द्वापरयुगसन्तानः - अध्यायः २३४
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं शस्त्रधरकथां तथा ।
नाम्ना विखण्डलवर्मा शस्त्रधारी पुराऽभवत् ॥१॥
क्षत्त्रियो नान्दले ग्रामे महीनदीतटे शुभे ।
वनस्थानां किरातानां चौराणां शासको महान् ॥२॥
लुण्टकानां शासकश्च धनुर्बाणधरस्तथा ।
परिणीतयुगलानां मार्गे निर्भयरक्षकः ॥३॥
विवाहार्थं प्रयातानां वाहिनीनां च रक्षकः ।
व्यापारिणामनसां च त्राता नामधरोऽभितः ॥४॥
श्रुत्वा तन्नाम चौराश्च प्रयान्ति दूरतः सदा ।
एवं भीतिप्रदः शास्ता शासकानां तु शासकः ॥५॥
किन्तु भक्तो हि हृदये नीतिमार्गमुपाश्रितः ।
रक्षणेन प्रदत्तं यच्छ्रेष्ठिभिः राजभिस्तथा ॥६॥
वेतनं तेन मात्रेण निर्वहत्येव नान्यथा ।
याम्यदूतसमो वेषे दयायां धर्मवत् सदा ॥७॥
रक्षणे राजवच्चापि नीतिमार्गे तु शुक्रवत् ।
बृहस्पतिसमो बोधे भक्तौ ये गरुडो यथा ॥८॥
सर्वस्वार्पणभावेन वर्तते चात्मवेदनः ।
किन्त्वनीतिपरां व्यक्तिं प्राप्य दण्डं करोति सः ॥९॥
यथायोग्यं दण्डयति नरं दुष्टं शठं सदा ।
शस्त्रघातेन वा चातिदुष्टं हन्ति बलेन वै ॥१०॥
एवं घातादिपापं च भवत्येवेति तद्धृदि ।
संकल्पो जायते नित्यं पूजायां याचते क्षमाम् ॥११॥
प्रातः स्नात्वा मम मूर्तेः पूजां षोडशवस्तुभिः ।
कृत्वा नीराजनं चान्नं मिष्टं दत्वा निवेदनम् ॥१२॥
जलं दत्वा मुखवासं ताम्बूलकं ततः परम् ।
शस्त्रं मदग्रे निक्षिप्य क्षमां प्रयाचते यथा ॥१३॥
नाऽहं क्रूरो हिंसकश्च नाऽहं स्वार्थी न लम्पटः ।
शस्त्रं मे मा भवेद् दुष्टं पतितं दोषवर्जिते ॥१४॥
नयाऽन्विते च भक्ते चाऽदण्ड्ये मा पतितं भवेत् ।
अज्ञानेन न मे शस्त्रं दोषस्पृष्टं भवेत् प्रभो ॥१५॥
दुष्टानां शासने चैतन्मा पराजयमाप्नुयात् ।
माऽहं पापेन लिप्येय नीतिबहिःप्रवर्तिना ॥१६॥
एवं सत्यपि मानुष्याज्ञानवेगेन कर्हिचित् ।
चेदाक्रमेत पापं वै मयि दीनापराधतः ॥१७॥
दण्ड्योऽहं सर्वथा कृष्ण क्षम्यश्चेत् क्षम्यतां तदा ।
इत्येवं मम भक्तोऽयं खङ्गबाणादि मत्पुरः ॥१८॥
समर्प्य नित्यमावक्ति ततो भुक्त्वा प्रसादजम् ।
पीत्वा पादामृतं याति रक्ष्यरक्षणहेतवे ॥१९॥
ग्रामे वने खले वाट्यां क्षेत्रे रक्षति सर्वथा ।
रक्ष्यवस्तूनि सर्वाणि विखण्डलः प्रमोदवान् ॥२०॥
मध्याह्ने मे निवेद्याऽन्नं प्रसादं चाऽत्ति सर्वदा ।
सायं सीम्नः समागत्य गृहे करोति पूजनम् ॥२१॥
पुष्पं धूपं च दीपं च नैवेद्यं जलमुत्तमम् ।
नीराजनं स्तवनं च ताम्बूलकं सुगन्धि च ॥२२।
मह्यं समर्प्य शस्त्राणि निक्षिप्यापि पुरो मम ।
पुनः प्रार्थयते नित्यं क्षमस्वाऽज्ञानजं ह्यघम् ॥२३॥
तवाऽस्मि तव दासोऽस्मि तव भक्तोऽस्मि तामसः ।
तव तादात्म्यमापन्नस्तव शेषो भवाम्यहम् ॥२४॥
एवं लक्ष्मि सदा मह्यं शस्त्रं समर्प्य कर्म च ।
समर्प्यैव शयने वै निद्रां करोति मां स्मरन् ॥२५॥
तस्य भार्या हरसतीनाम्नी प्रसेवते च तम् ।
महाभक्ता बालकृष्णे मयि श्रीशनरायणे ॥२६॥
पत्यौ नारायगं मां च पश्यत्येव न चेतरत् ।
पतिमूर्तौ सर्वसेवां करोति मयि संस्थिते ॥२७॥
प्रतिमायां पृथक् सेवां करोति स्वामिनो मम ।
स्नानशृंगारभूषादि नीराजनं सुभोजनम् ॥२८॥
पानं ताम्बूलकं वायुदानं दोलाऽभिदोलनम् ।
गीतिकां मिष्टकण्ठोत्थां मम लीलाभरां तथा ॥२९॥
परिहारं च निद्रायाः कीर्तनं प्रकरोति च ।
ततो नैजं नित्यकार्यं निर्वर्तयति भामिनी ॥३०॥
एवं भक्ताऽतिसंस्निग्धा भजते मां निरन्तरम् ।
साधवश्चापि साध्व्यश्च तद्गृहं यान्ति पावनम् ॥३१॥
भुक्त्वा पीत्वा श्रमं त्यक्त्वा प्रयान्ति तीर्थमुत्तमम् ।
अथैकदा समायाच्च साधुर्निर्मोहनायनः ॥३२॥
पूजितो भोजितश्चापि रात्रौ संवाहितः पदोः ।
उपादिदेश ताभ्यां स मोक्षसाधनमुत्तमम् ॥३३॥
क्षमाशस्त्रं परे शस्त्रं सर्वशान्तिप्रदं शुभम् ।
क्षमा तेजस्विनां तेजः क्षमा तपस्तपस्विनाम् ॥३४॥
क्षमते सर्वताम्यानि स वै नारायणो मतः ।
क्षमा पृथ्व्यां सदा चास्ति मातरि सर्वदेहिनाम् ॥३५॥
क्षमा सत्सु सदा दिव्यगुणात्मिका प्रविद्यते ।
सा वै जयप्रदा लोके स्वर्गमोक्षसहायिनी ॥३६॥
आपत्तीनां समस्तानां क्षमा शस्त्रं निबर्हणम् ।
कामे क्रोधे मदे लोभे माने क्षमा हि शान्तिदा ॥३७॥
निर्बलस्य क्षमा शस्त्रं यद्वच्छस्त्रं विवेकिनाम् ।
साधूनां च क्षमा शस्त्रं शासकं तारकं ह्यपि ॥३८॥
क्षमिणां हृद्ये कृष्णश्चान्तरात्मा सदाऽस्ति च ।
स एव कृपया रक्षां करोत्यस्य विशेषतः ॥३९॥
शासकं कथ्यते त्रातृ शस्त्रं तद्धि मतं जनैः ।
मायाकालभयात् कर्मभयाच्छास्तृ ऋतं हि तत् ॥४०॥
देहस्य शासकं नैव ऋतं शस्त्रं यथार्थकम् ।
इन्द्रियाणां शासकं वा तथैवाति ऋतं न तत् ॥४१॥
देहेन्द्रियाणि मायायाः कार्याणि नश्वराणि च ।
रक्षणेऽयुतधा जातेऽप्यभिनश्यन्ति वै लये ॥४२॥
विनाशिनो रक्षणं वै विफलं तत्तदर्थकम् ।
शस्त्रं च विफलं त्वेवं यत्नो भारः फलोज्झितः ॥४३॥
अरण्यं नाशशीलं वै सीमाऽपि च तथैव ह ।
क्षेत्रवाट्यादिसर्वं वै नाशशीलं प्रवर्तते ॥४४॥
चौरा मरणधर्माणः सस्यान्यपि तथैव च ।
शास्ता त्वं देहरूपस्तु तथैव नाशधर्मवान् ॥४५॥
मृतिधर्मा मृतिधर्मैः शिक्ष्यते तत् कुतूहलम् ।
वरं वै कर्दमाऽस्पर्शः पंकप्रक्षालनात्पुरा ॥४६॥
तस्माद् देहस्य शस्त्राणि मोक्षदानि न सन्ति हि ।
मोक्षदानि तु शस्त्राणि गोपनीयानि सर्वथा ॥४७॥
रक्षणीयानि धार्याणि योक्तव्यानि तु मुक्तये ।
विखण्डल दिव्यशस्त्राण्येतानि मे निबोध ह ॥४८॥
यौवनं शत्रुरूपं वै तच्छस्त्रं तु व्रतार्जनम् ।
कामः शत्रुर्महाँस्तत्र तच्छस्त्रं ब्रह्मचर्यकम् ॥४९॥
वासना शात्रवी माता तच्छस्त्रं चात्मसंस्थितिः ।
विवको भेदविज्ञानं भजन श्रीहरेर्मुहुः ॥५०॥
त्यागो वैराग्यमेवाऽपि चौदासीन्यं बहिः सदा ।
एवं शस्त्राणि मायाया नाशकानि भवन्ति वै ॥५१॥
श्रीहरेः शरणं नित्यं साधुसेवासमागमः ।
श्रीहरेर्नवधा भक्तिर्भजनं चातिभावतः ॥५२॥
अमायिकानां साधूनां सर्वस्वार्पणसेवनम् ।
हृदये श्रीहरेर्ध्यानं देहेनात्मसमर्पणम् ॥५३॥
मनसा चिन्तनं नित्यं बुद्ध्या स्फूर्तिः सदा हरेः ।
आनन्दादिक्रियाणां तु सर्वेश्वरे समर्पणम् ॥५४॥
रसास्वादादिकं कृष्णप्रसादे एव नान्यथा ।
शब्दस्पर्शादयः सर्वे कृष्णस्यैव न चेतराः ॥५५॥
एभिः शस्त्रैर्भवेन्मायानाशः कर्मलयस्तथा ।
निष्कामकर्मणा शान्तिर्वितृष्णस्य प्रजायते ॥५६॥
कामसंकल्पहीनाश्च यस्याऽऽरंभा हि निर्गुणाः ।
नैर्गुण्यं चाप्यते तेन साधुसंगेन दैवतम् ॥५७॥
हरेः प्राप्त्या तु दिव्यत्वं साक्षाद्योगेन मोक्षणम् ।
माहात्म्यज्ञानयुक्तस्य हरौ स्नेहः प्रजायते ॥५८॥
हरौ स्नेहेन सक्तस्य हरेः स्फुरणमव्ययम् ।
प्रवर्तेत ततश्चेन्द्रियाणि तद्रूपकाण्यपि ॥५९॥
जायन्तेऽन्तःकरणानि कृष्णस्य मन्दिराणि वै ।
आत्मा सिंहासनं तस्य नारायणस्य जायते ॥६०॥
तेनाऽऽत्मा रमते शेतेऽश्नुते हर्षति मोदते ।
आनन्दयाति तादात्म्यभावैर्ब्रह्मदशामयः ॥६१॥
व्यवहारे वर्तमानः सर्वत्र ब्रह्मभावनः ।
कर्मबन्धननिर्मुक्तो ब्रह्मैव नात्र संशयः ॥६२॥
हरौ स्थिरमना दिव्यो ब्रह्मैव ब्रह्मतन्मयः ।
कृष्णदृढाश्रयः कृष्णे रमते नात्र संशयः ॥६३॥
अधमोद्धारकः कृष्णो गृह्णाति शरणेऽर्पितम् ।
पुनाति पतितं चापि दीव्यति स्नेहिना सह ॥६४॥
सतीं गतिं ददात्येव स्वस्मिन् रक्ताय माधवः ।
आत्यन्तिकं पदं श्रेय आप्नोति माधवार्पितम् ॥६५॥
प्रकृतेः सर्वकार्याणां लये चाक्षरधामनि ।
भक्तस्य सच्चिदानन्दमयं तेजः प्रकाशते ॥६६॥
तत्र तेजस्यनादिश्रीकृष्णनारायणः पतिः ।
विराजते चिदचितां नियामकोऽन्तराऽऽस्थितः ॥६७॥
दिव्यमूर्तिर्दिव्यवासा दिव्यभूषाविभूतिमान् ।
सेव्यमानो महाब्रह्मभूतमुक्तैरसंख्यकैः ॥६८॥
अनन्तशक्तिभिः राधारमामुक्तानिकादिभिः ।
कृतार्चनपादसंवाहनाऽऽनन्दप्रदायिभिः ॥६९॥
स एव स्वचरणयोः सेवां ददाति सेविने ।
स एव वर्तते भूमौ कृष्णो ब्रह्मप्रियापतिः ॥७०॥
निःश्रेयसाय लोकानां दिव्यगुणार्थविग्रहः ।
विचार्येत्थं परब्रह्म पुरुषोत्तममाश्रयेत् ॥७१॥
आश्रिताः पक्वनिष्ठाश्च साक्षात् पश्यन्ति तं ततः ।
सूक्ष्मदृशोऽन्तरात्मानं सूक्ष्मं पश्यन्ति चान्तरे ॥७२॥
स्थूलदृशः स्थूलरूपं स्थूले पश्यन्ति तं प्रभुम् ।
माया कायाऽनवच्छिन्ना लीना साम्या यदाऽक्षरे ॥७३॥
तदा सूक्ष्मा तदा कृष्णः सूक्ष्मरूपोऽत्र लोक्यते ।
चेतनाश्च यदा लीनास्तत्त्वान्तरविवर्जिताः ॥७४॥
तदा सूक्ष्मास्तत्र कृष्णः सूक्ष्मरूपो विलोक्यते ।
माया तु विषमावस्था चेतनाः कर्मिणस्तथा ॥७५॥
तदा स्थूलास्तेषु कृष्णः स्थूलरूपो विलोक्यते ।
दिव्यदृष्टिमतां कृष्णवीक्षणं दिव्यतान्वितम् ॥७६॥
अदिव्यदर्शिनां कृष्णवीक्षणं प्राकृतं यथा ।
ऐश्वर्याणि समस्तानि सूक्ष्मस्थूलानि वै हरेः ॥७७॥
सूक्ष्मस्थूलपदार्थेषु निहितानि तु शार्ङ्गिणा ।
ऐश्वर्यैः सकला माया चेतना वा परस्परम् ॥७८॥
पृथग् वा सम्प्रकाशन्ते सगुणा निर्गुणाश्च वा ।
सर्वास्ताः सम्पदोऽनादिकृष्णनारायणस्य ह ॥७९॥
भुंक्ते भक्तोऽर्पितसर्वस्वोऽतिभागवतोत्तमः ।
ऐश्वर्याणि समस्तानि प्राप्नोति पतिभक्तिमान् ॥८०॥
पतित्वमेकं देवेशे मुक्तेशे शिष्यते हरौ ।
अन्यत् सर्वं निजं तस्मै भक्तायाऽर्पयति प्रभुः ॥८१॥
स्नेहशस्त्रं स्वामिनोऽपि वशंकरं वृहत् सदा ।
तेनैव स्नेहशस्त्रेण शासनीयो हरिर्हदि ॥८२॥
बन्धनीयः स्नेहपाशैर्हृदि दूरं न संचरेत् ।
एषैव चाऽऽक्षरी मुक्तिर्देहिनामिह दिव्यता ॥८३॥
दिव्यनाथप्रदभोगानन्दभोक्त्री स्थितिस्तु या ।
सा प्रत्यक्षे गुरौ कृष्णे प्राप्तव्येह क्षितौ पुरा ॥८४॥
ततो ब्रह्मपुरे सैव वर्तमाना प्रकाशते ।
मोहिनी सा हरेः प्रीतिर्महानन्दप्रदा सदा ॥८५॥
कोट्यब्जकामदेवानां सुखं यत्र हरौ सदा ।
तादात्म्यभावमापन्नो लभते स्वामिनि प्रभौ ॥८६॥
नेत्रसुखमनन्तं च स्पर्शसुखमनन्तकम् ।
चुम्बनानन्दमतुलं लभते स्वामिनि प्रभौ ॥८७॥
आलिङ्गनमहानन्दं लभते परमात्मनि ।
सर्वेन्द्रियरसं दिव्यं दिक्षेयमास्वादनं तथा ॥८८॥
लभते च तथा दिव्यप्रीतिप्रमोदमुत्सवम् ।
हर्षं दिव्यं तथा शान्तिं शैत्यं चामृतमिश्रितम् ॥८९॥
लभते श्रीहरौ कान्ते स्वामिनि श्रीपतौ प्रभौ ।
चतुर्विंशतितत्त्वानां ये चानन्दा भवन्ति वै ॥९०॥
सृष्टित्रयाणामानन्दा ये ये यत्र भवन्ति वै ।
तान् सर्वान् लभते मूर्तौ स्वामिनि श्रीपरात्मनि ॥९१॥
एवं लक्ष्मि चोपदेशं कृत्वा निर्मोहनायनः ।
रात्रिमुषित्वा प्रययौ तीर्थान्तरं सुपूजितः ॥९२॥
प्रातर्विखण्डलो भक्तिं चकार च यथोदिताम् ।
ज्ञानेन सहितां तस्य पत्न्यपि ब्रह्मरूपिणी ॥९३॥
विदधे तादृशीं भक्तिं स्नेहयुक्तां प्रवर्धिताम् ।
मूर्तेर्वै पूजने सर्वं कुरुतस्तौ यथोचितम् ॥९४॥
तयोर्भक्त्या प्रसन्नोऽहं प्राविर्बर्भूव तत्पुरः ।
दिव्यचतुर्भुजः कृष्णनारायणोऽतिसुन्दरः ॥९५॥
प्रहसन् चार्पितान् सर्वोपचारान् चोत्तमोत्तमान् ।
आददेऽहं च नैवेद्यं भुक्त्वा ददे प्रसादिकम् ॥९६॥
तौ भुक्तवन्तौ प्रीत्या च पीतवन्तौ जलामृतम् ।
तावद् दिव्यस्वरूपौ चाऽजायेतां मत्समानकौ ॥९७॥
प्रार्थितवन्तौ मोक्षाय निर्मोहिनावुभावपि ।
अहं विमाने तौ धृत्वा दिव्यौ धामाऽक्षरं निजम् ॥९८॥
अनयं पार्षदैः साकं तयोः संकल्पपूरकः ।
मुक्तौ तौ चाऽक्षरे धाम्नि वर्तेते कमले सदा ॥९९॥
एवं साधुप्रसंगेन समुद्धृतौ निजानुगौ ।
पठनाच्छ्रवणादस्य लक्ष्मि मुक्तिमवाप्नुयात् ॥१००॥
स्वर्गं वा सत्यलोकं वा राज्यं वा चैश्वरं पदम् ।
भुक्तिं मुक्तिं यथेष्टां वा लभते भक्तिमान् मयि ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने निर्मोहनायनसाघुप्रसंगेन विखण्डलाख्यशस्त्रधरस्य तत्पत्न्या हरसत्याश्च भगवद्दर्शनं मोक्षणं चेत्यादिनिरूपणनामा चतुस्त्रिंशदधिक-
द्विशततमोऽध्यायः ॥२३४॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP