संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १२

द्वापरयुगसन्तानः - अध्यायः १२

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्व प्राकट्यं मे ततः परम् ।
वेधसो वै समाध्याख्ये पञ्चदशे तु वत्सरे ॥१॥
दशमे कल्पके षष्ठे मनौ वै ब्राह्मणगृहे ।
भूतले च पर्वतस्य मेरोः पूर्वे सुधार्मिके ॥२॥
वार्तिकाऽऽख्ये महाखण्डे भक्ताऽऽशापूरकोऽभवम् ।
शृणु लक्ष्मि! वार्तखण्डे धर्मव्रतोऽभवद् द्विजः ॥३॥
ब्राह्मणो ब्रह्मवित् साक्षाद् धर्मदेवाऽवतारकः ।
षट्कर्मनिरतो नित्यं द्वात्रिंशद्गुणवाँस्तथा ॥४॥
नवधाभक्तियुक्तश्च षोडशवस्तुपूजकः ।
नित्यं त्रिषवणस्नायी क्वचित्पञ्चाग्नितापनः ॥५॥
शीलव्रतपरश्चापि तपोव्रतपरायणः ।
पञ्चयज्ञपरश्चापि सर्वसाधनशोभनः ॥६॥
साधुधर्मपरो नित्यपत्नीव्रतपरायणः ।
सतां सेवापरश्चापि पुरुषार्थपरायणः ॥७॥
आत्मनिवेदनवृत्तिः सत्त्वप्रकर्षशोभितः ।
शास्त्रज्ञः श्रुतसम्पन्नः सत्रधर्मक्रियापरः ॥८॥
एवं गुणैः सदा युक्तः परमेशप्रपूजकः ।
अथाऽभवत्तस्य पत्नी भक्तिव्रताऽभिधा सती ॥९॥
पातिव्रत्यपरा नित्यं श्रीभगवत्परायणा ।
गृहकार्यपरा चापि गृहधर्माभिशालिनी ॥१०॥
शीलव्रतोज्ज्वला साध्वी रागद्वेषविवर्जिता ।
सदा कृष्णे हरौ भक्तिमती चात्मनिवेदना ॥११॥
व्रतकर्त्री हरेः पूजाकर्त्री चातिथिपूजिका ।
कीर्तने नित्यमेवाऽभिमग्ना कार्येषु सर्वथा ॥१२॥
अन्यवाणीविहीना च नामजापपरायणा ।
स्नानशुद्धिपरा साध्वी साधुसेवापरायणा ॥१३॥
कार्ये प्रभोजने दाने व्रते कृष्णार्पणान्विता ।
दोषदृष्टिविहीना च गुणमात्राभिधारिणी ॥१४॥
प्रातर्ध्यानं करोत्येव हरेर्मे भजनं तथा ।
पूजां पाठं स्तवनं च मालाजापं निवेदनम् ॥१५॥
आरार्त्रिकं च मध्याह्ने नैवेद्यं च जलार्पणम् ।
ताम्बूलकं ततः सायं तत्तत्सेवापरायणा ॥१६॥
एवं सा कार्तिके सर्वव्रतानि प्रकरोति हि ।
माघस्नानं तथा वैशाखेऽपि दानं करोति वै ॥१७॥
परमेशे तथा पत्यौ पातिव्रत्यक्षतौ क्वचित् ।
प्रायश्चित्तं करोत्येव द्रागेव भक्तिसुन्दरी ॥१८॥
साक्षात् सा भक्तिदेवी वै यथा तथा हि वर्तते ।
भक्त्युज्ज्वला सदा चास्ते मम भक्तिसुजीवना ॥१९॥
एवं सा यौवने भावे पतिदेवात् शनैरिह ।
लोके प्राप्तवती पुत्रं शंखचक्रादिचिह्नितम् ॥२०॥
उज्ज्वलं तापशमनं दृष्टिशान्तिकरं शिशुम् ।
ललाटे तिलकं चन्द्रे बिभ्राणं च निसर्गजम् ॥२१॥
प्राप्य पुत्रं पिता चक्रे पुत्रजन्ममहोत्सवम् ।
विप्रोऽपि भगवद्भक्त्या राज्यसम्पत्प्रपूरितः ॥२२॥
महत्पुत्रोत्सवं चक्रे स्वर्णगोदानकर्मभिः ।
हीरकादिप्रदानानि रत्नान्नदानकान्यपि ॥२३॥
क्षेत्रवाटीप्रदानानि गृहदानं तथाऽकरोत् ।
धनानि च ददौ दाने पुत्रजन्ममहोत्सवे ॥२४॥
वर्षमध्ये सुसंस्कारान् सर्वांश्चक्रे यथाविधि ।
वर्षे पूर्णे जन्मदिनोत्सवं पिता चकार ह ॥२५॥
मासे त्रयोदशे पूर्णे विमानं चाम्बरात्तदा ।
समायातं हि वैकुण्ठाद् दिव्यपार्षदशोभितम् ॥२६॥
ज्वरव्याप्तं च तं बालं सेवितं रक्षितं तथा ।
मात्रा पित्रा भालितं च निन्युस्तं पार्षदा द्रुतम् ॥२७॥
दिव्यदेहो दिव्यकान्तिर्दिव्यहस्तचतुष्टयः ।
हारमुकुटसंशोभोऽभवत् शवस्य सन्निधौ ॥२८॥
क्षणं स्नेहाद् रुरोदापि माता तथा पिताऽपि च ।
बन्धुसुहृत्पार्श्ववासा रुरुदुर्मरणात्तथा ॥२९॥
पार्षदाः पुत्रपितरौ प्राहुः क्षणं निवृत्य वै ।
मा रोदनं चास्य कृते कर्तव्यं भक्तिशालिना ॥३०॥
मनुष्यजन्मसाफल्यं येनाऽऽप्तिः पादयोर्हरेः ।
प्राप्तव्यं यत् तदाप्तं वै चानेन चाऽक्षरं पदम् ॥३१॥
तस्मादस्योत्सवः कार्यः शोकः कार्यो न सर्वथा ।
बहूनां जन्मनामन्ते हरेर्भक्तिः प्रजायते ॥३२॥
बहुपुण्यप्रतापेन भक्तौ तु पितरौ तथा ।
तादृशौ पितरौ पुत्रमोक्षदौ स्थोऽत्र भूतले ॥३३॥
ताभ्यां जन्म समासाद्य प्रयात्ययं हि मोक्षणम् ।
मायायां पतने शोको मोक्षणे शोचनं न वै ॥३४॥
पुत्रो भूत्वा समायाच्चेद् भगवत्पदमुत्तमम् ।
लाभश्चेतादृशो नान्यः पित्रोर्मोक्षप्रदो हि सः ॥३५॥
यो वै जन्म समासाद्य याति जनार्दनालयम् ।
पितरौ तारितौ तेन तरता भवसागरम् ॥३६॥
स पुत्रः पुत्र एवाऽस्ति तार्यते तरति स्वयम् ।
न स पुत्रो मतो यश्च निमज्जयति मज्जति ॥३७॥
तस्मादेनं समादाय यास्यामो भगवत्पदम् ।
भगवत्कृपया साध्यं सर्वस्य भगवत्पदम् ॥३८॥
इत्युक्ता पार्षदैः साध्वी भक्तिव्रता जगाद तान् ।
कथं बाल्ये तनु त्यक्त्वा प्रयात्ययं वदन्तु मे ॥३९॥
श्रुत्वा वै पार्षदाश्चाहुः शृणु सौभाग्यसुन्दरि! ।
योगभ्रष्टा योगिनो वै जायन्ते भक्तमन्दिरे ॥४०॥
पूर्वदेहस्य वै त्यागसमयो वासनाबलात् ।
पुनर्जन्मधारणं वै जायते भक्तिमद्गृहे ॥४१॥
धने वाञ्च्छा पृथिव्यां वा क्षेत्रेऽम्बरे च भोजने ।
पाने याने जीवने वा नार्यां पुत्रे च मन्दिरे ॥४२॥
पुत्र्यां पत्यौ जने बन्धौ भृत्ये दासे सुहृज्जने ।
विद्यायां वा कलायां वा कीर्तौ शत्रौ सुखे कुले ॥४३॥
विरक्तौ वापि संसक्तौ कामे लोभे विनाशने ।
कलहे चापि वा वैरे रूपे रसे विहारके ॥४४॥
देशे ग्रामे स्वर्गसुखे गन्धे स्पर्शे श्रवस्यपि ।
भोगे रोगे तथा राज्ये सम्पत्तौ वा प्रधानके ॥४५॥
धिष्ण्येऽधिकारे माने वा गुरुतायां च पूजने ।
यादृशी वासना यस्य तत्र जन्तुः प्रजायते ॥४६॥
भजने श्रीहरेः प्रसादने सेवादिकर्मसु ।
जनन्यां जनके वापि देवे गुरौ च साधुषु ॥४७॥
यादृशी भावना यस्य तदर्थं तत्र जायते ।
पुत्रस्तेऽयं हरेर्भक्तः पूर्वजन्मनि सेवकः ॥४८॥
सतां सेवापरश्चापि देवसेवापरायणः ।
आसीद् विप्रो वैष्णवश्च शिष्यो धर्मव्रतस्य च ॥४९॥
प्राप्तेऽस्य निधने जातः शोकस्तं शृणु सुन्दरि! ।
गुरुं ज्ञानप्रदं त्यक्त्वा प्रयामि मरणं गतः ॥५०॥
धर्मव्रतं परित्यज्य क्व गमिष्यामि चाधुना ।
तावत्प्राणा वियुक्ताश्च तव जाठरमाश्रितः ॥५१॥
पुत्रोऽयं तव जातोऽस्ति प्राज्ञायनो महानृषिः ।
स च जन्म समागृह्य जातिस्मरो हि वर्तते ॥५२॥
सर्वं विलीय चात्रैव प्रयाति धाम चाक्षरम् ।
तव गृहे धृतं जन्म पावनं भगवत्प्रदम् ॥५३॥
प्रसादो भक्षितोऽनेन पावनोऽयं प्रवर्तते ।
क्षीणोऽस्याऽपीह संकल्पो रागद्वेषमयोऽपि च ॥५४॥
भक्तोऽयं पावनश्चास्ते धाम प्रयाति शार्ङ्गिणः ।
योगभ्रष्टाः प्रजायन्ते स्वल्पायुषो हि बालकाः ॥५५॥
भक्तानां मुक्तनारीणां चापत्यानि भवन्ति ते ।
वर्षे वर्षद्वये वापि कृत्वा संकल्पपूर्तिकाम् ॥५६॥
अवशेषं विधायैव पूर्णं यान्ति परं पदम् ।
एवं प्राज्ञायनो विप्रस्तव पुत्रो व्यजायत ॥५७॥
पूर्णं कृत्वा निजं भावं वैकुण्ठं सम्प्रयाति ह ।
शंखचक्रादिचिह्नोऽसौ याति धाम हरेः शुभम् ॥५८॥
अभयं तत्पदं याति मा शुचो भक्तिवृत्तिके! ।
सर्वदानान्यभयस्य कलां नार्हन्ति षोडशीम् ॥५९॥
इत्युक्त्वा पार्षदा नत्वा मातरं भक्तिवृत्तिकान् ।
पितरं धर्मव्रतकं नत्वा वैकुण्ठमाययुः ॥६०॥
पितरौ शोकविगतौ धर्मभक्तिपरायणौ ।
प्रसन्नौ मुक्तिलाभेन तौ सुतस्य व्यजायताम् ॥६१॥
अथ कालान्तरे जातः पुत्रस्तयोर्द्वितीयकः ।
सोऽपि वर्षद्वये याते तथैव निधनं गतः ॥६२॥
पार्षदाश्चाययुस्तं च नेतुं विमानसंस्थिताः ।
तथैव शोकं व्यनुदन् पित्रोः पुनस्तथैव ते ॥६३॥
अथ कालान्तरे जातस्तयोः पुत्रस्तृतीयकः ।
सोऽपि वर्षद्वये याते तथैव निधनं गतः ॥६४॥
चतुर्थोऽपि पंचमोऽपि वर्षत्रयाऽन्तरे तथा ।
एवं तेषामनुजाश्च दशोत्तरशतं मृताः ॥६५॥
त्रिशतेषु वत्सरेषु बालकाः सर्व एव ते ।
मृताश्च पार्षदैर्नीताः सर्वे पदं हरेर्हि ते ॥६६॥
लोका अज्ञाः प्रवदन्ति पापफलं सवासनाः ।
भक्ता विज्ञाः प्रवदन्ति पुण्यं हरेः कृपा हि सा ॥६७॥
यत्कुक्षौ जन्म चासाद्य परंधाम प्रयान्ति यत् ।
साधुतुल्या स्थितिः पित्रोर्मोक्षदत्वं हि देहिनाम् ॥६८॥
यद्गृहे जन्म सम्पाद्य मोक्षद्वारमपावृतम् ।
तद्गृहं तत्पितरौ च दिव्यौ स्तः श्रीनरायणौ ॥६९॥
पुत्राणां मोक्षणं वीक्ष्य पितरौ मोदमाप्नुतः ।
परं लोकव्यवहारे निम्नता दृश्यते यतः ॥७०॥
भक्तिव्रता धर्मपत्नी वाञ्च्छां चक्रे सुतार्थिनी ।
एकपुत्रो दीर्घजीवी भवेन्मे चेति पूजने ॥७१॥
सदैवं चार्थयत् पुष्पाञ्जल्यन्ते भक्तिवृत्तिका ।
मयोक्तं च तथाऽस्त्वेवं दीर्घजीवी भविष्यति ॥७२॥
सुतस्ते त्वेकादशश्च द्वादशोऽहं हरिस्तथा ।
इत्युक्त्वा विररामाऽहं सा तु प्राह निजं पतिम् ॥७३॥
मुदितौ दम्पती जातौ ततो वर्षान्तरेऽग्रजः ।
मम भ्राता तत्र जातः संकर्षणो जनार्दनः ॥७४॥
वर्षद्वयोत्तरे चाऽहं श्रीमत्कृष्णनरायणः ।
अभवं तत्र देवानां पुष्पवृष्टिर्बभूव ह ॥७५॥
पितरौ नन्दितौ जातौ प्रसन्नौ सुखभागिनौ ।
अथ लक्ष्मि! त्वया चापि स्वावतारः समीहितः ॥७६॥
ममाऽऽज्ञां सम्प्रगृह्यैव देवीव्रतां हि मातरम् ।
देवव्रतं च पितरं विप्रं धर्मपरायणम् ॥७७॥
पवित्रं सर्ववेदानां ज्ञातारं ब्रह्मवेदिनम् ।
परब्रह्मपरं दास्ये वर्तमानं हरेः सदा ॥७८॥
भजन्तं मां यज्ञनारायणं सर्वात्मदर्शिनम् ।
समाधिस्थं पूर्वजन्मयोगिनं शुद्धसद्व्रतम् ॥७९॥
त्वं तत्र सर्वचिह्नाढ्या लक्ष्मीः स्वयं व्यजायथाः ।
तदा पुष्पादिवृष्टिश्चाऽम्बराद् बभूव सर्वतः ॥८०॥
देवदुन्दुभयो नेदुः सुराण्यस्त्वामपूपुजन् ।
त्वं वै यज्ञोपवीतादिसर्वसंस्कारशोभना ॥८१॥
विवाहयोग्या ह्यभवश्चक्रिषे मद्व्रतं तदा ।
कान्तप्रयोव्रतं रम्यं सर्वसौभाग्यदं शुभम् ॥८२॥
मया स्वप्ने तु ते मात्रे पित्रे च दर्शनं निजम् ।
वरयान्या च सहितं दत्वोक्तं देहि मे सुताम् ॥८३॥
पितरौ ते जाग्रतौ च मत्वा स्वप्नं यथार्थकम् ।
आहूय मे प्रदत्ता त्वं विधिना वह्निसाक्षिणा ॥८४॥
जयालक्ष्मीं तदा नाम्ना देवव्रतस्य पुत्रिकाम् ।
अनादिश्रीवरनारायणोऽहं परिणीतवान् ॥८५॥
देवानां च महर्षीणां समाजोऽभूत्तदा महान् ।
महोत्सवस्तदाऽभूच्च सर्वत्र भूतले दिवि ॥८६॥
संकर्षणो मम भ्राता तत्रैव ज्येष्ठिकां सुताम् ।
देवव्रतस्य वै पुत्रीं सरोजिनीमुवाह च ॥८७॥
विवाहे तत्र सम्पन्ने पितरौ शोभनौ तव ।
यौतकं ददतुः श्रेष्ठममूल्यं रत्नहीरकम् ॥८८॥
गजानश्वान् गोवृषभान् क्षेत्रं विमानमुत्तमम् ।
वाटिकां दासदासीश्च धनानि कनकानि च ॥८९॥
स्वर्णपात्राणि बहूनि भूषाऽम्बराणि चापि वै ।
अथाऽहं मद्गृहं यातः सर्वं नीत्वा सुखास्पदम् ॥९०॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
परब्रह्माऽक्षरातीतः परमेशः सनातनः ॥९१॥
आकल्पान्तं त्वया साकमहं तत्राऽभवँस्तदा ।
संकर्षणोऽपि मे भ्राता विजयाख्यश्रियाऽन्वितः ॥९२॥
आकल्पान्तमतिष्ठद्वै भूतले धर्मरक्षकः ।
स्मर लक्ष्मि! तव जन्म मम जन्माऽपि वै तदा ॥९३॥
अहं वेद्मि न चान्ये वै कालह्रासेन कर्षिताः ।
अन्ये तथाऽवतारा मे सहस्रायुतकोटयः ॥९४॥
तत्र वर्षे मम जाता मोक्षदाः सुखदाः शुभाः ।
इत्येतत् कथितं सर्वं प्राकट्यं मम वै तदा ॥९५॥
स्मरणाच्छ्रवणाच्चापि मननान्मोक्षदं हि यत् ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत्। ॥९६॥
दुःखिनां दुःखनाशः स्यात् सिद्धिं लभेत् प्रपाठकः ।
वंशो भवेत् प्रभक्तश्च भार्या पतिं च विन्दते ॥९७॥
राज्यं स्वर्गं समृद्धिं च वाचको लभते ध्रुवाम् ।
मम भक्तिप्रकर्तॄणां मायालेपो न जायते ॥९८॥
न वापि पतनं लक्ष्मि! सर्वदाऽभ्युदयो भवेत् ।
भुक्तिर्मुक्तिर्भवेच्चापि लभेद्वै शाश्वतं सुखम् ॥९९॥
सर्वयज्ञफलं चापि सर्वतीर्थफलं लभेत् ।
साधुसेवाफलं चापि पातिव्रत्यफलं लभेत् ॥१००॥
सर्वपूजाफलं चापि सर्वव्रतफलानि च ।
सर्वदानफलं चापि श्रवणादस्य संलभेत् ॥१०१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चदशे वत्सरे धर्मव्रतविप्रगृहे दशाऽधिकशतपुत्रमोक्षोत्तरं साग्रजस्याऽनादिश्रीवरनारायणस्य प्राकट्य-
मित्यादिनिरूपणनामा द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP