द्वापरयुगसन्तानः - अध्यायः २०२
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं गायकस्य महात्मनः ।
व्रतर्दिनः कथां रम्यां मम प्रसन्नतान्विताम् ॥१॥
व्रतर्दीं त्वभवद्भक्तो नाकिरालाख्यपत्तने ।
वैश्यो वीणामृदंगादियावद्वाद्यविशारदः ॥२॥
यस्याग्रे बहवः शिष्याः शिष्यिकाश्च वसन्त्यपि ।
अभ्यासार्थं गानकलादीनां गायनशीलिनः ॥३॥
देशदेशान्तरेभ्यश्च समायान्ति व्रतर्दिनम् ।
गानविद्याधिपं श्रुत्वा शिक्षां प्राप्य प्रयान्ति च ॥४॥
अथ राजाऽभवन्निम्बटिकानगरीशासकः ।
पुण्ड्रवर्मा धर्मवाँश्च भगवद्भक्तितत्परः ॥५॥
सौराष्ट्रे गायकश्रेष्ठं श्रुत्वा व्रतर्दिनं नृपः ।
आह्वयामास गीत्यर्थं राजधानीं निजां प्रति ॥६॥
दूतो गत्वाऽऽवेदयत्तं गायकं राजभाषितम् ।
एहि राजोत्सवे राजेत्याह त्वां गायकोत्तम ॥७॥
व्रतर्दी प्रत्युवाचेत्थं न राजोत्सवगायनम् ।
करिष्ये भगवद्भक्तो भवाम्यात्मनिवेदनः ॥८॥
विना हरिं न मे जिव्हा गास्यत्यन्यं कदाचन ।
विना हरिं न मे नेत्रं द्रक्ष्यत्यन्यं कदाचन ॥९॥
विना हरिं न मे चित्तं ध्यायत्यन्यं कदाचन ।
भगवतश्च भक्तानां भक्तोऽहं दास्यसंहितः ॥१०॥
सोऽहं कथं राजगुणान् गायामि मायिकानिह ।
वद त्वं भूभृते दूत नान्यं गास्यति गायकः ॥११॥
व्रतर्दी गायकः कृष्णगायको नान्यगायकः ।
मोक्षगायक एवाऽऽस्ते भक्तानामपि गायकः ॥१२॥
अभक्तानां गायको न व्रतर्दी भवति क्वचित् ।
इति प्रत्युक्तदूतश्च ययौ राज्ञे न्यवेदयत् ॥१३॥
राजा तुतोष सहसा धन्योऽहं भूपतिः सदा ।
मम राज्ये महाभागवतोऽस्ति कृष्णगायकः ॥१४॥
मया भागवतेनापि भवितव्यं प्रमुक्तये ।
वैष्णवेन भवितव्यं श्रोतव्यं कीर्तनं ततः ॥१५॥
व्रतर्दिना प्रगीतं च कृष्णकीर्तनमुत्तमम् ।
श्रोतव्यं सर्वथा पश्चाद् भूत्वा सत्पात्रभूभृता ॥१६॥
विचार्येत्थं प्राह दूतं भाव्यं भक्तिमता मया ।
तस्मादागच्छ गेहं मे मां प्रपावय भूभृतम् ॥१७॥
कृत्वा च वैष्णवं भक्तं ततः श्रावय कीर्तनम् ।
इत्येवं ब्रूहि भक्तेशं व्रतर्दिनं प्रयाहि च ॥१८॥
श्रुत्वा दूतो ययौ शीघ्रं राजोक्तं तु व्रतर्दिने ।
कथयामास सर्वं स श्रुत्वा तुतोष गायकः ॥१९॥
सज्जो भूत्वा ययौ भूपमन्दिरं गणमण्डितः ।
राजा तं मानयामास भक्तं व्रतर्दिनं मुहुः ॥२०॥
ययाचे तु ततो वैष्णवत्वं च दीक्षणं नृपः ।
व्रतर्दी तूर्णमाश्रुत्य धृत्वा दत्वा जलं करे ॥२१॥
नृपाय प्रददौ मन्त्रं श्रावयामास सत्वरम् ।
'ओमनादिकृष्णनारायणः स्वामी पतिश्च मे' ॥२२॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
राजा गृहीत्वा मन्त्रं च कण्ठीं दधार तौलसीम् ॥२३॥
मूर्तिं मे बालकृष्णस्य जगृहे गायकाऽर्पिताम् ।
राज्ञी कन्याश्च पुत्राश्च राज्ञः कुटुम्बकं तथा ॥२४॥
सर्वे भृत्यास्तथा दास्योऽभवँस्तत्र हि वैष्णवाः ।
हरये चार्पितं वारि फलं चान्नं च चन्दनम् ॥२५॥
व्रतर्दी प्रददौ राजकुटुम्बाय प्रसादकम् ।
भुक्त्वा पीत्वा प्रसादं च सभां चक्रे ततो नृपः ॥२६॥
मध्यसिंहासने कृष्णमस्थापयत् सुशोभितम् ।
राजा कृष्णस्य सेवायां धृत्वा छत्रमनुत्तमम् ॥२७॥
अतिष्ठत्तत्कुटुम्बं च चामरे व्यजने तथा ।
वेत्रं च नक्तकं धूपपात्रं ध्वजं पताकिकाम् ॥२८॥
दर्पणं पानपात्रं च ताम्बूलपात्रकं तथा ।
सुगन्धसारपात्रं च तैलसारं च चन्दनम् ॥२९॥
पूजापात्रं पुष्पहारान् धृत्वाऽतिष्ठद् यथायथम् ।
पूजयित्वा बालकृष्णं व्रतर्दी गायनं व्यधात् ॥३०॥
एहि कृष्ण एहि कृष्ण कान्त एहि एहि ।
देहि कृष्ण देहि कृष्ण दर्शनं सुदेहिन् ॥३१॥
नवीनभक्तमण्डलं विधेहि दिव्यसत्कुलम् ।
जहीहि जन्मवासनां प्रदेहि धामवासनम् ॥
एहि कृष्ण०॥३२॥
त्वमेव मुक्तसत्पतिस्त्वमेव धामसद्गतिः ।
त्वमेव चावतारधृक् त्वमेव सर्वसाक्षदृक् ॥
एहि कृष्ण०॥३३॥
पुरा भवान् पुमुत्तमस्ततो भवान्नरोत्तमः ।
ततो भवान् जनार्दनस्ततोऽस्ति सर्वमर्दनः ॥
एहि कृष्ण०॥३४॥
प्रसन्नमानसो भवान् सुसम्पदां प्रदो भवान् ।
निजाऽर्थ्यसौख्यदो भवान् निजात्मशान्तिदो भवान् ॥
एहि कृष्ण०॥३५॥
राधारमापतिर्भवान् प्रमासतीपतिर्भवान् ।
सतां श्रियाः पतिर्भवाँश्च माणिकीपतिर्भवान् ॥
एहि कृष्ण०॥३६॥
ब्रह्मप्रियापतिर्भवान् हरिप्रियापतिर्भवान् ।
अजाप्रजापतिर्भवान् व्रतर्दिनः पतिर्भवान् ॥
एहि कृष्ण०॥३७॥
निधिश्च तेजसां भवान् निधिश्चमत्कृतां भवान् ।
निधिः परामुदा भवान् निधिः पराविदां भवान् ॥
एहि कृष्ण०॥३८॥
सुतो वृषस्य वै भवान् सुतश्च गोपजो भवान् ।
सुतश्च काश्यपो भवाँश्च कम्भरासुतो भवान् ॥
एहि कृष्ण०॥३९॥
सदैव चित्सु वर्तसेऽप्यचित्सु वर्तसे हरे ।
प्रवर्तसे प्रवर्तसे स्वभक्तमण्डले हरे ॥
एहि कृष्ण एहि कृष्ण कान्त एहि एहि ।
देहि कृष्ण देहि कृष्ण दर्शनं सुदेहिन्' ॥४०॥
इत्येवं मां प्रार्थयत् स लक्ष्मि गीतिप्रमंगलम् ।
अकरोन्मां स्मरँस्तत्र व्रतर्दी प्रेमपूरितः ॥४१॥
गायिका गायकाश्चाप्यपूरयन् गीतिकास्वरान् ।
श्रुत्वाऽहं प्रेमरशनाऽऽकृष्टो मूर्तेर्द्रुतं बहिः ॥४२॥
आविर्जातोऽतिसुभगो मनोहरः सुयौवनः ।
रूपरूपानुरूपश्चाऽवयवैः पुष्ट उज्ज्वलः ॥४३॥
श्रिया च राधया युक्तो हारमुकुटशोभितः ।
सर्वाऽऽभूषाभिरामश्च सर्वशृंगारशोभनः ॥४४॥
प्रसन्नहास्यवदनो दिव्यतेजोऽभिदीपितः ।
सर्वसुगन्धवात्सल्यलावण्याऽऽनन्दसंभृतः ॥४५॥
सर्वकामप्रपूरश्च सभानन्दविवर्धनः ।
निरोधयन् सभास्थानां चेतांसि मयि संस्थितः ॥४६॥
अक्षरे परमे व्योम्नि यत्सुखं परमात्मनः ।
तत्समस्तं सभास्थेभ्यो ददौ क्षणं कृपावशः ॥४७॥
दिव्यतायास्तिरोभावं क्षणोत्तरं व्यधां रमे ।
राधारमायुतं मां ते व्यलोकयन् नृपादयः ॥४८॥
मुमुहुर्मम रूपे ते हृत्सु न्यधुश्च मां हि ते ।
पुपूजुः सर्वभावैश्च वरार्थं नोदिताश्च ते ॥४९॥
वव्रुर्मुक्तिं परां सेवामददां च तथाऽस्त्विति ।
तिरोभावं द्रुतं चापि सभाऽऽश्चर्यपराऽभवत् ॥५०॥
व्रतर्दिनः प्रतापेन ह्यवापुः कृष्णदर्शनम् ।
भेजुस्ते मां दिव्यभावैरनन्यभावनैः सदा ॥५१॥
पातिव्रत्येन मां भेजुर्नृपाद्या वैष्णवास्ततः ।
परिहारोऽभवद् भक्तो मुमुदे दर्शनान्मम ॥५२॥
पारितोषिकमासाद्य ययौ समण्डलो निजम् ।
आलयं स वितर्दी वै नृपो नृपालयं ययौ ॥५३॥
अथ काले ततः प्राप्ते नृपादीन् भक्तमण्डलम् ।
निन्ये धामाऽक्षरं मे च व्रतर्दिमण्डलं तथा ॥५४॥
तथा ये ये वैष्णवाश्चाऽभवन् वै लक्षशो जनाः ।
चमत्कारं स्मरन्तो मे भजन्तो मां निरन्तरम् ॥५५॥
निन्ये तान्मेऽऽक्षरं लोकं शाश्वतं धाम चोत्तमम् ।
शृणु लक्ष्मि जना लोके भवन्ति त्यागवृत्तयः ॥५६॥
तीव्रत्यागविरागस्य स्नेहो मय्यतिशोभते ।
रागिणस्तु स्मृतिर्नित्यं विषयाणां प्रजायते ॥५७॥
तुच्छार्थस्नेहबद्धास्ते कृष्णस्नेहं न कुर्वते ।
कृष्णे स्नेहविहीनास्ते मोक्षं फलं न यन्ति वै ॥५८॥
तस्मात् स्नेहः सदा कार्यो मयि श्रीपरमात्मनि ।
हातव्यश्चान्त्यजः स्नेहो मम माहात्म्यवेदिना ॥५९॥
आत्मज्ञानेन च त्याज्यः स्नेहो मायिकवस्तुषु ।
आत्माऽयं सच्चिदानन्दो जडाद्भिन्नः शरीरतः ॥६०॥
नाऽस्य देहो न सौधश्च न कुटुम्बं न वाटिकाः ।
न जातिर्न कुलं योगो धनं नाऽस्य च सम्पदः ॥६१॥
मायाहीनो भवाम्येवेत्यात्मानं चिन्तयेत् सदा ।
एतादृशं निजं मत्वा दैहिकं नहि संस्मरेत् ॥६२॥
कुटुम्बिनो न स्मर्तव्याः पूर्वजाश्चाद्यजा अपि ।
भगवद्भक्तिहीना ये ये तु बन्धनकारिणः ॥६३॥
यत्स्मृत्या बन्धनं वै स्यात् स्मर्तव्या न तथा क्वचित् ।
श्राद्धकाले प्रस्मर्तव्यास्तृप्त्यर्थं मुक्तयेऽपि च ॥६४॥
यज्ञे दाने तीर्थकार्ये धर्मकार्ये व्रतादिषु ।
स्मर्तव्यास्तृप्तये तेषां मुक्तये मन्दिरे हरेः ॥६५॥
अन्यथा रागवशतः स्मर्तव्या न कदाचन ।
स्मर्तव्याः साधवो दिव्याः स्मर्तव्याः प्रतिमा मम ॥६६॥
ब्रह्मप्रियास्तथा साध्व्यः स्मर्तव्या मोक्षसिद्धये ।
ज्ञानिभिर्ज्ञानविज्ञानैर्विस्मर्तव्यास्तु बान्धवाः ॥६७॥
बन्धनस्य प्रदा नार्यो नराश्चापि कुटुम्बिनः ।
विषया मोक्षविघ्नाश्च विस्मर्तव्याः समस्ततः ॥६८॥
ब्रह्मदृष्ट्या येन सर्वे पुत्राद्या विस्मृताः खलु ।
तस्य प्रीतिर्हरौ स्याच्च मोक्षप्रदेषु सत्सु च ॥६९॥
सर्वै सन्तो भवन्त्येव दिव्या ब्रह्मनिवासिनः ।
यथा हरिस्तथा सन्तः स्मर्तव्या मोक्षदा हि ते ॥७०॥
आश्रयणीयाः सततं साधवश्च हरिस्तथा ।
भजनीयः स्वयं साक्षाद्धरिश्चाऽहं जनार्दनः ॥७१॥
एवंविधस्य भक्तस्य भीर्न कालस्य कर्मणाम् ।
मायाया यमराजस्य भीर्नापि बन्धनस्य च ॥७२॥
अनादिश्रीकृष्णनारायणेच्छा भक्तयोगिनः ।
प्रारब्धं खलु मन्तव्यं नेतरत् पापिजीववत् ॥७२॥
एतादृशः प्रवन्द्यो वै सर्वेषां पूज्य एव सः ।
गृहस्थो वा यतिर्वा स विशेषो नाऽत्र विद्यते ॥७४॥
एवंविधस्य भक्तस्य समलोष्ठादिकस्य च ।
पत्तलाब्जरजो मूर्ध्ना धारयन्ति सुरादयः ॥७५॥
सर्वदा च सुरैरस्य दर्शनं क्रियते प्रगे ।
मम प्रतापमालम्ब्य कुर्वन् भक्तिं स्थितो गृहे ॥७६॥
त्यागे बा प्रस्थितश्चाऽयं पारं यात्यञ्जसाऽम्बुधेः ।
एतादृशो मम भक्तो देहान्ते चिन्मयाकृतिः ॥७७॥
ब्रह्ममुक्तो दिव्यदेहः सेवायां धाम्नि मे भवेत् ।
तस्य वै दर्शनं मायापापकालादिनाशकृत् ॥७८॥
कर्मनाशकरं लक्ष्मि तुल्यं ममेक्षया मतम् ।
सर्वक्रिया मदर्थं वै यस्य तस्याऽहमच्युतः ॥७९॥
सर्वथा तु वशीभूतः प्रवर्ते तस्य गोचरः ।
यो भक्तो यद्दिनाल्लक्ष्मि सत्संगं प्रकरोति वै ॥८०॥
तत आरम्य कुरुते विवेकं गुणदोषयोः ।
ईदृग्गुणान् लब्धवाँश्च त्यक्तवान् दुर्गुणानिमान् ॥८१॥
प्रतिवर्षं व्यतिरेकं विचिन्तयति लाभकृत् ।
सत्संगस्य प्रतापेन सतां हरेश्च सेवया ॥८२॥
गुणाः प्राप्ता इमे सर्वे दोषा गताश्च ते मम ।
शेषाणां खलु दोषाणां नाशने यत्नवान् भवेत् ॥८३॥
शेषाणां सद्गुणानां संग्रहणे यत्नवान् भवेत् ।
एवं प्रयत्नशीलस्य गुणाः स्युर्मम तुष्टिदाः ॥८४॥
दोषाणां प्रक्षयः स्याच्च दिव्यताऽत्र भवेत्तथा ।
कृष्णसुखं चोत्तमं च जायतेऽस्य हि शाश्वतम् ॥८५॥
मनो निर्वासनं स्याच्च निःसंकल्पं स्थिरं भवेत् ।
अनेकेषु चरित्रेषु कृष्णनारायणस्य मे ॥८६॥
मनश्चावर्तयेन्नित्यं रममाणं मयि क्रियात् ।
महाशान्तिमयं स्याद् यत् त्यागिनां गृहिणामपि ॥८७॥
देहयात्रामात्ररूपो व्यवहारस्तु बाह्यतः ।
कर्तव्यो नटवल्लक्ष्मि मनो धार्यं हरौ मयि ॥८८॥
चरित्राणि सतां नारायणस्य कृष्णयोषिताम् ।
भक्तानां श्रीहरेश्चापि चिन्तनीयानि सर्वदा ॥८९॥
मनो निर्वासनं तेन भवेन्मोक्षे यथा सुखम् ।
तेषां समागमः कार्यो मोक्षकृद् यत्फलं भवेत् ॥९०॥
व्रतर्दिनः प्रसंगेन गायकस्य नृपोत्तमः ।
पुण्ड्रवर्मा ययौ मुक्तिं तथाऽन्ये च सहस्रशः ॥९१॥
अतः सेव्या मम भक्ताः सत्याश्चोन्मूलिताशयाः ।
दिव्यक्रिया मम ध्यानपराश्चाश्रिततारकाः ॥९२॥
अन्तरायविहीनाश्च सर्वविघ्नविवर्जिताः ।
धर्मं भागवतं दिव्यं मम सेवां समाश्रिताः ॥९३॥
सतामाश्रयकरणात् प्रसन्नतासमर्जनात् ।
आज्ञानुवृत्तिकरणाद्धामाऽक्षरं करे भवेत् ॥९४॥
एवं लक्ष्मि भूतले वा स्वर्गे सत्ये विकुण्ठके ।
गोलोके चाऽक्षरे श्वेतद्वीपे श्रीपुरकेऽमृते ॥९५॥
अव्याकृते बदर्यां वा ये वर्तन्ते मदाश्रिताः ।
मुक्ता मुक्तानिकाः सर्वे सर्वस्वाऽर्पणकृष्णकाः ॥९६॥
शाश्वतानन्दभोक्तारस्तथा व्रतर्दिगायकाः ।
सर्वे मुक्तिं मम प्राप्ताः शाश्वंतानन्दसेविनः ॥९७॥
ये ये कलाविदो लोकेऽर्पयन्ति तत्कला मयि ।
ते ते यान्त्यक्षरं धाम कृपया मे न संशयः ॥९८॥
येषामग्रे च यो धर्मो गुणः कला क्रिया तथा ।
साधनं श्रीहरिं प्रसादयितुं वै स्वकं भवेत् ॥९९॥
तेन प्रसादनीयः श्रीकृष्णनारायणो हरिः ।
प्रसादनीयाः सन्तश्च नरैश्च योषितांगणैः ॥१००॥
तदा दिव्यो भवेद् भावो देहो मनस्तथाऽऽन्तरम् ।
गुणाः क्रिया वर्तनं च सेवा दिव्याः समस्ततः ॥ १०१॥
हरेर्भूत्वा हरिं प्राप्य मोदते स समर्पकः ।
पठनाच्छ्रवणाल्लक्ष्मि तथैव मोदते मयि ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने व्रतर्दिनामकगायकभक्तस्य योगेन पुण्ड्रवर्मनृपस्य सप्रजस्य वैष्णवत्वं मोक्षणं चेत्यादिनिरूपणनामा द्व्यधिकद्विशततमोऽध्यायः ॥२०२॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP