संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १२३

द्वापरयुगसन्तानः - अध्यायः १२३

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
अनादिश्रीकृष्णनारायण कान्त जगद्गुरो ।
सर्वव्रतानां मूर्द्धन्यं सर्वनिःश्रेयसां प्रदम् ॥१॥
सर्वाऽऽपद्वारकं सर्वविघ्नानां च निवारकम् ।
सर्वसंकष्टहरणं सर्वव्याधिविनाशनम् ॥२॥
सर्वभाग्योर्ध्वपदकं सर्वस्मृद्धिकरं व्रतम् ।
येनैकेन तु चीर्णेन सर्वव्रतानि सर्वथा ॥३॥
चीर्णान्येव भवन्त्येव वद तद्व्रतमुत्तमम् ।
येन पापानि सर्वाणि नश्यन्त्येव कृतेन वै ॥४॥
प्रायश्चित्तानि सर्वाणि भवन्ति यत्कृतेन च ।
सर्वार्थदायकं सर्वधर्मोत्तमं परात्परम् ॥५॥
यदग्रेऽन्यव्रतव्रातास्तृणायन्ते हि तद्वद ।
सर्वसत्कार्ययज्ञाद्या यत्र विशन्त्यनुष्ठिते ॥६॥
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि सर्वधर्मदानतीर्थविधिव्रतैः ।
कृतैरपि न यत् सिद्ध्येत् तत्सिद्ध्यर्थं परात्परम् ॥७॥
कृतं व्रतं सिद्धिदं स्याद् ध्रुवं तादृग् वदामि ते ।
मया तु बहुधा प्रोक्तं स्पष्टं पुनर्वदामि तत् ॥८॥
साधुव्रतं दास्यसेवात्मकं सर्वार्थसाधकम् ।
सर्वव्रतानां मूर्द्धन्यं सर्वकल्याणकारकम् ॥९॥
सर्वदुःखहरं सर्वविघ्नहरं सुखास्पदम् ।
आध्युपाधिव्याधिहरं सर्वभाग्योदयप्रदम् ॥१०॥
सर्वर्द्धिकृत् सर्वपापहरं कल्मषनाशकम् ।
सर्वधर्मात्मकं पुण्यं सर्वयज्ञात्मकं हि तत् ॥११॥
नित्यं सम्पूजयेत् साधून् साधुपूजाव्रतं हि तत् ।
यथालब्धोपचारैर्हि सन्तोषयेन्मुनीश्वरान् ॥१२॥
प्रातस्तेषां दर्शनं वै कर्तव्यं सर्वदा शुभम् ।
मंगलानां मंगलं तत् साधुसन्दर्शनव्रतम् ॥१३॥
पादसंवाहनं कार्यं नित्यं सायं सतां शुभम् ।
पुण्यदं सम्पदां दातृ पादसंवाहनव्रतम् ॥१४॥
प्रातर्दुग्धादि पेयं वै दातव्यं साधवेऽन्वहम् ।
यथाशक्ति सुधास्वादु साधुपेयाऽर्पणव्रतम् ॥१५॥
प्रातः फलादिकं देयं साधुभ्यः श्रेय इच्छता ।
पक्वमिष्टरसा देयाः साधुफलार्पणव्रतम् ॥१६॥
सूर्यपक्वा वह्निपक्वाः ऋतुपक्वाः कणादयः ।
सद्भ्यो नित्यं प्रदेयास्तत् साधुकणाऽर्पणव्रतम् ॥१७॥
शाकपत्राणि देयानि भक्ष्याणि विविधान्यपि ।
इक्षुकन्दांऽकुरादीनि साधुशाकाऽर्पणव्रतम् ॥१८॥
आमवस्तूनि देयानि घृतपिष्टपयांसि च ।
मिष्टक्षाराऽऽरनालानि साध्वपक्वार्पणव्रतम् ॥१९॥
पक्वभोज्यानि मिष्टानि रम्याणि विविधानि च ।
नित्यं देयानि भावेन साधुभोज्याऽर्पणव्रतम् ॥२०॥
शीतवारि प्रदेयं च स्नानपानक्रियार्थम् ।
मिष्टं सुगन्धि पानार्हं साधुजलार्पणव्रतम् ॥२१॥
मुखवासस्य योग्यानि पूगीफलदलानि च ।
बीजादीनि प्रदेयानि साधुसुवासदव्रतम् ॥२२।
सायं वा भोज्यवस्तूनि पेयवस्तूनि यानि च ।
प्रदेयानि यथाशक्ति साधुसायंव्रतं हि तत् ॥२३॥
देहसंवाहनं कार्यं श्रममर्दनमित्यपि ।
तैलादिमर्दनं कार्यं साधुश्रमक्षयप्रदम् ॥२४॥
वस्त्रदानं प्रदातव्यं कम्बलादिप्रदानकम् ।
शय्यासनप्रदानादि साधुवस्त्रार्पणव्रतम् ॥२५॥
स्थालीतुम्बीप्रदानं च पात्रपत्रावलीपुटाः ।
प्रत्यहं सम्प्रदेयास्तत् साधुपात्रार्पणव्रतम् ॥२६॥
पुष्पाणि पुष्पहाराश्च गन्धसारसुगन्धिनः ।
चन्दनादि प्रदेयं च साधुगन्धार्पणव्रतम् ॥२७॥
काष्ठं समित् प्रदेयं च कटपट्टसुपट्टिकाः ।
वृसीचतुष्कीमञ्चादि साधुसमिध्व्रतं हि तत् ॥२८॥
विद्यापुस्तकदानं च शालादानं गृहार्पणम् ।
ब्रह्मविद्याग्रहदानं साधुविद्यार्पणव्रतम् ॥२९॥
दृष्टियन्त्रघटीयन्त्राऽक्षरलेखिनिकाऽर्पणम् ।
मषीपत्राद्यर्पणं चं साधुयन्त्रार्पणव्रतम् ॥३०॥
तन्तुसूचीप्रदानं च पादत्राणप्रदानकम् ।
कञ्चुकादिप्रदानं च साघुत्राणव्रतं त्विदम् ॥३१॥
आश्रमं बन्धयित्वाऽस्याऽर्पणं वृक्षादिशोभिनः ।
साध्वाश्रमव्रतं त्वेतत् स्वर्गमोक्षप्रदायकम् ॥३२॥
कूपः साध्वाश्रमे वापी सरो बा दीर्घिका नली ।
कुण्डी कार्या धनैश्चेदं साधुवारिव्रतं शुभम् ॥३३॥
प्रतोली धर्मशाला च चन्द्रशाला वितर्दिका ।
स्थण्डिलं कारणीयं च धूनी कार्याऽऽतपप्रदा ॥३४॥
अग्निशाला कारणीया पाकशाला सतां कृते ।
स्नानध्यानजपशाला साधुशालाव्रतं त्विदम् ॥३५॥
साधुभ्यो धेनवो देया दोग्ध्र्यो वत्सीसमन्विताः ।
वृषभा वाहनार्थं च साधुधेनुव्रतं त्विदम् ॥३६॥
गजोष्ट्रतुरगा देयाः सिंहव्याघ्रमृगादयः ।
साधवे तु समर्थाय साधुवाहनसद्व्रतम् ॥३७॥
वातगा च विमानं च हंसयानं जले तरीः ।
शकटी नरवाहं च शिबिका रक्षिका वशा ॥३८॥
गन्त्री च पादुका सिंहासनं देयं गजासनम् ।
फलकासनमेवापि साधुयानव्रतं त्विदम् ॥३९॥
उद्यानो वाटिका क्षेत्रं जीविका वर्षवृत्तिका ।
आयभागः प्रदेयश्च साधुवृत्तिव्रतं त्विदम् ॥४०॥
वाद्यं कांस्यं झल्लरी च पटहस्तन्त्रिका शुभा ।
वंशी वीणा मृदंगादि मूरजं तारतुम्बिका ॥४१॥
जलवाद्यं स्वरवाद्यं करतालं च दुन्दुभिः ।
विद्युद्वाद्यं प्रदेयं च साधुवाद्यव्रतं त्विदम् ॥४२॥
सिंहचर्म गजचर्म व्याघ्रचर्म मृगस्य च ।
अजीनं पावनं देयं साधुचर्मव्रतं त्विदम् ॥४३॥
मौक्तिकं हीरको रत्नं मणिः काचः शिलोत्तमा ।
मर्दली मुशलं देयं साधुसाधनसद्व्रतम् ॥४४॥
पेटिका कोष्ठली जोली तुम्बिका कलशी तथा ।
रज्जुश्च बन्धनी देया साधुजोलीव्रतं त्विदम् ॥४२॥
भिक्षा माधुकरी देया कण्ठी माला च तौलसी ।
पूजासामग्रिका देया साधुपूजाव्रतं त्विदम् ॥४६॥
व्यजनश्चामरं देयं त्रभाणं चोत्तरापटम् ।
पट्टो गलन्तिका देया साधुसन्ध्याव्रतं त्विदम् ॥४७॥
ओषधं चापि चूर्णं च वटिका गोलिका तथा ।
क्वाथा लेह्यानि देयानि साधुस्वास्थ्यव्रतं त्विदम् ॥४८॥
छत्रं दात्रं शिरस्त्राणं पत्त्राणं धोत्रमम्बरम् ।
कौपीनं पटको देयः साधुत्राणव्रतं त्विदम् ॥४९॥
भस्म पुण्यं दन्तधावं यज्ञोपवीतमित्यपि ।
कटिबन्धं गात्रिकं च देयं साधुवृषव्रतम् ॥५०॥
साध्वपेक्षितदानं यत् तत्साध्वपेक्षितव्रतम् ।
साधूनां वचनं ग्राह्यं साध्वाज्ञापालनं व्रतम् ॥५१॥
साधुप्रसादो भोक्तव्यः साधुपुण्याऽमृतं व्रतम् ।
साधुपादजलं पेयं साधुवार्यामृतं व्रतम् ॥५२॥
साधोः प्रसन्नता लभ्या साध्वनुग्रहसद्व्रतम् ।
साधोः प्रासादिकं वस्तु ग्राह्यं साध्वाश्रयव्रतम् ॥५३॥
लक्ष्म्येवं ते कथितानि साधुव्रतानि वस्तुतः ।
अथान्यानि कथयामि सेवात्मकव्रतान्यपि ॥५४॥
येषां तु करणे सम्यक् सिद्धिर्भवति देहिनाम् ।
प्राप्ते दुःखे तु साधूनां सेवार्थं मानता तु या ॥५५॥
कर्तव्या भृत्यता रूपा दासतारूपिणी च वा ।
सर्वार्पणात्मिका या तु द्रव्यार्पणात्मिका च वा ॥५६॥
दीपार्पणात्मिका या च नैवेद्यार्पणरूपिणी ।
तैलार्पणात्मिका यद्वा भूषार्पणात्मिका च या ॥५७॥
वस्त्रार्पणात्मिका या च पुत्रीपुत्रार्पणात्मिका ।
साध्व्यै च साधवे योग्या मानता सेवनात्मिका ॥५८॥
सा सर्वा दुःखदारिद्र्यनाशिका साध्वर्पणव्रतम् ।
नार्या कार्या मानता सा साध्वीसेवात्मिका शुभा ॥५९॥
नरेण सा तु कर्तव्या साधुसेवात्मिका शुभा ।
यथा धर्मस्य रक्षा स्यात् पुण्यं वर्धेत सौख्यदम् ॥६०॥
यथा नारी नरो वापि पुण्यं सम्प्राप्नुयात् परम् ।
गुरोर्वापि च गुर्व्याश्च साधोः साध्व्याश्च वै तथा ॥६१॥
सेवां कुर्याच्छ्रद्धया वै निःसंशयेन वर्त्मना ।
मानता या कृता पूर्वं तया सेवेत सद्गुरुम् ॥६२॥
साधुसेवा हि सा प्रोक्ता साधुव्रतं शुभं परम् ।
दुष्टस्वप्ने तु सञ्जाते कर्तव्या मानता शुभा ॥६३॥
साधूनां दर्शनं चाहं करिष्ये सेवनं क्षणम् ।
फलं दुष्टस्वापजन्यं मा भवेन्मे कदाचन ॥६४॥
जाते त्वपशकुनेऽपि कर्तव्या मानता शुभा ।
साधूनां दर्शनं कृत्वा त्वाशीर्वादवचः शुभम् ॥६५॥
प्राप्स्याम्यपशकुनस्य फलं मे मा भवेदिति ।
शत्रोर्भये समुत्पन्ने कर्तव्या मानता शुभा ॥६६॥
साधूनां दर्शनं पूजां परिचर्यां द्व्यहं शुभाम् ।
करिष्याम्याश्रमे स्थित्वा शत्रोर्भयं न मे भवेत् ॥६७॥
राजभये तु सम्प्राप्ते कर्तव्या मानता शुभा ।
साधूनां दर्शनं सेवां करिष्ये पञ्चवासरान् ॥६८॥
भोजयिष्ये सतो द्रव्यं दास्यामि विपुलं सते ।
देवसेवां धर्मदानं करिष्ये मा नृपाद् भयम् ॥६९॥
प्रजाभये समुत्पन्ने कर्तव्या मानता शुभा ।
साध्वर्थे वृत्तिकां दास्ये क्षेत्रवाट्यादि शोभनम् ॥७०॥
मासमात्रं सेवयिष्ये साधून् प्रजाभयं न मे ।
आभिचारभये जाते कर्तव्या मानता शुभा ॥७१॥
भूतावेशाद्यभिचारो विनश्येन्मे यदा तदा ।
साधुसेवां पञ्चदिनं करिष्ये भजनं तथा ॥७२॥
मलिनोपद्रवे जाते प्राणघातसमे तदा ।
कर्तव्या मानता चाऽहर्निशं साध्वाश्रमे मठे ॥७३॥
उषित्वा मासपर्यन्तं सेवयिष्ये सतो जनान् ।
करिष्ये भजनं भविष्यामि वै निरुपद्रवः ॥७४॥
प्रकृतिविकृतौ जायमानायां मानता शुभा ।
कर्तव्या साधुसत्संगं करिष्ये पक्षसेवनम् ॥७५॥
प्रकृतिर्मे भवेत् स्वस्था भोजयिष्ये सतो जनान् ।
वायुरोगे प्रकर्तव्या मानता साधुसंगतिम् ॥७६॥
करिष्ये दशदिवसान् नश्येदुन्मत्तता मम ।
विषिप्राणिकृते दंशे कर्तव्या मानतोत्तमा ॥७७॥
विषं नश्येज्जीवनं मे स्थिरं भवेत्तदर्थकम् ।
साधूनां सेवनं मासं करिष्येऽहर्निशं सदा ॥७८॥
शस्त्रघातादिजातायां पीडायां मानता शुभा ।
कर्तव्या दुःखनाशार्थं करिष्ये पूजनं सताम् ॥७९॥
द्रव्यदानादिकं चापि भोज्यदानादिकं तथा ।
मासमात्रं साधुवासे वत्स्यामि सेवनोत्सुकः ॥८०॥
हृत्पीडायां च मूर्छायां त्रिदोषे वृत्तिसंहृतौ ।
कर्तव्या मानता श्रेष्ठा जीवामि यदि घाततः ॥८१॥
साधुर्भूत्वा साधुमठे वत्स्यामि भक्तिलब्धये ।
यद्वा सेवां सतां सम्वत्सरं दिवानिशं शुभाम् ॥८२॥
करिष्ये मनसा द्रव्यैर्देहेन तन्मयात्मना ।
ज्वरादिरोगनाशार्थं कर्तव्या मानता शुभा ॥८३॥
द्व्यहं सेवां सतां वासे करिष्ये रोगनुत्तये ।
महापूजां कारयिष्ये सर्वतोभद्रकं तथा ॥८४॥
मण्डलं कारयिष्येऽपि क्रूररोगापनुत्तये ।
भोजनं विविधं सद्भ्यो दास्ये पीडाऽपनुत्तये ॥८५॥
अंगभग्नादिपीडायां कर्तव्या मानता शुभा ।
अंगस्वास्थ्यं भवेन्मे चेत् करिष्ये रूप्यकार्पणम् ॥८६॥
गृहार्पणं जीविकाया अर्पणं साधुसेवनम् ।
देहे शस्त्रचिकित्सायां कृतायां भिषजां वरैः ॥८७॥
कर्तव्या मानता स्यां चेत् सजीवनो निरामयः ।
षण्मासान् साधुसेवायां स्थास्येऽन्नधनदो भवन् ॥८८॥
पूरवाहेऽभिमध्ये वा विवरे कर्दमेऽपि वा ।
एवमादिस्थले मग्ने कर्तव्या मानता शुभा ॥८९॥
यद्यहं जीवनाढ्यः स्यां दुर्निवार्यापदस्तदा ।
सर्वस्वं मे च वाऽर्धं वाऽर्पयिष्ये देवमन्दिरे ॥९०॥
साधूनां सेवनं मासषट्कं दिवानिशं मठे ।
करिष्येऽन्नधनवस्त्रदेहमानसशक्तिभिः ॥९१॥
युद्धे विजयलाभार्थं कर्तव्या मानता शुभा ।
ग्रामान् देशान् सम्पदश्च स्वर्णरूप्यादिहीरकान् ॥९२॥
यानवाहनभूषाश्च छत्रचामरपट्टिकाः ।
अर्पयिष्ये श्रीहरये सद्भ्थश्चापि यथायथम् ॥९३॥
दासवच्च सतां सेवां करिष्ये मासपञ्चकम् ।
यज्ञे साधून् भोजयिष्ये कारयिष्ये च मन्दिरम् ॥९४॥
पाशबद्धेन कर्तव्या निगडस्थेन मानता ।
एतस्माच्चेद् विमुच्येयं करिष्ये साधुसेवनम् ॥९५॥
द्विमासं तु मठे स्थित्वा दत्वा भोज्यं यथाबलम् ।
वैर्यावृतः प्रकुर्याद्वै मानतां जीवनार्थिनीम् ॥९६॥
यद्यहं जीववान् स्यां चेद् दास्ये स्वर्णभरां तनूम् ।
रूप्यभारं शरीरं स्वं शर्कराभारकं च वा ॥९७॥
चौर्यहृतधनादेस्तु प्राप्त्यर्थं पुनरेव ह ।
कर्तव्या मानता श्रेष्ठा यदि प्राप्येत तद्धनम् ॥९८॥
दास्येऽर्धं परमेशाय साधवे धर्मकर्मिणे ।
यज्ञदानादिकं चापि करिष्ये तद्धनात्तदा ॥९९॥
पत्नीसुतापुत्रपितृमातृस्वसृकुटुम्बिनाम् ।
कृतेऽपहरणे द्विष्टैः कर्तव्या मानतोत्तमा ॥१००॥
जीविताः पुनरेवात्राऽऽगच्छेयुश्चाक्षता यदि ।
तदा वत्सरपर्यन्तं करिष्ये साधुसेवनम् ॥१०१॥
दास्ये द्रव्यं भोजनादि करिष्ये यजनं शुभम् ।
अरिष्टशान्तिं परमां करिष्ये रक्षणात्मिकाम् ॥१०२॥
लक्ष्मीत्येवं साधुसेवाव्रतानि कथितानि ते ।
कर्तव्यानि नरैर्नारीभिश्च पीडाहराणि वै ॥१०३॥
अथाऽप्यन्यानि सर्वाणि कथयिष्ये समासतः ।
येषां करणे विघ्नाश्च पीडा यान्ति विदूरतः ॥१०४॥
साधुसेवासमं श्रेष्ठं व्रतं सृष्टौ न विद्यते ।
आशीर्वादेन तूर्णं वै पीडा नश्यत्यनाशिनी ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वव्रतोत्तमव्रतं साधुसेवामानतात्मकमितिनिरूपणनामा त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP