द्वापरयुगसन्तानः - अध्यायः ८५
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं साधुधर्मं सनातनम् ।
धार्यन्ते येन लोकाः सः सतां धर्मो हरिः स्वयम् ॥१॥
हरेर्लीलाचरित्राणि स्मर्तव्यानि सदा मम ।
साधुधर्मः सदा कृष्णो रक्षणीयो निजे हृदि ॥२॥
महायशफलं चापि सर्वदानफलं तथा ।
गवां फलं तीर्थफलं व्रतानां फलमित्यपि ॥३॥
एतत्फलमवाप्नोति यो जनः साधुधर्मवान् ।
मोक्षकार्यं सदा साधोर्नारायणसमाश्रयात् ॥४॥
बन्धहानिस्तथा कार्यं साधोरेव प्रकीर्तितम् ।
वक्तारो भक्तिकर्तारो येषां शुद्धं च मानसम् ॥५॥
तेषां व्यक्तं जिता लोकाः साधूना साधुसंगिना ।
मुच्यते किल्बिषाच्चापि न स पापेन लिप्यते ॥६॥
धर्मं च लभते नित्यं साधुसंगी शरीरवान् ।
मोक्षं ततश्च लभते साधोर्हरेः कृपाकणात् ॥७॥
मानवास्तु सदा लक्ष्मि बालिशा इव मोहनः ।
साधून्निन्दन्ति मद्रूपान् यान्ति ते नरकान् बहून् ॥८॥
क्रूराश्च मानवा लोके दयाहीनाश्च घातकाः ।
साधून्निरर्थकान्मत्वा त्यजन्ति भाररूपिणः ॥९॥
तेषां गतिर्न वै स्याद्धि सती क्वाऽप्यथसञ्चयात् ।
असाधुनिन्दकाः क्रूरास्तामसादिस्ववर्तनैः ॥१०॥
तिर्यग्योनिगतान् सत्वान् जीवान् हिंसन्ति मोहिताः ।
कीटान् पिपीलिकान् सर्पान् वृश्चिकान् पशुपक्षिणः ॥११॥
अपि चेत् ते शरणं वै सतां यान्त्यघनुत्तये ।
प्रसेवेयुः सतश्चेद्वै देहेन मनसा यदि ॥१२॥
तदा पापैः प्रमुच्यन्ते न चेद्धिंसन्ति वै पुनः ।
सतां प्रसेवया पुण्यं जायते बलवत्तरम् ॥१३॥
पुण्येन शुभसंकल्पाः शनैश्चापि शुभक्रियाः ।
असत्क्रियाणां सन्त्यागः सत्संगातिप्रवीणता ॥१४॥
पश्चात्तापः स्वकृत्यानां प्रायश्चित्तं तपः परम् ।
उपवासादिकं भक्तिर्यजनं दानमर्पणम् ॥१५॥
पूजनं देवतादीनां - जपध्यानसुकीर्तनम् ।
तीर्थयात्रा ज्ञानलाभस्त्वेवं भवन्ति धर्मिणः ॥१६॥
ततः स्वर्गगतिः पश्चान्मोक्षगतिः प्रसंभवेत् ।
एतत् सर्वं सतां योगे तूर्णं श्रेष्ठं प्रजायते ॥१७॥
सन्तो नारायणाः सर्वे पापघ्ना मोक्षदायिनः ।
तेषु सदा विराजेऽहं शाश्वतः पुरुषो हरिः ॥१८॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
श्रीवत्सांको हृषीकेशः सर्वेश्वरादिपूजितः ॥१९॥
सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः ।
परमात्मा हृदयस्थः सर्वव्यापी सनातनः ॥२०॥
नायकः सर्वसृष्टीनां धाम्नां धामजुषामपि ।
श्रीकृष्णः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥२१॥
शार्ङ्गचक्रादिचिह्नश्च दमशीलशमान्वितः ।
परक्रमेण वीर्येणोत्तमेन दर्शनेन च ॥२२॥
उत्साहेन प्रमाणेन धैर्येणार्जवसम्पदा ।
कृपया स्नेहभक्त्या च निजान् प्रति समन्वितः ॥२३॥
योगमायः समस्ताक्षो ब्रह्मण्यश्च शरण्यकः ।
भयहर्ता भयार्तानां दीनानां पालने रतः ॥२४॥
श्रुतवानर्थसम्पूर्णो वरदश्च वरार्थिनाम् ।
परमेशो रमेशश्च मेशो ब्रह्मप्रियापतिः ॥२५॥
सर्वाः सुखं संश्रिताश्च शरीरे मम देवताः ।
सोऽहं परेश्वरः साक्षाच्छ्रीभूलीलारमापतिः ॥२६॥
यो हि मां द्रष्टुमिच्छेद्वै चावतारावतारिणम् ।
द्रष्टव्यास्तेन मे सन्तः साध्वर्थाः साधुभूषणाः ॥२७॥
दृष्टेष्वेतेष्वहं दृष्टो न मे भेदोऽत्र विद्यते ।
सन्तो नारायणाः सर्वे इति विद्धि मम प्रिये ॥२८॥
सोऽहं श्रीपुण्डरीकाक्षो यस्य प्रीतो भवामि च ।
तस्य देवगणः प्रीतः सर्वार्थास्तस्य हस्तगाः ॥२९॥
यश्च मां मानवे लोके संश्रयिष्यति मानवः ।
तस्य कीर्तिर्जयश्चैव स्वर्गश्चाऽत्र भविष्यति ॥३०॥
धर्माणां देशिकः पूज्यः स भविष्यति धर्मभाक् ।
साधुरेव स मन्तव्यो नमस्कार्यः सदा जनैः ॥३१॥
धर्म एव परः स स्याद् यस्मिन्नभ्यर्हितोऽस्म्यहम् ।
सोऽहं प्रजाहितार्थं वै साधुकोटीरसर्जयत् ॥३२॥
ब्रह्मायनादीन् सर्वांश्च सच्चिदानन्दप्रभृतान् ।
सनत्कुमारमध्याँश्च पूर्वान् पूर्वतरानपि ॥३३॥
सोऽहं साधुस्वरूपोऽस्मि हरिर्नारायणः प्रभुः ।
भगवान् सर्वरूपाणां धर्ता कर्त्ता विनाशिता ॥३४॥
वन्दितोऽहं च वन्दे तं मानितो मानयाम्यपि ।
अर्हितश्चाऽर्हयाम्येनं पूजितः पूजयामि तम् ॥३५॥
दृष्टः पश्याम्यजस्रं तं संश्रितः संश्रयामि तम् ।
एवं मे ध्यानकर्तुश्च ध्याताऽहं सततं प्रिये ॥३६॥
एवं मेऽस्ति व्रतं नित्यं तादृशाः साधवो मम ।
सज्जनाऽचरितं त्वेतद् व्रतं मे नाऽपरैरिह ॥३७॥
तस्मात् सन्तो मम रूपास्तारका देहिनामिह ।
कर्मणा मनसा वाचा सेवनीया हि साधवः ॥३८॥
साधून् दृष्ट्वा ममाऽप्येव दर्शनं जातमेव हि ।
समस्ताश्च सुरा नित्यं साधुदेहे वसन्ति वै ॥३९॥
सुरेश्वरस्तथा विष्णुश्चाऽहं साधौ वसामि च ।
सर्वाऽऽरामः सुरामोऽहं रमेशः परमेश्वरः ॥४०॥
कुंकुमवापिकाक्षेत्रे निवसामि त्वया सह ।
ब्रह्मप्रियाभिः सहितो हरिप्रियानुसेवितः ॥४१॥
कीर्तिर्लक्ष्मीर्धृतिः शान्तिः पुष्टिस्तुष्टिः रतिः रमा ।
भुक्तिर्मुक्तिः श्रीर्लीला च यत्र तत्राऽहमेव च ॥४२॥
मम साधुषु वर्तन्ते सदा कीर्त्यादयः प्रिये ।
निवसामि सदा तेषु मद्रूपाः साधवस्ततः ॥४३॥
प्रभावं साधुपूगस्य यश्च जानाति सर्वथा ।
स तु सार्धं समाश्रित्य प्राप्य मां याति मत्पदम् ॥४४॥
भवन्त्येव च तस्यैव सर्वे कामा यथेप्सिताः ।
ये वा नाम रटन्त्यत्र मम लक्ष्मि समाहिताः ॥४५॥
तेषां कीर्तनभक्तानां संसिद्ध्यन्ति मनोरथाः ।
पूज्याः कीर्तनभक्ता मे तान्नमस्यामि चाप्यहम् ॥४६॥
सार्धं मुक्तं सतीं साध्वीं ब्रह्मप्रियां हरिप्रियाम् ।
सन्तं चाश्वपट्टभूमिं ये नमन्ति नमामि तान् ॥४७॥
लक्ष्मीं राधां रमां श्रीं च माणिक्यां सुखदांश्रियम् ।
रमां पद्मावतीं कृष्णां ये नमन्ति नमामि तान् ॥४८॥
अवताराँश्च मे व्यूहान् भक्तांश्च पार्षदानपि ।
मूर्तीर्मे ये नमस्यन्ति तन्नमस्याम्यहं सदा ॥४९॥
वरुणं भास्करं वायुं वह्निं चन्द्रं बलाहकम् ।
शिवं विष्णुमजं देवान् ये नमस्यन्ति तान्नमे ॥५०॥
दुर्गां सरस्वतीं भूमिं शारदां विरजां तथा ।
मंगलाममृतां ये च नमस्यन्ति नमामि तान् ॥५१॥
बृहस्पतिं नारदं च सनत्कुमारमच्युतम् ।
नरं नारायणं ये च नमस्यन्ति नमामि तान् ॥५२॥
तपोधनान् महर्षींश्च भक्तिधनान् सतो जनान् ।
विद्याधनाँश्च विदुषो ये नमन्ति नमामि तान् ॥५३॥
अभुक्त्वा दैवकर्माणि कुर्वते ये प्रभुप्रियाः ।
सन्तुष्टाः क्षमिणः सन्तस्तान् नमामि पुनः पुनः ॥५४॥
यज्ञे यजन्ति ये चेष्टीर्जितेन्द्रियाः सुशान्तयः ।
प्रातर्भजन्ति सायं ये तान्नमामि सुहृत्प्रियान् ॥५५॥
धर्मं भक्तिं च पितरौ गाश्च गुरुं नमाम्यहम् ।
ये वै संयमिनः शान्ता वने मूलफलाशनाः ॥५६॥
असंचयाः साधवस्तान् नमामि सततं प्रिये ।
भृत्यपोषा अतिथीनामाश्रया विघसाशिनः ॥५७॥
सत्यवाचो ब्रह्मचारास्तान्नमामि सदा सतः ।
प्रसन्नहृदयाः सर्वसत्त्वेषु मद्विवेकिनः ॥५८॥
स्वाध्यायध्याननिरतास्तान्नमामि सतो जनान् ।
गुरुप्रसादे मद्भक्तौ यत्नवन्तः स्थिरव्रताः ॥५९॥
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि सज्जनान् ।
सुव्रता सुनयो भक्ता ब्रह्मिष्ठा ब्रह्मदायिनः ॥६०॥
वोढारो मे प्रसादस्य तान्नमामि सदा सतः ।
भैक्षचर्यासु निरता दीना गुरुकुलाश्रयाः ॥६१॥
निर्घृणाश्चाऽच्युतधना निर्ममा गतवासनाः ।
ब्रह्मवक्तार ऐशा ये तान्नमामि सतो जनान् ॥६२॥
अहिंसानिरताः सत्यव्रता दान्ता वितृष्णकाः ।
कपोतवृत्तिका गृह्यास्तान्नमामि सतो जनान् ॥६३॥
चतुर्वर्गस्थिताः शान्ता अपि निष्कामयोगिनः ।
शिष्टाचारप्रवृत्ताश्च नमाम्येतान् रमे सदा ॥६४॥
ब्राह्मणा ब्रह्मतनवो भक्तिपराः सुपुण्यिनः ।
सुधाभक्षा व्रतयुक्तास्तान्नमामि सदाश्रितान् ॥६५॥
अयोनीनग्नियोनीँश्च ब्रह्मयोनीन् सदुद्भवान् ।
अच्युतगोत्रान् श्रीगोत्रान्नमामि सततं सतः ॥६६॥
अक्षरं चापि गोलोकं वैकुण्ठं चाऽमृतं पदम् ।
अव्याकृतपदं ये च गन्तुमिच्छव ऐश्वरम् ॥६७॥
वैष्णवं धाम वा साध्वाश्रमान् जिगमिषूँस्तथा ।
नमस्यामि सतस्तान् वै सर्वानहं हि पद्मजे ॥६८॥
लोकज्येष्ठान् कुलज्येष्ठान् तमोघ्नान् लोकभास्करान् ।
कृष्णधामप्रदान् साधून्नमानि भवपारदान् ॥६९॥
पूजार्हान् हितधातृँश्च सुखदान् पोषकामपि ।
रक्षकान् कालमायादेर्नमामि सज्जनान् सतः ॥७०॥
अत्राऽमुष्मिन् सुखदास्ते हरेर्भक्ता हि साधवः ।
ये सर्वाऽतिथयो नित्यं तान्नमामि सदा रमे ॥७१॥
एतादृशेषु भक्तेषु साधुषु ब्रह्मयोगिषु ।
अनुसृताश्चाभिरता दुर्गाण्यतितरन्ति ते ॥७२॥
तेषु शान्तिपरास्तेषां प्रशंसकाश्च सेवकाः ।
अनसूयका भक्ताश्च दुर्गाण्यतितरन्ति ते ॥७३॥
सर्वान् सतो नमस्कुर्वन् देवान् वृद्धान् शुभावहान् ।
श्रद्धावान् भक्तिमाँश्चापि दुर्गाण्यतितरत्यपि ॥७४॥
तपस्विनः साधवो वै कौमारब्रह्मचारिणः ।
भक्त्या प्रभावितात्मानस्तारयन्त्यघिनो जनान् ॥७५॥
मात्रापित्रोर्गुरुजने भक्त्या वसन्ति ये जनाः ।
सदाऽऽशीर्वादनेतारो दुर्गाण्यतितरन्ति ते ॥७६॥
यथा त्वं वर्तसे लक्ष्मि वर्तन्ते साधवो यथा ।
ब्रह्मप्रियाश्च वर्तन्ते वर्तन्ते च हरिप्रियाः ॥७७॥
यथा कुंकुमवापीस्था वर्तन्ते च नराः स्त्रियः ।
सर्वे मुक्ता ब्रह्मवासाः सन्तः साध्व्यो हि मे मताः ॥७८॥
चतुर्दशसु लोकेषु नर्षयस्तादृशास्तथा ।
पितरो मुनयो नैव न सुरा मानवास्तथा ॥७९॥
नाऽन्ये विप्रा यथा चैते पावना मत्स्वरूपिणः ।
क्षेत्रं कुकुमवापीयं चाऽक्षरं धाम मेऽस्ति यत् ॥८०॥
तत्रस्थाः सर्वमुक्ताश्च मुक्तान्यः शक्तयो मम ।
सर्वा ब्रह्मप्रिया नार्यः सर्वे मुक्ता नरास्त्विह ॥८१॥
पादपाश्चाण्डजा जरायूजाश्चान्येऽपि जन्तवः ।
स्वेदजा वापि सर्वे चाऽक्षरक्षेत्रे वसन्ति ये ॥८२॥
दिव्या मुक्ता हि ते सर्वे सर्वपूज्या भवन्ति ते ।
त एव साधवः सर्वे मुक्तिदा वासमात्रतः ॥८३॥
कल्पद्रुमस्य चांगानि सर्वाणि पावनानि वै ।
तथा चाऽक्षरभूमेश्च वासिनः पावना हि मे ॥८४॥
साधवस्ते शरण्या वै शरणागतरक्षिणः ।
यथाऽहं च तथा ते वै दयापूर्णा विमुक्तिदाः ॥८५॥
सर्वस्वं चापि दत्त्वैव रक्षन्ति शरणागतान् ।
शृणु लक्ष्मि समाख्यानं साधोर्वृषायनस्य ह ॥८६॥
वृषायनो हि साधुर्मे दीक्षां प्राप्य वने वसन् ।
भजते मां हरिं कृष्णं निर्द्वन्द्वो निष्परिग्रहः ॥८७॥
विदेह इव राजन् वै तेजसा भास्करो यथा ।
दयया चाऽभयदाता जीवानां श्रेयसि स्थितः ॥८८॥
व्याघ्रारण्ये निम्बतरोरधोवासो विराजते ।
तत्रैकदा तु श्येनेन पात्यमाना भयातुरा ॥८९॥
चटका शरणं प्राप्ता वृषायनाख्ययोगिनम् ।
स तां दृष्ट्वा निराधारां त्रासादंकमुपागताम् ॥९०॥
आश्वास्याऽऽह भयं मा ते चटकेऽस्त्विह मेऽन्तिके ।
इत्युक्त्वा चटका हस्ततले धृत्वा तदासने ॥९१॥
अग्रे तां रक्षयामास तावच्छ्येन उवाच तम् ।
ऋषे साधो मम भक्ष्यं चटकेयं प्रदीयताम् ॥९२॥
प्रयत्नान्महतो लब्धा त्यजैनां भक्षणं मम ।
अस्या मांसं तु मे चाद्य पर्याप्तं स्यात्प्रतोषणम् ॥९३॥
क्षुधा मे बाधते साधो भोज्यं मे दीयतां द्रुतम् ।
मया ह्यनुसृता त्वेषा ममैव भक्ष्यरूपिणी ॥९४॥
साधुना नाऽत्र वयसोः स्थातव्यं मध्यपातिना ।
औदासीन्यस्थितेस्तेऽत्र को लाभो द्वेषरागयोः ॥९५॥
समवृत्तिर्भवेत् साधुः पक्षपातो न ते वृषः ।
क्षुधितोऽहं चाति साधोऽन्यथा मे मरणं भवेत् ॥९६॥
दयालो त्वं देहि भक्ष्यं चटकां मन्निपातिताम् ।
चटकाया रक्षणे ते मे हत्यापापमापतेत् ॥९७॥
मम जीवनदाने तु चटकाध्वंसपातकम् ।
ते भवेदिति चात्रार्थे भवौदासीनवृत्तिमान् ॥९८॥
इत्याकर्ण्य क्षणं वृषायनश्चिन्तामवाप ह ।
द्वयोश्चाऽभयदानं च विचार्येत्थमुवाच तम् ॥९९॥
वद श्येन निजार्थं वै यथा ते क्षुन्निवर्तनम् ।
भवेदेव तथा कुर्वे मुञ्चामि चटका नहि ॥१००॥
शरणं सा जीवनार्थं त्वागता मां प्ररक्षिणम् ।
न मुञ्चति ममांगानि पश्य रक्षार्थिनीं त्विमाम् ॥१०१॥
तत्रापि विद्यते नारी न हन्तव्या कदाचन ।
गर्भिणी विद्यते चापि न हन्तव्या त्वया द्विज ॥१०२॥
फलं मूलं चान्नमिष्टं भिक्षागतं ददामि ते ।
आनयामि त्वदर्थं वै मिष्टान्नं तत्प्रभक्षय ॥१०३॥
श्येनः प्राह न मे कार्यं फलमूलैर्न भिक्षया ।
यस्तु देवेन विहितो भक्ष्यो मे चटकात्मकः ॥१०४॥
मांसं भक्ष्यं श्येनजातेः रीतिस्त्वेषा पुरातनी ।
यदि साधो चटकाया स्नेहस्ते पक्षपातवत् ॥१०५॥
ततस्त्वं मे प्रयच्छाऽद्य स्वमांसं चटकामितम् ।
तुलया तोलितं मे स्यात्पर्याप्तं नाधिकं खलु ॥१०६॥
वृषायनः प्रसन्नोऽभूच्छ्रुत्वा तूर्णं तमाह च ।
महाननुग्रहश्चाऽयं खग त्वया मयि कृतः ॥१०७॥
ततः कृत्वा पर्णपुट्यौ तुलां कृत्वा यथोचिताम् ।
उत्कृत्योत्कृत्य मांसं स्वं श्येनार्थं समतोलयत् ॥१०८॥
चटकाभारमांसं स्वं ददौ श्येनाय बाहुजम् ।
श्येनो लब्ध्वा प्रभुक्त्वा च पीत्वा जल वनं ययौ ॥१०९॥
चटका रक्षिता जाता प्रसन्नाऽभूत् सुनिर्भया ।
शनैः सा तु ऋषिं नत्वा पार्श्वे वने ययौ ततः ॥११०॥
सन्धिनीं पूरणीं श्रेष्ठामोषधिं प्राप्य चाययौ ।
साधोर्हस्ते ददौ पत्ररसं बाहुः प्रपूरितः ॥१११॥
यथापूर्वमभवच्च नीरुक् साऽपि ततः परम् ।
सेवायां सर्वदा साधोः पार्श्वेऽवसत् सुपक्षिणी ॥११२॥
फलपत्राणि चादाय साधवेऽर्पणमेव ह ।
करोति चाथ कालेन सुषुवेऽण्डानि पञ्च च ॥११३॥
सेवाफलेन ते सर्वे बाला भूतादिवेदिनः ।
त्रिकालदर्शिनः सर्वे जाताः श्वेतस्वरूपिणः ॥११४॥
दीपोत्सवीघोटकाख्या महर्षिणा हि ते कृताः ।
शकुनज्ञाः शकुन्तास्ते पूज्यन्ते दैववेदिभिः ॥११५॥
चटका सा ततः काले वार्धक्ये मृत्युमागता ।
विमानेन ययौ स्वर्गं जाताऽप्सरोवरा शुभा ॥११६॥
नाम्ना चाऽलम्बुषा त्विन्द्रसेविका च ततः परम् ।
मुक्तिं प्राप्ता ब्रह्मलोके साधोः सेवाफलेन वै ॥११७॥
एवं परोपकारार्थदत्तसर्वस्वसाधवः ।
रक्षन्ति चापि मोक्षं च प्रेषयन्ति च देहिनः ॥११८॥
भक्तानां रक्षिता चानुरक्तानां शरणार्थिनाम् ।
यः स साधुर्दयालुश्च सुखं ददाति विदन्ति ॥११९॥
साधुवृत्तो जनश्चात्र साधुत्वमनुतिष्ठति ।
किं न प्राप्तं भवेत्तेन मदर्थत्यागवर्षिणा ॥१२०॥
वृषायनो हि भगवान् वर्ततेऽश्वसरोवरे ।
यदाश्रयेण बहवो यान्ति धामाऽक्षरं मम ॥१२१॥
पश्य लक्ष्मि स्थितं वारितटे ध्याने मदर्थिनि ।
एवं मे साधवो लोके भवन्ति श्रेयसां प्रदाः ॥१२२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधोर्मुख्यधर्मो नारायणस्तेन साधुत्वम् । साधवे नारायणनतिः, वृषायनेन साधुना चटकाभारमांसं श्येनाय
दत्वा चटका रक्षिता चेत्यादिनिरूपणनामा पञ्चाशीतितमोऽध्यायः ॥८५॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP