द्वापरयुगसन्तानः - अध्यायः २०६
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं वनपालस्य वै कथाम् ।
नाम्ना तिलकरंगस्य शूद्रस्याऽरण्यवासिनः ॥१॥
महाकालवने लक्ष्मि वनपालोऽतिभक्तिमान् ।
आसीत् तिलकरंगाख्यः शिवभक्तोऽतिभावनः ॥२॥
सुरेशिकासरित्तीरे वृक्षषण्डे कृतालयः ।
अरण्यरक्षणं नित्यं भ्रमन् करोति सायुधः ॥३॥
वन्यकन्दफलाहारः क्वचिल्लब्धाऽन्नभोजनः ।
ऋतुपक्वकणाहारो वर्तते सकुटुम्बकः ॥४॥
वनेवासेऽपि सततं प्राणिहिंसाविवर्जितः ।
दयाधर्मपरो योग्ये काले शंकरपूजकः ॥५॥
प्रातः स्नात्वा वारिघटं भृत्वा श्रीशंकरालयम् ।
गत्वाऽभिषेकं चरति बिल्वपत्राणि चन्दनम् ॥६॥
कर्णिकायाः कनकानां पुष्पार्पणं करोति च ।
मध्यान्हेऽपि जलाधारी दत्वा प्रपूज्य शंकरम् ॥७॥
ततो नैवेद्यं प्राप्यैव भुंक्ते सायं तथैव च ।
धूपं दीपं सुनैवेद्यं नीराजनं प्रदक्षिणम् ॥८॥
आराधनं नमस्कारं कृत्वा करोति कीर्तनम् ।
स्वपित्येव ततस्तत्र वेद्यां शंकरसन्निधौ ॥९॥
प्रातरुत्थाय सम्मार्ज्य गालवादनपूर्वकम् ।
कृत्वा स्मरणं शंभोश्च ततः स्नातुं प्रयाति च ॥१०॥
अस्य पत्नी शिखादेवी तथैव शंकरार्हणम् ।
नित्यं करोति शक्त्या वै लिङ्गं संस्नापयत्यपि ॥११॥
मन्दिरे वसति तत्र दिवसे भक्तियोगिनी ।
वाटप्रवासिनः केचिन्नरा नार्योऽपि मार्गगाः ॥१२॥
यद्यायान्ति विश्राम्यन्ति तेभ्यो जलं फलं स्थलम् ।
ददाति सा शिखादेवी सत्करोति यथायथम् ॥१३॥
शंकरस्य गुणान् धर्मान् चमत्कारान् वदत्यपि ।
शंकरो वै भक्तभक्तिं विलोक्य च तुतोष ह ॥१४॥
एकदा वैष्णवो भूत्वा यात्रालुस्तत्र चागतः ।
कृतवैष्णवतिलकः स्कन्धे कृतसुपेटिकः ॥१५॥
कुक्षौ शालग्रामयुक्तो नारायणं रटन् मुहुः ।
शिखादेवी तु तं दृष्ट्वा वासं वेद्यां ददौ ततः ॥१६॥
निधाय पेटिकां तत्र स्नातुं सुकेशिकानदीम् ।
ययौ स्नात्वा स्नापयित्वा शालग्रामं प्रपूज्य च ॥१७॥
आययावासने वेद्यां निषसाद क्षणं स्थिरः ।
तावत् तिलकरंगोऽपि वनान्तरादुपागतः ॥१८॥
आनीय कन्दमूलानि निदधे वेदिकोपरि ।
यात्रालुं विष्णुयुक्तं च दृष्ट्वा ननाम पादयोः ॥१९॥
स्वागतादि पुनश्चक्रे फलमूलानि शंभवे ।
निवेद्य प्रददौ तस्मै पप्रच्छाऽऽगमनं कुतः ॥२०॥
क्व गम्यते महाराज यदीष्टं वस मद्गृहे ।
श्रुत्वैवं शंकरः प्राह भक्तार्थं त्वागमो मम ॥२१॥
गम्यते यत्र भक्तोऽस्ति तीर्थं मदिष्टं सर्वथा ।
यत्र भक्ता निवसन्ति तत्र वसामि साधुवत् ॥२२॥
त्वं भक्तोऽसि वने नित्यं सतामातिथ्यकारकः ।
त्वद्गृहं पावनीकृत्य यास्याम्यन्यत् सुतीर्थकम् ॥२३॥
श्रुत्वैतद् वनपालोऽपि पप्रच्छ पुनरेव तम् ।
क्व तीर्थं पावनं साधो विद्यते यत्र गम्यते ॥२४॥
जटी प्राह तदा भक्तं तीर्थं सतां समागमः ।
यत्र सत्संग उत्कृष्टस्तत्र वै गम्यते मया ॥२५॥
साधवो बहवः सन्ति संसारान्मोक्षकारिणः ।
विष्णोर्ध्यानपराश्चापि श्रीकृष्णार्पणकारिणः ॥२६॥
त्यागिनश्च तपोयुक्ता निग्रहे च यमे रताः ।
सेवाभक्तिपराश्चापि वनारण्यनिवासिनः ॥२७॥
यद्गृहे वर्तते विष्णुः शंभुर्वा श्रीनरायणः ।
वासुदेवो बालकृष्णस्तद्गृहं तीर्थमुत्तमम् ॥२८॥
यत्र हिरण्यवर्णश्च हिरण्यकेशवान् प्रभुः ।
सर्वः सुवर्णमूर्तिः श्रीहरिर्विराजते सदा ॥२९॥
तत्तीर्थं पावनं भक्त तत्र तीर्थे वसाम्यहम् ।
भूरितेजोदिव्यमूर्तिर्भगवान् यत्र राजते ॥३०॥
यत्र भक्ता हरेः सन्ति साध्व्यश्च साधवोऽपि च ।
तत्तीर्थे पावनं भक्त तत्र वै गम्यते मया ॥३१॥
सच्चिदानन्दरूपं यत् पूर्णं ब्रह्म प्रकाशकृत् ।
महातेजो यतः संप्रकाशतेऽत्र वसाम्यहम् ॥३२॥
तमेव पुण्डरीकाक्षं नारायणं पुमुत्तमम् ।
ध्यात्वा परात्परं दिव्यं परमेशमुपैम्यहम् ॥३३॥
तेनेदं च जगत् पूर्णं पूर्णेन पुरुषेण वै ।
तं श्यामसुन्दरं कृष्णं बालकृष्णमुपैम्यहम् ॥३४॥
कर्मफलप्रदातारं जीवानामीश्वरेश्वरम् ।
मुक्तेश्वरं दिव्यमूर्तिं लक्ष्मीपतिमुपैम्यहम् ॥३५॥
यस्य मूर्तेश्चाति तेजो महद् व्यापकमूर्ध्वगम् ।
सर्वस्थं ब्रह्मसंज्ञं च तं श्रीपतिमुपैम्यहम् ॥३६॥
यस्याऽन्वयेन सर्वत्र महः श्रेष्ठं प्रकाशते ।
मूर्तवत् फलदं चास्ते तं तेजस्विनमेम्यहम् ॥३७॥
ईश्वरा देवताः सिद्धा यत्प्रतापेन माधवाः ।
भवन्ति तं दिव्यमूर्तिं श्रीकृष्णं समुपैम्यहम् ॥३८॥
यस्य मूर्तौ समाधिं सम्प्राप्तस्य दिव्ययोगिनः ।
मायातत्कार्यतत्त्वानां लयोऽस्ति तमुपैम्यहम् ॥३९॥
चिदाकाशोऽतिसुखवान् महानन्दभृतः सदा ।
यन्मूर्तेः स्वच्छतात्माऽऽस्ते तं परेशमुपैम्यहम् ॥४०॥
यदक्षरं ब्रह्मधाम दिव्यं व्योम महः सुखम् ।
सर्वानन्दप्रदं यस्य तमुपैमि हरिं प्रभुम् ॥४१॥
यदक्षरं समस्तेषु मायायां मायिकेषु च ।
आत्मतत्त्वेषु चाप्यास्ते तं प्रभुं समुपैम्यहम् ॥४२॥
पुरुषे प्रकृतौ काले यदन्वयतया बलम् ।
समस्तकार्यकारित्वं तं कृष्णं समुपैम्यहम् ॥४३॥
सृष्टित्रयं च यस्माद्वै शोभते लयमेति च ।
सृष्टित्रये वर्तमानं तं हरिं समुपैम्यहम् ॥४४॥
यत्प्रसादाद् दिव्यदृष्टिर्मानवोऽपि सुरोऽपि वा ।
सर्वं ब्रह्मेक्षते तं माणिकीकान्तमुपैम्यहम् ॥४५॥
अनन्ताः शक्तयो यस्मादनन्तैश्वर्यकोटयः ।
प्रभवन्ति च रुद्राद्यास्तं परेशमुपैम्यहम् ॥४६॥
अष्टांगयोगिनः सन्तः साध्या देवाश्च यं प्रभुम् ।
समाधौ संप्रपश्यन्ति तं हरिं समुपैम्यहम् ॥४७॥
यन्मूर्तौ देहिनां नाडीप्राणाम्बराणि सर्वथा ।
संकुचितान्याकृष्टानि जायन्ते तमुपैम्यहम् ॥४८॥
ईश्वरा ब्रह्मरुद्राद्या मादृशाः साधवस्तथा ।
नारायणा ह्यसंख्याता यं श्रित्वैश्वर्यशालिनः ॥४९॥
भगवन्तो भवन्त्येव नारायण्यो भवन्त्यपि ।
अवताराऽवतारिण्यस्तमुपैमि परेश्वरम् ॥५०॥
भज त्वं सर्वथा तं च देवं श्रीपतिमीश्वरम् ।
सर्वेशं सर्वशक्तीनां धर्तारं राधिकापतिम् ॥५१॥
अहं भजामि तं देवं विष्णुं श्रीपरमेश्वरम् ।
अन्ये भजित्वा तं देवं परं पदं पुरा ययुः ॥५२॥
यान्ति यास्यन्ति चान्येऽपि भज तं परमेश्वरम् ।
इत्येवमुक्त्वा शान्तोऽभूद् रुद्रो वै भक्तवत्सलः ॥५३॥
ततो लक्ष्मि शिखादेवी तथा तिलकरंगकः ।
ज्ञात्वा साधुं ब्रह्मनिष्ठं रुद्रसमं ववन्दतुः ॥५४॥
अहो साधो धन्यभाग्यमस्माकं वै कुटुम्बिनाम् ।
ज्ञानमेतादृशं चाऽद्य लब्धवन्तो यतः सतः ॥५५॥
भवादृशस्य साधोर्वै दर्शनं दुर्लभं त्विह ।
वनपानां कथं साधुसंगमो मोक्षदो भवेत् ॥५६॥
विष्णोर्भक्तो भवानास्ते वयं भक्ता हरस्य च ।
हरस्य दर्शनं कस्माद् भवेत्तद्वद शोभनम् ॥५७॥
श्रुत्वा शंभुस्तदा प्राह शंभोस्तु दर्शनं तव ।
वृत्तीर्निरुद्ध्य चात्रैव भविष्यति न संशयः ॥५८॥
अन्तर्वृत्तीः समाधाय पश्यन्तु मां हृदन्तरे ।
साधुमूर्तौ दर्शनं ते भविष्यति हरस्य वै ॥५९॥
इत्युक्तास्ते तिलकाद्या वनपास्तत्र चाब्धिजे ।
अन्तर्वृत्तीस्तदा कृत्वा ध्यायन्ति हृत्सु यावता ॥६०॥
तावत् साधुः स्वयं रुद्रस्त्रिशूलधृग् व्यजायत ।
त्रिनेत्रो व्याघ्रचर्मधृक् सतीश्रीपार्वतीपतिः ॥६१॥
हरौ मग्नोऽतिसुखकृत् सौम्यरूपः समुज्ज्वलः ।
महायोगी गणेशाद्यैः सहितः समदृश्यत ॥६२॥
अथ तत्र हरेः रूपं चतुर्भुजस्य मे शुभम् ।
लक्ष्म्या समं महादिव्यं हरस्य हृदये परम् ॥६३॥
व्यदृश्यत महानन्दभृतं शंकरपूजितम् ।
शंभोस्तु हृदयात् तच्च निर्गतं शोभनं बहिः ॥६४॥
शंभुना पूज्यमानं च व्यदृश्यत सुखप्रदम् ।
एवं तु दर्शनं दत्वा साधुरूपस्तु शंकरः ॥६५॥
विष्णुरूपं निजरूपं तिरोभावयदेव सः ।
साधुरूपोऽभवच्छीघ्रं हृदये च ततः परम् ॥६६॥
सर्वान् तिलकरंगादीन् बहिर्वृत्तीनकारयत् ।
उत्थिता ददृशुः साधुं यथापूर्वं जटाधरम् ॥६७॥
ज्ञानवन्तश्च तं शंभुं स्वेष्टदेवं सतीपतिम् ।
निपेतुः पादयोः सर्वे शंभोः संवाहनं व्यधुः ॥६८॥
अपराधक्षमां ययाचिरे मुक्तिं ययाचिरे ।
शंभुः प्राह सदा चास्मि वैष्णवो भक्तवत्सलः ॥६९॥
भक्तानां श्रीहरौ भक्तिं कारयितुमिहागतः ।
नारायणं हृदयेऽहं रक्षामि सर्वदा प्रभुम् ॥७०॥
ध्यायामि तं परं ब्रह्म बालकृष्णं श्रियाः पतिम् ।
भवन्तो मम भक्ताश्च भजन्तु परमेश्वरम् ॥७१॥
इत्युक्त्वा प्रददौ लक्ष्मि मन्त्रं तेभ्यः स्वयं हरः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७२॥
अथ नारायणपूजां भजनं चाऽऽदिदेश तान् ।
मुक्त्यर्थं वचनं दत्वा सहसा स तिरोऽभवत् ॥७३॥
ततस्तिलकरंगोऽपि भेजे शंभोः समाज्ञया ।
बालकृष्णं प्रभुं मां वै पत्नीकुटुम्बयुक् सदा ॥७४॥
वने वन्यान्मानवाँश्च तत आरभ्य सर्वथा ।
नरान्नारीश्चाह्वयित्वा कारयत्येव कीर्तनम् ॥७५॥
'हरेकृष्ण हरेकृष्ण बालकृष्ण रमापते ।
हरेविष्णो हरे जिष्णोऽनादिकृष्ण श्रियःपते' ॥७६॥
एवं संकीर्तनं नित्यं करोति कारयत्यपि ।
वने वेद्यां नित्यमेवाऽर्चयत्येव जनार्दनम् ॥७७॥
फलपुष्पादिभिः कृष्णं नारायणं हरिं तु माम् ।
तोषयत्येव च नीराजनं कृत्वा ततः परम् ॥७८॥
नृत्यत्येव सवाद्यं च प्रेम्णा सायं निशागमे ।
साधुष्वेव हरश्चास्ते हरे हरिर्विराजते ॥७९॥
मत्वैवं वनमध्येऽपि साधून् सदा प्रसेवते ।
कर्मणा मनसा वाचा देहेन च धनेन च ॥८०॥
पत्रपुष्पफलैस्तोयैश्चात्मार्पणेन सेवते ।
साध्वर्थं कृतसर्वस्वः प्रत्यक्षसाधुसेवनः ॥८१॥
प्रत्यक्षनिश्चयः सम्यक् समर्प्य सेवते सतः ।
भार्या सुखार्थिनी सर्वं त्यक्त्वा सुखं विरागिणी ॥८२॥
यथा तथा सतः साध्वी सेवते परमार्थिनी ।
पुत्रपुत्र्यादिकाश्चास्य सेवन्ते साधुमीश्वरम् ॥८३॥
सर्वं वै वर्तते साधौ हरो हरिर्नरायणः ।
ब्रह्म मोक्षो महानन्दः साधुषु शाश्वतं सुखम् ॥८४॥
साधुरेव परंब्रह्म साधुर्देवो गुरुः परः ।
साधुजनो हरेर्मूर्तिः साधोः सेवा हि मुक्तिदा ॥८५॥
इत्येवं ते प्रसेवन्ते वनपा वन्यवस्तुभिः ।
अथैकदा कार्तिकस्य कृष्णाष्टमीदिने तु ते ॥८६॥
महोत्सवं प्रचक्रुर्वै वने कुञ्जे तु दारवे ।
वृक्षशाखानद्धदोलां वल्लीपल्लवपुष्पिताम् ॥८७॥
शोभितां संविधायैव मां कृष्णं ते न्यषादयन् ।
आन्दोलनं प्रचक्रुश्च कीर्तनं पूजनं मम ॥८८॥
जन्ममहोत्सवं चक्रुरनादेर्मे तदा त्वहम् ।
नृत्यगीतोत्तरं रात्रौ ब्रह्मप्रियासमन्वितः ॥८९॥
दिव्यकिशोररूपेण प्रत्यक्षस्त्वरितोऽभवम् ।
दिव्यदिव्यातिदिव्याढ्यरूपभूषाम्बरान्वितः ॥९०॥
प्राविरासं सुदोलायां तेजःपरिधिसत्प्रभः ।
प्रसन्नहास्यवदनः किशोरो माणिकीपतिः ॥९१॥
राधालक्ष्मीपतिप्रज्ञाप्रमाश्रीकमलापतिः ।
आश्चर्यं ते ययुः सर्वे क्षणं चक्रुश्च दर्शनम् ॥९२॥
अथ मूर्तिस्वरूपोऽहमभवं च द्रुतं ततः ।
प्रमोदमग्नास्ते सर्वे प्रार्थयामासुरुत्सुकाः ॥९३॥
हरेकृष्ण दयासिन्धो तारयाऽस्मान्निजाञ्जनान् ।
संसारसागरादस्मात्तव धाम प्रदेहि नः ॥९४॥
तथाऽस्त्वेवमहं तेभ्यो वरं ददौ तदा रमे ।
मूर्तेर्मुखाद् वरदानं दत्वा चात्त्वा तदर्पितम् ॥९५॥
अदृश्योऽहमभवँश्च ते चक्रुः परिहारकम् ।
अथ कालान्तरे प्राप्ते तिलकरंगयोगिनः ॥९६॥
शिखादेव्यास्तथा चान्यवनपानां कृपावशः ।
मुक्तिदाता विमानेन ह्युपस्थितोऽभवं वने ॥९७॥
दिव्यदेहान् विधायैतान् विमाने तान्न्यषादयम् ।
अगमं दिव्यधामोर्ध्वं चाक्षरं परमं मम ॥९८॥
एवं मुक्तिं दत्तवान् वै वनपेभ्यः परं पदम् ।
अन्येऽपि वनपास्तत्र भजन्ते मा हरिं प्रभुम् ॥९९॥
प्रयान्ति चाक्षरं धाम प्राप्ते चायुष्यसीमके ।
ये ये शंभोर्निदेशेन भजन्ते मां जनार्दनम् ॥१००॥
नयामि तान्मम धामाऽक्षरं लक्ष्मि परात्परम् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१०१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने तिलकरंगस्य वनपस्य शिवभक्तस्य साधुरूपशिवोक्तभक्त्या नारायणोपासनया परममुक्तिप्राप्तिरित्यादिनिरूपणनामा षडधिकद्विशततमोऽध्यायः ॥२०६॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP