संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २४

द्वापरयुगसन्तानः - अध्यायः २४

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच -
शृणु त्वं शिवराज्ञीश्रि! ब्रह्मणः पितृवत्सरे ।
नवविंशे नवत्यात्मकल्पे च सप्तमे मनौ ॥१॥
आसीद्वै मम लोकेऽत्र प्राकट्यं शृणु पद्मजे! ।
ब्रह्मणो गुप्तरोमभ्यश्चाऽसुरश्चित्ररूपवान् ॥२॥
मयूरनामको जज्ञे सपक्षपिच्छचञ्चुकः ।
पादयुक्तः कामरूपधरः पर्वतसन्निभः ॥३॥
डयमानोऽम्बरे त्वाकर्षयति ग्रहमण्डलम् ।
पृथ्व्यां गच्छन् ग्रामकूटान् पर्वतान् समकर्षति ॥४॥
जलेऽन्तः सम्प्रविष्टः सन् संक्षोभयति वारिधीन् ।
कम्पयत्येव पृथिवीं देवाँस्त्रस्तान् करोति च ॥५॥
मानुषान्नागसर्पांश्च सहस्रशो हरत्यपि ।
क्वचिद् भवति देवः स महेन्द्राभः स्वरूपवान् ॥६॥
क्वचिच्च मानवं रूपं सम्राण्णिभं बिभर्त्ति च ।
क्वचिन्महर्षितुल्यश्च तेजःपरिधिशोभनः ॥७॥
जायते कामरूपो वै मोहको बलवानपि ।
तपश्चचार राजस्य लोभाद् वर्षसहस्रकम् ॥८॥
ब्रह्मा तुष्टो वरं प्रादान्मृत्युर्हरिं विना न ते ।
स त्वेवं प्राप्य वचनं तुष्टो निःशंक एव ह ॥०५॥
सत्ये लोके जने स्वर्गे मानवे चातलादिषु ।
तत्तद्रूपधरो भूत्वा याति भुंक्ते प्रहृष्यति ॥१०॥
क्वचिद् देवगृहान् गत्वाऽमृतं भुक्त्वा प्रयाति च ।
देवीं वा मानवीं नारीं हृत्वा याति स्थलान्तरम् ॥११॥
यक्षिणीं राक्षसीं नीत्वा स्मृद्धिं नीत्वा प्रयाति वा ।
दानवीं वा सतीं नागीं नीत्वा याति वनान्तरम् ॥१२॥
गा वत्सतरीरश्वान् गजान्नीत्वा प्रयाति च ।
मेरोर्द्रोण्यां वनाढ्यायां शतयोजनविस्तरे ॥१३॥
अरण्ये स्वालयं चक्रे स्मृद्धं सुभोगशोभनम् ।
हृत्वा हृत्वा नरान्नारीर्देवीर्वा राक्षसीश्च वा ॥१४॥
सर्वं नैजं स कृत्वैव भुंक्ते भोगमयं च तत् ।
युद्धे न मरणं याति ब्रह्मणो वरदानतः ॥१५॥
सर्वत्र गतिमत्वाच्च विजयं लभते सदा ।
एवं सम्राट्समो जातः पृथिव्यां स्वबलाद्धि सः ॥१६॥
नृपानन्यान् शनैर्जित्वा नृपेश्वरोऽभवत्ततः ।
साम्राज्यं मम सर्वत्र पार्थिवं चेति वक्ति च ॥१७॥
उद्धोषणां कृतवाँश्च चक्रवर्त्यहमेव यत् ।
बली सर्वत्र गत्वैव जयत्याक्षितिमण्डलम् ॥१८॥
नृपान् राज्येऽसुरान् प्रतिष्ठाप्य राज्यं करोति च ।
एवं शनैः समभवच्चक्रवर्ती मयूरकः ॥१९॥
प्रधर्षितुमथेन्द्राणीं स्वर्गलोकं जगाम सः ।
उद्धृत्य तां चाम्बरेणोड्डीय यावद् भुवं प्रति ॥२०॥
प्रयाति तावदेवेन्द्रो वज्रेणैनं जघान ह ।
वज्रं चाऽनलप्रख्यं तज्जग्रास चञ्चुसंधृतम् ॥२१॥
अथ त्रासं जगामेन्द्रः वीक्ष्य मायूरकं बलम् ।
निववृते निजं स्थानं दिक्पालेभ्यो न्यवेदयत् ॥२२॥
सज्जाः सर्वेऽपि दिक्पाला युद्धार्थं समुपाययुः ।
यमः कुबेरश्चेशानो वरुणो निर्ऋतोऽनिलः ॥२३॥
अनलोऽर्कश्च रुद्रश्च पृथ्व्यां सर्वे समाययुः ।
सबलाः सज्जशस्त्राश्च विनेदुश्चाम्बरे च ते ॥२४॥
भुत्वा नादान् समरार्थान् गर्जना द्युसदां तथा ।
मयूरो निर्ययौ शीघ्रं युद्धार्थं बलसंयुतः ॥२५॥
दशसाहस्रसेनानीसहितोऽब्जभटान्वितः ।
युयुधे घोरसंग्रामं सम्वत्सरं हि मानवम् ॥२६॥
हतं सैन्यं हि बहुधा स्वस्य तदप्यजीवयत् ।
आसुर्या विद्यया मिथो युयुधे द्युसदीश्वरैः ॥२७॥
मायूरका महाक्रूरा आसुरा वै समन्ततः ।
साकं देवगणैः सर्वे युयुधिरेऽतिनिर्भयाः ॥२८॥
नान्तो युद्धस्य भवति मायूरो नापि नश्यति ।
विरामो न सुराणां च मनुष्या दुःखिनोऽभवन् ॥२९॥
मानव्यश्च सुराण्यश्च सत्यो नागिन्य इत्यपि ।
दैत्यान्यश्चापि वै त्रस्ता निर्यान्ति स्म न वै बहिः ॥३०॥
त्रैलोक्यां सर्वलोकेषु प्रजासु चापि राजसु ।
उद्वेजनं च दुःखं च वर्ततेऽस्य सदा तदा ॥३१॥
निर्विण्णाश्चाऽथ वै देवाः परिश्रमं गता बहुम् ।
निस्तेजस्को रविर्जातो महेन्द्रो भग्नमानसः ॥३२॥
वरुणः क्षीणशक्तिश्च यमो विभ्रमतां गतः ।
निर्ऋतोऽपि क्षीणसैन्योऽभवत्तत्र रणे तथा ॥३३॥
ईशानोऽपि हतोत्साहः कुबेरः क्षीणसत्त्वकः ।
अग्निस्तैक्ष्ण्यविहीनश्च मरुद्रोदनमाचरम् ॥३४॥
अन्ये देवा गताशाश्चाऽभवन्नृपास्तु तद्वशाः ।
एवं काले समापन्ने दुःखे च सर्वतोऽधिके ॥३५॥
देवा रणं विहायैव ययुस्ते ब्रह्मणो गृहम् ।
प्रार्थयामासुरत्यर्थं जगदुः स्वापकृष्टताम् ॥३६॥
आसुरस्य बलं चापि रक्षार्थं चान्वरोधयन् ।
ब्रह्मा श्रुत्वा तु तानाह यतिष्ये भवतां कृते ॥३७॥
सर्वे चैवाऽत्र तिष्ठन्त्वाराधयन्तु हरिं परम् ।
हरिं विना न वै तस्य नाशकोऽन्योऽस्ति मद्वरात् ॥३८॥
इत्युक्ता देवताद्याश्चाराधयामासुरुत्सुकाः ।
मामनादिश्रीशनारायणं श्रीपुरुषोत्तमम् ॥३९॥
अहं साकं त्वया लक्ष्मि! गजाऽऽरूढोऽक्षराद् द्रुतम् ।
उपाययौ सत्यलोकं तदा ब्रह्मसभास्थलम् ॥४०॥
ब्रह्माद्याः स्वागतं पूजां मम चक्रुस्ततः परम् ।
जगदुर्निजदुःखं चाऽसुरनाशं प्रवव्रिरे ॥४१॥
तदाऽहं चाऽसुरनाशं पद्मजे! समचिन्तयम् ।
यान्तु नैजान् प्रदेशानित्यवदं च सुरानहम् ॥४२॥
शीघ्रं सुरा ययुर्नैजान् देशानहं च मानवम् ।
रूपं धृत्वाऽऽजगाम क्ष्मां यत्राऽऽलयोऽसुरस्य वै ॥४३॥
क्षात्रं रूपमहं धृत्वा सशरं धनुषा युतम् ।
गत्वा च गोपुरे तस्य भिक्षायात्रां व्यधापयम् ॥४४॥
मयूरश्च तदा दूतैर्विज्ञप्तः स्वयमेव तु ।
आतिथ्यार्थं गोपुरं स्वं चाऽऽजगाम समुत्सुकः ॥४५॥
नत्वा मां किन्नु भिक्षायां याचसे त्विति चाऽऽह सः ।
युद्धभिक्षां देहि मेऽत्र याचेऽहं नाऽपरामिति ॥४६॥
याचितः स ददौ भिक्षां जलं धृत्वा करे तदा ।
शस्त्रेण शस्त्रं संयुज्य धनुषाऽऽप्ता मयाऽपि सा ॥४७॥
तत्रैव युद्धं ह्यभवद् गोपुराऽग्रे वनोत्तमे ।
घोरं तेनैव साकं वै मासान्तं सुभयंकरम् ॥४८॥
सुराणां मानवानां च पितॄणां शीलसञ्जुषाम् ।
राज्ञां चापि प्रवीराणां रोमहर्षणकारकम् ॥४९॥
देवा आकाशमार्गेण ज्ञात्वा युद्धप्रवर्तनम् ।
पश्यन्त्यागत्य तत्रैव जयं वदन्ति मे तदा ॥५०॥
एकोऽहं वै मयूरेण युद्धं करोमि नाऽपरः ।
मासान्ते मम बाणैश्च शस्त्रैरस्त्रैर्गदादिभिः ॥५१॥
भिन्नपिच्छोऽभवत्तूर्णं निराशोऽप्यभवत्तदा ।
मायूरकान्निजयोद्धृन् योजयामास संयुगे ॥५२॥
ते साहाय्यकरास्तस्य मामावृत्त्य समन्ततः ।
युयुधिरेऽतिवेगेन चाऽर्बुदास्ते मयूरकाः ॥५३॥
मायारूपधराश्चापि मायाशस्त्रधरास्तथा ।
मायावेषधराश्चापि मायायुद्धकरास्तथा ॥५४॥
मृषादेहधराश्चापि मृषासैन्यनिरूपिणः ।
सर्वे मया हतास्तत्र सुदर्शनेन वै क्रमात् ॥५५॥
दग्धा मृता मयूरास्ते सुदर्शनस्य तेजसा ।
मायूरकी पुरी दग्धा भक्ता मया सुरक्षिताः ॥५६॥
शच्यादिकाः प्रिया याश्च मानव्यश्चापि मानवाः ।
नरा नार्यो देवताश्च मया तत्रैव रक्षिताः ॥५७॥
आसुरास्ते हताः सर्वे मायूरवंशयोगिनः ।
सर्वे निरवशेषास्ते कृताः सुदर्शनेन वै ॥५८॥
मायूरकस्तथा दृष्ट्वा विनाशं स्वस्य सर्वथा ।
अन्धो भूत्वा महाखड्गं धृत्वा करे विहायसा ॥५९॥
अद्रिप्रायं वपुः कृत्वा पपात मम मस्तके ।
हन्तुं मां खड्गधारेण तावन्मया सुदर्शनम् ॥६०॥
अधस्तात्प्रेरितं तस्मै ददाह तं तदाऽम्बरे ।
भस्मीभूतः समस्तो वै व्योम्न्येव समपद्यत ॥६१॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्ममोपरि ।
चन्दनाऽक्षतवृष्टिश्च जयघोषास्तथाऽभवन् ॥६२॥
मायूरवंशजा नार्यो रुरुदुर्वै तदा मुधा ।
देवानाहूय च तदाऽवातरं तत्र पत्तने ॥६३॥
मायूरके महारण्ये सर्वस्मृद्धिसुशोभने ।
कारागारं विलोक्याऽपि तत्स्थानमोचयं जनान ॥६४॥
देवानमोचयं तूर्णं तथा देवीरमोचयम् ।
शचीमुख्यादेवताश्चाऽमोचयं मानवीस्तथा ॥६५॥
तद्राज्ये देवताः सर्वा देवाश्च मानवा अपि ।
मां क्षत्रं परमात्मानं श्रीहरिं पुरुषोत्तमम् ॥६६॥
तीर्थजलैरभिषिच्य पुपूजुर्हि विधानतः ।
प्रतिष्ठापयामासुश्च श्रिया साकं समुत्सुकाः ॥६७॥
अनेकाः कन्यका नार्यो मयूरवंशजास्तदा ।
अनाथा मां परं नाथं प्राप्य ता वव्रिरे मुदा ॥६८॥
मया यज्ञे पाविताश्च गृहीता विधिना करे ।
ब्रह्माद्यैरर्पिताः सर्वा मम पत्न्यस्तदाऽभवन् ॥६९॥
एवं मया मयूराख्यो महासुरो हतः पुरा ।
मां विना तस्य वै नाशो नान्येन निर्मितो यतः ॥७०॥
तस्य तेजो निर्गतं तु मय्येव शान्तिमाप ह ।
मुक्तिंगतोऽसुरः सोऽपि तथाऽन्येऽपि च ये हताः ॥७१॥
सर्वे मोक्षं गता मे यत् सुदर्शनेन वै हताः ।
मोचिताश्चापि राजानो मां प्रपूज्य परेश्वरम् ॥७२॥
ययुस्ते वै निजदेशान् सुराश्च त्रिदिवं गताः ।
नागपत्न्यश्च मानव्यस्तथा देव्योऽप्यनाथिकाः ॥७३॥
मां विवाह्य स्थिता सर्वा मम पत्न्यस्तदा प्रिये ।
त्वं सर्वासां राजराज्ञीनाम्नी श्रीरभवस्तदा ॥७४॥
अयोनिजा क्षात्ररूपधर्त्री मत्पार्श्वशालिनी ।
अथ पिच्छान्मयूरस्य संगृह्य मार्जनी त्वया ॥७५॥
कृता भूमार्जनार्थं वै तथा मत्पार्षदैरपि ।
मार्जनिकाः कृताः सर्वाः सुरूपाः शोभना अपि ॥७६॥
अथाऽहं स्वविमानेन भूतले सर्वतो दिशि ।
यत्र यत्राऽसुराश्चासन् मयूरेण नृपीकृताः ।
तत्र तत्रैव गत्वा च हत्वा तान् मूलतः प्रिये! ॥७७॥
ददौ राज्यानि सर्वाणि क्षत्रियेभ्यो यथायथम् ।
एवं मया मम सर्वं साम्राज्यं भूतलेऽभितः ॥७८॥
स्थापितं च तदा श्रेष्ठं वैष्णवं परमात्मना ।
अनादिश्रीकृष्णनारायणेन चक्रधारिणा ॥७९॥
अनादिश्रीक्षत्रनारायणरूपेण रक्षता ।
अनादिश्रीराजराज्ञीसहितेन स्मर प्रिये! ॥८०॥
मया क्षात्रवृषाः सर्वे पालिताः क्षितिमण्डले ।
सर्वे यज्ञाः कृताश्चापि रक्षिताश्च प्रजा अपि ॥८१॥
देवता रक्षिताश्चाऽपि धर्ममार्गाः प्रवर्तिताः ।
सत्रप्रथाः कृताश्चापि वेदमार्गाः प्रपोषिताः ॥८२॥
नीतयः स्थापिताश्चापि साधवो रक्षितास्तदा ।
सन्मठाः कारिताः श्रेष्ठा देवादयाश्च कारिताः ॥८३॥
तीर्थानि रक्षितान्येव भिक्षुकाश्चापि रक्षिताः ।
कथा नारायणस्याऽपि सर्वा नित्यं प्रवाचिताः ॥८४॥
सत्यः साध्व्यः पालिताश्च धर्मे सदा प्ररक्षिताः ।
भक्तिश्च मम ते चापि सर्वक्ष्मायां प्रवर्तिता ॥८५॥
वैदिकश्चाप्यात्मबोधः कल्पे तदा मयोदितः ।
सभायां मे तदा लक्ष्मि! दशसाहस्रसाधवः ॥८६॥
दशसाहस्रविप्राश्च दशसाहस्रसाध्विकाः ।
दशसाहस्रबटवो दशसाहस्रवैदिकाः ॥८७॥
दशसाहस्राऽतिथयो दशसाहस्रभिक्षुकाः ।
दशसाहस्राऽनाथाश्च दशसाहस्रजापकाः ॥८८॥
दशसाहस्रमखिनो दशसाहस्रसत्रिणः ।
दशसाहस्रयमिनो दशसाहस्रतापसाः ॥८९॥
व्रतिनो दशसाहस्रा दशसाहस्रपण्डिताः ।
दशसाहस्रदासाश्च दशसाहस्रदासिकाः ॥९०॥
दशसाहस्रयोगज्ञा दशसाहस्रचारणाः ।
नित्यं तिष्ठन्ति सत्त्वस्था ज्ञानयोगपरायणाः ॥९१॥
मम भक्तियुताः सर्वे मम सत्रे प्रभोजिनः ।
मम मूर्तेश्च धर्तारो ध्यानमार्गे कृतादराः ॥९२॥
बभूवुः कृतवासाश्च सदा स्वात्मनिवेदिनः ।
मया पृथ्व्याः कृतं राज्यं साप्तसामुद्रसंवृतम् ॥९३॥
मानवानां हि मोक्षार्थं देवानां सुखलब्धये ।
पातालादिनिवासाश्च स्वर्गादिकनिवासिनः ॥९४॥
अन्वसरँश्च मां सर्वे भेजुर्मां सकलेश्वरम् ।
आकल्पं तु तदा चाहं न्यवसं भूतलेऽनिशम् ॥९५॥
वैकुण्ठतुल्या पृथिवी निरातंका तदा ह्यभूत् ।
कल्पद्रुमास्तथा कामधेनवः कामवल्लिकाः ॥९६॥
चिन्तामणयः सर्वत्र तदाऽऽसन् मम योगतः ।
सदा कृतयुगश्चापि कालश्चैकविधोऽभवत् ॥९७॥
मानस्यश्चापि च स्पार्शन्यश्च दार्शनिकास्तथा ।
तथा च सहवासिन्यश्चासन् वै सृष्टयस्तदा ॥९८॥
स्मर सर्वं राजराज्ञीश्रि! त्वं राजाधिराजताम् ।
जानाम्यहं तु तत्सर्वं नान्ये जानन्त्यबुद्धयः ॥९९॥
अवताराः परे चापि तदाऽऽसन्मे यथोचिताः ।
देवमानवरूपाश्च तत्तत्कार्यनिवर्तकाः ॥१००॥
इत्येवं कथितं तेऽत्र प्राकट्यं मम पद्मजे ।
पठनाच्छ्रवणाद्वाऽपि भुक्तिमुक्तिफलप्रदम् ॥१०१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो नवविंशे वत्सरे मायूरकासुरनाशार्थम् अनादिश्रीराजनारायणस्य राजराज्ञीश्रीसहितस्य
प्राकट्यमित्यादिनिरूपणनामा चतुर्विंशतितमोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP