द्वापरयुगसन्तानः - अध्यायः १५०
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
वनस्थोऽरण्यवासश्च पर्वतादिस्थितोऽपि वा ।
अग्रामस्थो निर्जनस्थो मुच्येतोपद्रवात् कथम् ॥१॥
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि वनस्थोऽद्रिस्थितोऽपि वा ।
निर्जनस्थोऽपि कष्टार्तो मुच्यते स्मरणान्मम ॥२॥
मद्भक्तानां स्मरणाच्च पूजनाद् वन्दनादपि ।
निर्जनेऽपि प्रमुच्येत बन्धनात् सर्वतोविधात् ॥३॥
श्रीनारायणीश्रीरुवाच-
त्वद्भक्ता बहवः सन्ति बलवान् शीघ्रपुष्टिदः ।
सहायदः कष्टहरः कोऽस्ति मे कृपया वद ॥४॥
श्रीपुरुषोत्तम उवाच-
त्वरितं स्मृतमात्रोऽपि विना सेवां प्रपूजनम् ।
विना चाराधनां भक्तिं हनूमान् कष्टनाशकः ॥५॥
परोपकारो धर्मोऽस्ति शरण्यत्वं हनूमतः ।
अव्याजदुःखहन्तृत्वं हनूमति विराजते ॥६॥
धूपमात्रेण चायाति स्तोत्रमात्रेण दृश्यते ।
स्मृतिमात्रेण चागत्य करोत्याश्रयवाञ्च्छितम् ॥७॥
भूतप्रेतपिशाचानां डाकिन्यादिकुयोषिताम् ।
बालव्योमग्रहाणां च हनूमान् हरते रुजम् ॥८॥
ब्रह्मचर्यं नैष्ठिकं वै हनूमति विराजते ।
ब्रह्मरूपं मम रूपं ब्रह्मचर्यं सदा मतम् ॥९॥
ब्रह्मणो बलमासाद्य भक्तिबलसमन्वितम् ।
हनूमान् कुरुते कार्यं तपस्सु ते सहायदः ॥१०॥
अदृश्योऽपि मरुद्रूपः समागत्य द्रुतं प्रभुः ।
भूतप्रेतादिकान् हत्वा मोचयत्याश्चितं रुजः ॥११॥
यत्राऽऽस्ते श्रीहनुमान् वै प्रतिष्ठाविधिना स्थितः ।
यत्र प्रतिकृतिस्तस्य तत्र पीडा न जायते ॥१२॥
यद्वने यदरण्येऽपि पर्वते नगरे पुरे ।
ग्रामे खेटे खर्वटके घोषे च वसतावपि ॥१३॥
पुलीने चोच्छ्रये क्रोडे सीम्नि क्षेत्रे जलस्थले ।
गृहे मार्गे चत्वरे च वृक्षे खाते च मन्दिरे ॥१४॥
हनूमान् तद्ध्वजश्चापि प्रतिमा तस्य यत्र च ।
तत्र वने स्थलादौ वा प्राकारे शिबिरेऽपि वा ॥१५॥
नायान्ति भूतवर्गाद्या ज्वरा विघ्ना ग्रहादयः ।
डाकिनी शाकिनी भूता भैरवाश्च पिशाचकाः ॥१६॥
कृत्या वीराश्च रोगाश्च तापा निशाचरादयः ।
कष्टानि च कबन्धाश्च प्रेताश्च ब्रह्मराक्षसाः ॥१७॥
रिपवो यक्षकुष्माण्डा यन्त्रा मन्त्राश्च तन्त्रिकाः ।
अभिचारा विद्रवन्ति चेन्द्रजालाश्च सर्वशः ॥१८॥
योगिन्यो मातरश्चापि दैत्या गणाश्च दानवाः ।
विद्रवन्ति वीक्ष्य देवं हनूमन्तं महाबलम् ॥१९॥
काकिनी कामिनी ब्रह्मग्रहाश्चौरग्रहास्तथा ।
मारीग्रहा विनश्यन्ति श्रुत्वा स्तोत्रं हनूमतः ॥२०॥
व्याघ्राः सर्पाश्च राजानो नार्यश्च शत्रवस्तथा ।
सभा पापानि बध्यन्ते श्रीमद्धनूमतः स्मृतेः ॥२१॥
आयुरारोग्यैश्वर्यादिवृद्धिर्भवति तद्बलात् ।
शिरःशूलं गुल्मशूलं नागपाशादिकं तथा ॥२२॥
कुविद्याश्चाप्यरिष्टानि दुरितानि च यानि च ।
हनूमतः स्तोत्रपाठान्नश्यन्त्येव न संशयः ॥२३॥
यातुधानाः प्रमथाश्च घोरदृष्टय आसुराः ।
केतवः श्रेयसां प्रतीपकाः सरीसृपादयः ॥२४॥
घोराण्यघानि कृच्छ्राणि दंष्ट्रिणश्चापदस्तथा ।
उपद्रवाः कलहाश्च नश्यन्ति हनुमत्स्तवात् ॥२५॥
शृणु लक्ष्मि पूजनादि कथयामि हनूमतः ।
कार्तिके कृष्णपक्षे तु चतुर्दश्यां प्रगे व्रती ॥२६॥
स्नात्वा सम्पूज्य देवांश्च पितॄन् नत्वा समर्हणान् ।
कारयेन्मण्डपं रम्यं कदलीस्तंभशोभितम् ॥२७॥
हारैश्च हीरकाद्यैश्च मौक्तिकैः पत्रतोरणैः ।
रङ्गवल्लीध्वजाद्यैश्च कलशैः शोभितं शुभम् ॥२८॥
चतुर्द्वारं द्वादशस्तंभं सुवस्त्रैर्वितानितम् ।
गदाचिह्नं ध्वजायां वै कारयेन्मण्डपेऽपि च ॥२९॥
कुण्डं मध्ये कारयेत्तु हस्तद्वयप्रमाणकम् ।
त्रिसेतुं च यथायोग्यं सिन्दूराबिलकुंकुमैः ॥३०॥
सुशृंगार्य तैलपात्रं सिन्दूरं माषभोजनम् ।
वटकान् लड्डुकाँश्चापि चणकान् व्रीहितण्डुलान् ॥३१॥
तिलाँश्च दुग्धसाराँश्च पायसं क्षीरमित्यपि ।
राजमाषान् घृतं मिष्टान्नकं फलानि रोटकान् ॥३२॥
दुग्धकृताः पूरिकाश्च गुडं चापि निधापयेत् ।
गुडौदनं दुग्धपक्वं मण्डपे तत्र विन्यसेत् ॥३३॥
नारिकेलान् खारिकाश्च खर्जूरं पनसं तथा ।
पुष्टाऽन्नानि समस्तानि पुष्टफलानि यानि च ॥३४॥
यथाशक्ति मण्डपे च व्रती समुपरक्षयेत् ।
पुण्याहं मंगलवाचो वाचयित्वा द्विजैस्ततः ॥३५॥
प्रायश्चित्तं कारयेच्च संकल्पं कारयेदपि ।
सर्वाऽनिष्टविनाशार्थं सर्वेष्टप्राप्तये तथा ॥३६॥
हनूमतः प्रतिष्ठांगमखं करोमि शान्तये ।
हनूमतः प्रसादेन यातु निर्विघ्नपूर्णताम् ॥३७॥
गणेशं पूजयेच्चापि रुद्रं संस्थापयेत्तथा ।
हनूमत्कलशं तत्र स्थापयेन्मुख्यदैवतम् ॥३८॥
अञ्जनिं मातरं चापि मरुतं पितरं तथा ।
शंकरं धातुपितरं स्कन्दं च ब्रह्मचारिणम् ॥३९॥
साधून् सनत्कुमारादीन् स्थापयेन्मातृकास्तथा ।
रुद्रान् वसूँस्तथाऽऽदित्यान्निधीन् ब्रह्मव्रतं तथा ॥४०॥
ब्रह्मचर्यं स्थापयेच्च वास्तुदेवं सदैवतम् ।
दिक्पालाँल्लोकपालाँश्च सप्तर्षीन् स्थापयेत्तथा ॥४१॥
गरुडं शेषसर्प च व्यूहं श्रीवासुदेवजम् ।
श्रीललितां महालक्ष्मीं रामादित्यं नरेश्वरम् ॥४२॥
वानराँस्तत्सजातीयान् स्थापयेत्पूजयेत्तथा ।
पन्नतिं पादसंस्थां च गदां सर्वाघनाशिनीम् ॥४३॥
स्थापयेद् ब्रह्ममालां च वर्धिनीकलशं तथा ।
तत्राऽऽवाह्य च तीर्थानि रत्नानि निक्षिपेदथ ॥४४॥
पञ्चामृतानि सर्वाणि होमपात्राणि यानि च ।
पूजाद्रव्याणि सर्वाणि प्रोक्षयेत्तीर्थवारिणा ॥४५॥
एवमावाह्य देवांश्च पूजयेच्चन्दनादिभिः ।
षोडशोपसुवस्त्वाद्यैस्ततो वह्निं निधापयेत् ॥४६॥
कुण्डे सुहवनं दद्याद्घृतमिष्टान्नपायसैः ।
समिद्भिश्चार्कपुष्पैश्च तथाऽर्कादिसमिन्धनैः ॥४७॥
ग्रहाणां पूजनं कृत्वा जुहुयात् सर्वदैवतम् ।
आज्यं व्रीहि फलं पत्रं पुष्पं च शर्करादिकम् ॥४८॥
वेदिकायां मुख्यदेवं हनुमन्तं सुवर्णजम् ।
राजतं वाऽथ ताम्रं च रत्नजं प्रस्तरोद्भवम् ॥४९॥
आनाय्य स्थापयेत्तत्र पुण्याहं वाचयेत्पुनः ।
पञ्चामृतैः स्नापयेच्च मर्दयेत्तैलगन्धिभिः ॥५०॥
अभिषेकं कारयेच्च मार्जयेच्चाम्बरं दिशेत् ।
शृंगारयेद् वायुपुत्रं रथे चारोहयेत्ततः ॥५१॥
भ्रामयेन्नगरे वाद्योत्सवैर्गीतैः समन्ततः ।
पूजयेत्प्रणमेत् सर्वप्रजा च गृहमानयेत् ॥५२॥
प्रपूज्य वेदिकास्थाने जले समधिवासयेत् ।
स्वापयेदेकरात्रिं च प्रातरुत्थापयेत्ततः ॥५३॥
देवपूजां समस्तां च कारयेत् हवनं तथा ।
जापयेद्धनुमन्मन्त्रान् वेदमन्त्रैः समन्वितान् ॥५४॥
शृणु लक्ष्मि महामन्त्रं कथयामि हनूमतः ।
ओं नमो हनुमते दुःखभंजनाय सुखं कुरु फट् स्वाहा ॥५५॥
दशसाहस्रवारं वै विंशत्यक्षरपाठनम् ।
एकमासं जपेन्नित्यं सर्वदुःखप्रणाशनम् ॥५६॥
ओमस्य श्रीहनुमन्महामन्त्रस्य श्रीकृष्णनारायाणः ऋषिः,
श्रीहिमाचलहनुमान् देवता, मम समस्तेष्टप्राप्त्यर्थं,
समस्ताऽनिष्टनाशार्थं श्रीकृष्णनारायणप्रसन्नार्थं
श्रीहिमाचलहनुमत्स्तोत्रमन्त्रजपमहं करिष्ये ॥५७॥
ओं नमो भगवते महाबलवते
सर्वाधिकवीर्यवते महाहनुमते वज्रदेहाय
कुमारब्रह्मचारिणे यक्षराक्षसभूतप्रेतपिशाचकुष्माण्ड-
विनायकवेतालडाकिनीशाकिनीकाकिनीयोगिनीवेतालि-
नीकृत्याग्रहगणबन्धनाय रोगादिबन्धनाय एहि एहि
आगच्छ आगच्छ आवेशय आवेशय प्रवेशय
प्रवेशय स्फुर स्फुर सर्वमुखबन्धन शत्रुं मे वशमानय
क्लीं क्लीं क्लीं ह्रीं श्रीं श्रीं श्रीं क्लीं ह्रीं मर्दय मर्दय मारय मारय
चूर्णय चूर्णय ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा ॥५८॥
ओं ह्रां ह्रीं ओं नमो भगवते ब्रह्महनुमते रुद्रमरुद-
ञ्जनिजाताय सर्वदुःखनिवारणाय सर्वविधज्वरान्
छिन्धि छिन्धि सर्वकष्टान्युच्चाटय उच्चाटय ओं ह्रां
श्रीं ओं नमो भगवते श्रीहिमाचलमहाहनुमते
दुःखहालक्ष्मीपूजिताय ओं ह्रां ह्रीं ह्रुं ह्रैं ह्रों ह्रः आं
हां हां हां हां जौं सौं एहि एहि एहि ॐ हं ॐ हं
ॐ हं ओं नमो बलवते गदावते सर्वविषं हर हर
व्योमवनं भेदय भेदय छेदय छेदय मारय मारय शोषय
शोषय मोहय मोहय ज्वालय ज्वालय प्रहारय प्रहारय
सर्वां मायां भेदय भेदय ओं ह्रां ह्रीं ओं नमो भगवते
महालाङ्गूलवते सर्वबलानि क्षोभय क्षोभय सकल-
बन्धमोक्षणं कुरु कुरु सर्वशूलान् निर्मूलय निर्मूलय
सर्वपाशान् शिथीलय शिथीलय दुष्टाविद्याश्छेदय
छेदयं निजविद्याः प्रकटय प्रकटय सर्वारिष्टानि
नाशय नाशय असाध्यं साधय साधय अत्र मूर्तौ
वासं विधेहि विधेहि चमत्कारं प्रदर्शय प्रदर्शय
अद्रिवीर तनुमन् हनुमन् मम सर्वशत्रून्
भस्म कुरु कुरु हन् हन् हुं फट् स्वाहा ॥५९॥
अष्टोत्तरशतवारं जपेत् संजुहुयात्ततः ।
पूजयेच्छ्रीहनुमन्तं परिहारं ततश्चरेत् ॥६०॥
तृतीय दिवसे प्रातः पूजयित्वा सुराँस्तथा ।
हवनं कारयित्वा चोत्थाप्य कीशं प्रपूजयेत् ॥६१॥
विमाने तं प्रसंस्थाप्य मन्दिराग्रे समानयेत् ।
प्रदक्षिणं विधायैव प्राङ्मुखे वोत्तरानने ॥६२॥
मन्दिराग्रे निधायैव पूजयेद् बलिमर्पयेत् ।
अङ्गन्यासान् प्रकुर्याच्च तथा तत्त्वानि सन्न्यसेत् ॥६३॥
नेत्राञ्जनं प्रकुर्याच्च वस्त्रभूषादि चार्पयेत्॥
प्राणप्रतिष्ठां कुर्याच्च बीजवर्णनिनादिताम् ॥६४॥
ओं कं खं गं घं ङ आं पृथिव्यप्तेजो वाय्वाकाशात्मने ओं हृदयाय नमः ।
ओं चं छं जं झं अं इं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसि स्वाहा ।
ओं टं ठं डं ढं णं उं श्रोत्रत्वक् चक्षूरसनाघ्राणात्मने ऊं शिखायै वषट् ।
ओं तं थं दं धं नं एं वाक्पाणिपादपायूपस्थात्मने ऐं कवचाय हुम् ।
ओं पं फं बं भं मं ओं वचनादानविहरणोत्सर्गानन्दात्मने औं नेत्रत्रयाय वौषट् ।
ओं यं रं लं वं शं सं हं लं क्षं तं अं मनोबुद्ध्यहंकारचित्तात्मने अः अस्त्राय फट् ॥६५॥
अथ देवं स्पृष्ट्वा-'ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं सः देवस्य प्राण इह प्राणाः ।
ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं सः देवस्य जीव इह स्थितः ।
ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं सः देवस्य सर्वेन्द्रियाणीह ।
ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं सः देवस्य वाङ्मनश्चक्षुश्रोत्रघ्राणप्राणाः इह तिष्ठन्तु स्वाहा ॥६६॥
अर्चाहृदि अंगुष्ठं दत्वा जपेत् अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाश्चरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥६७॥
प्रणवेन सन्निरुध्य ध्यात्वा सजीवमेव तम् ।
हनुमन्मन्त्रमेवाऽस्याः कर्णे जपेन्नमेत्ततः ॥६८॥
स्थापयेन्मन्दिरे सिंहासने सम्प्रार्थयेत्तथा ।
सर्वानिष्टानि देव त्वत्स्थापनेन लयं परम् ॥६९॥
यान्तु सर्वान् कुरु कीश सुखिनः सर्वतोमुखान् ।
धूपं दीपं च नैवेद्यं दद्यात्ताम्बूलकं जलम् ॥७०॥
नीराजनं प्रकुर्याच्च पुष्पाञ्जलिं दिशेत्ततः ।
कार्पासवर्तीः प्राज्वाल्य नीराजनमिदं वदेत् ॥७१॥
अत्र नीराजनम्-
जय कपे बलवँस्त्वं जय कपे बलवँस्त्वम् ।
सुरनरमुनिजनवन्दितपत्कज हनुमँस्त्वम् ॥७२॥
प्रौढप्रताप पवनसुत त्रिभुवनजयकारिन् ।
असुररिपुमदगञ्जन भयसंकटहारिन् ॥ जय०॥७३॥
भूतपिशाचविकटग्रहपीडा ते जपनात् ।
हनुमद्गर्जितश्रवणान् नश्यति थरकम्पात् ॥ जय०॥७४॥
रघुवरसहायोल्लंघ्य सागरमतिदीर्घम् ।
सीताशोधनमाप्त्वा लंकां प्राज्वालयत् ॥ जय०॥७५॥
रामचरणरतिदायक शरणागतत्रातः ।
पूर्णानन्दित हनुमन् वाञ्च्छितफलदातः ॥ जयः ॥७६॥
पूर्णाहुतिं दिशेत् परिहारं च कारयेत्तथा ।
विप्रान् साधून् सतीर्भक्तान् भोजयेद् दक्षिणां दिशेत् ॥७७॥
नित्यं संपूजयेद् देवं स नाशयेदनिष्टकम् ।
ध्वजादिदर्शनं कुर्यात्पठेन्मन्त्रं निरन्तरम् ॥७८॥
सिन्दूरतैलार्कपुष्पमाला ध्यात्वाऽर्पयेत् सदा ।
भुक्तिर्मुक्तिर्भवेच्चापि लक्ष्मि मनुष्यतां व्रजेत् ॥७९॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हनुमन्मन्त्रतज्जपहनुमत्प्राणप्रतिष्ठादिविधिनिरूपणनामा पञ्चाशदधिकशततमोऽध्यायः ॥१५०॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP