥
समीपं प्राप्य मातुश्च कथयामास तां गिरम् ।
आदित्याश्च यथा युद्धे दानवेन पराजिताः ॥३॥
अदितिरुवाच
यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।
बलिर्विरोचनसुतः सर्वैश्चैव मरुदगणैः ॥४॥
सहस्त्रशिरसा शक्यः केवलं हन्तुमाहवे ।
तेनैकेन सहस्त्राक्ष न स ह्यन्येत शक्यते ॥५॥
तद्वत पृच्छामि पितरं कश्यपं ब्रह्मवादिनम् ।
पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ॥६॥
ततोऽदित्या सह सुराः संप्राप्ताः कश्यपान्तिकम् ।
तत्रापश्यन्त मारीचं मुनिं दीप्तपोनिधिम् ॥७॥
आद्यं देवगुरुं दिव्यं प्रदीप्तं ब्रह्मवर्चसा ।
तेजसा भास्कराकारं स्थितमग्निशिखोपमम् ॥८॥
न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनाम्बरम् ।
वल्कलाजिनसंवीतं प्रदीप्तमिव तेजसा ॥९॥
हुताशमिव दीप्यन्तमाज्यगन्धपुरस्कृतम् ।
स्वाध्यायवन्तं पितरं वपुष्पन्तमिवानलम् ॥१०॥
ब्रह्मवादिसत्यवादिसुरासुरगुरुं प्रभुम् ।
ब्राह्मण्याऽप्रतिमं लक्ष्म्या कश्यपं दीप्ततेजसम् ॥११॥
यः स्त्रष्टा सर्वलोकानां प्रजानां पतिरुत्तमः ।
आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥१२॥
अथ प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।
ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ॥१३॥
अजेयो युधि शक्रेण बलिर्दैत्यो बलाधिकः ।
तस्माद विधत्त नः श्रेयो देवानां पुष्टिवर्धनम् ॥१४॥
श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपः प्रभुः ।
अकरोद गमने बुद्धिं ब्रह्मलोकाय लोककृत् ॥१५॥
कंश्यप उवाच
शक्र गच्छाम सदनं ब्रह्मणः परमाद्भुतम् ।
तथा पराजयं सर्वे ब्रह्मणः ख्यातुमुद्यताः ॥१६॥
सहादित्या ततो देवा याताः काश्यपमाश्रमम् ।
प्रस्थिता ब्रह्मसदनं महर्षिगणसेवितम् ॥१७॥
ते मुहूर्तेन संप्राप्ता ब्रह्मलोकं सुवर्चसः ।
दिव्यैः कामगमैर्यानैर्यथार्हैस्ते महाबलाः ॥१८॥
ब्रह्माणं द्रष्टुमिच्छन्तस्तपोराशिनमव्ययम् ।
अध्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् ॥१९॥
षटपदोद्गीतमधुरां सामगैः समुदीरिताम् ।
श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहषुस्तदा ॥२०॥
ऋचो बह्वृचमुख्यैश्च प्रोक्ताः क्रमपदाक्षराः ।
शुश्रुवुर्विबुधव्याघ्रा विततेषु च कर्मसु ॥२१॥
यज्ञविद्यावेदविदः पदक्रमविदस्तथा ।
स्वरेण परमर्षीणां सा बभूव प्रणादिता ॥२२॥
यज्ञसंस्तवविदभिश्च शिक्षाविदभिस्तथा द्विजैः ।
छन्दसां चैव चार्थज्ञैः सर्वविद्याविशारदैः ॥२३॥
लोकायतिकमुख्यैश्च शुश्रुवुः स्वरमीरितम् ।
तत्र तत्र च विप्रेन्द्रा नियताः शंसितव्रताः ॥२४॥
जपहोमपरा मुख्या ददृशुः कश्यपात्मजाः ।
तस्यां सभायामास्ते स ब्रह्मा लोकपितामहः ॥२५॥
सुरासुरगुरुः श्रीमान् विद्यया वेदमायया ।
उपासन्त च तत्रैव प्रजानां पतयः प्रभुम् ॥२६॥
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमाः ।
भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ॥२७॥
विद्यास्तथान्तरिक्षं च वायुस्तेजो जलं मही ।
शब्दः स्पर्शश्च रुपं च रसो गन्धस्तथैव च ॥२८॥
प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् ।
साङ्गोपाङ्गाश्च चत्वारो वेदा लोकपतिस्तथा ॥२९॥
नयाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च ।
एते चान्ये च बहवः स्वयंभुवमुपासते ॥३०॥
अर्थो धर्मश्च कामश्च क्रोधो हर्षश्च नित्यशः ।
शुक्रो बृहस्पतिश्चैव संवर्त्तोऽथ बुधस्तथा ॥३१॥
शनैश्चरश्च राहुश्च ग्रहाः सर्वे व्यवस्थिताः ।
मरुतो विश्वकर्मा च वसवश्च द्विजोत्तमाः ॥३२॥
दिवाकरश्च सोमश्च दिवा रात्रिस्तथैव च ।
अर्द्धमासाश्च मासाश्च ऋतवः षट च संस्थिताः ॥३३॥
तां प्रविश्य सभां दिव्यां ब्रह्मणः सर्वकामिकाम् ।
कश्यपस्त्रिदशैः सार्द्धं पुत्रैर्धर्मभृतां वरः ॥३४॥
सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।
ब्राह्यया श्रिया सेव्यामानामचिन्त्यां विगतक्लमाम् ॥३५॥
ब्रह्माणं प्रेक्ष्य ते सर्वे परमासनमास्थितम् ।
शिरोभिः प्रणता देवं देवा ब्रह्मर्षिभिः सह ॥३६॥
ततः प्रणम्य चरणौ नियताः परमात्मनः ।
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥३७॥
दृष्ट्वा तु तान् सुरान् सर्वान् कश्यपेन सहागतान ।
आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ॥३८॥