द्वापरयुगसन्तानः - अध्यायः २३७
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
हृदयस्य प्रियप्राणकान्तचानन्दवारिधे ।
कृपालो श्रीकृष्णनारायणाऽहं पावनीकृता ॥१॥
दिव्यानां श्रीभवतः सत्कथानां श्रावणेन वै ।
इमा ब्रह्मप्रियाः सर्वा हरिप्रियास्तथाऽपराः ॥२॥
परमं पावनं भावं प्राप्ता भवत्कथाश्रवात् ।
सर्वा मुक्तानिका गोप्यो रमा लक्ष्म्यः श्रियः स्त्रियः ॥३॥
ईश्वराण्यश्च सिद्धान्यो देव्यो मानव्य इत्यपि ।
काश्यप्यश्च तलिन्यश्च कृतकृत्या हरेऽभवन् ॥४॥
अहो भाग्यमहो भाग्यं दैत्यदानवरक्षसाम् ।
कन्यकानां कृष्णकान्तात्मिकानामिह नो यथा ॥५॥
अहो कृपा ह्यहो चानुग्रहः श्रीपरमात्मनः ।
श्रोत्त्र्यः पत्न्यः पतिर्वक्ता स्वयं श्रीपुरुषोत्तमः ॥६॥
यासां भाग्यानि छिन्नानि स्फुटितानि च वा प्रभो ।
तासां कृष्णमुखाम्भोजकथाश्रवक्षणो न वै ॥७॥
श्रोष्यन्ति बहुनार्यश्च नराश्चास्य कथामृतम् ।
संक्षेपाच्चाल्पबुद्धीनां कथास्मृतिं प्रकारय ॥८॥
पुरुषोत्तम उवाच-
स्वल्पक्षणाप्तश्रद्धानां स्मरणार्थं नरायणि ।
कथायाम्यस्य खण्डस्य कथाबीजानि संशृणु ॥९॥
अध्यायाश्चास्य खण्डकस्य षट्त्रिंशच्छतद्वयम् ।
श्लोकानां तु सहस्राणि पञ्चविंशतिरित्यधि ॥१०॥
सत्यत्रेताद्वापराणामध्याया वै षड्विंशतिः ।
तथा शतं सहस्रं च भवन्ति मोक्षदा रमे ॥११॥
श्लोकाः खण्डत्रयाणां तु लक्षं त्वेकं तथाऽधिकाः ।
ते द्वादशसहस्राणि शतं सन्ति भुङ्मुक्प्रदाः ॥१२॥
एषा संख्या मानवेऽत्र लोके बोध्या न चेतरे ।
संहितेयं विशालाऽस्ति प्रागेव कथितं तव ॥१३॥
अत्र द्वापरसन्ताने ह्यारंभे श्रीकृता स्तुतिः ।
सृष्टिकालस्य गणनोदिता ततस्तु वेधसः ॥१४॥
द्वापञ्चाशद्वत्सराख्याः कल्पाख्याः कथितास्ततः ।
रोहिणाऽसुरनाशार्थं श्रीद्युनारायणो हरिः ॥१५॥
मेरुधर्ता मेरुनारायणश्च कीर्तितस्ततः ।
रवेः शातनकृद्विष्णुनारायणश्च वर्णितः ॥१६॥
धूम्रासुरविनाशार्थं देवनारायणः प्रभुः ।
मखप्रवर्तको यज्ञनारायणश्च कीर्तितः ॥१७॥
रुद्रशास्ता ब्रह्मनारायणश्च कथितस्ततः ।
देवधिष्ण्यनियमार्थमादित्यन्रायणस्ततः ॥१८॥
नागशास्ता श्रीगरुत्मन्नारायणश्च वर्णितः ।
आर्षनारायणश्चापि ध्रुवस्थैर्यकरस्ततः ॥१९॥
थुरानन्दप्रशास्ता श्रीप्राज्ञनारायणस्ततः ।
कथितो नैष्ठिकवीरनारायणस्तु शीलवान् ॥२०॥
मोक्षदश्च ततो भद्रनारायणोऽपि वर्णितः ।
तुंगभद्रासनापुत्र्या लक्ष्म्या विवाहसूत्सवः ॥२१॥
अनादिश्रीहरिनारायणावतार ईरितः ।
बीजरक्षाकरो बीजनारायणस्ततः परम् ॥२२॥
धर्मव्रतगृहे जातो वरनारायणो हरिः ।
सुदर्शन्याः शापजातसमस्तस्त्रीस्वरूपिणाम् ॥२३॥
शापमोक्षकरः स्त्रीपुंनारायणश्च कीर्तितः ।
माकरासुरनाशार्थं जलनारायणस्ततः ॥२४॥
साधुधर्मस्थापनार्थं शीलनारायणस्ततः ।
व्याघ्रासुरविनाशार्थं वार्धिनारायणस्ततः ॥२५॥
ततश्चतुर्मुखः कृष्णः कथितः सृष्टिसदृशः ।
राधनिकापुण्यव्रातगृहे श्रीपुरुषोत्तमः ॥२६॥
अवातरत् कथा चैषोदिता ततः परं रमे ।
तीर्थपावनकृत्तीर्थनारायणः प्रकीर्तितः ॥२७॥
भक्तिप्रवर्तक उक्तो जीवन्नारायणस्ततः ।
ततोऽर्धश्रीश्वरनारायणः संवर्णितो रमे ॥२८॥
ततश्चार्धपितृनारायणः प्लक्षनरायणः ।
नरमेधे पुंस्त्वनारायणस्ततः प्रकीर्तितः ॥२९॥
तत उक्तः श्यामनारायणो वटश्रिया सह ।
मायूरासुरनाशार्थं राजनारायणस्ततः ॥३०॥
कामभस्मोत्तरं ब्रह्मचारिनारायणस्ततः ।
शंभूज्जीवक उदितः शिवनारायणस्ततः ॥३१॥
कुबेरोज्जीवकः स्वर्णनारायणश्च वर्णितः ।
ज्वालादाहावनकर्ता स्वामिनारायणस्ततः ॥३२॥
निर्वाणिकागृहे श्रीसावननारायणस्ततः ।
साघुनारायणश्चापि साध्वीलक्ष्म्या सहोदितः ॥३३॥
वर्णिशालमनोरुज्जीवको भक्तनरायणः ।
अश्वीभूतवर्मधरनृपरक्षाकृते पुनः ॥३४॥
मेधनारायणो मेधालक्ष्म्या सहोदितः प्रभुः ।
अनलादविनाशार्थं वह्निनारायणस्ततः ॥३५॥
इलोदरविनाशार्थं रसनारायणस्ततः ।
दैत्यहा श्रीचक्रनारायणस्ततः प्रवर्णितः ॥३६॥
सत्यधर्मस्थापयिता सत्यनारायणस्ततः ।
स्थित्यर्थं पर्वतानां हिरण्यनारायणस्ततः ॥३७॥
नैष्किञ्चनीश्रिया साकं नैरञ्जनिनरायणः ।
पुण्यवतीशापशान्त्यै शापनारायणस्ततः ॥३८॥
अप्सरसां मनःपूर्त्यै ब्रह्मद्ब्रह्मनरायणः ।
ब्रह्मविद्याप्रकाशाय गुरुनारायणस्तः ॥३९॥
बृहद्धर्मनृपतये साधुदीक्षाप्रदः प्रभुः ।
आचार्याणीश्रिया साकमाचार्यन्रायणस्ततः ॥४०॥
विद्युत्स्रावादिनाशार्थं विद्युन्नारायणस्ततः ।
मधुभक्षादिनाशार्थं मधुनारायणस्ततः ॥४१॥
दैत्यहा श्रीनाथनारायणश्चापि प्रवर्णितः ।
साकं विभ्वीश्रिया स्वर्णोत्सवे विभुनरायणः ॥४२॥
मोक्षनारायणश्चापि मुक्तिश्रीसहितस्ततः ।
शिवराजीश्रिया युक्तः कृष्णनारायणस्ततः ॥४३॥
कोट्यर्बुदाऽब्जमहिषीकान्तः प्रभुः प्रवर्णितः ।
लक्ष्मीनारायण द्वन्द्वद्वादशोर्ध्वसहस्रकम् ॥४४॥
द्वन्द्रनामस्तवश्चोक्तः सर्वपापप्रणाशनः ।
नरनारायणे परब्रह्मरूपप्रदर्शनम् ॥४५॥
गृहस्त्रीणां विधेयानां कर्मणां वर्णनं ततः ।
वधूटीनां सदाचारा वधूपाल्या वृषास्तथा ॥४६॥
सतीसत्यबलं चोक्तं भक्तियोगश्च निर्गुणः ।
पुरुषोत्तमयोगश्च परब्रह्मण इत्यपि ॥४७॥
अक्षरातीततादात्म्यं लक्ष्मीनारायणव्रतम् ।
गुरोश्च महिमा दिव्यादेवीप्रमोक्षणं ततः ॥४८॥
अदत्तान्न जलदाने सुबाहोर्नृपतेः कथा ।
नहुषस्य कथा कुञ्जलस्य शुकस्य वै कथा ॥४९॥
कामोदायाः कथा चोक्ता च्यवनस्य कथा ततः ।
गुरोः रहस्यकथनं सदाचारादिवर्णनम् ॥५०॥
ऋषिधर्मर्षियोगेन ब्रह्मप्रियात्वमुत्तमम् ।
लीलावतीसुशीलादिसखीनां तत्कथानकम् ॥५१॥
ततो रक्षाश्वपच्यास्तु मोक्षणस्य कथोदिता ।
गुरोर्हरिस्वरूपत्वं सर्वार्पणस्तवस्ततः ॥५२॥
वैष्णवोत्तमतायां तु कौशिकादिनिदर्शनम् ।
गानशिक्षर्जनं चोक्तं नारदस्य ततः परम् ॥५३॥
उलूकस्य गरुडत्वप्राप्तिरुक्ता ततः परम् ।
महा भागवतभक्तचिह्नान्युक्तानि वै ततः ॥५४॥
परीक्षणं चिदम्बराराज्ञ्या उक्तं ततः परम् ।
भगवद्गदया राज्ञ्याः कृता रक्षा प्रवर्णिता ॥५५॥
विद्यामन्त्रगुरूणां च बलोत्कृष्टत्वमीरितम् ।
अनावरणसेवा च व्रतं दमनकं ततः ॥५६॥
भिन्नतिथौ भिन्नरूपहरेः पूजा प्रकीर्तिता ।
भक्तेर्माहात्म्यकथनं वधूभक्तिरहस्यकम् ॥५७॥
हरेः कृपायाः सर्वस्वं फलं प्रवर्णितं ततः ।
महामन्त्ररहस्यानि सार्थन्यासानि वै ततः ॥५८॥
गायत्री, चोर्ध्वपुण्ड्रादि, गूढार्थज्ञानमित्यपि ।
त्रिपाद्विभूतिश्चैकपाद्दिव्यतादि समीहितम् ॥५९॥
नामभक्त्या ययातेश्च प्रभावो वर्णितस्ततः ।
हरेः प्रसन्नतासाधनानां च वर्णनं ततः ॥६०॥
कदर्यस्य कथा, भिन्नफलं, साधुसमागमः ।
ब्रह्मिष्ठतासाधनानि पतिव्रतावृषास्तथा ॥६१॥
सुचन्द्रिकागोपिकायाश्चमत्कारकथोदिता ।
मनोः पत्न्याः कथा ब्रह्मप्रथायास्तूदिता ततः ॥६२॥
दीर्घायुसाधनं चोक्तं शतगृध्रप्रमोक्षणम् ।
विनोदिन्याः शतपुत्रत्यागिता चोदिता ततः ॥६३॥
वात्स्यायनप्रसंगेन गणिकानां तु मोक्षणम् ।
साधुत्वे हेतवश्चोक्ता मोक्षोपायाः प्रकीर्तिताः ॥६४॥
वृषायनेन चरकाऽविता श्येनादुदीरितम् ।
चित्रकेतोश्च मालत्याः सत्सेवाफलमीरितम् ॥६५॥
विप्रेभ्यः साधवः श्रेष्ठा उक्ता विष्णुनिदर्शनात् ।
दुर्गायाश्चापि दृष्टान्तं, सहधर्मा उदीरिताः ॥६६॥
प्रत्यक्षनिरयाः प्रोक्ताः कर्षुकस्य निदर्शनम् ।
स्वर्गगाम्नि उक्ताश्च प्रोक्ता घातकिनस्तथा ॥६७॥
साधवो जंगमं तीर्थं प्रोक्तं सर्वस्य पावनम् ।
द्विजापुत्रकृशांगस्य वृषलोत्पादितस्य तु ॥६८॥
ब्रह्मिष्ठत्वं कृशानुत्वं तपोभिश्चेन्द्रकृद्वरात् ।
निदर्शनानि बहूनि जातीनां परिवर्तने ॥६९॥
भंगास्वननृपस्यापि नारीत्वे च निदर्शनम् ।
निदर्शनं ब्रह्मयोगबले विषुलयोगिनः ॥७०॥
लोमकपर्दकरक्षोनाशो रुचेर्वृषावनम् ।
इन्द्रपराजयो गुरोः प्रसन्नता च वर्णिता ॥७१॥
अब्धिमग्नस्य गोकर्णतीर्थस्योद्धरणं ततः ।
कुवलाश्वकथा त्रिशंकोश्च ततः कथोदिता ॥७२॥
प्रणद्ब्रह्मकथा कश्यपस्य तथा कथोदिता ।
मोक्षसाधनमानानि सतां समागमो बलम् ॥७३॥
आलम्बायनसाधोश्च संगाल्लक्षप्रमोक्षणम् ।
गृध्रश्वपचयोश्चापि शबरस्य च मोक्षणम् ॥७४॥
सत्सु लक्ष्मीनिवासश्च श्रीवासा उदितास्ततः ।
अवतारे भृगोः शापः स्वेच्छा हेतुस्तथोदितः ॥७५॥
गोदानं च गवाराधनाव्रतं कथितं तथा ।
भारुण्डोद्धरणं चापि प्रेतोद्धारस्य कारणम् ॥७६॥
वृषादर्भेश्च सूर्यस्य दानपात्रे निदर्शनम् ।
नरशायतस्करस्य श्रीचक्रभाससाधुना ॥७७॥
मुक्तिः कृता च धनिनां ब्रह्मसत्रावबोधनम् ।
पत्नी विवाहिता सर्वधर्ममूलं प्रदर्शितम् ॥७८॥
अत्रार्थे जांघलामखनिदर्शनं प्रवर्णितम् ।
विविधास्तु सुताः पुत्र्यः पतयः पत्निकास्तथा ॥७९॥
शंभलवारसूतस्य साधुभक्तस्य मोक्षणम् ।
कल्याणभक्तसेवायाः परीक्षणं तथा ततः ॥८०॥
भूतले श्रीकृष्णनारायणप्राकट्यमीरितम् ।
श्रीपुरुषोत्तमसाम सहस्रनामवर्णितम् ॥८१॥
पुरुषोत्तमसाम्नश्च फलं चाक्षरलंभनम् ।
भूदानादिफलं चान्नदानादिजं फलं तथा ॥८२॥
दीर्घशीलाभिधयोरास्तिकनास्तिकयोर्द्वयोः ।
यमद्वारा ह्युपदेशो मोक्षणं कथितं ततः ॥८३॥
ब्रह्मसत्यास्तु योगिन्या देहदाने निदर्शनम् ।
वैवर्तभूपतेः पत्न्यां देवरात् पुनरुद्भवः ॥८४॥
रोमपादपशुपस्य मोक्षणं कथितं ततः ।
नग्नभंगाख्यचौरस्य सत्संगाद् रक्षणं तथा ॥८५॥
भागवतायनसाधुकृतमुज्जीवनं पुनः ।
दावदग्धवनस्याऽपि चमत्कारस्तथोदितः ॥८६॥
कामदेवजभस्मोत्थभण्डासुरस्य नाशने ।
ललिताश्रीमहालक्ष्मीसैन्यानां चापि योधनम् ॥८७॥
भण्डासुरविनाशश्च ललिताश्रीस्तवस्ततः ।
पारितोषिकदानानि मन्दिराणि च षोडश ॥८८॥
चिन्तामणिगृहस्थाभिः सेविकाभिः प्रसेवनम् ।
काञ्चीपुर्योर्महालक्ष्म्या द्वेधा स्वरूपतोदिता ॥८९॥
दीक्षाविधानं देवत्रयवासस्तथोदितः ।
पञ्चत्रिंशदूर्ध्वशतनामानि ललिताश्रियाः ॥९०॥
पुत्रोप्राप्तिप्रदं दानं व्रतं चेति प्रकीर्तितम् ।
साधुसेवाव्रतं व्रतोत्तमं तत उदीरितम् ॥९१॥
तुलापुरुषदानं च हिरण्यगर्भदानकम् ।
ब्रह्माण्डदानकं कल्पवृक्षदानं च कीर्तितम् ॥९२॥
गोसहस्रमहादानं स्वर्णकामगवार्पणम् ।
हिरण्याश्वमहादानं हिरण्यरथदानकम् ॥९३॥
हेमहस्तिरथदानं पञ्चलांगलदानकम् ।
हेमधरामहादानं विश्वसुदर्शनार्पणम् ॥९४॥
मालाचक्रप्रदानं च भूषादानं प्रकीर्तितम् ।
महाकल्पलतादानं कल्पप्रियाप्रदानकम् ॥९५॥
कल्पकान्तप्रदानं च गुरुदेवादिदानकम् ।
मन्दिरार्पणमेवापि सप्तसागरदानकम् ॥९६॥
महाभूतप्रदानं च लक्ष्मीदानं प्रकीर्तितम् ।
ग्रहशान्तिप्रपूजादि व्यकोटिजपादिकम् ॥९७॥
लोहांगारस्य वैश्यस्य ग्रहशान्तौ निदर्शनम् ।
महालक्ष्म्या द्वे शते च नामान्युक्तानि वै ततः ॥९८॥
महालक्ष्मीप्रतिमा च तथा तन्मण्डलं ततः ।
पितृकन्यानां निजेष्टफलाप्तिर्नामसंस्तवात् ॥९९॥
लक्ष्मीसौभाग्यशयनव्रतं च विधिरीरितः ।
घटलक्ष्मीव्रतं सर्वमंगलं च तथा व्रतम् ॥१००॥
सांख्ययोगव्रतं रसकल्याणललिताव्रतम् ।
आर्द्रानन्दरमानारायणव्रतं च कीर्तितम् ॥१०१॥
शारदेयव्रतं चोक्तं कल्याणीकमलाव्रतम् ।
विशोकललिताद्वादशीव्रतं च तथोदितम् ॥१०२॥
विभूतिललिताकृष्णलालनं व्रतमीरितम् ।
पुष्करवाहननाम्नो नृपस्य च निदर्शनम् ॥१०३॥
एकषष्टिव्रतानां च निर्देशोऽपि प्रकीर्तितः ।
पापिनां मोक्षकृत्तीर्थं कुंकुमवापिकात्मकम् ॥१०४॥
कालमृत्युबलशान्त्यै मन्त्रपूजादि चेरितम् ।
द्वापरीयमानवानां धर्मकर्मादि दर्शितम् ॥१०५॥
युगधर्मादिभिन्नत्वं चोत्पातशान्तिकर्म च ।
दुःस्वप्नशान्तिकर्माऽपि ग्रहयज्ञस्तथोदितः ॥१०६॥
शुभस्वप्नशकुनानि चाशुभे शान्तिकर्म च!
हनूमतो मनुश्चापि प्रतिष्ठाद्यं च वर्णितम् ॥१०७॥
महापापादिनाशार्थमुपायाः कीर्तितास्तथा ।
धर्माधर्मवंशयोश्च वर्णनं च ततः परम् ॥१०८॥
दुःसहस्य निवासादि तद्वंशोपद्रवादि च ।
कार्याकार्यविवेकश्च नक्षत्रादिषु कीर्तितः ॥१०९॥
सरोजिन्याः कुंभकर्त्र्याश्चतुर्वैधव्यमित्यपि ।
सतीश्वरीसेवया पद्मिनीत्वं च रमात्वकम् ॥११०॥
चतुर्दशमनूनां च जन्यादि च ततः परम् ।
रुचिप्रजापतेराख्यानकं चापि प्रकीर्तितम् ॥१११॥
अनादिश्रीकृष्णनारायणस्य तु हिमालये ।
ब्रह्मप्रियादियुक्तस्य विहारोऽपि निरूपितः ॥ ११२॥
हीरकादिसुरत्नानामुत्पत्तिर्बलराक्षसात् ।
बलस्य पार्षदस्याऽत्र शापेन पतनं ततः ॥११३॥
दैत्यत्वं तच्छरीराच्च रत्नोत्पत्तिः प्रकीर्तिता ।
सर्वजातिमणीनां च गुणाद्यपि निरूपितम् ॥११४॥
चतुर्दशावताराश्च हरेश्चापि मनुष्वपि ।
जीवच्छ्राद्धविधिश्चापि संसारस्य निवर्तनम् ॥११५॥
व्यपोहनं ततः स्तोत्रं यज्ञे कन्यादिदानकम् ।
मृत्युकारणनाशे वै भावायननिदर्शनम् ॥११६॥
श्रीमानसचिदानन्दयोगिनोश्च विचारणम् ।
मुक्तिधर्मे च देहाप्तिक्षयहेतव ईरिताः ॥११७॥
मायाख्यस्य हेतुश्च परधामगतिस्तथा ।
सद्विद्यायनपत्न्याश्च नैष्कर्म्ये प्रश्न उत्तरम् ॥११८॥
शुभाशुभादिभोगश्च विज्ञानं च प्रकीर्तितम् ।
मुक्तिधर्मविवेकश्च ह्यध्यात्मादिविवेचनम् ॥११९॥
भिक्षायनमहर्षेश्च गार्हस्थ्ये निर्गुणात्मता ।
नित्याश्रयायाः पुत्रस्य भक्त्या मोक्षणमीरितम् ॥१२०॥
कुष्ठिनो व्याघ्रनाम्नश्च कुष्ठनाश उदाहृतः ।
उत्तमस्य ग्रामयाजिनश्च मुक्तिः समीरिता ॥१२१॥
विरालस्य राजयक्ष्मविनाशो मोक्षणं तथा ।
पृध्वीधरस्य पुत्रस्याऽन्धस्य दृष्टिप्रदानकम् ॥१२२॥
सागरस्य तु शूद्रस्याऽरुग्णता भग्नपादयोः ।
वृक्णदेवस्य वृक्णत्वनाशो भावस्य मोक्षणम् ॥१२३॥
पाशुपतेशविप्रस्य शापमोक्षकथा ततः ।
बाणांगणो मद्यविक्रेता सत्संगात् प्रमोचितः ॥१२४॥
मृतादनश्चर्मकारो धेनुसेवः प्रमुक्तिगः ।
सुमन्तुकर्षेर्योगेन शंकुधरोऽपि मुक्तिगः ॥१२५॥
महासौराष्ट्रीयसंघो लुण्टकेभ्यः प्ररक्षितः ।
धनिष्ठकेशवणिजो व्यवायान्मोक्षणं कृतम् ॥१२६॥
ब्रह्मघ्नस्य तु नृपतेर्भक्त्या राक्षसमोक्षणम् ।
देवविश्रामस्य काण्डिकास्त्रीहत्याविमोक्षणम् ॥१२७॥
हर्षुलभक्तपुत्रस्य मृतस्योज्जीवनं कृतम् ।
शाणधरस्य कुष्ठिनो रोगनाशः प्ररक्षणम् ॥१२८॥
निम्बदेवाख्यभक्तस्य वृषहत्यानिवारणम् ।
एकान्तिकानामैश्वर्यब्रह्मनिष्ठादि चेरितम् ॥१२९॥
कालीन्दरस्य भाण्डस्य भक्त्या मोक्षणमीरितम् ।
रायणदेवनृत्यज्ञे गर्भस्थे ज्ञानसञ्चयः ॥१३०॥
बोधायनोपदेशेन मोक्षश्चापि तथोदितः ।
व्रतर्द्दिगायनज्ञस्य पुण्ड्रवर्मनृपस्य च ॥१३१॥
सप्रजस्य वैष्णवत्वं मोक्षणं तत ईरितम् ।
तूलवायिसूत्रवायकस्य मोक्षश्च वर्णितः ॥१३२॥
जंगलदेवप्रभृतिकाष्ठहारप्रमोक्षणम् ।
वात्सल्यधीरभक्तस्य साधुत्वं भार्यया सह ॥१३३॥
तिलकरंगवनपालस्य मुक्तिरुदाहृता ।
नाञ्जभक्तस्य च महामयभक्तस्य रक्षणम् ॥१३४॥
कर्षुकाणां रक्षणं च लुण्टकेभ्यः प्रकीर्तितम् ।
सागराख्यकिरातस्य कुसुलश्चाक्षयः कृतः ॥१३५॥
सारंगहूणभक्तस्य महिषीरक्षणं कृतम् ।
यज्ञराधपुष्कसस्य मोक्षप्राप्तिस्ततोऽपि च ॥१३६॥
कपिक्षयाख्यचाण्डालमोक्षणं कथितं ततः ।
नालीकरलोहकारभक्तमोक्षश्च वर्णितः ॥१३७॥
मंगलदेवचर्मकृद्विषवारणमीरितम् ।
हरिदासरथकारमोक्षस्ततश्च वर्णितः ॥१३८॥
शिलाहृद्दामशिलादभृत्यानां रक्षणं कृतम् ।
शिल्पिनः सञ्जयदेवस्याऽपि गजात्प्ररक्षणम् ॥१३९॥
संभरदेवचित्रकृन्मोक्षणं कथितं ततः ।
मौक्तिकेशिशिलांगारखनिस्वामिप्रमोक्षणम् ॥१४०॥
लुब्धकस्य चक्रधराख्यस्य पापादिनाशनम् ।
वाटधरस्य च पिशुनस्य खसस्य मोक्षणम् ॥१४१॥
द्वैपीराज्ञ्याः सुतारसिंहभूपदण्डान्मोक्षणम् ।
शिवजयस्य च प्रासादकारस्य प्रमोक्षणम् ॥१४२॥
जालकृत्संगरयादस्कस्य कृष्णस्य दर्शनम् ।
उद्यमश्रीभरवाटादीनां च मोक्षणं ततः ॥१४३॥
दीर्घरवोष्ट्रपालानां साधुयोगेन मोक्षणम् ।
रत्नप्रभस्यापि साधुयोगेनोक्तं प्रमोक्षणम् ॥१४४॥
गदार्दनेशवैद्यस्य मुकुन्दियाश्च मोक्षणम् ।
देश्यावनस्य कीशस्वामिनश्चापि प्रमोक्षणम् ॥१४५॥
निगमिकानापितान्या रूपं च धृतवान् हरिः ।
स्वर्णधन्वनृपतेश्च राज्ञ्याः सेवां व्यधादिति ॥१४६॥
तेषां प्रमोक्षणं चापि प्रकीर्तितं ततः परम् ।
पूर्वजन्मनि धीवर्या आभीर्था दैत्यतो हरिः ॥१४७॥
रुटाणक्या रक्षणं मोक्षणं च कृतवानिति ।
मत्स्यमारधीरपर्वादीनां तु यमयातनाः ॥१४८॥
ततो नौपतिजन्मानि मोक्षणं कथितं ततः ।
शूलीप्रदतारकादर्शकस्य मोक्षणं ततः ॥१४९॥
ज्वालाप्रसादसंज्ञस्यांऽगारकस्य प्रमोक्षणम् ।
गरदस्य लवादनप्रधानस्य प्रमोक्षणम् ॥१५०॥
विखण्डलाख्यशस्त्रधृङ्मोक्षणं कथितं ततः ।
जीर्णोद्भवकृषीकृतः साधुयोगेन मोक्षणम् ॥१५१॥
अनादिश्रीकृष्णनारायणस्य मे तु जन्मतः ।
सप्तदशे वार्षिकाहे जयन्त्युत्सव ईरितः ॥१५२॥
अस्य द्वापरसन्तानखण्डस्य श्रवणस्य च ।
दानस्य च मन्त्रजपस्यापि माहात्म्यमीरितम् ॥ १५३॥
ततो द्वापरसन्तानकथानां सार ईरितः ।
लक्ष्मि राधे रमे कृष्णे पद्मावति च माणिकि ॥१५४॥
नारायणि व्रह्मप्रियाः कमले चाऽमृते रमे ।
हरिप्रियाः समस्ताश्च ममाऽऽत्मा श्रावितो मया ॥१५५॥
मदात्मिकाः कथाः सर्वा भवत्यस्तासु संस्थिताः ।
सन्तो नराश्चिदो नार्य आनन्दोऽहं तयोरपि ॥१५६॥
सच्चिदानन्दरूपाश्च कथा इमास्त्रिसंहिताः ।
ब्रह्म सन्तो ब्राह्मयः साध्यश्चित्त्यस्ता यूयमेव ह ॥१५७॥
तयोस्तु तत्त्वयोश्चाहमानन्दः परमेश्वरः ।
सन्त आत्मान एवैते चिच्छक्तिः प्रकृतिर्मम ॥१५८॥
मूला माया दिव्यराधा तदानन्दोऽहमेव च ।
सन्तः सर्वेऽवतारा मे चित्त्यस्तदंगना मम ॥१५९॥
तयोरानन्दकृच्छ्रीमत्पुरुषोत्तम इत्यहम् ।
सत् सत्यं कारणं सर्वं चित् चेत्यं कार्यमित्यपि ॥१६०॥
तयोरानन्ददाताऽहं सर्वेशः परमेश्वरः ।
सन् व्यतिरेकरूपोऽहं चिदन्वयी भवामि च ॥१६१॥
तयोरन्तरवासश्चानन्दी श्रीकृष्णरूपवान् ।
सोऽहं सर्वत्र सरलो दुर्लभोऽपि कृपावशः ॥१६२॥
भवामि भक्तभक्तानीगोचरः सर्वसृष्टिषु ।
ब्रह्माण्डेषु समस्तेषु ह्यसंख्यरूपधृक् स्वयम् ॥१६३॥
न रूपाणां स्वरूपाणां कार्याणां मम सर्वथा ।
अन्तः संख्या तथेयत्ता विद्यते चेति वा क्वचित् ॥१६४॥
मे भक्तानां गणना न चरित्राणां न चापि तु ।
न संख्याऽस्ति कथानां मे ब्रह्माण्डेषु कदाचन ॥१६५॥
अमृतानि समस्तानि पीयूषाणि च यान्यपि ।
यावत्यश्च सुधाः सन्ति खण्डेऽत्र सर्वमिष्टताः ॥१६६॥
न समस्तप्रेमाणि स्नेहा ये भक्तगोचराः ।
अनुग्रहा हरेः सर्वे खण्डेऽत्र निहिता रमे ॥१६७॥
साधनानि समस्तानि हेतवश्चाऽखिला अपि ।
कारणानि फलयूञ्जि तद्गतार्थत्वमत्र वै ॥१६८॥
यानि फलानि यत्नानां यानि फलानि जन्मनाम् ।
यानि फलानि भक्तेश्च तत्फलिताऽत्र सर्वथा ॥१६९॥
यन्नैर्मल्यं तु मुक्तानां यन्नैर्मल्यं तु योगिनाम् ।
यन्नैर्मल्यं स्वभक्तानां तदेवाऽस्य प्रसेविनाम् ॥१७०॥
पापिनां पापनाशे च यथा कृष्णस्य तीव्रता ।
तथैव द्वापरसन्तानस्यापि लक्ष्मि तीव्रता ॥१७१॥
भक्तास्तरन्ति भक्त्या वै स्निग्धाः स्नेहेन माधवे ।
पापास्तरन्ति योगेन कृपया साधुसेवया ॥१७२॥
दुष्टा असुरा दैत्यास्तु साक्षाच्छ्रीकृष्णयोगतः ।
अथ सर्वेऽपि ते द्वापरसन्तानस्य संश्रवात् ॥१७३॥
याश्च देवेषु दैत्येषु मन्त्रेषु सिद्धयोगिषु ।
सिद्धयस्ता भवन्त्यस्य श्रोतुर्वक्तुश्च मोदितुः ॥१७४॥
यानि मोक्षविमानानि गजाद्याश्चातिवाहकाः ।
सिद्धदेव्यस्तथा नेत्त्र्यस्तान्यायान्त्यस्य संश्रयात् ॥१७५॥
सत्यधर्मफलं सर्वं त्रेताधर्मफलं तथा ।
द्वापरस्थधर्मफलं सर्वमस्य तु संश्रवात् ॥१७६॥
नरा नारायणत्वं वै नारायणीत्वमंगनाः ।
अनुभये वेषभूषादित्वं यन्त्यस्य संश्रवात् ॥१७७॥
हरेः कृपा कृपा साधोर्लक्ष्म्या कृपाऽतिनिष्ठिता ।
जायते द्वापरसन्तानकाश्रयिणि देहिनि ॥१७८॥
ऊर्ध्वपुण्यानि सर्वाणि सर्वोर्ध्वधिष्ण्यकान्यपि ।
ऊर्ध्वोर्ध्वाऽऽनन्दसन्दोहाः श्रोतुश्चास्य भवन्ति हि ॥१७९॥
दुष्प्रापं दुर्गमं दुःस्थं यन्निराशं भवेदपि ।
सुप्रापं सुगमं सुस्थं साशं त्वस्य श्रवेण वै ॥१८०॥
नमोऽनादिकृष्णनारायणाय चावतारिणे ।
चिदचिदात्मवपुषे सर्वान्तर्यामिणे नमः ॥१८१॥
इत्येकश्लोकमात्रेण फलं द्वापरखण्डजम् ।
लभेत चाऽवशो देही म्रियमाणोऽपि वा क्वचित् ॥१८२॥
यस्य वा विद्यते नैव श्रवणस्य क्षणो वने ।
सोऽपि स्मरणमात्रेण मुच्यते किं श्रवात् पुनः ॥१८३॥
इत्येवं द्वापरसन्तानस्य माहात्म्यमुत्तमम् ।
कथितं ते मया लक्ष्मि सर्वाभ्यश्चापि सर्वथा ॥१८४॥
अथाऽऽययौ श्वेतपुमान् चतुर्मुखश्चतुर्भुजः ।
चतुष्पादो ननामाऽसौ प्रसन्नः पुरुषोत्तमम् ॥१८५॥
उवाचाऽहं सत्ययुगो मोक्षाऽर्होऽहं भवत्कृतः ।
कृतसन्तानयोगेन यास्यन्ति मोक्षणं जनाः ॥१८६॥
अथाऽऽययौ पीतपुमान् त्रिकन्धरस्त्रिबाहुमान् ।
त्रिचरणो ननामाऽसौ हसन् श्रीपुरुषोत्तमम् ॥१८७॥
जगादाऽहं युगस्त्रेता मोक्षाऽर्होऽहं भवत्कृतः ।
त्रेतासन्तानयोगेन मुक्तिं यास्यन्ति देहिनः ॥१८८॥
अथाऽऽययौ द्विचरणो द्विभुजो द्विमुखः पुमान् ।
रक्तवर्णः प्रमोदाढ्यो नेमे श्रीपुरुषोत्तमम् ॥१८९॥
अट्टहास्येन सहितो जगाद द्वापरोऽस्म्यहम् ।
भवता द्वापरसन्तानकेन मोक्षदः कृतः ॥१९०॥
यास्यन्ति देहिनो मुक्तिं मम सन्तानकेन वै ।
अथाऽऽययौ ततो लक्ष्मि विमना इव दुर्बलः ॥१९१॥
अफुल्लहृदयश्चापि सुखानन्दविवर्जितः ।
कृष्णवर्णः सशोकश्च दीन इव पुमान् परः ॥१९२॥
अश्रूणि सहसा मुञ्चन् चकार दण्डवन्मुहुः ।
अशुद्ध इव पापात्मा विवासितो यथा जनैः ॥१९३॥
ज्ञापयन् स्वं निजगाद कल्मषोऽहं कलिर्युगः ।
न मे स्थानं हि देवेषु महर्षिषु न वै तथा ॥१९४॥
सिद्धेषु सत्सु साध्वीषु न मे स्थानं कदाचन ।
दुःख्यहं चात्र सृष्टौ ते भगवन् मां समुद्धर ॥१९५॥
यथा त्रयाणां भ्रातॄणां योगेन यान्ति मोक्षणम् ।
तथा ममापि योगेन देहिनो यान्तु मोक्षणम् ॥१९६॥
स्वागतं मे च देवादौ कृपया तेऽस्तु माधव ।
येनाऽहं पापवान्नत्र भवद्योगेन पुण्यवान् ॥१९७॥
भवामीति नमाम्यत्र स्वामिने श्रीदयालवे ।
इत्युक्तोऽहं कृष्णनारायणः कृपावशोऽवदम् ॥१९८॥
तिष्यसन्तानकं खण्डं रचयित्वा तवापि च ।
भ्रातृत्रयसमानं त्वां करिष्ये मुदितो भव ॥१९९॥
श्रुत्वा नत्वा ययुर्लक्ष्मि चत्वारो भ्रातरो युगाः ।
अतश्चेतः परस्तिष्यसन्तानको भविष्यति ॥२००॥
यः श्रीपरब्रह्म बृहत्परः पुमान्,
सर्वावतारैश्च वृहत्प्रमुक्तकैः ।
ईशैश्च जीवैरभिवन्दितो हृदि,
बहिश्चसोऽव्यात्पुरुषोत्तमोऽत्र वः ॥२०१॥
यो बालकृष्णो भुवि कम्भरासुतो,
गोपालकृष्णात्मजसर्ववल्लभः ।
सर्वात्मसृष्ट्यादिधृतावतारकः,
सर्वावतारी सततं प्ररक्षतात् ॥२०२॥
पञ्चविंशतिसहस्राणि शतं षष्टिर्द्वयं तथा ।
श्लोका द्वापरसन्ताने भवन्ति श्वेतनिर्मिताः ॥२०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने द्वापरसन्तानस्य विषयकथोद्देशो द्वापरसन्तानविशेषमाहात्म्यं चतुर्युगसन्तानानां प्रत्यक्षागमः कलेर्मोक्षार्हत्वप्रार्थना
तिष्यसन्तानप्रस्ताव आशीर्वादश्चेतिनिरूपणनामा सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥२३७॥
॥ इति श्रीलक्ष्मीनारायणसंहितायां तृतीयो द्वापरसन्तानखण्डः समाप्तः ॥
॥ ॐ श्रीपरपुरुषोत्तमभगवदर्पणमस्तु ॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP