द्वापरयुगसन्तानः - अध्यायः ५१
लक्ष्मीनारायणसंहिता
शृणु नारायणीश्रि त्वं कुञ्जलस्तु ततः परम् ।
द्वितीयं स्वसुतं चापि पप्रच्छ विनयान्वितम् ॥१॥
समुज्ज्वल! किमपूर्वं दृष्टवान् श्रुतवान् वद ।
श्रुत्वा समुज्ज्वलः प्राह हिमवन्तं गिरिं पितः ॥२॥
आहारार्थं प्रगच्छामि पश्यामि कौतुकं नवम् ।
मानसं यत्सरश्चास्ते तत्र दृष्टं वदामि तत् ॥३॥
बहुहंससमाकीर्णो हंस एकः समागतः ।
स च कृष्णो महातेजाः कृष्णहंसान्वितः शुभः ॥४॥
त्रयश्चान्येऽपि शुक्लाश्च चञ्चुपादैस्तु कृष्णकाः ।
आययुस्ते चतुर्ण्णां वै पत्न्यो हंस्यः समाययुः ॥५॥
भयंकर्यश्चोर्ध्वकेश्यः कृष्णवर्णा विभीषणाः ।
कृष्णा हंसा जले सस्नुर्न सस्नुश्च त्रयोऽपरे ॥६॥
चतस्रो हंसिकाश्चापि नैव सस्नुः सरोवरे ।
कृष्णा हंसा जलात्तस्माद्विनिर्गत्याऽऽययुर्द्रुतम् ॥७॥
त्रयोऽन्ये हंसकाश्चाप्याययुरुड्डीय विन्ध्यकम् ।
शिष्टाश्चतस्रो हंस्योऽपि विन्ध्याचलमुपाययुः ॥८॥
हंसा हंस्यो महाभीता बभ्रमुः परितस्ततः ।
निषण्णा दुःखदग्धाश्च वृक्षशाखासु संहिताः ॥९॥
तत्र कश्चित् समायातो लुब्धकस्तु धनुर्धरः ।
शिलापृष्ठे निषसाद भिल्ली ततः समागता ॥१०॥
द्वावेतौ च्यवनौ दृष्ट्वा महर्षिं तं प्रणेमतुः ।
च्यवनस्य पादजलं पीत्वा दिव्यौ बभूवतुः ॥११॥
विमानवरमारुह्य ययतुः स्वर्गमेव तौ ।
देवौ दिव्यतमौ भूत्वा हृष्टौ साक्षान्मयि हि तौ ॥१२॥
अथ हंसास्तदोड्डीय च्यवनस्यैव पादयोः ।
रजस्सु ते समलुठन् तथा पादजलं पपुः ॥१३॥
च्यवनेनाऽभिषिक्तास्ते श्वेता बभूवुरेव च ।
कृष्णत्वं लीनतां प्राप्तं ययुश्चाऽदृश्यतां ततः ॥१४॥
के त्वासन् वै पितर्हंसाः कृष्णवर्णा हि ते पुरा ।
पश्चात् श्वेताः कथं जाताः क्व गतास्ते ततः परम् ॥१५॥
कुञ्जलस्तत् समाकर्ण्य प्राह पुत्रं समुज्ज्वलम् ।
शृणु पुत्र कथयामि दिव्यं कथानकं तु तत् ॥१६॥
तान्यासन् सर्वतीर्थानि चाऽष्टषष्टिमतानि वै ।
एतेषु मानवाः स्नात्वा पापानि क्षालयन्ति च ॥१७॥
गोवधाख्यं महापापं स्त्रीवधाख्यं तथाविधम् ।
स्वामिद्रोहात्मकं पापं सुरापानात्मकं तथा ॥१८॥
हेमस्तेयोद्गतं पापं गुरुनिन्दात्मकं तथा ।
भ्रूणहत्या महाघोरा राजद्रोहस्तथाविधः ॥१९॥
मित्रद्रोहश्च विश्वासघातश्च देवभेदनम् ।
वृत्तिच्छेदो गोचरस्य नाशनं वह्निदाहनम् ॥२०॥
साधुसाध्वीविनाशश्च गरदानं भयंकरम् ।
मातापितृवधश्चापि बालिकाभोग इत्यपि ॥२१॥
पशुहत्या मातृसंगो विंशतिपातकानि वै ।
तथाऽन्यानि पातकानि मानवाः क्षालयन्ति हि ॥२२॥
तैः पापैः कृष्णतां यान्ति प्राप्तानि तीर्थकानि वै ।
तानि पापानि सर्वाणि क्षालयितुं निजानि हि ॥२३॥
भूत्वा हंसस्वरूपाणि गतानि मानसं सरः ।
स्नात्वा नैव विनष्टानि पापानि तेन वै पुनः ॥२४॥
नर्मदायास्तीरमाप्ता हंसाश्चासन् सुदुःखिताः ।
पापप्रक्षालनं तीर्थं चिन्तयन्तो द्रुमे स्थिताः ॥२५॥
तैर्दृष्टौ दिव्यरूपौ च व्याधीव्याधौ दिवंगतौ ।
परस्परं वदमानौ च्यवनस्य गुरोर्बलम् ॥२६॥
ब्रह्महत्या गुरुघातश्चाऽगम्यागमनादिकम् ।
गोहत्या च सुरापानं नष्टं गुरोर्बलाद्धि नौ ॥२७॥
दिव्यौ जातौ स्वर्गयानौ धन्यं पादं गुरोर्भुवि ।
इतिश्रुत्वा च ते हंसाश्च्यवनस्याऽन्तिकं ययुः ॥२८॥
लुलुठुः पादरजसि पादवारि पपुश्च ते ।
च्यवनोऽपि तदा रेवतोयैश्चाऽऽप्रोक्षयद्धि तान् ॥२९॥
सर्वे हंसाः श्वेतवर्णा भूत्वा नत्वा मुनिं मुहुः ।
ययुश्चाऽदृश्यतां तत्र हंसा हंस्योऽपि सर्वशः ॥३०॥
गुरुतीर्थं पातकानां शामकं परमोत्तमम् ।
सर्वतीर्थानि मानानि गुरुतीर्थे भवन्ति वै ॥३१॥
कृष्णहंसाऽन्वितश्चैको यश्चासीत् कृष्णहंसकः ।
सर्वतीर्थसमेतः सह्यभूत् प्रयागराजकः ॥३२॥
त्रयश्चान्ये तु हंसास्ते रेवा गोदा च पुष्करम् ।
हंस्यश्चापि चतस्रस्ता गंगा च ब्रह्मपुत्रिका ॥३३॥
सरस्वती च कावेरी ह्यासंस्तत्र हि हंसिकाः ।
इत्येतत् कथितं सर्वं गुरुतीर्थनिषेवणम् ॥३४॥
सर्वपापहरं मोक्षप्रदं वै गुरुतीर्थकम् ।
अथ वै कुञ्जलः पुत्रं पप्रच्छ च तृतीयकम् ॥३५॥
किं विज्वल! त्वया दृष्टमाश्चर्यं कथयाऽत्र मे ।
विज्वलः पितरं प्राह नूत्नं विलोकितं तु यत् ॥३६॥
पितश्चाऽहं नवलक्षाऽभिधं वै पर्वतं ययौ ।
देववृन्दैश्चाप्सरोभिः ऋषिभिः सेवितं शुभम् ॥३७॥
दिव्यवृक्षैः समाकीर्णं फलपुष्पनतैः सदा ।
योगिनो नवलक्षाणि वर्तन्ते यत्र पर्वते ॥३८॥
आनन्दकाननं नाम वनं तत्र प्रभासते ।
विमलं च सरस्तत्र विशालं चावलोकितम् ॥३९॥
यादोभिर्विविधैर्युक्तं हंसकारण्डवादिभिः ।
किन्नरोरगगन्धर्वैश्चारणाद्यैः सुशोभितम् ॥४०॥
विमानं तत्र वारीणामुपरि चाम्बरे शुभम् ।
सुवर्णकलशैर्युक्तं दृष्टं सहसा कानकम् ॥४१॥
छत्रदण्डपताकाभी राजमानः पुमान् शुभः ।
किन्नरैरप्सरोभिश्च गन्धर्वाद्यैर्महर्षिभिः ॥४२॥
स्तूयमानो महासिद्धैर्दृष्टः सुरूप उत्तमः ।
सर्वाभरणशोभांगो रत्नहारादिराजितः ॥४३॥
तत्पार्श्वे त्वेककान्ता च वरानना सुशोभिता ।
मुक्ताहारयुता चाऽपि वलयैः कंकणैर्युता ॥४४॥
दिव्याम्बरा सुशृंगारा युवती चार्चिता स्थिता ।
तौ द्वौ हृष्टौ विमानाच्चाऽवरोहयतां भूतले ॥४५॥
स्नातवन्तौ च यावत्तौ मृतौ तावद्धि तौ तटे ।
शवो दिव्यौ तटे स्तश्च तौ द्वौ पृथक् तटे स्थितौ ॥४६॥
नार्यौ द्वे च नरौ द्वौ च तावेव वीक्षितौ मया ।
तत्र वैमानिकौ द्वौ यौ तौ शस्त्रेण निजौ शवौ ॥४७॥
भक्षयामासतुस्तत्र नारी नारीं नरो नरम् ।
क्षुधया पीड्यमानौ भक्षयतः पिशितं निजम् ॥४८॥
अन्ये द्वे च स्त्रियौ तात चायाते त्वम्बरात् पृथक् ।
हसतः खादमानौ तावस्मद्योगेऽपि नार्पितम् ॥४९॥
अन्नं स्वल्पं जलं स्वल्पं कस्मैचित्त्वपिनाऽर्पितम् ।
एवं तौ भक्षयित्वैव पीत्वा जलं दिवं प्रति ॥५०॥
गतौ विमानमारुह्य दृष्टं सर्वं मया नवम् ।
किमेतद् वद मे तात स्वमांसभक्षणं कुतः ॥५१॥
श्रुत्वा पुत्रस्य तद्वाक्यं कुञ्जलः प्राह पुत्रकम् ।
शृणु विज्वल! लोकोऽयं कर्मभूमिर्हि वर्तते ॥५२॥
पुण्यकर्मा मोदतेऽत्र परत्र भोजनादिभिः ।
दत्तं दानं समायाति पुरतो यत्र याति सः ॥५३॥
अदत्तं नैव चायाति स्वर्गेऽन्यत्र च वा गतः ।
यादृशं वपते बीजं क्षेत्रे तु कृषिकारकः ॥५४॥
लभते तादृशं तत्र फलं बीजसजातिकम् ।
यादृशं क्रियते कर्म तादृशं लभ्यते फलम् ॥५५॥
कर्मदायादको लोकः पूर्वकर्मवशानुगः ।
पूर्वं दत्तं कृतं चैतत् फलरूपं निषेव्यते ॥९६॥
पञ्च सृष्टानि गर्भेऽस्य देहिनः कर्मजानि वै ।
यशोवित्तं जीविका च विद्या च मरणं तथा ॥५७॥
देवत्वं वा मानुषत्वं पशुत्वं पक्षिताऽथवा ।
तिर्यक्त्वं स्थावरत्वं च स्मृद्धयो भोजनादिकम् ॥५८॥
आत्मना विहितं यादृक् तादृक् समुपतिष्ठति ।
पूर्वदेहकृतं कश्चित् कर्तुमलं हि नाऽन्यथा ॥५९॥
शुभाऽशुभं कृतं कर्म कर्तारमनुगच्छति ।
उपभोगादृते तस्य नाश एव न विद्यते ॥६०॥
सुशीघ्रमपि धावन्तं स्वकर्म चानुधावति ।
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ॥६१॥
छायावद् वर्तते लग्नं भोगं फलं ददाति तत् ।
येन यत्रोपभोक्तव्यं दैवेन तत्र नीयते ॥६२॥
कर्मभूमिरियं तात चान्या भोगाय धूमयः ।
चोलराजः सुबाह्वाख्यो ददौ दानानि भूरिशः ॥६३॥
रत्नानि च सुवर्णानि राजतादीनि कोटिशः ।
अन्नं जलं च सुलभं मत्वा ददौ न तत्तदा ॥६४॥
पुरोधाश्चोलराजस्य जैमिनिस्तमुपादिशत् ।
श्रद्धया विधिवत् पात्रे देहि चान्नं धनादिकम् ॥६५॥
अन्नदानात् परं नास्ति प्राणिनां तृप्तिदं द्रुतम् ।
तस्मादन्नं पयोयुक्तं प्रदेहि क्षत्रियर्षभ ॥६६॥
तारणाय हितायैव सुखसम्पत्तिहेतवे ।
ग्रासाग्रमपि दातव्य मुष्टिप्रस्थं च वा नृप ॥६७॥
श्रद्धया वा पर्वदिने विप्रं सन्तं प्रभोजय ।
एकभोजनलभ्यं वै फलं नित्यं भुनक्ति हि ॥६८॥
पूर्वजन्मनि दत्तान्नं जन्मान्तरे सदा लभेत् ।
नित्यं प्रभुज्यते दत्तं देह्यन्नं चाऽविचारयन् ॥६९॥
प्राणरूपं यतोऽन्नं तत् प्रदेहि त्वं प्रयत्नतः ।
स्वर्गे लोके सदा चान्नं दत्तममृतमीयते ॥७०॥
श्रुत्वा नृपतिः पप्रच्छ स्वर्गगुणान् वदाऽत्र मे ।
जैमिनिः स्वर्गलाभाँश्चाऽकथयद् वै सुबाहवे ॥७१॥
सर्वकामप्रदान्युद्यानानि स्वर्गे भवन्ति वै ।
सर्वर्तुफलपुष्पाणि विमानानि च सन्ति वै ॥७२॥
अप्सरसश्च दिव्याश्च हेमशय्यासनानि च ।
सर्वकामसमृद्ध्यो विद्यन्ते कल्पवल्लिजाः ॥७३॥
न रोगा न जरा मृत्युर्न शोको न हिमाऽऽतपौ ।
न तत्र क्षुत्पिपासा च न ग्लानिश्चापि विद्यते ॥७४॥
एवंविधगुणं स्वर्गं दोषाँस्तत्रापि तान् शृणु ।
अत्र दत्तं हि लभ्येत नाऽदत्तं तत्र लभ्यते ॥७५॥
दोषो महानयं स्वर्गेऽतिशयो दोष इत्यपि ।
अदत्तस्याऽत्र भोग्यस्याऽसन्तोषस्तत्र वै सदा ॥७६॥
अन्यश्रियं परां दृष्ट्वा समुद्वेगः सदाऽस्ति च ।
अकस्मात् पतनं चापि वासनावशवर्तिता ॥७७॥
फलभूमिर्मता द्यौश्च कर्मभूमिरियं मता ।
तस्मादन्नं प्रदत्तं यत् तत्स्वर्गे भुज्यते सुरैः ॥७८॥
श्रुत्वा 'नृपः ऋषिं प्राह निर्दोषं वद मे पदम् ।
जैमिनिश्चाह भगवत्पदं निर्दोषमेव ह ॥७९॥
आब्रह्मभवना लोकाः सदोषाः कर्मणाऽर्जिताः ।
मायालोकाः समस्ता वै दोषवन्तो गुणात्मकाः ॥८०॥
अगुणं तु पदं विष्णोर्नारायणस्य शार्ङ्गिणः ।
भक्तियोगगतास्तत्र साध्व्यो गच्छन्ति साधवः ॥८१॥
राजा प्राह न मे स्वर्गं गन्तुमिच्छा प्रवर्तते ।
यस्माद्वै पतनं तत्र गन्तव्यं नैव सर्वथा ॥८२॥
दानफलं च भोगो वै भोगान्ते पतनं यदि ।
दानमेव न कर्तव्यं पातफलं मया क्वचित् ॥८३॥
करिष्ये ध्यानभक्त्यादि यजिष्ये कमलापतिम् ।
दाहप्रलयवर्ज्यं च गमिष्ये परमं पदम् ॥८४॥
श्रुत्वा तं जैमिनिश्चाह राजन् धर्मो नृपस्य यः ।
अनिच्छताऽपि कर्तव्यो दानं यज्ञः प्रदानकम् ॥८५॥
आदावन्नं सुयज्ञेषु जलं ताम्बूलमम्बरम् ।
काञ्चनं भूमिदानं च गोदानं चेतरच्च यत् ॥८६॥
वैकुण्ठेऽपि फलं भुंक्ते दानधर्मस्य शाश्वतम् ।
साधुभ्यस्तु विभागैकं गोग्रासं च ततः परम् ॥८७॥
भृत्यादिभ्यश्चैकभागं प्रयच्छन्ति तपोधनाः ।
एवमन्नस्य दानेन दिव्यलोकगता अपि ॥८८॥
क्षुधातृषाविहीनाश्च नित्यतृप्ता हरेः स्थले ।
तिष्ठन्ति नान्यथा राजन् देह्यन्नं धनमित्यपि ॥८९॥
दानाज्ज्ञानं ततः सिद्धिस्ततस्तृप्तिं गमिष्यसि ।
अदाने त्वं गतश्चापि वैकुण्ठे क्षुधमाप्यसि ॥९०॥
श्रुत्वा राजा तदा प्राह दानं चेत् तृप्तिकारणम् ।
योगिनां च सतां त्यागवतां मोक्षे हि का गतिः ॥९१॥
अदत्तदानाः ऋषयः करपात्रा हि साधवः ।
अपरिग्रहसर्वस्वा मोक्षे तृप्ताः कथं वद ॥९२॥
श्रुत्वा प्राह ऋषिस्तं वै ज्ञानभक्तिपरायणाः ।
मूर्त्यानन्देन तृप्तास्ते सदा क्षुत्तृड्विवर्जिताः ॥९३॥
राजा प्राह तथैवाऽहं यतिष्ये ज्ञानभक्तिमान् ।
दानं बन्धप्रदं नैव कर्तव्यं निश्चिकाय सः ॥९४॥
ज्ञानं कृत्वा तथा स्वल्पां भक्तिं कृत्वा ममार सः ।
सुबाहुः प्रमदायुक्तो विमानोदग्रमाश्रितः ॥९५॥
ययौ स्वर्गं पूर्वकृतं पुण्यं भोक्तं विधानतः ।
नाऽभुक्तं क्षीयते पुण्यं कृतं स्वर्णादिदानजम् ॥९६॥
क्षुधा जाता महातीव्रा तृषापि च तथाविधा ।
राजा वै प्रियया सार्धं क्षुधातृषाप्रपीडितः ॥९७॥
स्वर्गे रुद्धः कर्मणा वै वैकुण्ठं नैव गच्छति ।
हृषीकेशो दृश्यते न विमानं नोर्ध्वमृच्छति ॥९८॥
स्वर्गे राजा व्याकुलो वै जातः क्षुधादिपीडितः ।
इतश्चेतश्च वेगैश्च धावति क्ष्माधिपस्तदा ॥९९॥
सर्वाभरणशोभांगश्चन्दनादिविभूषितः ।
अप्सरोभिः सेव्यमानो देवैश्च सत्कृतोऽपि च ॥१००॥
अदत्तं नाऽऽप्तवान् राजाऽमृतं चान्नं प्रभोजनम् ।
जलं च नाऽऽप्तवान् स्वर्गे बभ्राम पीडितो मुहुः ॥१०१॥
भार्यां संप्राह राजानं सत्यं दानफलं सुराः ।
भुञ्जतेऽमृतमेवाऽत्र दत्तमन्नं पुरा तु यत् ॥१०२॥
अन्नवारिप्रदानं तु न कृतं भूतले नृप ।
क्षुधा मां त्वां बाधतेऽतस्तृषा चोग्रा प्रवर्तते ॥१०३॥
भोजनं सलिलं चात्र लभ्यते न विमानके ।
अमृतं भोजनं नास्ति चान्यदेवगृहे इव ॥१०४॥
यामः पृथ्व्यां भोजनार्थं जलार्थं ननु पार्थिव ।
इत्युक्तो भूपतिः राज्ञ्या विमानेन द्रुतं क्षितिम् ॥१०५॥
आजगाम वने रम्ये नन्दने तत्र वै ऋषिम् ।
ददर्श वामदेवं स सभार्यो नृपतिस्ततः ॥१०६॥
अवतीर्य नमश्चक्रे दत्तासने ह्युपाविशत् ।
ऋषिकृतं स्वागतादि जग्राहाऽथ निरामयम् ॥१०७॥
पृष्टो राजा जगादर्षिं निरामयो भवामि न ।
क्षुधा मे बाधते चापि तृषा चातीव दारुणा ॥१०८॥
ताभ्यां शान्तिं न गच्छामि सुखं विन्दामि नैव च ।
श्रुत्वैव वामदेवस्तं प्राह राजन् हितं शृणु ॥१०९॥
अन्नदानं जलदानं त्वया दत्तं न भूतले ।
हरिश्चाराधितो नैव नैवेद्यफलवारिभिः ॥११०॥
तेन दोषेण स्वर्गे न वैकुण्ठेऽपि न ते कृते ।
भोजनं विद्यते राजन् सर्वमन्यत् प्रविद्यते ॥१११॥
आराधितस्त्वया विष्णुर्ज्ञानभक्त्या तु शुष्कया ।
तेन प्राप्तं त्वया स्वर्गं शुष्कं भोजनमन्तरा ॥११२॥
अन्नं त्वमृतरूपेण स्वर्गे चावाप्यते नृप ।
वैकुण्ठे ब्रह्मतृप्त्यात्म पीयूषं प्राप्यते सदा ॥११३॥
कटुतिक्तकषायाश्च क्षाराम्ब्लमधुरास्तथा ।
स्निग्धाश्चोपस्कराः सर्वे नानारूपाश्च भूगताः ॥११४॥
दत्ताः सर्वा ह्यवाप्यन्ते ओषध्यः पुष्टिहेतवः ।
साधवः पितरो देवा भोजिता येन भूपते ॥११५॥
स एव भुंक्ते स्वर्गेऽपि भोजनस्य फलामृतम् ।
मिष्टान्नपानमेवाऽत्र दाने दत्तं न वै त्वया ॥११६॥
स्वशरीरं त्वया पुष्टमन्नैरमृतसदृशैः ।
अदत्तं च यतस्तस्माद् भुंक्ष्व क्षुधातृषाफलम् ॥११७॥
यदि ते क्षुत्प्रतीकारो ह्यभीष्टो वर्तते तदा ।
याहि नन्दनसरसि स्नात्वा भुंक्ष्व शवं निजम् ॥११८॥
एवमुक्तः सुबाहुश्च वामदेवं प्रणम्य तु ।
नन्दनाख्यवने गत्वा सस्नौ तटाकवारिणि ॥११९॥
तावच्छवौ समुत्पन्नौ राज्ञो राज्ञ्या हि तौ शवौ ।
निजौ तौ भक्षितवन्तौ तृप्तौ जातौ तदा हि तौ ॥१२०॥
हसतश्च स्त्रियौ द्वे ये प्रज्ञा श्रद्धा हि ते मते ।
दानमार्गं परित्यज्य ज्ञानमार्गे गतं नृपम् ॥१२१॥
लोभमार्गे स्थितं भूपं हसतस्ते ह्युभे स्त्रियौ ।
अस्मद्योगेऽपि दत्तं न भुंक्ष्व राजन् फलं चिरम् ॥१२२॥
अथ राजा वामदेवं ययौ भुक्त्वा पुनर्वने ।
उद्धारो मे यथा स्याद्वै तथा विधेहि चार्थयत् ॥१२३॥
वामदेवः करे दत्वा जलं राज्ञ्या नृपस्य च ।
शम्याः कृष्णार्पणं पुण्यमकारयद् दिवःप्रदम् ॥१२४॥
राजा कृष्णार्पणं चक्रे पुण्यं गुरोस्तु पादयोः ।
पुण्यहीनोऽभवच्छीघ्रं पापहीनो बभूव च ॥१२५॥
फलमूलान्नसलिलैर्विष्णुमपूजयत्तदा ।
तृप्तो विष्णुर्गुरोर्वाक्यात् प्रत्यक्षः समजायत ॥१२६॥
पार्षदैः सहितो दिव्ये विमाने च नृपीं नृपम् ।
नीत्वा पीयूषसंवार्धौ वैकुण्ठमनयत् प्रभुः ॥१२७॥
नित्यतृप्तिस्तदा जाता नैवेद्यसलिलार्पणैः ।
एवं श्रुत्वा विज्वलोऽभूत् संहृष्टः सद्गुरोर्बलम् ॥१२८॥
गुरुर्मोक्षप्रदाता च विष्णुतुल्यो भवत्यपि ।
पापतापशमयिता नित्यतृप्तिप्रदो गुरुः ॥१२९॥
पठनाच्छ्रवणाच्चास्य पुरुषार्थचतुष्टयम् ।
साधनं चापि कृत्वैव ब्रह्मलोकं व्रजेज्जनः ॥१३०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे तीर्थानां पापनाशकं गुरुपदम्, अदत्तान्नजलदानकस्य सुबाहुनृपतेः स्वशवभक्षकस्य वाम-
देवाख्यगुरोर्योगान्नित्यतृप्तिर्मोक्षावाप्तिश्चेत्यादिनिरूपणनामैकपञ्चाशत्तमोऽध्यायः ॥५१॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP