द्वापरयुगसन्तानः - अध्यायः ६२
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सर्वात्मकं नरायणम् ।
सर्वक्रियान्वयं नारायणं विद्याद्धि मां तु या ॥१॥
नारायणं जपेन्नित्यं नमेन्मां पुरुषोत्तमम् ।
स्वापे नारायणं याने गमने मां नरायणम् ॥२॥
स्थाने नारायणं मां भोजने नारायणं च माम् ।
उन्मेषे च निमेषे च नारायणं हि मां स्मरेत् ॥३॥
जागरणेऽपि मां नारायणं नमेत् स्मरेत्तथा ।
भोज्यं पेयं च लेह्यं च नमो नारायणेति या ॥४॥
पावयित्वाऽभिभुंक्ते या सा याति परमां गतिम् ।
अन्यानभिजनाँश्चापि प्रापयत्येव सद्गतिम् ॥५॥
मम नामस्मृतिसंकीर्तनाढ्यायास्तु योषितः ।
त्वं लक्ष्मीर्मम सर्वस्वरूपा कृष्णस्यवल्लभा ॥६॥
गृहे क्षेत्रे तथा वासे तस्या वससि वर्ष्मणि ।
षोडशाऽक्षरमन्त्रं मे पठमाना पुरेन्द्रजा ॥७॥
जयन्ती जन्ममूका सा सार्वज्ञ्यं च सरस्वतीम् ।
प्राप पाण्डित्यमुत्कृष्टं बृहस्पतिसमाऽभवत् ॥८॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
इत्येवं जपकर्त्र्या वै नैपुण्यं जायते मतौ ॥९॥
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इति जपं प्रकुर्वन्त्याः सौभाग्यं सुस्थिरं भवेत् ॥१०॥
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ॥११॥
इत्येवं जपमानाया नाथो नारायणस्त्वहम् ।
भूत्वा ददामि मे धामाऽक्षरं शाश्वतमोदनम् ॥१२॥
'ब्राह्म्यहं श्रीकृष्णनारायणभक्ताऽस्मि शाश्वती ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥१३॥
इत्येवं जपमाना वै लक्ष्मीरूपां करोम्यहम् ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥१४॥
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।
इत्येवं जपमाना वै ब्रह्मप्रियां करोम्यहम् ॥१५॥
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।
इत्येवं जपमानाया नाशयाम्यघसंचयम् ॥१६॥
'अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
परब्रह्माऽक्षरातीतोऽवताराणां स्वरूपधृक् ॥१७॥
अन्तर्यामी सदाऽस्मासु भगवान् सर्वकारणम् ।
सर्वान्तरात्मा सर्वेशो निर्लेपो मोक्षदः स हि ॥१८॥
पावनः सेवितो भुक्तिमुक्तिदश्च सदाऽवतु' ।
इत्येवं जपमानायै ददामि कमलापदम् ॥१९॥
'ब्रह्मप्रियाः समस्ताश्च राधालक्ष्म्यादियोषितः ।
परब्रह्मस्वरूपाश्च परब्रह्मार्धमूर्तयः ॥२०॥
परब्रह्मार्थसर्वस्वा दिव्या भुक्तिप्रमुक्तिदाः ।
तत्सम्बन्धिक्रियाश्चापि निर्गुणा मोक्षदाः सदा' ॥२१॥
इत्येवं जपमाना वै मुक्तानीं प्रकरोम्यहम् ।
'यो यो या या बालकृष्णं तत्प्रियाश्च भजत्यपि ॥२२॥
स स सा सा तत्स्वरूपा दिव्या मोक्षप्रदा सदा' ।
इत्येवं जपमानाया दिव्यरूपं प्रजायते ॥२३॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
इत्येवं जपमाना स्वे रूपेऽन्तर्भावयाम्यहम् ॥२४॥
'ओं श्रीकृष्णनारायणः शरणं मे' इतिमनुम् ।
जपन्त्याः साधयाम्येव पुरुषार्थचतुष्टयम् ॥२५॥
'कृष्णस्यप्रियभक्ताऽहं श्रीहरिंः शरणं मम' ।
'श्रीकृष्णसर्वविद्याब्धिः श्रीस्वामी शरणं मम' ॥२६॥
'श्रीकृष्णो वल्लभस्वामी श्रीहरिः शरणं मम' ।
इतिमन्त्रान् जपन्त्या मे नित्यवासोऽस्ति सा मयि ॥२७॥
इमे मन्त्रा मया लक्ष्मि स्वमूर्तयः प्रकाशिताः ।
'मत्समा मत्स्वरूपास्ते मद्वत्कार्यार्थसाधकाः ॥२८॥
श्रीकृष्णोवल्लभोनाथः शरणं मे' इति मनुः ।
सर्वार्थदो द्वादशार्णस्तन्माहात्म्यं वदामि ते ॥२९॥
वेधःपुत्री समुत्पन्ना सरस्वती सुबालिका ।
सर्वविद्यापरिपूर्णा वेदवेदांगसंभृता ।
ततश्च शारदा कन्या चोत्पन्ना ब्रह्मणः सुता ॥३०॥
सरस्वती वदत्येव संस्कृतामुत्तमां गिरम् ।
शारदा न शशाकाऽपि कृतोपनयनाऽपि सा ।
मूकाऽभवत्तदा जिह्वा स्पन्दते नैव यत्नतः ॥३१॥
खिन्नोऽभवद् विधाता च सावित्री खेदिताऽभवत् ।
ततो वै शारदा कन्या शुशोच मनसा ह्यति ।
ययौ सरस्वतीपार्श्वं दर्शयन्ती स्वजिह्विकाम् ॥३२॥
सरस्वती विचार्यैव द्वादशाऽक्षरमन्त्रवत् ।
जलं प्रमन्त्र्य प्रददौ तज्जिह्वायां तु पावनम् ॥३३॥
'श्रीकृष्णवल्लभाचार्यः शरणं मे' इति मुहुः ।
जलं प्रमन्त्र्य प्रददौ तज्जिह्वायां पुनः पुनः ॥३४॥
तावत्तु शारदादेव्या वाणी जिह्वागताऽभवत् ।
स्वरव्यञ्जनवाक्यानि वेदवेदांगकानि च ॥३५॥
भूतभव्यानि सर्वाणि जगौ मन्त्रप्रतापतः ।
एवं दिव्याऽभवद्वाणीयुक्ता वै शारदा सती ॥३६॥
प्रसन्नोऽभूद् विश्वसृट् च सावित्री च सरस्वती ।
एतद्वै कथितं लक्ष्मि द्वादशाक्षरवैभवम् ॥३७॥
पठतां शृण्वतां चापि ध्रुवं वै परमं पदम् ।
अपि पापसमाचारा द्वादशाऽक्षरतत्परा ॥३८॥
प्राप्नोति परमं स्थानं मे शुभं त्वक्षराभिधम् ।
'ओमित्येकाक्षरं मन्त्रं जपन् याति परां गतिम् ॥३९॥
'कृष्णे'तिद्व्यक्षरं मन्त्रं जपन् गोलोकमृच्छति ।
श्रीकृष्ण'त्र्यक्षरं मन्त्रं जपन् गोलोकमुत्तमम् ॥४०॥
'वासुदेवे'तिमन्त्रं वा 'राधाकृष्णेति वा जपन् ।
चतुर्वर्णं मनुं याति त्वया कृतं निजालयम् ॥४१॥
'ओं नारायण'पञ्चार्णं जपन् श्वेताक्षरं पदम् ।
'नमो नारायणाये'तिजपन् ब्रह्माक्षरं पदम् ॥४२॥
'ओं श्रीकृष्णनारायणं जपन् यात्यक्षरं पदम् ।
'लक्ष्मीनारायणश्रीरोमिति गृणन् विकुण्ठकम् ॥४३॥
'अनादिकृष्णनारायणे'त्यपि चाऽक्षरं पदम् ।
'अनादिश्रीकृष्णनारायणेतिदिव्यमक्षरम् ॥४४॥
'ओं माणिकीश्रीकृष्णनारायणेति पराऽक्षरम् ।
पदं याति जपन् देहि लक्ष्मि धामोत्तमोत्तमम् ॥४५॥
'ओं सुखदालक्ष्मीकृष्णनारायणे'ति मत्पदम् ।
प्राप्नोति जपवान् भक्तो भक्तानी जपसंयुता ॥४६॥
'श्रीकृष्णोवल्लभःस्वामी शरणं मे' मनुं त्विमम् ।
मनुमूर्धन्यमुत्साहाज्जपन् याति ममाऽऽन्तरम् ॥४७॥
'ओं श्रीकृष्णाय नमः, 'ओं नारायणाय नमश्च' ।
'ओं वासुदेवाय नमः' 'ओं महाविष्णवे नमः' ॥४८॥
'ओं विष्णवे नमश्चे'ति 'ओं सदाशिवाय नमः' ।
'ओ हिरण्यगर्भाय नमः' 'ओं शिवाय नमस्तथा' ॥४९॥
'ओं रामादित्याय नमः' 'ओं नृसिंहाय नमश्च' ।
'ओं कपिलाय नमः, 'ओं श्रीहरये नम'श्च ॥५०॥
'ओं दत्तात्रेयाय नमः' 'ओमृषभाय नमश्च, ।
'ओं वामनाय नमश्च 'ओं पर्शुरामाय नमः ॥५१॥
'ओं यज्ञाय नम'श्च 'ओं सनत्कुमाराय नमः' ।
'ओं व्यासाय नमश्चे'ति 'ओं बुद्धाय नम,स्तथा ॥५२॥
'ओं नरनारायणाय नमः' 'ओं ब्रह्मणे नमः' ।
'ओं परब्रह्मणे नमः' 'ओमन्तर्यामिणे नमः' ॥५३॥
'ओं माधवाय नमश्च' 'ओं गोविन्दाय नम'श्च ।
ओं केशवाय नमश्च' 'ओं श्रीपतये नमश्च' ॥५४॥
'ओं स्वामिने नमश्च' 'ओमक्षरातीताय नमः' ।
'ओं पुरुषोत्तमाय नमः, 'ओं परमात्मने नमः' ॥५५॥
'ओमनादिश्रीकृष्णनारायणाय विद्महे' ।
गोपालकृष्णात्मजाय धीमहि ।
तन्नः कम्भराश्रीसुतः प्रचोदयात् ॥५६॥
एते मन्त्राः सदा लक्ष्मि भुक्तिमुक्तिफलप्रदाः ।
तत्तद्धामप्रदाः सर्वे पापतापप्रणाशकाः ।
सर्वपुमर्थदाश्चापि सर्वेच्छापूरकास्तथा ॥५७॥
सहस्रं चाऽयुतं चापि लक्षं कोटिर्जपा मताः ।
यथाश्रद्धं यथासंख्यं यथावेगं फलप्रदाः ॥५८॥
'ओं श्रियै नमः' 'ओं लक्ष्म्यै नमः' 'ओं रमायै नमः' ।
'ओं महालक्ष्म्यै नमः' 'ओं नारायण्यै नमश्च' वै ॥५९॥
'ओं ब्राह्मयैव नमः' 'ओं पुरुषोत्तम्यै नमश्च तथा ।
'ओं वैष्णव्यै नमः' 'ओं कमलायै नमः' 'ओं मायै नमः' ॥६०॥
'ओं वासुदेव्यै नमः' 'ओं कृष्णायै नम' इत्यपि ।
'ओं माधव्यै नमः' 'ओं परमेश्वर्यै नम' इति ॥६१॥
'ओं शिवायै नमः' 'ओमन्तर्यामिण्यै नम इति ।
'ओं महावैष्णव्यै नमः' 'ओं पद्मायै नमस्तथा' ॥६२॥
'ओं कम्भरालक्ष्म्यै नमः' 'ओं प्रज्ञायै नम'स्तथा, ।
'ओं राधायै नमश्च' ओं ब्रह्मप्रियायै नमश्च' ॥६३॥
'ओं हरिण्यै नमः' 'ओं हरिप्रियायै नम'स्तथा ।
'ओं हिरण्यमय्यै नमः' 'ओं कार्ष्णवाल्लभ्यै नमः' ॥६४॥
'ओं पार्वत्यै नमः' 'ओं माणिक्यायै नम' इत्यपि ।
'ओं सुखदालक्ष्म्यै नमः' 'ओं शिवराज्ञीश्रियै नमः' ॥६५॥
'ओं नारायणीश्रियै नमः' 'ओं धामिन्यै नमः' ।
'ओं सुखदालक्ष्म्यै विद्महे नारायणीश्रियै धीमहि ।
तन्नः शिवराज्ञीश्रीः प्रचोदयात् ॥६६॥
आ कृष्णाय विद्महे वल्लभाय धीमहि
प्रज्ञा तन्नः प्रचोदयात् ।
ओम् आचार्याय विद्महे गुरवे धीमहि
पार्वती नः प्रचोदयात् ॥६७॥
एते मन्त्राः सदा लक्ष्मि भुक्तिमुक्तिफलप्रदाः ।
यावत्पुमर्थदाः सर्वसुखवाञ्च्छाप्रपूरकाः ॥६८॥
शतं सहस्रं चायुतं नियुतं कोटिरित्यपि ।
जप्ताः श्रद्धान्वितास्त्वां मां स्मृत्वा शाश्वतकामदाः ॥६९॥
त्वमहं त्वमहं लक्ष्मि सोऽहं सोऽहं जपेच्च यः ।
स्मृत्वा मां चापि तस्मै च तस्यै ददाम्यहं निजम् ॥७०॥
ममासनं मम धाम ममात्मानं ददामि च ।
मद्भक्तार्थं मम सर्वं शेषयामि न चार्पणे ॥७१॥
भज लक्ष्मि भज राधे मां कृष्णं वल्लभं पतिम् ।
भज कान्ते भज चान्ते प्रकाशे च रहस्यपि ॥७२॥
भज देहे भज गेहे प्राणप्रियं तथाऽऽन्तरे ।
भज गुप्ते भज सुप्ते शाश्वतानन्दकृत्सुखम् ॥७३॥
भजनं भक्तिरत्यन्तं प्रेमसेवा विनोदिनी ।
द्रव्यसम्पद्वाटिकाद्यैर्वाङ्मनःकायकर्मभिः ।
सेवेत परमात्मानं श्रीकृष्णं मां परेश्वरम् ॥७४॥
प्रत्यक्षं वर्तमानं मां सेवेरन् वै नराः स्त्रियः ।
अहं दिव्यस्वरूपोऽस्मि परमाक्षरधामगः ।
स एवात्र भवाम्यद्य सौराष्ट्रे कंभरात्मजः ॥७५॥
श्रीमद्गोपालकृष्णस्य नन्दनः परमेश्वरः ।
मन्वन्तरेषु वै लक्ष्मि स्थास्याम्यत्रैव सर्वथा ॥७६॥
पावनोऽहं गुरुरूपो यथाऽस्मि लोमशस्तथा ।
धातुपाषाणमूर्त्यादौ यथाहं निवसामि वै ॥७७॥
तथा चाऽस्मि वैष्णवाचार्येषु स्वयं परः प्रभुः ।
ये ये गुरुस्थले योग्या अभिषिक्ता नराः स्त्रियः ॥७८॥
तेषु तासु निवत्स्यामि साकं त्वया हि पद्मजे ।
तस्माद्वै गुरवो लोके दिव्या ममैव मूर्तयः ॥७९॥
दर्शनात् स्पर्शनाच्चपि सेवनात् तारका हि ते ।
मां विना पृथिवी नैव रिक्ता प्रजायते क्वचित् ॥८०॥
प्रवाहांऽशाऽऽवेशरूपैः प्रवर्तेऽहं वसामि च ।
चेतना मूर्तयः सर्वा गुर्वात्मिका जगत्त्रये ॥८१॥
अक्षरेऽहं सदा मुक्तमुक्तानीपतिरस्मि च ।
गोलोकेऽहं गोपिकानां गोपानां पतिरस्मि च ॥८२॥
वैकुण्ठेऽहं पार्षदानां पार्षदीनां पतिस्तथा ।
अव्याकृतेऽपि चैवाऽस्मि तथाऽमृते भवामि च ॥८३॥
श्रीपुरे धीः स्वयमस्मि कैलासे शंकरोऽस्मि च ।
सत्ये ब्रह्मा गुरुश्चाऽस्मि पितृलोके तथाऽर्यमा ॥८४॥
बृहस्पतिः सुरलोके मानवे साधुरस्मि च ।
दैत्यानामुशनाश्चास्मि ब्राह्मणानां वसिष्ठकः ।
साध्वी चास्मि योषितां च नराणां धिष्ण्यशोभनः ॥८५॥
सर्पाणां शेष एवाऽस्मि पशूनां वृषभोऽस्मि च ।
यादसां कच्छपश्चास्मि क्रूराणां शरभोऽस्मि च ॥८६॥
कल्पलता तु वल्लीनां शाखिनां कल्पपादपः ।
विद्यार्थिनां शिक्षकोऽस्मि वधूनां पतिमातृका ॥८७॥
एवं गुरुरेवं सर्वत्र मम सत्तामयं प्रिये ।
वर्तेऽहं सर्वदा तत्र गुरौ तीर्थोत्तमोत्तमे ॥८८॥
गुरुं मां गोचरं ज्ञात्वा यो भजेत निरन्तरम् ।
तस्य नान्यत्र मे गवेषणं कर्तुं हि शिष्यते ॥८९॥
गुरौ स्थित्वा दिव्यरूपः प्रतीक्षामि हि सेविनः ।
ये या यथा प्रपद्यन्ते ताँस्ताँस्तथा भजाम्यपि ॥९०॥
सर्वकामान् पूरयामि श्रद्धाभावसमन्वितान् ।
प्रेमस्नेहार्द्रसंदृब्धान् करोमि सफलान् सदा ॥९१॥
बान्धवोऽहं बन्धहर्ता गुरौ तिष्ठामि सर्वथा ।
बन्धास्तु वासनारूपा वासना वृत्तिसंभवा ॥९२॥
वृत्तयो योगलभ्याश्च संयोगो भोग्यवस्तुजः ।
भोग्यद्रव्याद्यलब्धिश्च वियोगे वै सहायिनी ॥९३॥
वृत्तीनां तेन विलयो वासनाविलयस्ततः ।
निर्बन्धता भवेत्तेन यतितव्यं तथा सदा ॥९४॥
गुरोर्योगो हि निर्बन्धो भावनाऽऽपादकः सदा ।
मोक्षस्थानप्रापकश्च महानन्दप्रदस्तथा ॥९५॥
दिव्यतापादकश्चापि सत्संगः शेवधिर्गुरोः ।
एवं लक्ष्मि सदाऽवाप्यो भवामि प्रेमभक्तितः ॥९६॥
बद्धान् सर्वान् मोचयामि निर्बन्धोऽहं गुरुः प्रियः ।
तारयामि महापापान् नरान्नारीर्नपुंसकान् ॥९७॥
पशून् पक्षिगणान् वारिनिवासान् वनिनोऽपि च ।
द्रुमान् वल्लीस्तारयामि सुरान् पितॄन् मुनीनपि ॥९८॥
शरणागतसन्त्राता भवामि भगवानहम् ।
कार्यं मे सुखदानं च दुःखात् त्राणं हि देहिनाम् ॥९९॥
तदेव सर्वसृष्ट्यादौ करोमि चापि सृष्टिषु ।
सृष्ट्यन्तेऽपि तथैवाऽहं विदधामि प्ररक्षणम् ॥१००॥
इत्येतत् कथितं सर्वं यथा पृष्टं प्रिये त्वया ।
वधूगीतामयं ज्ञानं सर्वासां मोक्षकृत् प्रिये ॥१०१॥
पठनाच्छ्रवणादस्य ज्ञातव्यं नाऽवशिष्यते ।
भुक्तिमुक्तिप्रदं मे वै तादात्म्यसम्प्रदं तथा ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां बहुविधानां दिव्यमन्त्राणां गुरोर्बलस्य च निरूपणनामा द्वाषष्टितमोऽध्यायः ॥६२॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP