द्वापरयुगसन्तानः - अध्यायः ९३
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मीह संसारे दुर्लभं सुलभं व्रतैः ।
तपोभिश्चाशिषा चापि सेवया चार्पणेन च ॥१॥
ब्रह्मयोगबलस्याऽग्रे बलान्यन्यानि सर्वशः ।
निम्नायन्ते ब्रह्मचर्यबलाग्रे इव पद्मजे ॥२॥
कथयामि कथां पूर्वभवां शीलप्ररक्षिणीम् ।
शिष्येण योगिना भार्या गुरोः शीले प्ररक्षिता ॥२॥
देवशर्मांऽभवद् विप्रो महर्षिर्वै सुराष्ट्रके ।
तस्य पत्नी रुचिनाम्नी रूपेण राधिकासमा ॥४॥
गुणैर्लक्ष्मीसमा दिव्ययौवना देवतोत्तमा ।
तस्या रूपेण चोन्मत्ता देवाः सिद्धाश्च मानवाः ॥५॥
अजायन्त विशेषेण महेन्द्रो मोहमाप्तवान् ।
व्यचिन्तयत् सदा तां तु समारब्धुं क्षणान्तरे ॥६॥
देवशर्माऽपि नारीणां स्वभावज्ञो यथाबलम् ।
ररक्ष तां निजावासे नैकान्तं प्रददौ क्वचित् ॥७॥
इन्द्रो मुहुः समायात्याश्रमोपान्ते गवेषुकः ।
तस्या लाभार्थमेवाऽपि नैवाऽलभत तत्क्षणम् ॥८॥
बिभेति विप्रशापाद्वै दृष्टिपथं न गच्छति ।
प्रच्छन्नश्च प्रयात्येव रूपान्तरैरनेकधा ॥९॥
देवशर्मा तपोयोगाज्जानातीन्द्रं गवेषिणम् ।
कामुकं विहरन्तं च वनोपान्ते विचारिणम् ॥१०॥
अथैकदा ऋषिर्लक्ष्मि! व्रतं कर्तुमना निजम् ।
शिष्यमाहूय विपुलं दयितं ब्रह्मयोगिनम् ॥११॥
समर्थं रक्षणे चापि धर्मस्थं वचनस्थितम् ।
व्रते मे वर्तते वृत्तिश्चाऽश्वपट्टसरोवरे ॥१२॥
कुंकुमवापिकाक्षेत्रे गमिष्यामि व्रतान्वितः ।
चातुर्मास्यं व्रतं कृत्वा चागमिष्यामि वै ततः ॥१३॥
रुचिं सुरूपां पत्नीं मे महेन्द्रो भोक्तुमिच्छति ।
नित्यं रक्षस्व चैनं त्वं शीलभंगो न वै भवेत् ॥१४॥
पातिव्रत्यं न नश्येच्चाऽप्रमत्तो भव चेन्द्रकम् ।
इन्द्रश्चात्र समायाति बहुरूपधरोऽनिशम् ॥१५॥
क्वचित् किरीटी वज्रधृक् क्वचिद्धन्वी च दण्डवान् ।
मुहूर्तेन तु चाण्डालः शिखी विप्रो जटी व्रती ॥१६॥
चीरवासाः क्वचित् स्थूलः कृशोऽतिथिः क्वचित्तथा ।
तापसो गौरवर्णो वा श्यामः क्वचिद्वनेचरः ॥१७॥
बालो वृद्धो विचित्तो वा क्षत्रो वैश्योऽपि दासकः ।
शुको वा वायसो हंसो मृगो व्याघ्रो भवत्यपि ॥१८॥
राजा देवोऽथवा दैत्यो भवत्येव च मूषकः ।
यथा रुच्यो भवेद् योगस्तथा प्रवर्तते हि सः ॥१९॥
मक्षिका मशकश्चापि पुष्पवल्ली भवत्यपि ।
एवंभूतो महेन्द्रः स दृश्यते योगचक्षुषा ॥२०॥
स त्वं योग्योऽसि रक्षैनां चाऽप्रमत्तो हि तं प्रति ।
यथा रुचिं नाऽवलिहेत् तथेन्द्रं प्रति जागृहि ॥२१॥
विपुलश्च गुरोर्वाक्यं मत्वा चिन्तापरोऽभवत् ।
मायावी वीर्यवानिन्द्रो दुर्धर्षो बहुरूपधृक् ॥२२॥
कथं मया रक्षितव्या गुर्वी विधाय चाश्रमम् ।
विचार्य बहुधा कायाऽऽवेशं श्रेष्ठममन्यत ॥२३॥
अन्यैर्न पौरुषेणेयं न शक्या रक्षितुं यतः ।
सोऽहं योगबलेनैनां रक्षिष्यामि वपुस्थितः ॥२४॥
इति निर्णीय विपुलः प्रविवेश समाधिना ।
कलेवरे गुरुपत्न्या उवास च समाहितः ॥२५॥
असक्तः पद्मपत्रस्थजलबिन्दुसमोऽभवत् ।
गुर्व्या देहे निजं सूक्ष्मं देहं कृत्वा समन्ततः ॥२६॥
स्थलं तु व्यापकं देहं लीनं कृत्वा तु योगतः ।
स्थूलेनाऽपि विवेशाऽसौ गुर्वीदेहेऽभितः खलु ॥२७॥
एवं विष्टभ्य विपुलो ह्युवास सा विवेद न ।
चातुर्मास्यं तु सम्पूर्णं मातरं सोऽभ्यरक्षत ॥२८॥
उवासाऽचेष्टमानः स छायेवाऽन्तर्हितोऽनिशम् ।
इन्द्रो दिव्यस्वरूपः सन् प्रविवेश युवाऽऽश्रमम् ॥२९॥
लोभनीयतमो भूत्वा सर्वशृंगारशोभनः ।
रुचिं कमलपत्राक्षीं चन्द्रकान्तिसमद्युतिम् ॥३०॥
कोमलां युवतीं चाग्रे दृष्ट्वा मोहमवासृजत् ।
सूक्ष्मातिसूक्ष्मवस्त्रान्तोपस्थदर्शनमोहिता ॥३१॥
विस्मिता चातिरूपेण कोऽसीति वक्तुमिच्छुकी ।
प्रत्युत्थातुमियेषाऽपि विष्टब्धा विपुलेन सा ॥३२॥
उत्थातुं न शशाकैव निगृहीता समाधिना ।
इन्द्रस्तां सम्प्रहस्याऽऽह युवतीं दत्तमानसाम् ॥३२॥
त्वदर्थं त्वागतश्चात्र महेन्द्रो देवताधिपः ।
रतिं देहि समायाहि विमाने शीघ्रमेव मे ॥३४॥
किन्तु सा न शशाकैवोत्थातुं वक्तुं च किंचन ।
विपुलः सर्वमाज्ञाय द्वयोस्तत्र विचेष्टितम् ॥३५॥
बबन्ध योगबन्धैः स तस्याः सर्वेन्द्रियाणि ह ।
अथाऽचेष्टां निर्विकारां दृष्ट्वेन्द्रो व्रीडितोऽपि ताम् ॥३६॥
एह्येहीति पुनः प्राह तदा तु विपुलः खलु ।
शरीरस्थः प्रत्युवाच भोः किमागमनं तव ॥३७॥
पुरन्दरो विचार्यैव निर्मनस्कोत्तरं तदा ।
अवैक्षत दिव्यदृष्ट्या देहस्थं विपुलं मुनिम् ॥३८॥
घोरतपस्विनं दृष्ट्वा शापभीतः पुरन्दरः ।
प्रवेपताऽभवत् स्तब्धो जडतुल्यः क्षणं तदा ॥३९॥
तूर्णं तु विपुलो देहान्निष्क्रम्येन्द्रं समब्रवीत् ।
दुष्टमानस दुष्टात्मन् पापबुद्धे सुराऽधम ॥४०॥
मानुषीं ब्राह्मणीं धर्माद् भ्रंशयितुमना भवान् ।
समागतोऽस्ति दण्ड्योऽस्ति किन्तु त्यजामि गच्छ वै ॥४१॥
गौतमेन भगांकस्त्वं कृतस्तद्विस्मृतं नु किम् ।
जाने त्वां दुष्टचेष्टं तन्मयेयं रक्ष्यते ततः ॥४२॥
याहि शीघ्रं गुरुर्मे त्वां मा निर्दहेद् रुषाग्निना ।
मा कदाचित्पुनश्चैवं कुरु क्षयनिमन्त्रणम् ॥४३॥
अमरस्याऽपि मृत्युर्वै तपसाऽऽकस्मिको भवेत् ।
न देवो न च विप्रो वा साधोरग्रे प्रतिष्ठति ॥४४॥
साधुश्चाऽहं ब्रह्मशीलो योगो नारायणाश्रयः ।
गुरोः सेवां करोम्यत्र गुर्व्याश्च रक्षणं सदा ॥४५॥
ब्रह्मचारी भवाम्येव तव निग्रहणे क्षमः ।
याहीत्युक्तश्च देवेन्द्रः सन्त्रस्तः प्रययौ दिवम् ॥४६॥
एवं स विपुलो नित्यं रक्षत्येव हि मातरम् ।
अथैकदा तु सन्ध्यायां राक्षसो लोममर्षणः ॥४७॥
आगतस्तां सतीं हर्तुं विपुलस्तत्र तिष्ठति ।
तूर्णं गुर्वी समुत्तोल्य स्कन्धे कृत्वाऽम्बरे ययौ ॥४८॥
विपुलः सहसा वीक्ष्योतपाताम्बरवर्त्मना ।
जग्राह राक्षसं लोममर्षणं च गले तदा ॥४९॥
पाशं कृत्वा रुरोधाऽस्य प्राणान् गुर्वीं ररक्ष च ।
राक्षसश्च व्यसुर्भूत्वा पपातोर्व्यां भयंकरः ॥५०॥
गुर्वीमुत्तोल्य चाकाशे शनैरुर्व्यामवातरत् ।
विपुलः प्रणनामाऽपि मातरं च ररक्ष ह ॥५१॥
अथैकदा समुद्रस्थः कपर्दको महासुरः ।
भ्रमन्नाकाशमार्गेण दृष्ट्वा रुचिं निजाश्रमे ॥५२॥
विहरन्तीं वृक्षमूले जलसेचनकारिणीम् ।
अवाततार सहसा व्योम्नो मोहगतश्च ताम् ॥५३॥
प्रसह्य परिजग्राह रुचिं ययौ ततोऽम्बरे ।
विपुलो वेगतः पृष्ठे व्योमवाटेन चाऽद्रवत् ॥५४॥
सहसाऽऽगृह्य तं दुष्टं कपर्दकं पुनर्बलात् ।
मुष्टिघातेन शिरसि मारयामास नैकधा ॥५५॥
ब्रह्मरन्धं बिभेदाऽस्य कपर्दकस्य चाऽम्बरे ।
मस्तकं वेशथामास गलान्तरे ततोऽसुरः ॥५६॥
मृतिं ययौ निजां गुर्वीं नीत्वा व्योम्ना द्रुतं हि सः ।
विपुलश्चाययौ पर्णकुटीं शान्तोऽभवत्तदा ॥५७॥
एवं ररक्ष तां देवीं चातुर्मास्ये मुहुर्मुहुः ।
एकदा स गुरुस्तस्य परीक्षार्थं सुरूपिणी ॥५८॥
द्वितीया तु रुचिर्भूत्वा निर्जने तु तमोमये ।
विपुलं परिजग्राह धोत्रप्रान्ते रतीच्छया ॥५९॥
विपुलः शीलसम्पन्नो ज्ञात्वा रुच्यास्तु विकृतिम् ।
स्वयं पाषाणरूपोऽभूद् योगैश्वर्येण पुत्तलः ॥६०॥
अथापि सा रुचिः समाश्लिषत् पाषाणपुत्तलम् ।
तदा वह्निं पुत्तलाद्वै दाहकं च भयंकरम् ॥६१॥
शीघ्रमुत्पादयामास विपुलः सा ददाह च ।
तत्याज विपुलं रुचिस्वरूपो गुरुरुत्सुकः ॥६२॥
एवं वै शीलरक्षायां सावधानं सुशिष्यकम् ।
वीक्ष्य तुतोष गुरुराट् ततश्चाऽदृश्यतां ययौ ॥६३॥
नेदं जानाति विपुलो रक्षत्येव रुचिं सदा ।
एवं तु विगतं चातुर्मास्यं व्रतं गुरोस्ततः ॥६४॥
व्रतोत्थिताय गुरवे न्यवेदयत् समस्तकम् ।
यथा विघ्नान्यागतानि यथा दूरीकृतानि च ॥६५॥
तुतोष गुरुराट् सम्यक् श्रुत्वा शीलस्य रक्षणम् ।
प्राह प्रीतोऽस्मि ते शिष्य शीलं रक्षितवान् यतः ॥६६॥
कृतवान् योगरीत्या चाऽऽविश्याऽपि स्त्रीतनौ स्थितम् ।
रक्षणं दुष्टदेवाच्च राक्षसेभ्यः पुनः पुनः ॥६७॥
स्वयं स्पृशसि नैवाऽपि स्पृहावतीं रुचिं तथा ।
अतोऽहं ते प्रसन्नोऽस्मि सदा मुक्तः सुखी भव ॥६८॥
यदि त्वहं त्वां दुर्वृत्तमद्राक्षं शिष्यसत्तम ।
शपेयं त्वामहं तत्र किन्तु त्वं धर्मधैर्यवान् ॥६९॥
विजयं सर्वथा प्राप्तः साधुस्त्वमेव वर्तसे ।
त्वादृशानां सेवनाच्च मोक्षो ध्रुवो भविष्यति ॥७०॥
त्वादृशाः साधवो लोके दुर्लभा मोहवर्जिताः ।
स्वयं प्राप्ता परित्यक्ता रुचिस्त्वयोपलात्मना ॥७१॥
स्वजनो पुरुषं नार्यो भ्रामकश्चेद् भवेद्धि सः ।
साधुश्चेत् स भवेत् तत्र नारी धर्मे वसेत्तदा ॥७२॥
साधुसंगः साधुतां च करोति शीलरक्षिणीम् ।
असाधुसंगमो हन्ति सतीत्वं साधुतां तथा ॥७३॥
असाधुसंगतिर्धर्मनाशिनी दुःखदायिनी ।
असत्संगो वृषं हन्ति चाऽवृषं सत्करोति च ॥७४॥
अधर्मागमतो वृत्तिर्बुद्धिर्मनोऽघकर्मसु ।
प्रवर्तन्ते ततश्चात्मा कल्मषेण तु हन्यते ॥७५॥
तस्मात् कुर्यात् प्रसत्संगं धर्मदां साधुसंगतिम् ।
सत्संगः शाश्वतः कोशः सत्संगः शेवधिः परः ॥७६॥
पठनाच्छ्रवणादस्य स्मरणाद् वर्तनात्तथा ।
धर्मभक्त्यादिशीलाद्यैर्भुक्तिमुक्तिर्भवेन्नृणाम् ॥७७॥
इत्युक्त्वा विररामाऽपि देवशर्मा तु पद्मजे! ।
विपुलोऽपि सिषेवे च गुरुं गुर्वीं च निःस्पृहः ॥७८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वबलाधिके ब्रह्मयोगबले रुचिब्राह्मण्याः शीलरक्षणे विपुलाख्यशिष्यस्य योगिनो विजयः, इन्द्रस्य पराजयः,
लोममर्षणकपर्दकराक्षसयोर्विनाशः, गुरोः प्रसन्नताऽऽशीर्वादः, साधुत्वगौरवं चेत्यादिनिरूपणनामा त्रिनवतितमोऽध्यायः ॥९३॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP