संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ४४

द्वापरयुगसन्तानः - अध्यायः ४४

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां पूर्वभवां शुभाम् ।
वेदायनो महर्षिः स्वां भार्यामकथयत् पुरा ॥१॥
श्रेष्ठतमं प्रवक्ष्यामि पातिव्रत्यमनुत्तमम् ।
वाचा सुमनसा चैव कर्मणा शृणु भामिनि ॥२॥
आग्रायणे शृणु धर्मान् वध्वाः श्रेयस्करान् मुदा ।
शुश्रूषां कुरुते भर्तुः प्रत्यहं स्वीयभावनैः ॥३॥
क्रुद्धं च निर्धनं वापि न त्यजेत् तं पतिव्रता ।
तस्य दोषं न गृह्णाति ताडिताऽपि प्रतुष्यति ॥४॥
भर्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा ।
कुष्ठिनं वृन्दलं वापि कान्तं या सेवते सती ॥५॥
पत्युलौकं प्रयात्येव प्रसादात् स्वामिनः शुभम् ।
पतितं व्याधितं कुब्जं विकलं रोगिणं च वा ॥६॥
षण्ढं धर्मविहीनं पातकिनं व्यसनान्वितम् ।
अपि नाथं त्यजेन्नैव वधूः श्रेयो यदीच्छति ॥७॥
कान्तं त्यक्त्वा व्रजेदन्यत्कार्यार्थं स्नेहवर्जिता ।
सा पत्युः शापमासाद्य पुंश्चलीत्वमवाप्नुयात् ॥८॥
गते भर्तरि शृंगारं लौल्यं च सेवते यदि ।
सा तु कामस्य वेगेन भ्रष्टा भवेज्जनान्तरात् ॥९॥
या पतिं स्वं परित्यज्य पितुर्गेहे वसेत् सदा ।
विधिहीना धर्महीना सा नारी शासनार्हणा ॥१०॥
गार्हस्थ्यं हि परित्यज्य याऽटतेऽन्यत्र वेश्मनि ।
सा न भवति सम्पूर्णा पतिदेवा ह्यभागिनी ॥११॥
भर्तारं च परित्यज्य महोद्यानादिवर्तिनी ।
शृंगारभूषावेषाढ्या निर्घृणा सा तु पापिनी ॥१२॥
भवति पुंश्चली नाम यया त्यक्तः स्वकः पतिः ।
पृथक्शय्या वधूः प्रोक्ता पुंश्चली धर्मवर्जिता ॥१३॥
चक्षुर्हीना धर्मनेत्रविहीना पतिवर्जिता ।
सर्वस्थाने पतिर्ह्येको भार्याया धर्मधृङ्नरः ॥१४॥
पितुर्गेहे स्थिता कन्या चिरं नाशं प्रयाति सा ।
पत्युर्गेहे स्थिता कान्ता चिरमायुष्यमृच्छति ॥१५॥
पतिव्रता महाभागा सर्वतीर्थमयी सती ।
देवी सर्वमयी नित्या सर्वधर्ममयो हि सा ॥१६॥
असद्गतिं गतायै च यस्यै कस्यैचिदप्यथ ।
ददात्येकदिनस्यापि पुण्यं पतिव्रतोद्भवम् ॥१७॥
पिशाचिन्या भवेन्मोक्षः पापशान्तिर्भवेत्तथा ।
शरीरं शीर्यतेऽवश्यं पातिव्रत्यमुपार्जयेत् ॥१८॥
पिंगला शृंगली नाम द्वौ कृमीकर्णमूलयोः ।
चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः ॥१९॥
भृंगली जंगली चैतो नेत्रयोरान्तरस्थितौ ।
कृमयो वै तथा सन्ति सर्वांगेषु नवा नवाः ॥२०॥
तैश्च संभक्ष्यते देहः पतिधर्मपरायणः ।
वध्वा विचार्य साध्योऽतो धर्मः पतिव्रतात्मकः ॥२१॥
तेजःप्रभावो ह्यतुलः सतीनां पतिदैवतः ।
धाता सोढुं समर्थो न न सूर्यो न च पावकः ॥२२॥
सत्कारयोग्याः सत्यश्च सतीत्वं पूज्यते सदा ।
क्षमा शान्तिर्ब्रह्मचर्यं दया दमश्च सौहृदम् ॥२३॥
प्रज्ञा सन्तोष ऐश्वर्यमार्जवं शुद्धता तथा ।
सिद्धयः कल्पलतिकाः सत्या देहे वसन्ति हि ॥२४॥
गुरवः पितरश्चापि विष्णुर्लक्ष्म्या समन्वितः ।
हरश्च सत्या सहितः सावित्र्या सह विश्वसृट् ॥२५॥
सतीगेहं समायान्ति देवाश्चाग्निपुरोगमाः ।
मोक्षमार्गस्थितायां वै योषिति गृहयोषिति ॥२६॥
ज्ञानौदार्यस्थितायां च सतीषु धर्मवत्स्वपि ।
साधुष्वपि गृहस्थेषु नित्यं तिष्ठन्ति देवताः ॥२७॥
भक्तस्याऽपि कुटुम्बस्य गृहे वसामि माधवः ।
समर्थाः साधवः साध्व्यो यत्र तत्र वसामि च ॥२८॥
सतीगृहं गृहं मे वै ब्रह्मप्रियायुतस्य ह ।
सञ्चरामि सदा गेहे पातिव्रत्यादिशोभिते ॥२९॥
ईश्वराः स्वामिनः सर्वे दर्शनार्थं प्रयान्त्यपि ।
पतिव्रतागृहं यत्र निवसामि नरायणि ॥३०॥
रूपसौभाग्यशृङ्गारसुखं सम्पत्तिरित्यपि ।
नारीणां सर्वथा कान्ते सर्वस्वं शोभतेऽनिशम् ॥३१॥
कान्ता कान्तेन रिक्ता न त्यक्तव्या वै कदाचन ।
त्यागकर्ता दोषभाक् स्यात् सतीधर्मस्य लोपकृत् ॥३२॥
विनीतां विमलां पुण्यां वधूं त्यक्त्वा प्रयाति यः ।
तस्य पुण्यं कृतं सर्वं वृथा वधूविलापनात् ॥३३॥
धर्माचारपरां पुण्यां भार्यां त्यक्त्वा प्रयाति यः ।
साध्वीं सुगुणां वत्सां स धर्मफलं न विन्दति ॥३४॥
सर्वाचारपरा साध्वी पुण्यपुञ्जार्जने रता ।
सतीव्रतरता सेवारता विज्ञा विनोदिनी ॥३५॥
ज्ञानगुणा भवेद्भार्या यस्य भक्तिमती शुभा ।
महासती च तद्गेहे देवास्तिष्ठन्ति सर्वदा ॥३६॥
पितरस्तादृशं पुत्रं वधूं चेच्छन्ति सर्वथा ।
पुण्या सती वधूर्गेहे वर्तते सत्यशालिनी ॥३७॥
तत्र यज्ञाश्च देवाश्च तीर्थानि पुण्यदानि च ।
कामदुघाः कल्पलतास्तत्र वसन्ति सर्वदा ॥३८॥
तत्र सर्वाणि पुण्यानि तीर्थानि सरितो नदाः ।
तत्र लक्ष्म्यो निवसन्ति सम्पदश्च वसन्त्यपि ॥३९॥
भार्यातीर्थे सर्वपुण्यशीलास्तिष्ठन्ति योगिनः ।
भार्यायोगेन पत्युश्च पादौ तीर्थस्वरूपिणौ ॥४०॥
सतीभार्यानिवासेन सुगार्हस्थ्यं सुदैवतम् ।
सर्वयज्ञमयं स्याद्वै सर्वव्रतार्थसम्प्रदम् ॥४१॥
गृहस्थस्य गृहं पुण्यं भार्या पुण्या पतिव्रता ।
यत्र तत्र प्रवर्तन्ते सर्वे धर्मा सनातनाः ॥४२॥
दानाचाराः प्रवर्तन्ते उत्सवाश्च महासुखाः ।
भार्याहीनं वनं व्याघ्राकुलितं दुःखसंभृतम् ॥४३॥
नास्ति भार्यासमं तीर्थं धर्मसाधनमुत्तमम् ।
वने ग्रामेऽप्यरण्ये वा सतीतीर्थं हि मोक्षदम् ॥४४॥
नास्ति भार्यासमं पुण्यं नास्ति भार्यासमं सुखम्।
नास्ति भार्यासमं ज्ञानं तारणाय हिताय च ॥४१॥
धर्मभार्यां सतीं त्यक्त्वा योऽन्यत्र कुरुते मतिम् ।
गृहधर्मं परित्यज्य फलं क्वाऽस्य भवेन्ननु ॥४६॥
पत्नीं विना यदा तीर्थे श्राद्धं दानं कृतं शुभम् ।
सर्वं प्रयाति विफलं तस्माद् वधूं न संत्यजेत् ॥४७॥
यथाऽमृतप्रदानेन पितृतृप्तिः प्रजायते ।
भार्यादत्तेन पिण्डेन तथा तृप्तिः प्रजायते ॥४८॥
गार्हस्थ्यस्य तु धर्मस्य भार्या भवति स्वामिनी ।
तया विनाऽर्पितं श्राद्धं कवोष्णं जायते हि तत् ॥४९॥
भार्या पचति चैवान्नं स्वहस्तेनाऽमृतोपमम् ।
तदन्नमेव भुञ्जन्ति पितरो हृष्टमानसा ॥५०॥
तेनैव तृप्तिमायान्ति सन्तुष्टाश्च भवन्ति ते ।
तस्माद् भार्या विना धर्मः पुरुषाणां न सिद्ध्यति ॥५१॥
भार्या सती वधूर्नित्यं धर्मं साधयति ध्रुवम् ।
यज्ञाः सिद्धिं न चाऽऽयान्ति गृहिणीरहिते गृहे ॥५२॥
सत्यधर्ममुखाः पुण्या ज्ञानाद्याः प्रबलाः सुता ।
धर्मस्य ते सहाया वै सतीं रक्षन्ति सर्वथा ॥१३॥
सती रक्षापरा चास्ते दमशान्तिपरायणा ।
न तां जेतुं समर्थो वै कालो वा यम एव वा ॥५४॥
भर्त्रा विना सतीं कश्चिन्निरीक्षेत यदा जनः ।
सतीनेत्राग्निना सोऽपि भस्मीभूतो भवेत् खलु ॥५५॥
यत्र सती महाभागा वधूर्वै सर्वमंगला ।
तस्याः सत्येन सन्तुष्टा देवा वरं ददत्यपि ॥५६॥
सतीं यान्तीं चाऽभियन्ति वह्नयो देवता अपि ।
गृहदेवा अभियन्ति वनदेव्योऽभियन्ति च ॥५७॥
सतीं यान्तीं जले स्नातुं जलदेव्योऽभियन्ति च ।
सतीं यान्तीं तीर्थयात्रां तीर्थानि चाभियन्त्यपि ॥५८॥
सतीं यान्तीं देवगृहं देवात्तामभियन्ति च ।
सतीं यान्तीं वाटिकायां क्षेत्रदेव्योऽभियन्ति ताम् ॥५९॥
सतीं यान्ती यज्ञभूमिं मखदेव्योऽभियन्ति ताम् ।
सतीं यान्तीं प्रवासं च पृथ्वी याति सतीमनु ॥६०॥
सतीं स्नान्तीं प्रसेवन्ते पित्र्यो देव्यो जलार्थिकाः ।
सतीतन्वा जलं ताश्च पिबन्ति वस्त्रपीडितम् ॥६१॥
वधूर्या मोदते पातिव्रत्येन स्वगृहे सदा ।
स्वर्गेऽपि तत्सुखं नास्ति सिद्धिलभ्यं सतीसुखम् ॥६२॥
सिद्धयश्चाणिमाद्याश्च सेवन्ते वै पतिव्रताम् ।
सतीच्छाः पूर्णतां यान्ति यथातथापि कल्पिताः ॥६३॥
विष्णुर्ब्रह्मा हरश्चेन्द्रः सूर्यश्चन्द्रो यमो गुरुः ।
सतीं नमन्ति साध्वीं च पूजयन्ति सतीं च ते ॥६४॥
निजपत्नीं सतीं सर्वे देवा इच्छन्ति सर्वथा ।
राजानोऽपि दिशां पाला बिभ्यति स्त्रीसतीबलात् ॥६५॥
सत्यं व्रतं भवेद् यत्र सती सा सर्वथा मता ।
पत्युर्व्रतं भवेद् यत्र सती सा तु पतिव्रता ॥६६॥
ब्रह्मव्रतवती या सा सती ब्राह्मी पतिव्रता ।
मम चैकान्तिका या सा सती श्रीपुरुषोत्तमी ॥६७॥
बहुपुण्येन लभ्योऽहं पतिः श्रीपुरुषोत्तमः ।
शतजन्मशीलकोशान्मम प्राप्तिर्भवेदिह ॥६८॥
सतीसंकल्पमात्रेण रोगा दूरं प्रयान्ति च ।
विघ्ना दूरं प्रयान्त्येव गणेशोऽपि बिभेति वै ॥६९॥
यमराजो भयं चैति कालो गच्छति दूरतः ।
मातरश्च प्रसन्नाः स्युर्यत्र गेहे पतिव्रता ॥७०॥
चण्ड्याद्याः शान्तिमासाद्य रक्षन्ति ताः सतीगृहम् ।
बालग्रहा न चायान्ति सीम्नि सतीगृहस्य वै ॥७१॥
मारीरोगाश्च मन्त्राश्च मोहभ्रान्तिकरा अपि ।
उच्चाटनाद्या भीं प्राप्य वर्जयन्ति सतीगृहम् ॥७२॥
हनुमान् ब्रह्मशीलोऽपि सेनानीः शीलवानपि ।
ब्रह्मचर्याख्यपुरुषः सतीं नमन्ति दूरतः ॥७३॥
विद्युद्वृष्टिसमुद्राणामुत्पाता भीं प्रयान्ति च ।
सतीवाक्येन सन्तोऽपि स्वानुरोधं जहत्यपि ॥७४॥
पतिव्रताया वध्वाश्च सन्निधौ चेश्वरा अपि ।
पराजयं क्वचित् प्राप्य सत्याज्ञां मानयन्ति च ॥७५॥
सतीकोपेन सर्पाद्याः सविषा यान्ति भस्मताम् ।
पर्वताद्या विलीयन्ते शुष्कायन्तेऽब्धयोऽपि च ॥७६॥
ग्रहा गतिं विहायैव स्तब्धा भवन्ति दण्डिताः ।
कामाद्या मानसा देवा लयं यान्ति सतीबलात् ॥७७॥
वासना भवदा सत्याशीर्वादेन प्रदह्यति ।
महामायाविलयश्च जायते तु सतीच्छया ॥७८॥
अवग्रहः सतीकोपाद् वृष्टिः सतीप्ररञ्जनात् ।
वंशरेखा सतीशापान्नश्यत्यपि जगत्सु च ॥७९॥
सतीच्छया नवं सर्वं जगत्पुनः प्रजायते ।
यत्र सती वधूश्चास्ते तत्राऽहं भगवान् स्वयम् ॥८०॥
विराजे धामसहितो मुक्तादिसहितस्तथा ।
विराजे पार्षदैर्युक्तो विराजे धर्मसंयुतः ॥८१॥
विराजे भक्तियुक्तश्च श्रीपतिः पुरुषोत्तमः ।
विराजे सम्पदा युक्तः प्रत्यक्षोऽहं सतीगृहे ॥८२॥
सती साध्वी ब्रह्मपरा भक्ता नारायणी हि सा ।
पतिव्रता सात्त्वती सा महाभागवती मता ॥८३॥
सच्चिदानन्दसंज्ञोऽहं निवसामि सतीगृहे ।
तद्वंशे प्रकटीसंभवामि चापि सतीच्छया ॥८४॥
प्रसन्नोऽहं सदा भक्तवत्सलः श्रीसतीगृहे ।
अनादिश्रीकृष्णनारायणोऽहं भगवान् स्वयम् ॥८५॥
परिपूर्णतमश्चास्मि तत्र क्षतिर्न विद्यते ।
न्यूनता नैव भवति संशयो न भवत्यपि ॥८६॥
तस्य वै सफलं जन्म सफलं गृहमित्यपि ।
सफलो वंशविस्तारो यस्य गेहे हरिः सती ॥८७॥
धर्मस्तस्यापि सफलो क्रियाश्च सफलाः सदा ।
प्रयासाः सफलाः सर्वे यस्य गेहे हरिः सती ॥८८॥
सदाऽऽनन्दाश्च कुशलं स्वास्थ्यं सर्वविधं तथा ।
यत्र साध्व्यो हरिर्धर्मो यतयः साधवः सुराः ॥८९॥
तत्र यतो भवेत् सिद्धिः लौकिकी पारलौकिकी ।
यत्र क्षणं स्थिता साध्वी सन्तस्तत्र हरिः स्वयम् ॥९०॥
कृतं तेन परं पुण्यं पूर्वजन्मनि चातुलम् ।
येन प्राप्ता सती भार्या हरिः श्रीपुरुषोत्तमः ॥९१॥
सतीं द्रष्टुं मुख्यदेवाः सन्तश्चायान्ति नित्यशः ।
अश्वपट्टसरश्चेदं गृहं मे शिवसंज्ञिके ॥९२॥
तस्मात् परं हि सुकृतं देशस्याऽस्य प्रवर्तते ।
यत्र सत्यो मम पत्न्यो भवन्ति कोटिशोऽर्बुदाः ॥९३॥
त्वया निभालिता लक्ष्मि स्वतुल्याश्च मदात्मिकाः ।
परिपूर्णतमश्चाऽहं कृष्णनारायणो हरिः ॥९४॥
वधूभिः सह संराजे दिव्ये सुराष्ट्रके स्थले ।
आक्षरे मम सत्क्षेत्रे दिव्ये कुंकुमनामके ॥९५॥
सृष्टिधामाधिपश्चाहं तव भक्त्या वशीकृतः ।
लक्ष्मि वसामि तेऽग्रे च स्ववशस्तव मन्दिरे ॥९६॥
अहो ब्रह्मप्रियाः सर्वा रसं गृह्णन्ति मे हरेः ।
कृपयाऽऽनन्दसन्दोहं पिबन्ति मम चाऽमृतम् ॥९७॥
यूयं ब्रह्मप्रियाः परब्रह्मरूपा मदात्मिकाः ।
मम धर्मपराः सन्तु कल्याणदा हि योषिताम् ॥९८॥
धन्या कुंकुमवापीयं धन्यं व्याघ्रवनं त्विदम् ।
धन्यं चाश्वसरश्चापि धन्या भूश्च सुराष्ट्रिका ॥९९॥
धन्यो देशः प्रजाश्चापि वृक्षाश्च वल्लिकास्तथा ।
धन्यास्तृणस्तम्बवृक्षाः पशवो नरयोषितः ॥१००॥
धन्यश्चापि समयोऽयं धन्याश्च जन्तवोऽपि च ।
येषां मे श्रीहरेर्योगः क्षणे क्षणेऽत्र जायते ॥१०१॥
यत्र धर्मः कुटुम्बाढ्यो वर्तते शाश्वतः सुखः ।
यत्र मुक्तिस्तथा भक्तिः प्रीतिश्च सन्ति वै ध्रुवाः ॥१०२॥
एवं मत्वा नरा नार्यो धन्यमात्मानमेव ये ।
स्मरिष्यन्ति सतीधर्मास्तेऽपि यास्यन्ति धाम मे ॥१०३॥
पठनाच्छ्रवणाच्चास्य सतीधर्मस्य वाचनात् ।
पालनादपि मुक्तिश्च सिद्धिश्चापि भवेद् ध्रुवा ॥१०४॥
वंशः सम्पद् यशो मानं चारोग्यं च प्रभाविता ।
प्रभूता चेश्वरभावो भवन्त्यस्य विचारणात् ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां सतीसत्यसामर्थ्यनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP