द्वापरयुगसन्तानः - अध्यायः २२२
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं जालकारकथां तथा ।
जालकारः कमलाख्यासरित्तीरे विहारकृत् ॥१॥
विहारे चाऽभवन्मत्स्यपाशजालविधायकः ।
पक्षिणां बन्धनं पादे पशूनां शृंगपादयोः ॥२॥
मत्स्यादीनां यथा देहे भवेत् तादृशजालिकाः ।
करोति सूत्ररज्जूनां विक्रीणाति समन्ततः ॥३॥
तदुत्पाद्यधनाद्यैश्च निर्वहत्येव भोजनम् ।
नाम्ना संगरयादस्को निर्मातृनगरे स्थितः ॥४॥
पाशवन्तः समक्रीत्वा जालान्यस्मात्तु संगरात् ।
बध्नन्ति जलजान् वृक्षवासान् वनजान् देहिनः ॥५॥
एकदा संगरयादः कृत्वा स्कन्धे तु जालकान् ।
क्रेतुं ययौ तु नगरे क्रीणन्तु जालकानिति ॥६॥
उच्चैर्वदति श्रावार्थं कुक्षौ पोटलिकां वहन् ।
अथाऽस्य समयो जातो मध्याह्नश्च क्षुधाऽभवत् ॥७॥
क्रीत्वा भक्ष्यं चापणाद्वै नगराद् बहिराययौ ।
कमलायास्तटे गत्वा प्रभुंजन् स जलं पपौ ॥८॥
तावद् दृष्ट्वा भिक्षुको वै भिक्षेच्छया ह्युपागतः ।
नाम्ना शुक्लायनः साधुर्दधन् मालां करे गले ॥९॥
रटन्नाम हरेकृष्ण मुखे कृष्णं हृदि स्मरन् ।
धारयन्नहिंसाधर्मं विवेकं तु विचिन्तयन् ॥१०॥
यात्रामात्रं वहमानो निर्द्वन्द्वस्तं ह्युपाययौ ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥११॥
अश्रावयत् पुरा पश्चान्निषसाद तदन्तिके ।
वाससा वर्ष्मणा चापि मलिनोऽपि हृदोज्ज्वलः ॥१२॥
आकर्षयन्मनस्तस्य सौम्यदृष्ट्या व्यलोकयत् ।
अथेच्छन्निव वाञ्छन् वै मौनं धृत्वा स्थिरोऽभवत् ॥१३॥
धैर्यभृतं सुविश्वास्यं वीक्ष्य विरक्तयोगिनम् ।
अप्रेरितोऽपि दैवेन प्रेरितः प्राह जालकृत् ॥१४॥
नमस्ते साधवे साधो कुतः कथं किमिच्छसि ।
साधुः प्राह नमश्चान्तर्यामिणे कुशलं तव ॥१५॥
इच्छामि भोजनं किञ्चिज्जलपानसहायदम् ।
जालकारः प्रसन्नात्मा ददौ भर्जिततन्दुलान् ॥१६॥
चणकान् भर्जिताँश्चापि मनाक् लवणयोजितान् ।
शुभं ते स्यात्तथा नित्यं निरामयं सुखोदकम् ॥१७॥
सुखनिद्रा भवतात्ते मे तन्दुलचणार्पणात् ।
इत्युक्त्वा श्रीहरिं स्मृत्वा निवेद्य चान्तरात्मने ॥१८॥
बुभुजे तन्दुलादींश्च पीत्वा तृप्तिं ययौ ततः ।
पप्रच्छ व्यवसायं च जालकारस्य वै तदा ॥१९॥
जालकारोऽवदज्जालव्यवसायं यथातथम् ।
श्रुत्वा साधुः क्षणं कृष्णं ध्यात्वोपदेशमाचरत् ॥२०॥
शृणु संगरयादस्क हितं ते वच्मि सर्वथा ।
चतुरशीतिखनयो भवन्ति देहिनामिह ॥११॥
तत्र मानुषदेहो वै मोक्षाय कल्पितः परः ।
बहूनां जन्मनामन्ते पुण्यपुञ्जैर्हि मानुषम् ॥२२॥
देहं लभते देहीति ततः पुण्येन वै दिवम् ।
भक्त्या मोक्षं स्वधर्मेण स्मृद्धिं सौख्यं विवेकतः ॥२३॥
धर्मार्थकाममोक्षांश्च साधयेन्मानवः सदा ।
पशुप्रायं जीवनं तु हिंसकं परिवर्जयेत् ॥२४॥
हिंसया लभ्यते याम्यं दुःखं च नरकालयः ।
पाप द्रोहोऽप्यनिष्टं च हिंसया जायते तथा ॥२५॥
सांकर्यं जायते चापि दारिद्र्यं जनसंक्षयः ।
हिंसकानां जायतेऽधोगतिर्निरयगामिता ॥२६॥
हिंसकानां पाशदस्य हिंसापापं प्रजायते ।
जालकृतोऽपि प्राणिनां हिंसापापं प्रजायते ॥२७॥
मारकः खादकश्चाऽप्यनुमोदकः सहायकः ।
शस्त्रदः पाशदश्चापि जालदः समभाग् भवेत् ॥२८॥
जालकृतस्त्ववश्यं ते हिंसापापं प्रजायते ।
जालबद्धा देहिनस्त्वां निःश्वसन्तीव जालकम् ॥२९॥
जालधरं जालकृतं शपन्ति सन्तु दुःखिनः ।
तस्मात् साधुरहं तेऽत्रोपदिशामि सुखाय ते ॥३०॥
प्राणत्राणफलं पुण्यं तत्फलं सुखमुत्तमम् ।
प्राणिहिंसाफलं पापं तत्फलं दुःखमुल्बणम् ॥३१॥
जालकार्यं जालकर्म त्यक्त्वा वस्त्राणि संकुरु ।
वस्त्रैश्चावरणयोग्यैः पापं नोद्भवति क्वचित् ॥३२॥
आत्मसाधनमासाद्य कुरु कल्याणमात्मनः ।
स्नानं ध्यानं हरेः पूजां परोपकृतिमर्पणम् ॥३३॥
साधूनां सेवनं कृत्वा लब्ध्वा पुण्यं दिवं व्रज ।
अनादिश्रीकृष्णनारायणं संपूज्य भावतः ॥३४॥
व्रतोत्सवाँश्च दानानि कृत्वा स्वर्गं परं व्रज ।
मा हिंसाकारकं जालं संविरचय पापदम् ॥३५॥
मानुषजीवनं सार्थं कुरु मोक्षाद्युपार्जनात् ।
शास्त्रकथां सदा श्रुत्वा नारायणं समर्जय ॥३६॥
नारायणं विदित्वैव परं पदं प्रयाहि च ।
स्मर नारायणं कृष्णं श्रीपतिं कमलापतिम् ॥३७॥
अक्षरेशं माणिकीशं राधेशं पुरुषोत्तमम् ।
स एव भगवानत्र मानवे भूतलेऽपि च ॥३८॥
दिव्यधामेश्वरः साक्षाज्जायते मानवाकृतिः ।
तस्य सर्वचरित्राणि शुभाऽशुभानि यानि च ॥३९॥
दिव्यान्येव भवन्त्येव चिन्तनीयानि तानि वै ।
मोक्षदानि महाशान्तिप्रदानि शुभदानि च ॥४०॥
कामः क्रोधो भयं शोकः प्रीतिर्जयः पराजयः ।
क्षुधा तृषा कृतिर्निद्रा तत्सर्वं तस्य मंगलम् ॥४१॥
निन्द्यं वाच्यं निकृष्टं च नृशंस्यं तस्य कर्म यत् ।
सर्वं कल्याणदं बोध्यं न दोषो विद्यते हरौ ॥४२॥
हरेर्निर्गुणभावत्वाद् दिव्यत्वात्तस्य साधुषु ।
हरेः सम्बन्धमाप्तेषु निर्गुणत्वं च दिव्यता ॥४३॥
वर्तते चेति विज्ञाय सेवनीया हि साधवः ।
साधुषु स्नेहमासाद्य हरौ स्नेहं विधाय च ॥४४॥
अन्यरागं विहायैव स्थैर्यं लभेत् परेश्वरे ।
एवं नित्यं समभ्यासात् संस्कारो बलवान् भवेत् ॥४५॥
तेन स्नेहातिशयिता कृष्णे प्रजायते मुहुः ।
तथा सत्येव भक्तस्य जाग्रत्स्वप्नसुषुप्तिषु ॥४६॥
श्रीहरेर्दिव्यमूर्तेस्तु दर्शनं सम्प्रजायते ।
अतिस्नेहेन साध्वीनां तथा वीक्षा हरेर्भवेत् ॥४७॥
अतिकामेन पत्नीनां गोपीनां हरिवीक्षणम् ।
अतिद्वेषेण शत्रूणां दैत्यानां हरिवीक्षणम् ॥४८॥
अतिस्वार्थेन देवानां मुहुर्वै विष्णुदर्शनम् ।
अतितादात्म्ययोगेन योगिनां ब्रह्मदर्शनम् ॥४९॥
अतिज्ञानेन विदुषां सर्वथा ब्रह्मदर्शनम् ।
एवं दास्येन भवति सेवया कृष्णदर्शनम् ॥५०॥
अत्यनुवृत्तिधर्मेण हरेः प्रसन्नता भवेत् ।
कृपया जायते वीक्षा सर्वदा श्रीहरेस्तथा ॥५१॥
सतामाशीर्वचोभिश्च नैर्मल्ये सति सर्वथा ।
भक्तानां हृदये बाह्ये सर्वत्र हरिदर्शनम् ॥५२॥
हरौ च कृष्णभक्तेषु पक्षपातोऽस्ति यस्य वै ।
कुटुम्बिषु यथा तद्वत् तत्सत्संगो हि शाश्वतः ॥५३॥
एवंविधस्य भक्तस्य नश्यन्ति दोषकोटयः ।
वासनाश्च विनश्यन्ति प्रोद्भवन्ति सतां गुणाः ॥५४॥
विना स्नेहं हरौ सत्सु सत्संगो नष्टमूलकः ।
यस्तु स्यान्मानहीनश्च मुमुक्षुर्दिव्यदृष्टिमान् ॥५५॥
महिमानं विदन् हरेः साधूनां भक्तयोषिताम् ।
तस्य बोध्यस्तु सत्संगः सदैव दृढमूलकः ॥५६॥
एतादृशानां भक्तानां विरहं चाऽसहन् प्रभुः ।
अक्षरस्थोऽगोचरोऽपि श्रेयसे कृपया त्विह ॥५७॥
स्वेच्छयैव नराकारं गृह्णन् चरति भूस्तरे ।
तस्याऽनुवृत्तिमाश्रित्य वर्तितव्यं निरन्तरम् ॥५८॥
अनुवृत्तिरसन्देहा हरिप्रसादराधनम् ।
हरेः प्रसादो यस्याऽस्ति तस्य सतां प्रसन्नता ॥५९॥
प्रसन्नताया लब्ध्यर्थं नैष्टव्यं वर्ष्मणः सुखम् ।
सत्संगो वपुषा तन्वा पोष्टव्यो मनसाऽपि च ॥६०॥
अयं साक्षात्प्रभुः कृष्णनारायणो जगद्गुरुः ।
अवतारी परब्रह्म श्रीमद्गोपालनन्दनः ॥६१॥
इमे सन्तो हरेर्भक्ता अक्षरव्योमवासिनः ।
मुक्ताः सर्वेऽत्र सन्त्येव योषितोऽपि रमासमाः ॥६२॥
इयं भूश्चाऽक्षरं धाम बालकृष्णस्य योगतः ।
वयं सर्वे दिव्यमुक्ता नारायणप्रसंगतः ॥६३॥
यत्र कृष्णस्तत्र धाम मुक्ता मुक्तानिकास्तथा ।
महद्भाग्यमिदं नश्च यद् दिव्यानां समागमः ॥६४॥
एभिः समं निवासो नः सर्वं दिव्यं यतो मम ।
सेवनीयो हरिश्चापि सेवनीया हि साधवः ॥६५॥
आज्ञास्तेषां पालनीयास्ततो दिव्यत्वमाप्यते ।
साधुगुणाः समायान्ति साध्वाज्ञा पालनात् खलु ॥६६॥
साधून् सेवेत सततं देववत् कृष्णवत्तथा ।
कृष्णध्यानं परं कार्यं कार्या भक्तिरनेकधा ॥६७॥
दुःस्वभावास्तथा पापं त्याज्यं सतां प्रसेवया ।
श्रेयःशक्तिर्वर्धनीया जेतव्याश्चान्तराऽरयः ॥६८॥
प्रत्यक्षे वा परोक्षे वा कृष्णो बोध्यो निजान्तिके ।
प्रत्यक्षद्रष्टा सर्वत्र व्यापको नैकरूपधृक् ॥३९॥
अन्तरात्मा परमात्मा लक्ष्मीश्रीमाणिकीपतिः ।
प्रत्यक्षं चेक्षते सर्वं सर्वत्राऽस्ति परः प्रभुः ॥७०॥
स्थावरे जंगमे चास्ति स्थूले सूक्ष्मे तथेतरे ।
न तद्वाञ्च्छा विना पत्रचालने सबलोऽनिलः ॥७१॥
सर्वकर्मफलदाता सर्वं धृत्वा स तिष्ठति ।
पृथ्व्यां धारणशक्तिर्वै तस्यैवाऽस्ति तथा जले ॥७२॥
तृप्तिशक्तिस्तस्य चास्ति गगने विधृतिस्तथा ।
चन्द्राऽर्काऽग्निप्रकाशानां दाता स परमेश्वरः ॥७३॥
एतादृशः समर्थोऽयं वर्तते मानवोऽत्र वै ।
दत्ते स्वदर्शनं कृष्णः कंभराश्रीसुतो हरिः ॥७४॥
एवं निरन्तरं चित्ते चिन्तनीयो हरिः प्रभुः ।
स एव स्वाश्रितानां तु दुःखान्यपाकरोति हि ॥७५॥
परित्राणे समर्थोऽस्ति वर्तते दिव्यभाववान् ।
क्वचिन्मानवभावैस्तु सहते कष्टमित्यपि ॥७६॥
भयमेति कामयते क्षमते रौति वै क्वचित् ।
सर्वाः क्रिया हरेरत्र कल्याणदा हि पाविकाः ॥७७॥
तस्य प्रभोः साधवोऽपि सन्ति स्वात्मेव तत्प्रियाः ।
अहोऽयं भगवान् भक्तवशोऽत्र वर्ततेऽपि च ॥७८॥
तत्प्रतापात्तस्य भक्ताः सन्ति कल्याणकारिणः ।
साधवो मोक्षदा नश्चेत्येवं माहात्म्यमर्जयेत् ॥७९॥
अलौकिकी यस्य बुद्धिर्हरौ सत्सु सदा यथा ।
सा वर्धनीया सततं न कुबुद्धिं प्रसंगजाम् ॥८०॥
स्वभावदोषं पश्येन्न दिव्यं परिचयं चरेत् ।
तेनाऽसद्वासनादोषो हृदयादपसर्पति ॥८१॥
भक्तिं विवर्धयेत् सच्च देहेन्द्रियमनःकृताम् ।
सर्वस्वार्पणरूपां तां महामोक्षपदायिनीम् ॥८२॥
मोक्षस्य साधनं मुख्यं सतां दास्यं मतं पदम् ।
आपत्कालेऽपि सततं सेवनीया हि साधवः ॥८३॥
साधुकथां हरेर्वार्तां शृणुयात् पापनुत्तये ।
मोक्षाय चार्पयेत् सर्वं देहं गेहं धनादिकम् ॥८४॥
अनादिश्रीकृष्णनारायणं श्रीमाणिकीपतिम् ।
जानीयात् परमात्मानं श्रीपतिं राधिकापतिम् ॥८५॥
वासुदेवादयो व्यूहाः केशवाद्याश्च मूर्तयः ।
मत्स्याद्या अवताराश्च बालकृष्णस्य सन्ति वै ॥८६॥
एवं माहात्म्यमासाद्य सतीव संश्रयेत् पतिम् ।
भुक्तिं मुक्तिं लभेत् कृष्णात् पत्नीव शरणी जनः ॥८७॥
एवं संगरयादस्क! त्यक्त्वा जालक्रियां भवान् ।
समाचरतु वस्त्राणां वयनं च कटादिकम् ॥८८॥
भज कृष्णं परब्रह्म लभ मुक्तिं परं पदम् ।
याहि धामाऽक्षरं दिव्यं शाश्वतं त्वं सुभक्तिमान् ॥८९॥
इति शुक्लायनः साधुरुपविश्य नदीतटे ।
आशीर्दत्वा च तं कृत्वा वैष्णवं भक्तिसेविनम् ॥९०॥
तिरोभवद्धि सहसा संगरो निजजालकम् ।
गृहे गत्वा विभिद्येव रज्जनां दीर्घनाडकम् ॥९१॥
कृत्वा ररक्ष च गृहे तत्याज जालकारिताम् ।
भेजे मां सकुटुम्बः स बहुभक्तान् व्यधापयत् ॥९२॥
भजनं मे पूजनं च लक्ष्मि मोक्षप्रदं यथा ।
तदाऽऽरभ्याऽद्रोहधर्मं पालयामास सर्वथा ॥९३॥
मूर्तौ मां गोचरं चक्रे दास्यस्नेहादिभिः स च ।
अथ काले समायाते रथेन सह माधवः ॥९४॥
प्रययौ तद्गृहं चाऽहं नेतुं धामाऽक्षरं मम ।
रूपावतीं तु तत्पत्नीं संगरं च रथे त्वहम् ॥९५॥
निषाद्य दिव्यदेहं च कृत्वा धामाऽक्षरं ययौ ।
अन्येऽपि भक्तसंघा मे मया नीता ययुः परम् ॥९६॥
सर्वपापसमूहास्तु मया प्रज्वालिता रमे ।
भक्तानां साधुभक्तानां नैर्मल्यं कृपयाऽऽदधे ॥९७॥
अपि पापाः पापसंगा अज्ञा विषयिणोऽपि च ।
सतां योगेन जायन्ते पावना ब्रह्मभोगिनः ॥९८॥
स्त्रियो वा पशवश्चापि जडा वा मलिना अपि ।
आसाद्य साधुसेवां संजायन्ते पंक्तिपावनाः ॥९९॥
न विप्रा न सुरा गावो व्रतानि नियमा यमाः ।
न तीर्थानि तथा श्रेष्ठाः सन्तः श्रेष्ठतमा यथा ॥१००॥
सन्मूर्तिरानखशिखं सर्वा दिव्या हि पावनी ।
यथा नारायणः साक्षाल्लक्ष्मीर्नारायणी यथा ॥१०१॥
सतां प्रसादो दिव्योऽस्ति सतां स्पर्शस्तथोत्तमः ।
सतां सेवा हि सुखदा दुःखहन्त्री हरिप्रदा ॥१०२॥
पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
पापनाशः पुण्यलाभो भुक्तिर्मुक्तिर्भवेत्तथा ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने संगरयादस्कभक्तस्य जालकार्यं त्याजयित्वा शुक्लायनसाधुना भगवत्प्राप्तिः कारितेत्यादिनिरूपणनामा द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP