संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १०१

द्वापरयुगसन्तानः - अध्यायः १०१

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
भगवन् यस्य साधूनां योगस्त्वत्र बभूव न ।
प्रेतस्य तस्य चोद्धारः कथं स्याद् वद तद्धितम् ॥१॥
श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि प्रेतस्य पृष्ठतो जनैः ।
श्राद्धे सन्तो भोजनीयाः पूजनीयाः सुवस्तुभिः ॥२॥
वस्त्रभूषारत्नरूप्यसुवर्णधनवाहनैः ।
सन्तोषणीयाः सन्तश्च विप्राश्च ब्रह्मवेदिनः ॥३॥
गोदानानि प्रदेयानि गावो वै तारिका सदा ।
गोदानाच्छाश्वतान् लोकान् प्राप्नुयात् प्रेत उत्थितः ॥४॥
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ।
मान्धातारं पुरा प्राह बृहस्पतिः शृणुष्व तत् ॥५॥
सन्तं प्रपूज्य विप्रं च गुरुं प्रपूज्य गां तथा ।
प्रेतनाम्ना प्रदद्याच्च गां पात्राय महात्मने ॥६॥
गौर्मे माता पिता चोक्षा तत्र स्वर्गं प्रतिष्ठितम् ।
सायं गोष्ठे व्रती स्थित्वा गोसेवादिपरायणः ॥७॥
प्रातरुत्थाय गोदानं कुर्यात् स्मृत्वा परेतकम् ।
प्रेतस्तूर्णं दिवं याति कमले! नात्र संशयः ॥८॥
वसेदेकां निशां गोभिः समसख्यः समव्रतः ।
ऐकात्म्यभावयुक्तो यः कलुषात् स विमुच्यते ॥९॥
दोग्ध्र्यः सवत्सिका देया प्रातः सूर्यस्य दर्शने ।
युवत्यो रूपशालिन्योऽमृतगर्भाः प्ररोहदाः ॥१०॥
एनो गावः प्रणुदन्तु स्वर्गयानाय सन्तु मे ।
मातृवन्मां प्ररक्षन्तु सन्त्वाशीर्वादसम्प्रदाः ॥११॥
रोगनाशे परे मोक्षे स्वर्गे स्मृद्धौ सुखे धने ।
गावः प्रसन्ना उदयं ददतु श्रेयसां पदे ॥१२॥
सर्वदेवाश्रयाः पुण्या दिशध्वं गतिमुत्तमाम् ।
आत्मना मनसा युक्ता ददत्वात्मार्पणं फलम् ॥१३॥
अर्घ्यं वस्त्रं सुपर्णं च वसु तावत ओदनान् ।
ऊर्ध्वास्यां सुप्रसन्नां गां सवत्सां वैष्णवीं ददे ॥१४॥
गोप्रदाता समुच्चार्य दद्यात् फलं लभेत् परम् ।
गोदः शीलीपूजकश्च दाताऽर्घस्य च सेवकः ॥१५॥
साधुभक्तः पितृभक्तो गुरुभक्तः सुरार्हकः ।
सत्यशीलस्तापसश्च न स्युर्वै दुःखिनः क्वचित् ॥१६॥
स्नानाभ्यासी कथाहृष्टो ब्रह्मभजनतत्परः ।
गोसेवाढ्यश्च चत्वारो वैष्णवा धामयोगिनः ॥१७॥
गोव्रती गोप्रदाता च गव्याशनो गवायनः ।
वैष्णवः परमो बोध्यो गोमाता विष्णुदैवता ॥१८॥
देवव्रती वेदव्रती गोव्रती साधुसद्व्रती ।
गोमेधादिव्रती चाग्र्यान् विन्दते तैजसाऽऽलयान् ॥१९॥
कामधेनुप्रदाताऽत्र कामान् सर्वान् महोत्सवान् ।
हव्यकव्यादिभुग्दत्तान् भुंक्ते भौमाँश्च तैजसान् ॥२०॥
यवान् पिबेद् गव्ययुक्तान् क्षितौ स्वप्याद् गवायने ।
शीली दोग्ध्रीं प्रदद्याद्गां सर्वयज्ञफलं लभेत् ॥२१॥
साधवे साधुदीक्षार्थंं पुत्रं दद्याच्छुभक्रियम् ।
तेनापि कृतपुण्येनोद्ध्रियन्ते प्रेतदेहिनः ॥२२॥
साध्व्यै दद्यात् कन्यकां च सतीं वैराग्यशालिनीम् ।
युवतीं ज्ञानसम्पन्नां संसारोद्धारशालिनीम् ॥२३॥
शीलपरायणां गृहिधर्मरागविवर्जिताम् ।
त्यागवृत्तिं तथाऽऽचार्याणीस्थानशोभनां शुभाम् ॥२४॥
राजा दद्यात्तु गुरवे दासीं दासं द्विजाय च ।
द्विजपुत्रं प्रदद्याच्च विप्रं दद्यात् सुभूभृते ॥२५॥
यो भवेद्वै गुरुतुल्यो विद्यासत्संगशेवधिः ।
तादृच्छीलस्वभावस्य दानं कुर्याद् द्विजस्य च ॥२६॥
विप्रकुमारदानं तु मतं गोदानसदृशम् ।
उद्धारको भवेद्विप्रश्चेह परत्र सर्वदा ॥२७॥
विप्रपुत्रस्य पित्रे वै दद्यात् स्वर्णं धनं बहु ।
एवं विप्रसुतं क्रीत्वा दद्याद् दानं द्विजातये ॥२८॥
यज्ञकार्यनिर्वहार्थं पाठशालार्थमित्यपि ।
राज्यगुरुत्वलाभार्थं गृह्णीयाच्चानपत्यकः ॥२९॥
सुतदानं सुतादानं गोदानं स्वर्णदानकम् ।
आत्मदानं मोक्षदानं मोक्षदानि मतानि वै ॥३०॥
वत्सलां सत्त्वसम्पन्नां तरुणीं च विभूषिताम् ।
गत्वा गां च सुतां दाने सर्वपुण्यैः सुयुज्यते ॥३१॥
दुःखदारिद्र्यलोकान् स गां दत्वा नैव गच्छति ।
दन्तहीना वलीयुक्ता लीनक्षीरा ऋतुक्षया ॥३२॥
जरठा रोगिणी रुष्टा दुष्टा देया न कर्हिचित् ।
सर्वासु कपिला श्रेष्ठा सा दातव्या विशेषतः ॥३३॥
देवाः सूर्यश्च वै वृष्टिं कुर्वन्ति यज्ञतर्पिताः ।
यज्ञीयं कर्म गव्यैश्च जायते दुग्धसर्पिषा ॥३४॥
प्रजापतिः स्वयं तृप्तिमगच्छत् सर्पिषा पुरा ।
गोलोकस्थगवां पश्चादसृजल्लोकमातृकाः ॥३५॥
सुवर्णवर्णाः कपिलाः स्रवन्तीर्दुग्धनिर्झरान् ।
क्षीराऽमृतं स्रवन्त्येता धेनवो जीवभोजनम् ॥३६॥
ददौ ताश्च ऋषिभ्योऽथ देवेभ्यः स प्रजापतिः ।
मानवेभ्यो ददौ चापि दुग्धाध्वरादिहेतवे ॥३७॥
विप्रेभ्यः प्रददौ चापि दैवकार्यार्थसिद्धये ।
कपिलानां प्रदानं वै ततः श्रेष्ठतमं मतम् ॥३८॥
दुग्धदाः पुण्यदाः प्राणप्रदाः प्रेतप्रमोक्षदाः ।
गाश्च दत्वा सर्वकामप्रदः स्यादिह वा परे ॥३९॥
हव्यं कव्यं तर्पणं च शान्तिं यानं तथाऽम्बरम् ।
वृद्धबालादितृप्तिं चाऽऽप्नुयाद् गोप्रदमानवः ॥४०॥
गावः सुरभिगन्धिन्यस्तथा गुग्गुलगन्धयः ।
गावः प्रतिष्ठा लोकानां गावः स्वस्त्ययनं महत् ॥४१॥
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।
न दुग्धं नाऽमृतं नातपो गौः साधुर्न नेश्वरः ॥४२॥
गावो धनं नित्यलभ्यं गावः पुष्टिः सनातनी ।
गावो लक्ष्म्याः परं मूलं सम्पदां मूलमेव ताः ॥४३॥
अन्नं हि परमं गोस्थं देवानां परमं हविः ।
स्वाहावषट् गोस्थितौ च गोषु दत्तं हि शाश्वतम् ॥४४॥
गावो यज्ञफलं चापि गोषु यज्ञाः प्रतिष्ठिताः ।
गोभ्यो रसाः प्रवर्धन्ते बालाः पायसजीविनः ॥४५॥
यानि कानि तु पापानि स्वल्पान्यतिकृतानि वा ।
धेनुं ददति ये ते वै तरन्ति यान्ति मोक्षणम् ॥४६॥
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् ।
सभूषां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥४७॥
शंकराय पुरा कृष्णो वृषभं प्रददौ ततः ।
वृषभस्य प्रदानं वै प्रवृत्तं तूत्तमं भुवि ॥४८॥
युवानमुच्छ्रितं श्वेतं भूरिशृंगमलङकृतम् ।
वृषभं ये प्रयच्छन्ति भवन्त्यैश्वर्यशालिनः ॥४९॥
गाः स्मृत्वा च हरिं सन्तं स्मृत्वा स्वप्यात् सदा निशि ।
उत्थाय तान् स्मरेच्चापि नमस्येत् पुष्टिमाप्नुयात् ॥५०॥
अनिष्टं स्वप्नमालक्ष्य गां मुहुः सम्प्रकीर्तयेत् ।
गोकरीषैः पाचयेच्च गोमयैः शुद्धिमाचरेत् ॥५१॥
गोघृतेन जुहुयाच्च घृतेन स्वस्ति वाचयेत् ।
घृतं दद्याद् घृतं प्राश्नीयात् गवां पुष्टिमश्नुते ॥५२॥
गौर्मे चाग्रे सदा चास्तु पृष्ठे पार्श्वे सदाऽस्तु च ।
सर्वरत्नमयी धेनुं तां ददामि शुभाप्तये ॥५३॥
गावो मामुपतिष्ठन्तु हेमशृंग्यः पयोमुचः ।
सुरभ्यः सौरभेय्यश्च गावः पश्यन्तु मां सदा ॥५४॥
गावः सत्यो देवताश्च साध्व्यो लक्ष्म्यः पतिव्रताः ।
सन्तो मुक्ता ईश्वराश्च गुरवः साधवः शुराः ॥५५॥
भक्तिः पुण्यं वृषः सेवा दत्तं तप्तं ह्युपकृतम् ।
महाभयेषु रक्षन्ति समेषु विषमेषु च ॥५६॥
शृणु लक्ष्मि पशवोऽपि धेनवो भुवमागताः ।
तपश्चक्रुः पुरा सर्वा गच्छेम श्रेष्ठतामिति ॥५७॥
सर्वाभ्यो दक्षिणाभ्योऽपि वयं श्रेष्ठतमा त्विति ।
सर्वपापप्रणाशिन्यो लिम्पामो दूषणैर्न च ॥५८॥
अस्मद्गव्यादिभिः सर्वो जनः पूयेत वै तथा ।
शकृता चापि मूत्रेण पूताः स्युः सर्वदेहिनः ॥५९॥
गोदातारश्च गोलोकं गच्छेयुरिति पद्मजे ।
तापसीभ्यो वरान् ब्रह्मा ददौ धेनुभ्य उत्तमान् ॥६०॥
एवं भवत योगिन्यो लोकाँस्तारयतेति च ।
सर्वथा च पवित्राः स्थो मोक्षदा भवतेति च ॥६१॥
लक्ष्मीर्वसतु गोशकृति तान् वरान् ददाम्यहम् ।
एवं दत्वा वरान् ब्रह्मा ययौ सत्यं ततश्च ताः ॥६२॥
प्रातर्नमस्याः पूज्याश्च सर्वथा पुष्टिदाः शुभाः ।
लोककल्याणकारिण्यो बभूवुर्भवतारिकाः ॥६३॥
समानवत्सां कपिलां धेनुं दत्वा पयस्विनीम् ।
सौम्यां भूषाम्बरयुतां ब्रह्मलोके महीयते ॥६४॥
लोहितां तादृशीं दत्वा सूर्यलोके महीयते ।
शबलां तादृशीं दत्वा सोमलोके महीयते ॥६५॥
श्वेतां च तादृशीं दत्वा शक्रलोके महीयते ।
कृष्णां च तादृशीं दत्वा वह्निलोके महीयते ॥६६॥
धूम्रां च तादृशीं दत्वा धर्मलोके महीयते ।
पाण्डुरां तादृशीं दत्वा वारुणं लोकमश्रुते ॥६७॥
वादलवर्णां गां दत्वा वायुलोके महीयते ।
हिरण्यवर्णां पिंगाक्षीं दत्वा कुबेरतामियात् ॥६८॥
पीतां दत्वा तादृशीं तु पितृलोके महीयते ।
कर्बुरां तादृशीं दत्वा विश्वदेवः प्रजायते ॥६९॥
गौरीं च तादृशीं दत्वा वसुलोकमवाप्नुयात् ।
पाण्डुकम्बलवर्णां गां दत्वा साध्यसुरो भवेत् ॥७०॥
विशालपृष्ठां दत्वा गां मरुल्लोकान् प्रपद्यते ।
रत्नाढ्यां तादृशीं दत्वा गन्धर्वतामवाप्नुयात् ॥७१॥
अनड्वाहं महोक्षं वा सर्वरत्नैरलंकृतम् ।
दत्वा युवानं तु लोके प्रजापतेर्महीयते ॥७२॥
गोदाता याति परमं स्वर्गं गोलोकमित्यपि ।
विमानेनाऽर्कवर्णेन वृषयानेन वाऽम्बरे ॥७३॥
स्वर्गे तं गोप्रदातारं सहस्रसुरयोषितः ।
सेवन्ते सततं प्रातर्बोधयन्ति सुकीर्तनैः ॥७४॥
यावन्ति धेनुरोमाणि तावद्वर्षाणि मोदते ।
धेनुदश्च ततो भूमौ गोभूपालो भवत्यपि ॥७५॥
घृतक्षीरप्रदा गावो घृतदेहा घृतोद्भवाः ।
घृतनद्यो घृतावर्त्ताः सन्तु मे सततं गृहे ॥७६॥
गावो मे हृदये नित्यं गावो नाभ्यां तथात्मनि ।
गावः सर्वत्र देहे मे गावो वसन्तु मानसे ॥७७॥
घृतं तासां मम देहेन्द्रियप्राणेषु तिष्ठति ।
गावः सन्त्वग्रतो मे च पृष्ठतः सन्तु धेनवः ॥७८॥
सर्वतः सन्तु गावो मे गोमध्येऽहं वसामि हि ।
एवंभावयमानस्य क्षीयन्ते पापकोटयः ॥७९॥
यत्र कानकसौधाश्च स्वर्णागमो ह्यमापकः ।
देव्यो गान्धर्वकुशला यत्राऽमृतं समृद्धयः ॥८०॥
दधिकुल्या घृतकुल्या पयःकुल्याश्च यत्र च ।
नवनीतकुल्या यत्र तत्र यान्ति गवां प्रदाः ॥८१॥
सहस्रगोप्रदाता तु स्वर्गे देवेश्वरो भवेत् ।
लक्षगोदानकृत् सम्राट् त्रैलोक्यस्य भवेद् रमे ॥८२॥
कोटिगोदानकर्ता तु वैकुण्ठं याति मोक्षभाक् ।
अर्बुदगोप्रदाता तु गोलोकं याति मोक्षभाग् ॥८३॥
अब्जधेनुप्रदाता त्वक्षरं धाम प्रयाति वै ।
दशगोदानतः प्रेतो मुच्यते सृष्टिबन्धनात् ॥८४॥
मातरं पितरं स्मृत्वा पत्नीं स्मृत्वा पितामहान् ।
गोदाता तत्कुलान्येकादशोद्धारयति ध्रुवम् ॥८५॥
गां स्मृत्वा तिलदानेन जलदानेन वापि च ।
प्रेतस्य यमलोके वै निरस्यति तु यातनाः ॥८६॥
मातरो दुग्धदात्र्यो मे देववासा हि धेनवः ।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥८७॥
गोदानं परमं पुण्यं फलं च शाश्वतं यतः ।
कर्तव्यं नाऽवशिष्येत स्वर्गार्थं गोप्रदायिनः ॥८८॥
गावो दाने यमुद्दिष्टास्तारयन्ति हि तं जनम् ।
धारयन्ति बालकाँश्च वर्धयन्ति पयोऽमृतैः ॥८९॥
गावो वै मानवे लोके स्वर्गे सत्ये भवन्ति वै ।
ऐश्वरे चापि वैकुण्ठे गोलोके च भवन्ति हि ॥९०॥
अक्षरे भूरिशृंगाश्च गावोऽयासो वसन्ति वै ।
गावो यज्ञस्य यज्ञत्वं दैवतं द्युसदामपि ॥९१॥
गावः प्रतिष्ठा भूतानां गावः पुण्यं परायणम् ।
गावः समासत सत्रं सिषासन्त्यः शफाँस्तथा ॥९२॥
शृंगाणि चापि दशमे मासि वेधास्ततो ददौ ।
तासां शृंगाण्यजायन्त यासां यादृङ्मतानि वै ॥९३॥
गावस्तेजो महद् दिव्यं पालयन्ति सुसाधवः ।
सुकृतिनः पुण्यभाजो गवां सेवारताः सुराः ॥९४॥
यत्र द्रुमा मिष्टरसा मधुस्रावफलान्विताः ।
मधुसुगन्धिपुष्पाश्च भूमिर्मणिमयी तथा ॥९५॥
यत्र काञ्चनभूभागाः सुखदाः कामदास्तथा ।
सर्वविधैरुत्पलैश्च भान्ति यत्र जलाशयाः ॥९६॥
केसरा यत्र वर्तन्ते सौरभाढ्या मरुद्गताः ।
षड्रसाः फलिनः स्तम्बाः शाकानि च मधूनि च ॥९७॥
मुक्ताफुल्ला वल्लयश्च सफलाश्चाऽमृतप्रदाः ।
सौवर्णा गिरयो यत्र नित्यनूतनशोभिनः ॥९८॥
नवरूपधरा नार्यो सेवन्ते मुक्तकोटिकाः ।
सर्वकामाः सरसाः सर्वभोगा भवन्ति च ॥९९॥
यत्र चान्दनारण्यानि रमन्ते तत्र गोप्रदाः ।
सर्वसंकल्पसमृद्धा निःशोका भाग्यवर्द्धिताः ॥१००॥
विमानेषु विचित्रेषु महोद्यानेषु यान्ति च ।
मोदन्ते गोप्रदातार उपक्रीडन्ति सर्वशः ॥१०१॥
विहरन्ति स्त्रीजनैश्च पूज्यन्ते स्वर्गिभिस्तथा ।
मोदं प्रमोदमानन्दान् सुखानि भुञ्जतेऽन्वहम् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधूनां योगहीनस्य प्रेतस्योद्धरणे गोदानं हेतुरिति-गोमाहात्म्यादिनिरूपणनामैकाऽधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP