द्वापरयुगसन्तानः - अध्यायः २१९
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं लुब्धकस्य तथा कथाम् ।
भक्तस्य पिञ्जलग्रामस्थितस्य साधुसेविनः ॥१॥
नाम्ना चक्रधरश्चासील्लुब्धको हिंसने रतः ।
शूद्रवर्णः कुटुम्बस्य भरणे चौर्यकारकः ॥२॥
पशूनां स्तेन एवापि सस्वामिनां महानपि ।
आरण्यानां पशूनां च शशादीनां च हिंसकः ॥३॥
करोति क्रूरतापूर्वं हिंसनं प्राणतृप्तये ।
अथैकदा वनेऽगच्छद्धरिणाशाप्रकर्षितः ॥४॥
वृक्षस्तम्बवंशषण्डेपश्यद्धरिणरूपिणम् ।
पौतिमाष्यं महर्षिं च तद्भार्यां हरिणीं तथा ॥५॥
नाम्ना सामकृषिं मृगवधूं मृगीस्वरूपिणीम् ।
पत्रपुष्पतृणभक्ष्यौ नवांकुरफलाशिनौ ॥६॥
सुरूपौ सुमृगौ वीक्ष्य लुब्धकः शरमादधे ।
तावदृषिर्विलोक्यैनं तिरोऽभवन्मृगीयुतः ॥७॥
चक्रधरोऽपि सन्दिह्य वृक्षषण्डे गतौ हि तौ ।
मार्गयितुं तूर्णमेव क्रमाऽनुक्रमणं ययौ ॥८॥
तदाऽम्बरगिरा प्राह महर्षिस्तं तु लुब्धकम् ।
मा पापिन् पापवानत्र वृथा मनो निवेशय ॥९॥
नाऽहं मृगः पौतिमाष्यो महर्षिश्चास्मि वन्यभुक् ।
सभार्योऽत्र वने नित्यं विचरामि सुखस्थितः ॥१०॥
याह्यन्यत्र महापापिन् मोक्षात्पतित इत्यपि ।
मानवं देहमासाद्य मोक्षं कथं न वाञ्छसि ॥११॥
श्रुत्वा तु लुब्धकश्चाऽऽह नित्यं विषयवाञ्छया ।
मांसादनो भवाम्यत्र कामस्य पुष्टिलब्धये ॥१२॥
पौतिमाष्यस्ततः प्राह कामो निरयदस्तव ।
यत्र हिंसा ह्यधर्मोऽस्ति प्राणिनां घातभक्षणम् ॥१३॥
सदा ते नरके वासो भविष्यतीति मा तथा ।
संभवं मानवं कामे निक्षिप्य नरकं वह ॥१४॥
शृणु लुब्धक वार्ता मे रोचते यदि ते तदा ।
कथयामि हितार्थाय सतां संगो हि तारकः ॥१५॥
कामोऽयं देहजो दोषश्चान्नपानादिसंभवः ।
वीर्यरूपः स्थूलभागो जायते देहधातुकः ॥१६॥
देहे सर्वत्र वीर्यस्य कणा भवन्ति पुष्टिदाः ।
त एते कामदेवस्य स्थूलरूपं हि भौतिकम् ॥१७॥
अथाऽऽन्तरं मनश्चापि मनोवहास्थितं सदा ।
देहे क्षणे क्षणे कृत्वा भ्रमणं सर्वधातुषु ॥१८॥
वीर्यं संकल्पयथनैराकर्षयति कुक्षिषु ।
सिवनीनाडिकामूले चैकत्रितं प्रजायते ॥१९॥
मनसा सहितं तच्चाऽभेदमापन्नमित्यपि । -
भूत्वा मनसि सम्व्याप्तं सूक्ष्मरूपमनोऽन्वितम् ॥२०॥
हेतुभिर्वासनावेगैः शिश्ने स्रवते कर्मणा ।
तस्मात् कामस्त्रिविधोऽस्ति त्रिदेहो वर्तते सदा ॥२१॥
कारणं वासनारूपः सूक्ष्मस्तु मानसात्मकः ।
स्थूलस्तु वीर्यरूपः स मायिको नात्मनस्तु सः ॥२२॥
आत्मा ब्रह्मस्वरूपोऽस्ति सर्वेन्द्रियनियामकः ।
रोमलोहितमांसाऽस्थिमज्जास्नायूविलक्षणः ॥२३॥
वीर्यं षट्कोषधर्मोऽस्ति सप्तमो भोगवाहकः ।
अशुद्धद्वारवासश्चाऽशुद्धद्वारविनिर्गमः ॥२४॥
अशुद्धदेहबन्धश्च पापयाम्यपुरप्रदः ।
कामाद्धिंसा क्रोधमोहौ वासनाऽशुद्धचिन्तनम् ॥२५॥
जन्म कर्म च मरणं दुःखमुद्वेजनं तथा ।
जायन्ते तं दुष्टकामं त्यक्त्वा धर्मेण वर्तय ॥२६॥
ऋतुदानं प्रदातव्यं धर्म एष सनातनः ।
नाधिको भोग आप्तव्यो मोक्षमार्गविरोधकृत् ॥२७॥
साधवो मुनयः सत्यो साध्व्यस्त्यागपरायणाः ।
आत्मानन्दनिमग्नास्ते कामं त्यजन्ति दूरतः ॥२८॥
योगाभ्यासेन देहोत्थं धातुं रक्षन्ति सर्वथा ।
मनो नियम्य सततं निर्मूलयन्ति वासनाः ॥२९॥
ऊर्ध्ववीर्याः प्रजायन्ते नैष्ठिका ब्रह्मचारिणः ।
प्रस्वेदस्रावशून्यास्ते स्वाप्नस्रावविवर्जिताः ॥३०॥
ब्रह्मात्मानन्दमग्नास्ते जायन्ते यतयोऽमलाः ।
ईशवत्ते समर्था वै विष्णुवत् सम्पदीश्वराः ॥३१॥
वेधोवत् सृष्टिधातारो जायन्ते पारमेश्वराः ।
ब्रह्मचर्यपराणां तु प्रत्युत्थायाऽनलानिलाः ॥३२॥
मूर्तिमन्तः स्वागतार्थं प्रयान्ति महिमाऽऽविदः ।
भोगान्ते ब्रह्मपरमं चाप्तव्यं मनुधर्मिणा ॥३३॥
भोगस्तृष्णान्तको नास्ति भोगे तृष्णा विवर्धते ।
तस्माद् भोगान् परित्यज्य भज नारायणं प्रभुम् ॥३४॥
चक्रधर हरिं चक्रधरं वै शरणं व्रज ।
मायाचक्रं विभिद्यैव ब्रह्मचक्रगतो भव ॥३५॥
इत्युक्तो मुनिना चक्रधरो लक्ष्मि शुभाशयः ।
उपदेशैरभवच्च विवृत्तमानसः खलु ॥३६॥
ऐच्छच्च दर्शनं तस्य पौतिमाष्यस्य वै गुरोः ।
प्रार्थयद् दर्शनार्थं च गुरुर्मानवरूपधृक् ॥३७॥
ददौ स्वदर्शनं तस्मै जलपानमकारयत् ।
पादजलं ददौ चापि पापानि समनाशयत् ॥३८॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
मन्त्रं दत्वा वैष्णवं तं वृन्दापत्रैर्व्यधापयत् ॥३९॥
लुब्धकोऽपि कृष्णनारायणं भेजे ततः परम् ।
गृहं गत्वा तीर्थपूतः पत्नीं पूतां व्यधापयत् ॥४०॥
हिंसां चौर्यं सदा त्यक्त्वाऽभजन्मां परमेश्वरम् ।
तुलसीपादपे कृष्णं सदा पूजयते स माम् ॥४१॥
वन्यफलार्पणैः प्रसादजैर्यात्रां वहत्यपि ।
सतां सेवां वन्यफलैस्तत आरभ्य नित्यदा ॥४२॥
करोति साधुरूपो वै जटाधरोऽभवत्ततः ।
पत्नी जटाधरी भस्मधरी तुलसीपूजिका ॥४३॥
अभवद्व्रतसम्पन्ना विघसाशित्वशालिनी ।
एवं विशुद्धमनसो भक्त्याऽहं मुनिवाञ्च्छया ॥४४॥
तस्य मोक्षं विधातुं तु कालागमे ह्युपस्थितः ।
दिव्यमूर्तिर्हरिश्चाऽहं तेन दृष्टश्च योषिता ॥४५॥
निपेततुश्च ते पादौ प्रणम्य रजसा प्लुतौ ।
मोक्षार्थं त्वरितौ कृत्वा स्वागतं मम विह्वलौ ॥४६॥
प्रेममग्नौ वन्यफलं मे समर्प्य द्रुतं गजे ।
देहौ त्यक्त्वाऽऽरुरुहतुस्तदानीं दिव्यविग्रहौ ॥४७॥
वैकुण्ठं जग्मतुस्तौ तु मया संप्रेषितौ रमे ।
एवं मुक्तिः कृता लुब्धकस्य सद्गुरुयोगतः ॥४८॥
तथैव तु सतां ये स्युर्भक्तास्तेषां तु वासनाः ।
विनश्यन्ति मनश्चापि निर्मलं जायते सदा ॥४९॥
कामक्रोधादयो दोषा नश्यन्त्यघानि यान्यपि ।
भूत्वा दिव्यस्वरूपास्ते कृपया मे सतां तथा ॥५०॥
प्रयान्ति ब्रह्म परमं लक्ष्मि शाश्वतसौख्यदम् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥५१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लुब्धकस्य चक्रधरस्य पौतिमाष्यर्षिसंगेन हिंसादिपापनाशे भक्त्युत्तर मुक्तिरित्यादिनिरूपणनामा
नवदशाधिकद्विशततमोऽध्यायः ॥२१९॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP