संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १३०

द्वापरयुगसन्तानः - अध्यायः १३०

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं महादानमतः परम् ।
विश्वसुदर्शनचक्रमहादानं महत्तमम् ॥१॥
श्रेष्ठं पलसहस्रेण तदर्धेन तु मध्यमम् ।
तदर्धेन कनिष्ठं वा कारयेच्चक्रमुज्ज्वलम् ॥२॥
षोडशारं चाऽष्टनेमिं रूप्यकपट्टराजितम् ।
विंशतिफलतश्चोर्ध्वं कारयेच्चक्रमुत्तमम् ॥३॥
तन्नाभौ श्रीकृष्णनारायणं मां रचयेच्छुभम् ।
चतुर्भुजं समुकुटं चतुरायुधशोभितम् ॥४॥
आद्यनेमौ ब्रह्मप्रियेश्वरीर्हि कानकीः शुभाः ।
विन्यस्येद् राधिकां लक्ष्मीं प्रज्ञां पद्मावतीं सतीम् ॥५॥
माणिक्यां ललितां हैमीं जयां चेति मम प्रियाः ।
द्वितीयनेमौ तद्वत्तु पूर्वतो जलशायिनम् ॥६॥
कम्भराश्रीयुतं श्रीमद्गोपालकृष्णकं प्रभुम् ।
पतिव्रतायुतं पत्नीव्रतं गुरुं नरायणम् ॥७॥
लोमशं कुंकुमवापीसहितं सद्गुरुं शुभम् ।
सावित्रीसहितं चाऽजं शिवायुक्तं शिवं तथा ॥८॥
मत्स्यं कूर्मं च वाराहं नरसिंहं च वामनम् ।
रामं पर्शुधरं रामं कृष्णं बुद्धं च कल्किनम् ॥९॥
तृतीयनेमौ मातृकाः सप्त वस्वष्टकं तथा ।
गणेशं सकुटुम्बं च कारयेद् वाहनान्वितम् ॥१०॥
चतुर्थे द्वादशादित्यान् वेदाँश्चतुर इत्यपि ।
पञ्चमे पञ्चभूतानि रुद्राश्चैकादशाऽपि च ॥११॥
लोकपालाष्टकं षष्ठे दिङ्मातङ्गाँश्च कारयेत् ।
सप्तमेऽस्त्राणि सर्वाणि स्वस्तिकादीनि चापि वै ॥१२॥
अष्टसिद्धीरष्टमे चाऽष्टैश्वर्याणि च विन्यसेत् ।
एवं सुदर्शनं चक्रं कारयित्वा तु मण्डपे ॥१३॥
कारिते कदलीस्तंभाद्यैश्च महति चानयेत् ।
वेदिकासन्निधौ चक्रं कृष्णाजिनतिलोपरि ॥१४॥
विन्यस्येत् सर्वसंभारभूषणाच्छादनानि च ।
तथाऽष्टादशधान्यानि रसाँश्च लवणादिकान् ॥१५॥
पूर्णकुंभाष्टकं चापि रत्नमण्यम्बराणि च ।
मालेक्षुफलपुष्पाणि दानवस्तूनि यानि च ॥१६॥
भोज्यपेयानि श्रेष्ठानि शर्कराश्च धनानि च ।
गां कन्यां तुलसीं चापि रक्षयेदनलं तथा ॥१७॥
ततो मंगलवाद्यानि वादयेत् स्नानशुद्धिमान् ।
शुक्लाम्बरधरो भूत्वा यजमानस्तु मण्डपे ॥१८॥
आसने चोपविष्टश्च ऋत्विग्भिः सह सादरम् ।
आचमनादिकं कृत्वा चाऽऽवाह्य देवतास्ततः ॥१९॥
विधिना पूजयित्वाऽथाऽष्टोत्तरं होमकाँश्चरेत् ।
कृत्वाऽधिवासनं चापि पुष्पाञ्जलिं समर्पयेत् ॥२०॥
प्रदक्षिणं होमचक्रं कृत्वा सम्प्रार्थयेदपि ।
नमः षटच्क्ररूपाय सर्वान्तर्यामिणे नमः ॥२१॥
विश्वचक्रस्वरूपाय सुदर्शनाय ते नमः ।
नमोऽनादिकृष्णनारायणहस्ताऽङ्गुलिस्थित ॥२२॥
नमस्ते पापपुञ्जानां ज्वालकाय दयाजुषे ।
हेमचक्रप्रदानेन भुक्तिं मुक्तिं प्रदेहि मे ॥२३॥
परमानन्दमूर्ते ते नमो नारायणात्मने ।
तेजोमयाय दिव्यायाऽसुरपाटनशक्तये ॥२४॥
हृदयस्थाय च गुणातीताय ते नमो नमः ।
नारायणे स्थितं चक्रं चक्रमध्ये हरिः स्थितः ॥२५॥
द्वयोर्मध्ये महालक्ष्मीस्तस्यै देव्यै नमो नमः ।
आयुधं भक्तरक्षार्थं वर्तसे मां प्रपाहि च ॥२६॥
एवमुच्चार्य गुरवे दद्याच्चक्रं सुदर्शनम् ।
अन्यानि दानयोग्यानि द्विजातिभ्योऽर्पयेत्तथा ॥२७॥
दीनाऽन्धकृपणेभ्यश्च योषिद्भ्योऽप्यर्पयेत्तथा ।
बालेभ्यो बालिकाभ्यश्च दद्याद् दानानि वै तदा ॥२८॥
भोजयेत् सर्वभोज्यानि आरार्त्रिकं तथाऽऽचरेत् ।
परिहारं प्रकुर्याच्च विसृजेद् भूसुरादिकान् ॥२९॥
एवं प्रदाता चक्रस्य मुच्यते भवबन्धनात् ।
विष्णुलोके परे स्वर्गे सत्ये वैराजभूस्तरे ॥३०॥
भुक्त्वा भोगाननन्ताँश्च भूत्वा नारायणात्मकः ।
वैकुण्ठलोकमासाद्य चतुर्बाहुः सनातनः ॥३१॥
चिरं वसेत्ततो याति गोलोकं धाम चोत्तमम् ।
ततो ब्रह्मपुरं याति चाक्षरं धाम मे परम् ॥३२॥
नित्यं वै कानकं चक्रं सुदर्शनं हरिश्रितम् ।
कारयित्वा गृहे भक्तः पूजयेत् कुसुमाऽक्षतैः ॥३३॥
विश्वचक्रं तरेत् सोऽपि हरेश्चक्रस्य पूजनात् ।
सुदर्शनं गृहे यस्य तस्याऽघचक्रकाणि तु ॥३४॥
नश्यन्त्येव न जायन्ते जायन्ते पुण्यपर्वताः ।
रक्षां करोति सततं गृहस्थं वै सुदर्शनम् ॥३५॥
वर्धयत्येव चाऽऽयुष्यं ददाति विपुलां श्रियम् ।
साम्राज्यचक्रं यद्वापि चक्रवर्तित्वमित्यपि ॥३६॥
अथ ते शिवराज्ञीश्रि! कथयामि तथोत्तमम् ।
माहात्म्यं मम चक्रस्य रहस्यं सर्वतोऽधिकम् ॥३७॥
यस्य देहे गृहे हस्ते वस्त्रे वाट्यां च वस्तुषु ।
सुदर्शनं भवेच्चक्रं तत्र पापं न तिष्ठति ॥३८॥
याम्यदूता न चायान्ति राक्षसा विद्रवन्ति च ।
भूतप्रेतपिशाचाद्याः पलायन्तेऽपि दूरतः ॥३९॥
रोगा ज्वरादिकाः सर्वे न तिष्ठन्ति कदाचन ।
वासना निर्मूलतां च गच्छत्येव सुदर्शनात् ॥४०॥
राजदेवादिबाधाश्च नश्यन्त्येव सुदर्शनात् ।
सर्पवृश्चिकबाधाश्च विषाण्यन्यानि यानि च ॥४१॥
नश्यन्ति तेजसा तूर्णं सुदर्शनस्य शार्ङ्गिणः ।
ऋद्धयः सर्वथा तत्र निवसन्ति सुरक्षिताः ॥४२॥
बालग्रहादयश्चापि पीडयन्ति न तद्गृहे ।
अकालमरणं तत्र जायते न सुदर्शनात् ॥४३॥
अनपत्यगृहं नैव भवेद् यत्र सुदर्शनम् ।
उत्पाता न भवन्त्येव यत्र सुदर्शनं मम ॥४४॥
अकस्माता न च स्युश्च यत्र मे वै सुदर्शनम् ।
विजयः सर्वदा स्याच्च सर्वथा मे सुदर्शनात् ॥४५॥
चौरव्याघ्रभयाद्याश्च नैव जायन्त एव तु ।
जलवह्निभयाश्चापि भूकम्पभयमित्यपि ॥४६॥
नैव तत्र प्रजायन्ते यत्र मेऽस्ति सुदर्शनम् ।
गर्भस्रावभयं चापि स्त्रौवैधव्यभयादिकम् ॥४७॥
सम्पन्नाशभयं नैव प्रजायन्ते सुदर्शनात् ।
क्लेशा नैव प्रजायन्ते जन्तुभयं न जायते ॥४८॥
शस्त्रभयं भवेन्नैव घातभयं न जायते ।
ग्रहपीडा भवेन्नैव यत्र मेऽस्ति सुदर्शनम् ॥४९॥
रूपसौन्दर्यसौभाग्यसमृद्धिसद्रसादिकम् ।
सुदर्शनप्रतापेन जायतेऽचिन्तितं बहु ॥५०॥
शृणु लक्ष्मि तथा चक्रं मालाचक्रं महत्तमम् ।
स्वर्णमाला तुलस्या वा मालिका चक्रमुत्तमम् ॥५१॥
ब्रह्मचक्रमिदं प्रोक्तं सुदर्शनं हि तत्परम् ।
अष्टोत्तरशतारं तत् साधुचक्रं महत्तमम् ॥५२॥
साधुहस्तगता माला निकृन्तति ह्यघानि वै ।
मायादुर्गाणि सर्वाणि निकृन्तति समूलतः ॥५३॥
जन्ममरणभाराणि चोत्तारयति मस्तकात् ।
गले माला धृता येन मस्तकं तस्य पूज्यते ॥५४॥
हस्ते माला धृता हस्ते पद्माऽस्य संवसेत् सदा ।
भुजे माला प्रकोष्ठे वा धृता प्रजायते रमा ॥५५॥
लक्ष्मीवासो भवेत्तस्य प्रकोष्ठः सर्वदा प्रियः ।
मालाचक्रं गृहे यत्र तद्गृहं रक्षितं भवेत् ॥५६॥
नारायणेन सहसा मया सर्वात्मना रमे ॥
मालाजापेन दैत्यानां दुष्टेन्द्रियनिवासिनाम् ॥५७॥
कल्मषाणां समस्तानां विलयो जायते ध्रुवम् ।
एवं ब्रह्ममहाचक्रं परं मालासुदर्शनम् ॥५८॥
सर्वदा रक्षकं लक्ष्मि दाने देयं विशेषतः ।
स्वर्णां मालां राजतीं वा स्फाटिकीं मौक्तिकीं च वा ॥५९॥
तौलसीं वाऽर्पयेद् दाने स्वर्गदा मोक्षदा हि सा ।
सते सद्गुरवे दद्याज्जापकाय महात्मने ॥६०॥
पूजयित्वा चन्दनाद्यैर्मालिकां हृदयंगमाम् ।
श्रीहरेर्हृदये चास्ते माला स्फाटिकसंभवा ॥६१॥
तौलसीमालिका हस्ते लक्ष्मीतो मानतां गता ।
सेयं लक्ष्मीर्महालक्ष्मीर्मालिका मलनाशिनी ॥२॥
स्वर्गमालाप्रदा भुक्तिमुक्तिप्रदा समुज्ज्वला ।
अष्टोत्तरशतमणिशोभिता स्वर्गतन्तुना ॥६३॥
स्फाटिकेन सुरम्येण मेरुणा राजतेन वा ।
शोभिता ब्रह्मग्रन्थ्यादिनद्धा श्रीवासिनी सती ॥६४॥
सच्चिदानन्दरूपा सा माला देया विधानतः ।
संस्थाप्य सर्वतोभद्रमण्डले कलशोपरि ॥६५॥
शर्करादियुता देया गोमुखी वस्त्रशोभिता ।
आसनेन युता देया प्रच्छादनपटान्विता ॥६६॥
फलसुगन्धयुक्ता च प्रदेया दिव्यपारिका ।
दिव्यमणिसुसम्पन्ना हीरतन्तुविराजिता ॥६७॥
सदक्षिणा प्रदेया वै धनधान्यसमन्विता ।
मृगाजिने घटे स्थाल्यां विन्यस्य मालिकां च ताम् ॥६८॥
श्रीहरेर्मे प्रतिमायाः करे दत्वा प्रपूजयेत् ।
चन्दनाक्षतपुष्पाद्यैः स्नापयेन्मालिकां मम ॥६१९॥
चन्दनाद्यैः पूजयित्वा पुनर्हस्ते तु मेऽर्पयेत् ।
आरार्त्रिकं धूपदीपौ कृत्वा नत्वा च मां ततः ॥७०॥
नैवेद्यं मे समप्याऽपि मालायै भोजयेत्ततः ।
चिद् देवी मालिका मेऽस्ति ललिता ललना मम ॥७१॥
सदाशक्तिर्महादिव्या सर्वपुण्यप्रदायिनी ।
स्वस्तिकेन सह दद्याद् धनधान्यादिभिः सह ॥७२॥
गुरवे वै नमस्कृत्य दद्यान्नत्वा पुनः पुनः ।
प्रार्थयेद् गुरवे तत्र मालादानं करोमि यत् ॥७३॥
तेन पुण्येन मे कृष्णपरमात्मा प्रसीदताम् ।
मालया राधया लक्ष्म्या रक्ष्योऽहं सर्वदा तथा ॥७४॥
मम पापानि नश्यन्तु मालादानेन सद्गुरो ।
माधवो मालया नित्यं प्रसन्नो मेऽस्तु सौख्यदः ॥७५॥
इत्येवं मालिकाचक्रं दद्याद् दाने भयापहम् ।
मालाचतुर्थभागं च यत्र वै सप्तविंशतिः ॥७६॥
मणयः स्युः शुभं वा रक्षकं दद्यातु राजतम् ।
वा विकल्पश्च सन्देहस्तस्माद् रक्षति संख्यया ॥७७॥
सोऽयं वारक्षकस्तस्याः सुतस्तमपि चार्पयेत् ।
मालादानं महादानं सर्वपापविनाशकम् ॥७८॥
मालया नित्यजापः स्यान्नारायणस्य मे प्रिये ।
तेन दुष्टानि पापानि नश्यन्त्येव क्षणे क्षणे ॥७९॥
मयि न्यस्तसमग्रस्य जपतो नास्ति पातकम् ।
चक्रद्वयमिदं प्रोक्तं ददतो नास्ति पातकम् ॥८०॥
महाचक्रद्वयं प्रोक्तं सुदर्शनं च मालिका ।
मालिका भवहन्त्री च दैत्यघ्नं तु सुदर्शनम् ॥८१॥
अथापि च तृतीयं वै चक्रं चांगुलिभूषणम् ।
स्वर्णभूषोर्मिकाचक्रं दाने देयं विशेषतः ॥२॥
ऊर्मिकासम्प्रदाता वै सम्राड् भवति भूतले ।
सर्वाँगुलीयकदाता स्वर्गे राजा भवत्यपि ॥८३॥
ऊर्मिकांऽगुलीयकादिप्रदाता विश्वसृट् भवेत् ।
स्वर्णरूप्यादिभिः कृत्वा पूजयित्वा गुरुं द्विजम् ॥८॥
साधुं सतीं महासाध्वीं पतिव्रतां च सद्गुरुम् ।
आचार्यं वेदविद्वांसं साधुं नारायणात्मजम् ।८५॥
अच्युतगोत्रकं वापि नमस्कृत्याऽर्पयेत्ततः ।
ऊर्मिकांऽङ्गुलीयकानि पूजयित्वा सुकुंकुमैः ॥८६॥
अर्पयेद्दक्षहस्तेन चांगुष्ठेयं च भूषणम् ।
तत्राऽऽस्ते सर्वदा स्वर्णहारिणी कमला रमा ॥८७॥
पूजयित्वा प्रार्थयेत्तामूर्मिकांऽगुलिभूषणम् ।
संसारसागरजन्योर्मिभ्यो रक्ष सदा हि माम् ॥८८॥
मम हस्ते सदा स्वर्णे भवत्येव च मोक्षणम् ।
देहि मे भगवन्नामयुते भगवति प्रिये ॥८९॥
पापपुञ्जानि सर्वाणि मम विनाश्य चोर्मिके ।
ब्रह्मानन्दोर्मिसंमग्नं कुरु मां कृष्णवल्लभे ॥९०॥
इत्यभ्यर्च्य च सम्प्रार्थ्य दद्याद् दाने शुभोर्मिकाम् ।
त्रिवलीं पञ्चवलिकां सप्तवलीं सुशोभनाम् ॥९१॥
स्वर्णमात्रकृतां रम्यामेकां वा दश वा तथा ।
विंशतिं वा समर्थश्चेद् दद्याद् दाने द्विजातये ॥९२॥
साधवे विष्णुभक्ताय प्रदद्याच्च सुभक्तितः ।
चतुर्थं वलयं हस्ते कटकं वा सुवर्णजम् ॥९३॥
चक्रतुल्यं रत्ननद्धं मणिहीरकशोभितम् ।
मौक्तिकमाणिक्यनद्धं खचितं कौस्तुभेन च ॥९४॥
सिंहासनं प्रदद्याच्च सर्वदारिद्र्यनाशकम् ।
सर्वसम्पत्प्रदं लक्ष्मीप्रदं पत्नीप्रदं तथा ॥९५॥
स्वर्गराज्यप्रदं चापि सत्यलोकप्रदं तथा ।
ब्रह्मलोकप्रदं चापि भुक्तिमुक्तिप्रदं तथा ॥९६॥
एवं लक्ष्मि प्रदद्यात्तु पादप्रकोष्ठभूषणम् ।
काम्बिकां कदलीं चापि शृंखला बंगडीं तथा ॥९७॥
स्वर्णरजतनिर्माणं समणियोक्तिकान्विताम् ।
सर्वशोभास्यदां चापि किंकिणीजालनिःस्वनाम् ॥९८॥
एवं लक्ष्मि तथा दद्यान् नत्थिकां स्वर्णवालिकाम् ।
सुवर्णवर्तुलवालीं सरत्नां शोभनां दिशेत् ॥९९॥
एतानि सर्वचक्राणि प्रोक्तानि ते मया प्रिये ।
दातव्यानि यथाशक्ति दाने पुण्यकराणि वै ॥१००॥
स्वर्गदानि महास्मृद्धिप्रदानि मोक्षदान्यपि ।
दारिद्र्यरोगवैमत्यनाशकानि सुखानि च ॥१०१॥
दिव्यवंशप्रवंशादिविस्तारकारकाणि च ।
दिव्यनारीपतिपुत्रसौभाग्यवर्धकानि च ॥१०२॥
पठनाच्छ्रवणाच्चापि स्मरणाच्चानुमोदनात् ।
दानान्येतानि सर्वाणि भुक्तिमुक्तिप्रदानि वै ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विश्वसुदर्शनमहाचक्रदानस्य मालिकामहाचक्रदानस्य वारक्षकदानस्य ऊर्मिकांऽगुलीयकांऽगदकटकशृंखलाबिंगि-
डीकंकणनत्थिकादिमहाचक्रदानानां च निरूपणनाम त्रिंशदधिकशततमोऽध्यायः ॥१३०॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP