द्वापरयुगसन्तानः - अध्यायः ४९
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
कृपानाथ रमानाथ सर्वानाथ सतां पते ।
या पुण्यपुञ्जरहिता बुभुक्षुकोटिका भवेत् ॥१॥
तस्या बीजबलार्थं वै किं विधेयं भवेदिह ।
आद्यारम्भे मुमुक्षुताभावस्य वद मे हरे ॥२॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं पापाया अपि शुद्धये ।
क्रमभावं कथयामि येन चान्तपदं लभेत् ॥३॥
आर्तिकाले विपत्काले तस्यै वाच्यं बलं मम ।
स्मृतोऽपि मनसा कृष्णो विपन्नाशं करोति वै ॥४॥
सा स्मरेन्मां ततश्चाऽस्यै सकामायै व्रतं शुभम् ।
लक्ष्मीनारायणाख्यं वै वाच्यं कुर्यात् ततो हि सा ॥५॥
देहशुद्धिं पञ्चगव्यैर्विदध्याच्च ततः परम् ।
मम प्रासादिकं वारि पिबेदाचमनीयकम् ॥६॥
उपवासं प्रकुर्याच्च मम पूजनमाचरेत् ।
शृणुयाद्वै वधूगीतां मन्त्रान् मे शृणुयात्ततः ॥७॥
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥८॥
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ॥९॥
'ब्राहम्यहं श्रीकृष्णनारायणभक्ताऽस्मि शाश्वती ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥१०॥
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन्मित्रं रक्षकः पोषकोऽस्तु सः' ॥११॥
'अनादिश्रीकृष्णनारायणः श्रीभक्तवल्लभः ।
परब्रह्माऽक्षरातीतोऽवताराणां स्वरूपधृक् ॥१२॥
अन्तर्यामी सदाऽस्मत्सु भगवान् सर्वकारणम् ।
सर्वान्तरात्मा सर्वेशो निर्लेपो मोक्षदः स हि ॥१३॥
पावनः सेवितो भुक्तिमुक्तिदश्च सदाऽवतु ।
'ब्रह्मप्रियाः समस्ताश्च राधालक्ष्म्यादियोषितः ॥१४॥
परब्रह्मस्वरूपिण्यः परब्रह्माऽर्धमूर्तयः ।
परब्रह्मार्थसर्वस्वा दिव्या भुक्तिप्रमुक्तिदा ॥१५॥
तत्सम्बन्धिक्रियाश्चापि निर्गुणा मोक्षदाः सदा ।
'यो यो या या बालकृष्णं तत्प्रियाश्च भजत्यपि ॥१६॥
स स सा सा तत्स्वरूपा दिव्या मोक्षप्रदा सदा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥१७॥
'श्रीकृष्णस्वामिभक्ताऽहं श्रीहरिः शरणं मम ।
'श्रीकृष्णःश्रीवल्लभश्च श्रीस्वामी शरणं मम ॥१८॥
'श्रीकृष्णोवल्लभःस्वामीश्रीहरिः शरणं मम' ।
इत्येतान् सर्वमन्त्रांश्च सार्थान् संश्रावयेत् गुरुः ।
पूजनं सर्वतोभद्रमण्डले कारयेन्मम ॥१९॥
पूजाविधिं प्रवक्ष्यामि व्रतांगं शृणु सर्वथा ।
उपवासदिनं ग्राह्यं मार्गशीर्षस्य पूर्णिमा ।
प्रातःस्नानं विधायाऽपि तीर्थादौ जलमर्पयेत् ॥२०॥
पितृभ्यश्च गृहं गत्वा नारी नारायणं स्मरेत् ।
प्रक्षाल्य पादावाचम्य शुद्धाम्बरधरा सती ।
नित्यं देवार्चनं कृत्वा पश्चात् संकल्पपूर्वकम् ॥२१॥
लक्ष्मीनारायणं देवमर्चयेद् भक्तिभावतः ।
जलस्य कलशं धृत्वा सुगन्धजलसंभृतम् ॥२२॥
पञ्चामृतानि चादाय सौवर्णं श्रीनरायणम् ।
शुद्धपात्रे निधायैव पञ्चामृतादिभिर्जलैः ॥२३॥
स्नापयेद्धारयेच्चापि वस्त्राणि भूषणानि च ।
अर्चयेद् गन्धपुष्पाद्यैश्चन्दनैस्तैलकुंकुमैः ॥२४॥
धूपदीपसुनैवेद्यमूलफलजलादिभिः ।
ताम्बूलाऽऽरार्त्रिकस्तोत्रवन्दनाऽभ्यर्थनादिभिः ॥२५॥
गीतैर्वाद्यैश्च नृत्यैश्च संहितापाठनादिभिः ।
संकीर्तनं प्रकुर्याद्वै व्रतकर्त्री समाहिता ॥२६॥
देवस्य पुरतः कृत्वा स्थण्डिलं चतुरस्रकम् ।
अरत्निमात्रं तत्राऽग्निं स्थापयित्वा घृतादिभिः ॥२७॥
चरुणा च तिलाद्यैश्च जुहुयाद् भावतः स्वयम् ।
लक्ष्मीनारायणाभ्यां स्वाहेति सा जुहुयात्तदा ॥२८॥
अष्टोत्तरशतहोमान् सर्वपापनिवृत्तये ।
प्रायश्चित्तादिकं गुर्वी कारयेत् तां ततः परम् ॥२९॥
पुनः पूजां विधायैव परीहारं विधापयेत् ।
उपचारादि देवाय ह्यर्पयेद् भक्तिसंयुता ॥३०॥
पौर्णमास्यां कृतं व्रतं समर्पयामि ते प्रभो ।
अर्घ्यं दद्यादिन्दवेऽपि नमस्कुर्यात् सुपुष्पकैः ॥३१॥
अक्षताद्यैस्ततः कुर्याज्जागरणं निशान्तकम् ।
संहिताश्रवणं कुर्यान्नृत्यं च कीर्तनादिकम् ॥३२॥
प्रातः स्नात्वा सतीः साधून् भोजयेच्च ततः स्वयम् ।
पूजयित्वा पतिं लक्ष्मीनारायणं च भोजनम् ॥३३॥
पारणां च प्रकुर्वीत विप्राँश्च भोजयेदपि ।
एवं पौषादिमासेषु संवत्सरं व्रतं चरेत् ॥३४॥
कार्तिक्यां च प्रकुर्वीतोद्यापनं पूर्णिमातिथौ ।
मण्डपं कारयेद् रम्यं चतुरस्रं सुमंगलम् ॥३५॥
कदलीस्तम्भशोभाढ्यं नवपल्लवतोरणम् ।
कलशाद्यैः शोभितं च दीपावलिविराजितम् ॥३६॥
पुष्पमालादिसंयुक्तं वितानध्वजमण्डितम् ।
तन्मध्ये सर्वतोभद्रं मण्डलं पञ्चवर्णकम् ॥३७॥
तन्मध्ये रत्नवार्याढ्यं नूत्नं कुम्भं न्यसेत् सती ।
पञ्चपल्लववस्त्राद्यैः शोभितं च तदूर्ध्वके ॥३८॥
तिलस्थाल्यां स्थापयेन्मां लक्ष्मीनारायणं हरिम् ।
पञ्चामृतेन संस्नाप्याऽभ्यर्च्य गन्धादिभिः क्रमात् ॥३९॥
वस्त्रभूषादिभिश्चापि भक्ष्यभोज्यादिभिस्तथा ।
सिंहासने स्थापयेन्मामारार्त्रिकोत्तरं ततः ॥४०॥
कथाकीर्तनभजनैर्दिवसं च प्रयापयेत् ।
मध्याह्ने निशि पूजां च कारयेज्जागरं क्रियात् ॥४१॥
परेऽह्नि प्रातरेवेयं श्रीपतिं मां समर्चयेत् ।
साध्वीभ्यो भोजयेच्चापि ततो भोजनमाचरेत् ॥४२॥
गुर्वीभ्यः सम्प्रदद्याच्च मूर्तिं तिलान् तथेतरत् ।
तिलहोमं प्रकुर्याच्चाऽर्थयेल्लक्ष्मीनरायणम् ॥४३॥
कृपया तव देवेश कृतं साम्वत्सरं व्रतम् ।
लक्ष्मीः प्रसन्ना भवतु नारायणः प्रसादवान् ॥४४॥
भक्तां मां सर्वथा नैजीं कृत्वा गृहाण माधव ।
भुक्तिं मुक्तिं देहि मे त्वं कान्त श्रीपुरुषोत्तम ॥४५॥
फलं समस्तमेवाऽहं चार्पयामि त्वयि प्रभो ।
इति व्याहृत्य दद्याच्च पुष्पाञ्जलिं नमेत्ततः ॥४६॥
एवं कृत्वा परीहारं विसर्जनं समाचरेत् ।
नित्यं कथां शृणुयाच्च सत्संगं च समाचरेत् ॥४७॥
पुण्यपुञ्जाश्रया भूत्वा सा यायान्मेऽक्षरं पदम् ।
इह भुक्त्वा महाभोगान् पुत्रपौत्रसमन्विता ॥४८॥
सर्वपापविनिर्मुक्ता कुलाऽयुतसमन्विता ।
प्रयाति मम भवनं योगिनामपि दुर्लभम् ॥४९॥
मुक्ता दिव्या भवेदत्र मम योगेन भामिनी ।
ब्राह्मी भवेत्ततो ब्रह्मप्रिया हरिप्रिया ततः ॥५०॥
सर्वसिद्धिसमायुक्ता सर्वैश्वर्यादिशालिनी ।
यथा लक्ष्मीर्यथा राधा तथा स्यान्मे प्रिया ततः ॥५१॥
श्रीनारायणीश्रीरुवाच-
व्रतं कर्तुमशक्तायाः पापायाः पापनाशकम्।
विना प्रथत्नं सरलं सुलभ साधनं वद् ॥५२॥
श्रीपुरुषोत्तम उवाच-
अबलायास्तु पापाया व्रताऽसमर्थयोषितः ।
गुर्वर्पणं गुरुं नावं समाश्रित्याऽघनाशनम् ॥५३॥
गुरुतीर्थे तु या स्नाता शुद्ध्येत् सा द्रुतमेव ह ।
स्वर्गिणी जायते सद्यो मोक्षं स्वेष्टं च विन्दति ॥५४॥
गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं हि तत् ।
ध्यानं तीर्थं हरिस्तीर्थं ब्रह्मतीर्थं सनातनम् ॥५५॥
इन्द्रियाणां वृत्तयो वै निवर्तन्ते तु यत्स्थले ।
मनोबुद्ध्योश्च निर्वृत्तिर्यत्र संजायते परा ॥५६॥
आत्मशान्तिर्भवेच्चापि सद्गुरोस्तु प्रतापतः ।
एवंविधे गुरौ तीर्थे स्नायात् सर्वार्पणेन वै ॥५७॥
गकारस्त्वन्धकारः स्याद् रकारस्तन्निरोधकः । -
गुर्वी साऽस्ति समर्था वै चान्धकारनिरोधिका ॥५८॥
ज्ञानं दद्यादात्मनस्तु ध्यानं दद्याद्धरेस्तथा ।
विवेकं पापपुण्यानां दद्याज्जडचिदोरपि ॥५९॥
शुभाशुभानां भानं च दद्याद् दोषनिवारणम् ।
मुमुक्षुतां भावयेच्च या सा गुर्वी हि तारिणी ॥६०॥
शान्तिं दद्याद् विचारेण प्रसादेन पवित्रताम् ।
आशीर्वादं सुस्नेहेन भाग्यं दद्याद् बलेन च ॥६१॥
स्मृद्धिं दद्यात्तपोभिश्च भक्त्या दद्याद्धरिं तु या ।
मोक्षं दद्यात् सहगत्या गुर्वी सा संश्रयात् सदा ॥६२॥
मन्त्रं दद्याद्धरेर्या च कण्ठीं दद्याच्च तौलसीम् ।
नामसंकीर्तनं दद्यात् कृष्णनारायणेति च ॥६३॥
स्नेहं दद्याद्धरौ तस्य माहात्म्यज्ञानमुत्तमम् ।
दिव्यताभानमादद्यात् तां गुर्वीं संश्रयेत् सती ॥६४॥
यस्याः पादजलं पापप्रक्षालकं भवेद् ध्रुवम् । [
यस्याः प्रसादजं चाऽन्नं वासनाक्षालकं भवेत् ॥६५॥
यस्याः पुष्पं फलं वस्त्रं देहयोगगतं जडम् ।
दिव्यं पवित्रं पुण्यं च मोक्षदं वर्तते शुभम् ॥६६॥
यस्या देहोऽस्ति भगवद्देह एव न संशयः ।
याऽस्ति वै निर्गुणा नित्यं निर्गुणस्य हरेः प्रिया ॥६७॥
महाभागवती दिव्या सर्वदाऽऽत्मनिवेदिनी ।
तस्याः पादरजश्चापि पापिनीनां तु पावनम् ॥६८॥
क्षालकं मूलतश्चास्ते मोक्षदं जायते तथा ।
राधालक्ष्मीसमा गुर्वी रमापद्मासमा हि सा ॥६९॥
प्रेष्ठापद्मावतीतुल्या पद्मिनीमाणिकीसमा ।
कमलाश्रीसमा पार्श्ववर्तिनारायणीसमा॥७०॥
तस्याः केशेषु भगवत्केशाः सन्ति निवासिताः
ब्रह्मरन्ध्रे हरेः रन्ध्रं मस्तके मस्तकं हरेः ॥७१॥
भाले भालं हरेश्चास्ति भ्रुकुटौ भ्रूकुटिर्हरेः ।
नेत्रयोर्हरिनेत्रे च कर्णौ हरेश्च कर्णयोः ॥७२॥
मेधायां श्रीहरेर्मेधा हरेर्गण्डौ च गण्डयोः ।
कपोलयोः कपोलौ च हरेर्नासा नसि प्रभोः ॥७३॥
तस्या मुखे च जिह्वायां दन्तेषु चोष्ठयोर्हरेः ।
मुखं जिह्वा च दन्ताश्च ह्योष्ठौ हनौ हनूर्हरेः ॥७४॥
तस्याः कण्ठे हरेः कण्ठो हरेर्वक्षस्तु वक्षसि ।
भुजयोर्हस्तयोर्बाह्वोश्चांगुलिषु नखेषु च ॥७५॥
हरेर्भुजौ करौ बाहू चांऽगुल्यश्च नखास्तथा ।
कुक्षौ कुक्षिर्हरेस्तस्या उदरे ह्युदरं हरेः ॥७६॥
नाभौ नाभिर्हरेस्तस्या जघने जघनं हरेः ।
कट्यां कटिर्हरेस्तस्याः पृष्ठे पृष्ठं हरेस्तथा ॥७७॥
गुप्ते गुप्तं हरेश्चापि सक्थ्नोर्हरेस्तु सक्थिनी ।
जान्वोस्तस्या हरेर्जानू जंघे च जंघयोर्हरेः ॥७८॥
पादयोः फणयोश्चापि हरेः पादौ फणावपि ।
अस्थिषु श्रीहरेः सन्ति चास्थीनि त्वक् त्वचीत्यपि ॥७९॥
रोमसु श्रीहरेः सन्ति रोमाणि मानसे मनः ।
इन्द्रियाणीन्द्रियेष्वस्या गुणेषु च हरेर्गुणाः ॥८०॥
भूतेष्वस्या हरेस्तत्त्वं चान्तरे चान्तरं तथा ।
ज्ञानेच्छायत्नधर्मेषु हरेर्ज्ञानादयस्तथा ॥८१॥
क्रियायां श्रीहरेश्चास्याः क्रियाश्चेष्टा हरेस्तथा ।
हसनं गमनं यानं कीर्तनं स्वपनं तथा ॥८२॥
गुर्व्याः सर्वं हरेश्चास्ते तस्माद् गुर्वी हि तारिणी ।
मोक्षदा भवपारस्था दिव्या दिव्यगतिप्रदा ॥८३॥
गुर्व्या पदोश्च तीर्थानि पृथिवी वर्तते सदा ।
जंघयोर्वरुणो देवो जान्वोः कुबेरकोऽस्ति च ॥८४॥
सक्थ्नोरिन्द्रश्च शेषश्च कट्यां धर्मो विराजते ।
हिरण्यगर्भं उदरे जघने वह्निदेवता ॥८५॥
नितम्बयोस्तु नासत्यौ वक्षसि श्रीहरिः स्वयम् ।
स्तनयोः पर्वताश्चैव कुक्षिषु सागरास्तथा ॥८६॥
रोमस्वोषधयः सर्वाः पार्श्वयोर्देवतागणाः ।
कण्ठे सरस्वती चास्ते मुखे लक्ष्मीर्विराजते ॥८७॥
नेत्रयोः सूर्यचन्द्रौ च मस्तके ब्रह्म राजते ।
हस्तयोश्चाप्यन्नपूर्णा दुर्गा चापि विराजते ॥८८॥
हृदये धर्मवंशश्च मानसेऽस्या हरिप्रियाः ।
पुण्यं साध्व्या वचनेषु शृंगारे स्मृद्धयस्तथा ॥८९॥
गुर्व्या प्रसन्नतायां वै भुक्तिमुक्तिर्विराजते ।
आशीर्वादे चेष्टसुखं भाग्यमास्ते च दर्शने ॥९०॥
भोजने यज्ञभुक् चास्ते पानेऽमृतं विराजते ।
रूपे च शारदा देवी लावण्ये च सुधाऽस्ति वै ॥९१॥
पितरोऽस्याः समौदार्ये महर्षयो व्रते तथा ।
साधवोऽस्या भावनायां भक्तिश्चात्मनि राजते ॥९२॥
गावोऽस्या हस्ततलयोर्वसवोऽस्याः प्रहर्षणे ।
रुद्राश्चास्या भ्रुकुटौ च भास्करा गण्डयोस्तथा ॥९३॥
ओष्ठयोर्भगवन्माया गुर्व्या दिव्या विराजते ।
गुर्व्यासनेऽक्षरं ब्रह्म गंगा पादुकयोस्तथा ॥१४॥
गुर्व्याः शाट्यां महालक्ष्मीः कञ्चुक्यां राधिकाऽस्ति च ।
कट्यम्बरे सुराण्यश्च भूषासु श्रीरमादयः ॥९५॥
यज्ञोपवीते त्रैलोक्यं योगपट्टेऽष्टसिद्धयः ।
सौभाग्यद्रव्यपुञ्जेषु सम्पदोऽस्या वसन्ति च ॥९६॥
गुर्व्यास्त्वचि च सर्वत्र सन्ति स्थावरजंगमाः ।
शरीरमध्ये सर्वत्र सन्ति ब्रह्मविभूतयः ॥९७॥
ऐश्वर्ये चेश्वराश्चास्याश्चमत्कारेषु मातरः ।
ब्रह्मव्रतं च शीलेऽस्यास्तादात्म्येऽहं परेश्वर ॥९८॥
गुप्तेऽस्याः सगुणं ब्रह्म सक्थ्नोर्मूले सुसृष्टयः ।
राजेऽहं गुरुरूपायां गुर्वी चाऽहमहं च सा ॥९९॥
अस्या वै सेवयोद्धारः पापाया अपि जायते ।
अपि या गणिका वापि पुंश्चली मद्यपायिनी ॥१००॥
मांसादा सर्वभक्ष्या वा हत्याढ्या श्वपची च वा ।
गुर्व्याः सत्संगशरणाश्रयसेवादिभिर्हि सा ।
पूयते निष्कल्मषा स्याद् दीव्यति प्रोत्तरत्यपि ॥१०१॥
मायाकालक्रियापाशान्मुक्ता मुक्तिं प्रयाति मे ।
पठनाच्छवणाच्चास्य मम मुक्तिं प्रयाति वै ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां पापोद्धारकलक्ष्मीनारायणव्रतश्रीहरिगुरुगुर्वीतीर्थमहिमवर्णननामा नवचत्वारिंशोऽध्यायः ॥४९॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP