द्वापरयुगसन्तानः - अध्यायः ८६
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
किं कृत्वेह तु राजानश्चान्ये धनमदास्तया ।
बलगर्वाश्च वै लोका अश्नुवते परं सुखम् ॥१॥
श्रीपुरुषोत्तम उवाच-
ब्रह्मिष्ठानां सदा सेवा कर्तव्या सुखमिच्छता ।
साधून्नारायणभक्तान् वृद्धाँश्चाप्यभिपूजयेत् ॥२॥
पौरजानपदाँश्चापि साधुजनान् बहुश्रुतान् ।
भक्त्या दानेन सेवाभिर्नमस्कारैः समर्चयेत् ॥३॥
यथाऽऽत्मानं यथा पुत्राँस्तथा साधून् प्रसेवयेत् ।
ये चाऽप्येषां पूज्यतमास्तान् विशेषेण पूजयेत् ॥४॥
सन्तः पूज्या नमस्कार्या मान्या देवा यथा भुवि ।
तेषु तुष्टेषु राज्यादिसम्पदः सुसुखाः सदा ॥५॥
कृष्णध्यानप्रसक्तानां ब्रह्मभक्तिं प्रकुर्वताम् ।
धर्मज्ञानां सतां नित्यं सेवां कीर्तिं समाचरेत् ॥६॥
देवैश्च पितृभिश्चापि गन्धर्वैर्ब्राह्मणैस्तथा ।
वसुभिश्च तथाऽऽदित्यै रुद्रैश्च पूजिता यतः ॥७॥
अदैवं दैवतं कुर्युदैंवतं चाऽप्यदैवतम् ।
यमिच्छेयुः स देवः स्याद् यो नष्टः स पराभवेत् ॥८॥
परिवादप्रकर्तारो नश्येयुर्नात्र संशयः ।
तस्मात्साधून्पूजयेच्चेश्वरान् वै सुखदुःखयोः ॥९॥
एते भोज्याश्च पूज्याश्च किमिच्छवैः सुवस्तुभिः ।
नमस्कारैश्चाऽर्पणाद्यै रक्ष्याश्च पितृवन्नृपैः ॥१०॥
ईतीनां चापि विघ्नानां शान्तिः सद्भिः प्रजायते ।
ब्रह्मवर्चस्विनः सन्तो यज्ञाः साक्षाद् भवन्ति वै ॥११॥
ब्रह्मिष्ठं भक्तिसम्पन्नं धर्मशीलगुणान्वितम् ।
वासयेत गृहे राजा सन्तं मोक्षप्रदं सदा ॥१२॥
सतां मुखे हविर्दत्तं प्रतिगृह्णन्ति चेश्वराः ।
पितरो देवताश्चापि मुक्तास्तृप्यन्ति योगिनः ॥१३॥
ऋषयो वसवः सिद्धा मनवो भास्कराः शिवाः ।
सुराश्च विष्णवो ब्रह्माणश्च साध्या मरुद्गणाः ॥१४॥
वालखिल्याश्च गन्धर्वाः किन्नराः पुरुषोत्तमाः ।
अवताराः सत आविश्याऽन्नं सुखाः प्रभुञ्जते ॥१५॥
यत्र नो भगवद्भक्ता उत्सवे वा महोत्सवे ।
ताः सम्पदस्तथाऽऽनन्दाः श्मशानान्ताः प्रकीर्तिताः ॥१६॥
यत्रोत्सवेषु सन्तश्च विद्यन्ते शुभदर्शनाः ।
त उत्सवा ऊर्ध्वगतिप्रदाः पुण्यमयाः शुभाः ॥१७॥
सन्तं विना महाराज्यं श्मशानं याम्यपुष्टिकृत् ।
सता युक्तं वनं चापि दिव्यं गोलोकमुक्तिदम् ॥१८॥
साधुं यत्र स्थले सन्तं विहरन्तं स्थितं च वा ।
पश्यन्ति यमदूताश्च नाभियन्ति स्थलं हि तत् ॥१९॥
साधुं जनं विलोक्यैव विघ्ना वियन्ति दूरतः ।
रोगा मायाः कालवेगास्त्रस्ता वियन्ति दूरतः ॥२०॥
येन येनैव सन्तोऽत्र हविषा तर्पिता मुहुः ।
ये सन्तमनुवृत्ताश्च तेषां पुण्यमनन्तकम् ॥२१॥
न ते प्रेत्य विनश्यन्ति न ते यान्ति पराभवम् ।
यद्वै सतां मुखात्प्राप्तं प्रतिगृह्णन्ति सद्वचः ॥२२॥
पापिनोऽपि जनास्ते वै न प्रयान्ति पराभवम् ।
यत्किञ्चिद् दृश्यते लोके श्रूयते पठ्यते तथा ॥२३॥
सर्वं तच्छ्रीमतां पुण्यसतामाशीर्वचोभवम् ।
भूमिः पप्रच्छ पूर्वं वै श्वेतवाराहमीश्वरम् ॥२४॥
गृहिणां पापकर्माणि केन नश्यन्ति मूलतः ।
वाराहश्च तदोवाच ध्यात्वा श्रेष्ठतमं वचः ॥२५॥
साधून् संसेवमानानां पापं सर्वं विलीयते ।
साधून् सदा प्रसेवेत पवित्रान् लोकधारकान् ॥२६॥
एभ्यो भूतिश्च कीर्तिश्च स्मृद्धिर्बुद्धिः प्रजायते ।
भक्तिः प्रजायते तेन पावनी मतिरीयते ॥२७॥
महायज्ञो हरेर्भक्तः साधुरेव न संशयः ।
साधुं सेवेत सततं भूमे! सर्वविभूतये ॥२८॥
विप्रेभ्यश्च परे सन्ति गुरवस्तूपदेशकाः ।
गुरुभ्यश्चोपदेष्टॄभ्य उपाध्याया परे मताः ॥२९॥
तेभ्यः परा सदा चार्या आचार्येभ्यस्तु शीलिनः ।
ब्रह्मचारेभ्य उत्कृष्टा भक्ताः श्रीपरमात्मनः ॥३०॥
भक्तेभ्य उत्तमाः सन्ति सदा चात्मनिवेदिनः ।
आत्माऽर्पितेभ्य उत्कृष्टाः साधवो मम मूर्तयः ॥३१॥
अपरेषां परेषां च परेभ्यश्चापि ते परे ।
मत्तोऽपि परमाः सन्तः सतां दासो भवाम्यहम् ॥३२॥
साधवो यं प्रशंसन्ति स नरो माधवो भवेत् ।
साधूनाक्रोशयति यः पराभवति सोऽचिरात् ॥३३॥
यथा महार्णवे क्षिप्तं लवणं संविलीयते ।
तथा पापानि साधौ वै क्षिप्तानि यन्ति लीनताम् ॥३४॥
साधवो यं प्रशंसन्ति स जातोऽत्र प्रवर्धते ।
यशसा सम्पदा स्मृद्ध्या पुष्ट्या लक्ष्म्या स्त्रिया सुतैः ॥३५॥
साधवः संविदन्त्येव मार्गं स्वर्गस्य वै तथा ।
मोक्षस्यापि निरयस्य कर्मणां च गतिं तथा ॥३६॥
भाग्यानां च गतिं चापि विदन्ति साधवो जनाः ।
आगताऽनागते चापि विदन्ति जन्मकर्मभिः ॥३७॥
सर्वेषां क्षत्रवर्गाणां तेजांसि प्रबलानि च ।
ब्राह्मणेषु प्रशाम्यन्ति ब्राह्मणानां तु साधुषु ॥३८॥
साधून् वै सेवमानानां रजः सर्वं प्रणश्यति ।
इच्छन् कीर्तिं च भूतिं च लोकाँश्चाप्युत्तमोत्तमान् ॥३९॥
सतां चानुमते तिष्ठेद् राजा श्रेष्ठी तथेतरः ।
जन्मनैव चमत्कारी ब्रह्मिष्ठो यस्तु जायते ॥४०॥
नमस्यः सर्वभूतानां स साधुश्चाऽच्युतात्मजः ।
सर्वथा सुहृदः सन्तः श्रेयो मात्रविधायकाः ॥४१॥
स्मृतिभिः कृष्णयुक्ताभिर्गीर्भिश्च मंगलादिभिः ।
आश्रितानां सुश्रेयांसि चानुध्यायन्ति पूजिताः ॥४२॥
श्रीश्च वृद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।
लक्ष्म्यः सर्वविधाः साधुसंकल्पेन भवन्ति हि ॥४३॥
साधवो विविधाः सन्ति दुरासदाः परार्थिनः ।
केचिन्नारायणसत्त्वाः शीलसत्त्वाश्च केचन ॥४४॥
व्रतसत्त्वास्तपःसत्त्वा ध्यानसत्त्वास्तथाऽपरे ।
वैराग्यसत्त्वा विद्यादिसत्त्वा भक्तिबलाः परे ॥४५॥
धर्मसत्त्वास्तथौदासीन्यादिमुख्या भवन्त्यपि ।
अपि सेव्याः सर्वविधाः सारो ग्राह्यो मुमुक्षुणा ॥४६॥
सिंहसत्त्वाः सन्ति केचिन् मृगसत्त्वास्तथाऽपरे ।
सर्पसत्त्वाः परेचापि कपिसत्त्वास्तथाऽपरे ॥४७॥
अग्निसत्त्वास्तथा चाऽन्ये जलसत्त्वास्तथाऽपरे ।
क्ष्मासत्त्वा वायुसत्त्वाश्च भयन्त्येवंप्रकारिणः ॥४८॥
असहाः सिंहसत्त्वा वै सर्वसहा मृगा इव ।
द्वेषगराः सर्पतुल्या हारकाः कपिसदृशाः ॥४९॥
पापघ्ना वह्निसत्त्वास्ते शान्तिदा जलसत्त्विनः ।
क्षमन्ते क्ष्मासमाश्चापि गुणग्राहा मरुत्समाः ॥५०॥
सिंहसर्पकपितुल्यान् यावदर्थं समाश्रयेत् ।
मोक्षार्थं चेतरान् सर्वानाश्रयेन्मतिमान् जनः ॥५१॥
साधवो हि महात्मानो देवानामपि देवताः ।
सततं पूजयेत् साधून् दास्येन परिचर्यया ॥५२॥
एकदा मालतीदेवी पप्रच्छ स्वपतिं नृपम् ।
चित्रकेतुं नमस्कृत्य त्रैलोक्यपूजितं सती ॥५३॥
केन वृत्तेन राजँस्त्वं त्रैलोक्यमधितिष्ठसि ।
श्रैष्ठ्यमेतादृशं केन प्राप्तं ब्रूहि व्रतेन वै ॥५४॥
चित्रकेतुस्तु तां प्राह साधुसेवाव्रतं मम ।
वन्ध्यं दिनं न मे याति साधुसेवामृते क्वचित् ॥५५॥
अग्रतः साधवो मे वै पृष्ठतः साधवोऽत्र मे ।
पार्श्वयोः साधवः सन्ति सभायां साधवश्च मे ॥५६॥
यात्रायां साधवो मे च भोजने चोत्सवादिषु ।
आरम्भे साधवो मे वै वर्तन्ते ब्रह्मशीलिनः ॥५७॥
तेषां दास्यं व्रतं मेऽस्ति तेन बृहद्व्रतेन वै ।
अधितिष्ठामि लोकांस्त्रीन् हरेर्भक्तिं करोमि च ॥५८॥
अन्यानि मे शृणु पत्नि वृतानि शोभनान्यपि ।
लोके यैर्मान्यता चास्ते चाऽप्रधृष्यत्वमित्यपि ॥५९॥
नाऽसूयामि क्वचित् साधून् सम्मन्ये तान् यथासुखम् ।
ब्रह्मिष्ठान्नाऽवजानामि नाऽपराध्यामि कर्हिचित् ॥६०॥
अभ्यर्च्याऽभ्यनुपृच्छामि सेवां करोमि नित्यदा ।
सदण्डवन्नमः कृत्वा पादौ गृह्णामि वारि च ॥६१॥
यामाज्ञां ते निर्दिशन्ति वहामि तोषयामि तान् ।
सतो नित्यं शृणोम्येव कथाऽमृतरतान् प्रभून् ॥६२॥
एतच्छ्रेष्ठममृतं वै दिव्यं चक्षुश्च पारगम् ।
यद् ब्रह्मिष्ठमुखाद् वाक्यं शास्त्रं चाऽऽज्ञा प्रवर्तते ॥६३॥
ब्रह्मिष्ठास्तपसा भक्त्या सिध्यन्ति धीबलाः सदा ।
आत्मबलां मम बलैर्युक्तास्ते तारयन्त्यपि ॥६४॥
वसन्तो ब्राह्मीर्वसतीर्यतयः समदर्शनाः ।
निर्वाणस्था हि ते भूमौ श्रेयप्रदाः सुखप्रदाः ॥६५॥
भूमिस्तं वै निगिरति यो ब्रह्मिष्ठं न सेवते ।
अभिमानः श्रियं हन्ति स्मृद्धस्याऽप्यल्पमेधसः ॥६६॥
अभिमानं ततो हित्वा हित्वा राजमदं तथा ।
पादसंवाहनं नित्यं करोमि वै सतां मुदा ॥६७॥
मां च भक्तं चित्रकेतुं श्रुत्वा श्रुत्वा हि साधवः ।
भूभागात् स्वर्गभागाच्च पातालात् सागरादपि ॥६८॥
सत्यलोकात् समायान्ति नारदाद्या हि पावनाः ।
धन्यं भाग्यं मम चास्ते यः कोटिस्त्रीपतिर्नृपः ॥६९॥
साधुभक्त इति ख्यातो यं प्रतियन्ति साधवः ।
यद्गृहं साधुसम्पन्नं यन्नार्यः साधुसेविकाः ॥७०॥
यो राजा विघसाऽश्यस्मि ततो धन्येतरो नु कः ।
यो यो वै याचते किंचिद् ददाम्येव तु तत्क्षणम् ॥७१॥
प्रतोषयामि सततं साधून् विप्राँश्च योगिनः ।
राज्यं यथा स्वेन्द्रियार्थं साध्वर्थं मे मतं बहु ॥७२॥
ब्रह्मिष्ठार्थं मम राज्यं मोक्षार्थं वर्तते प्रिये ।
अपीडयन् राजवर्गं प्रदद्यां सर्वमैहिकम् ॥७३॥
यथा मे साधवः पूज्यास्तथाऽनु ब्राह्मणा अपि ।
ऋत्विक्पुरोहिताचार्याः शिष्याः सम्बन्धिबान्धवाः ॥७४॥
स्त्रियो बाला बालिकाश्चाऽनाथा निराश्रयास्तथा ।
शरणागतलोकाश्चाऽभ्यागता भिक्षुकास्तथा ॥७५॥
अनाधाराश्च मे पूज्या वनिनो गृहिणोऽपि च ।
सत्कर्माणः सदा पूज्याः श्रुतवन्तो हरेर्जनाः ॥७६॥
अतोऽन्यथा वर्तमाना दण्ड्याः शास्त्रनयेन वै ।
भक्तिधर्मः सदाचारो ज्ञानं चात्मविवेचनम् ॥७७॥
अहिंसा सत्यमस्तेयमार्जवं दम ईशिता ।
अक्रोधश्चाऽनभिमानश्चाऽद्रोहो ह्रीः क्षमा दमः ॥७८॥
तितिक्षा वासनानाशस्तृष्णानाशः पवित्रता ।
यस्मिन्नेतानि दृश्यन्ते न त्वकार्याणि वै प्रिये ॥७९॥
सत्पात्रं तद्भवेल्लोके सर्वदा मानमर्हति ।
अपूर्वं चापि पूर्वं वा पारक्यं नैजमेव वा ॥८०॥
यद्वा विशेषितं वापि संप्रत्यागतमेव वा ।
ब्रह्मिष्ठं श्रेयसिस्थं यत् तत्पात्रं मानमर्हति ॥८१॥
लोके भवन्ति बहवश्चाभिमानभरा जनाः ।
असूयाद्वेषयुक्ताश्चाऽसहमानाः परान्नरान् ॥८२॥
परख्यातिं सहन्ते न परसौख्यं परोन्नतिम् ।
न सहन्ते च दह्यन्ति ततो निन्दन्ति सज्जनान् ॥८३॥
अप्रामाण्यं सतां वाक्ये वैदिके लोकसम्मते ।
मत्वाऽतिलंघनं चापि कुर्वन्ति धर्मसेतुषु ॥८४॥
अव्यवस्थां च कुर्वन्ति स्वयं पण्डितमानिनः ।
हेतुवादान् ब्रुवन्तश्च सत्सु द्रोहं प्रकुर्वते ॥८५॥
आक्रोष्टारस्तथा शास्त्रविरुद्धवादिनः खलाः ।
मूढाः कटुकवाचश्च नराः पापपरायणाः ॥८६॥
स्वतुल्यान् सुहितान् सृत्वा शुनोऽर्चयन्ति वै खलाः ।
मालति! तादृशा दम्भा नरश्वानो जगत्त्रये ॥८७॥
कल्याणं नैव कुर्वन्ति नाशयन्ति निजान् परान् ।
आत्मनाशं चाऽऽह्वयन्ति ते दण्ड्याः सर्वथा नृपैः ॥८८॥
यथा श्वा भषितुं चैव खादितुं चाऽवसज्जते ।
तथा ते लोकमर्यादां नाशयितुं ज्वलन्ति वै ॥८९॥
तस्माद् राज्ञि! लोकमेलं धर्मं चात्महितं शुभम् ।
हृदयं देशकालौ च वीक्ष्याऽऽज्ञां वर्तयेज्जनः ॥९०॥
एवं नित्यं वर्तमानः शाश्वतीर्वर्धते समाः ।
राजानो वा धनिनो वा बलिनो वा जनास्त्विह ॥९१॥
तथैव वर्तमानाश्चेन्नाभिभवन्ति वै क्वचित् ।
ऋणमुक्ता हरेर्भक्ता भूत्वाऽन्ते यान्ति मोक्षणम् ॥९२॥
इत्येवं चित्रकेतुर्वै मालतीं प्राह साऽपि तु ।
हरेर्बलं परं प्राप्याऽसेवताऽहर्निशं सतः ॥९३॥
अभजत्परमात्मानं सेवापूजनकीर्तनैः ।
नैजं कर्मकलापं सा चकार वै सतां कृते ॥९४॥
नृपाज्ञया हि सततं भेजे सत्पुरुषान् शुभान् ।
भोजनैर्दानसेवाभिर्जलवस्त्रफलार्पणैः ॥९५॥
सा च भक्त्यारूढभावा ददर्श मां परेश्वरम् ।
पूजायां दिव्यरूपं वै चतुर्बाहुं विमानगम् ॥९६॥
ययाचे मोक्षणं चापि त्वाज्ञामादाय भूभृतः ।
तूर्णं च भौतिकं त्यक्त्वा चारुरोह विमानकम् ॥९७॥
दिव्या चतुर्भुजा जाता लक्ष्मीसखी शुभानना ।
मालती वर्तते धाम्नि ब्रह्मप्रिया नरायणी ॥९८॥
एवं साधुप्रसंगेन राजा साधुर्हि चित्रकृत् ।
पत्युः साधोः प्रसंगेन मोक्षमार्गमवाप सा ॥९९॥
मोक्षगतिमवाप्यैव मालती तु रमासखी ।
जाता ब्रह्मप्रिया लक्ष्मि सत्संगो यावदर्थकः ॥१००॥
निर्धनो वा धनवाँश्च सगुणो निर्गुणोऽपि वा ।
साध्वाश्रयं समालम्ब्य भवत्येव नरायणः ॥१०१॥
मदंशो भक्तिवेगेन जायते चोर्ध्वकीर्तिमान् ।
तारकः सर्वलोकानां धारकः सर्वधर्मिणाम् ॥१०२॥
प्रापकश्चाऽक्षरस्यापि रक्षकश्च निजान्तिके ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने धनमदिबलगर्विनृपादीनामपि परमश्रेयसि चित्रकेतोर्मालित्या दृष्टान्तेन साधुप्रतापफलादिवर्णननामा षडशीतितमोऽध्यायः ॥८६॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP