संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १८९

द्वापरयुगसन्तानः - अध्यायः १८९

लक्ष्मीनारायणसंहिता


N/Aश्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं प्रसन्नता हरेः सताम् ।
अनुवृत्त्या भवेदेव नान्येन साधनेन वै ॥१॥
साक्षात्कारो हरेश्चापि कृपया सेवयाऽथवा ।
ध्यानेन शाश्वतेनाऽपि भवेदेव न संशयः ॥२॥
वृत्तिस्थैर्यं हरेर्मूतौ कठिनं देहधारिणाम् ।
अपि त्वभ्यासयोगेन सिद्ध्यत्येव न संशयः ॥३॥
मूर्तिश्चिन्तामणिर्मेऽस्ति लक्ष्मि चिन्तितसम्प्रदा ।
स्वर्गं स्मृद्धिं महानन्दं मोक्षं ददाति चिन्तितम् ॥४॥
आत्मसन्दर्शनं चेशदर्शनं ब्रह्मदर्शनम् ।
मुक्तानां दर्शनं दिव्यं ममापि दर्शनं ततः ॥५॥
चिन्तितं यत् समग्रं तत् प्राप्यते ध्यानमूर्तितः ।
अहन्ताममतामाया नश्यत्येव च चिन्तनात् ॥६॥
स्मृतयश्चापि नश्यन्ति मायिक्यो ध्यानकारिणः ।
त्रिगुणा गृहपुत्रस्त्रीरूपा मायाऽपि नश्यति ॥७॥
वासनाख्या तथा माया नश्यत्येव तु ध्यायिनः ।
तृष्णानाशो भवत्येव शान्तिलाभः प्रजायते ॥८॥
हरेर्ध्यानबलेनैव भक्तात्मा तन्मयो यदा ।
भवत्येव निरुत्थानस्तदा देहस्य पातनम् ॥९॥
भौतिकस्य विकाराणां वियोगश्च प्रजायते ।
सूक्ष्मदेहस्य वै नाशस्तथा ध्यानबलाद् भवेत् ॥१०॥
आत्मन्येव चितो धारा ध्यानवृत्तिः प्रवर्धते ।
चैतन्यं दिव्यमेवैतद् द्रव्यरूपं विवर्धते ॥११॥
तदेव ध्यानरूपं वै भूत्वा मूर्तौ सुयुज्यते ।
तद्योगेन तु जीवस्य चेतनस्य तदात्मनः ॥१२॥
धामोत्क्रमणकाले वै मूर्तिर्मूर्त्त्या समा हरेः ।
समभिनिष्पद्यतेऽसौ चेतनः स्वयमेव ह ॥१३॥
ब्रह्ममूर्तस्वरूपोऽयं दिव्याकारः प्रकाशते ।
आविर्भवति मूर्तात्मा ब्रह्मात्मा हरिसदृशः ॥१४॥
श्रीहरेरिच्छया लक्ष्मि मुक्तोत्तमोऽभिकाशते ।
स्नेहोऽधिको महानन्दे प्रयोजको हरौ मयि ॥१५॥
एवं स्निग्धाः सदात्मानो महात्मानश्च साधवः ।
पावनाः पावयन्त्येव पुनन्ति पापिनो जनान् ॥१६॥
कृपयैव यतस्तेषां कार्यं मुक्तिप्रदानकम् ।
पाप्युद्धारश्च तत्कार्यं निर्वहन्ति मदाज्ञया ॥१७॥
ततो मुक्तिं प्रयान्त्येव पापिनोऽपि सदाश्रिताः ।
सत्संगेन परां मुक्तिं प्राप्नुवन्त्येव देहिनः ॥१८॥
गणिका हिंसकाः स्तेना व्यवायिनश्च घातकाः ।
भ्रष्टा दुष्टा द्वेषिणोऽपि सत्संगेन तरन्ति ते ॥१९॥
यन्मानः क्रियते लोके चाऽसत्संगो मुहुर्जनैः ।
तारयत्येव तन्मानं सत्संगश्चेत् कृतो भवेत् ॥२०॥
गुणा ग्राह्याः सतां नित्यं दोषास्त्याज्याः सतां सदा ।
गुणग्राही तरत्येव दोषग्राही निमज्जति ॥२१॥
सतां सम्मानः कर्तव्यो निजस्य तु विमाननम् ।
सतां सम्मानकर्तारं तारयन्ति हि साधवः ॥२२॥
सतां तु ये ह्यवमानं कुर्वन्ति ते पतन्ति वै ।
दग्धपुण्यास्तु ते भूत्वा प्रयान्त्यधमयोनिकाम् ॥२३॥
साधोर्देहस्वभावं ये वीक्ष्याऽवस्थोद्भवं क्वचित्॥
गृह्णन्त्यवगुणान् साधोस्ते भवन्त्यपि निन्दकाः ॥२४॥
अवगुणाढ्या जायन्ते सदा वै दोषदृष्टयः ।
कल्पयन्ति च पापानि साधुजनेषु नित्यदा ॥२५॥
अवगुणान् प्रवदन्ति यशोहानिकरान् सदा ।
कामं क्रोधं च लोभं च मानं मोहं रतिं मदम् ।
मत्सरं चाऽदीर्घदृष्टिं तथा सत्कारशून्यताम् ॥२६॥
अनौदार्यमनाह्वानमौदासीन्यं सतृष्णताम् ।
अभिमानं चानियमाऽवलोकनं विदृष्टिताम् ॥२७॥
सपरिग्रहतां लोलुपतां च वासनां बहिः ।
बहिर्वृत्तिं राजसत्वं तामसत्वमबुद्धताम् ॥२८॥
रसनाधीनतां शिश्नोदरतृपत्वमित्यपि ।
अधर्मं राजयुक्तत्वं ममतां चाभिमानिताम् ॥२९॥
अज्ञानित्वं योग्यतावर्जनं निद्रां च फल्गुताम् ।
मृषाऽसत्यं च कपटं शाठ्यं छद्माऽतिभक्षणम् ॥३०॥
मौर्ख्यं स्तैन्यं महालस्यमेवमेताँस्तु दुर्गुणान् ।
कल्पयन्ति द्वेषिणस्ते निन्दका दुर्गुणान्विताः ॥३१॥
पापाः पापं कल्पयन्ति पापयुक्ता भवन्ति ते ।
मन्यन्ते ते यथा नैजं कर्म तथैव साधुषु ॥३२॥
यथा नैजा वासना च तथा तामपि साधुषु ।
यथा वै दुष्टता नैजा तथा तामपि साधुषु ॥३३॥
परेषु चाश्रितेष्वेते प्रवेशयन्ति दुर्गुणान् ।
अवगुणान् ग्राहयन्ति चाऽभावं च तिरस्कृतिम् ॥३४॥
अभावनां प्रेरयन्ति गुणान्निष्कासयन्ति च ।
सर्वाः क्रियाः सतां दुष्टाः सदोषाः संवदन्ति च ॥३५॥
वर्तनं सर्वथा दुष्टं वदन्त्याचरणं तथा ।
दुष्टं पापं चाछमयं दैत्या वा दानवा यथा ॥३६॥
आसुरा आसुरभावं कल्पयन्ति हि साधुषु ।
स्वेषु सर्वेषु सत्स्वेव दुर्गुणेष्वपि सद्गुणान् ॥३७॥
नेत्रैर्द्वेषं दर्शयन्ति गत्या द्वेषं दधत्यपि ।
नमने दर्शने द्वेषं वाण्यां द्वेषं वदन्त्यपि ॥३८॥
सतां कार्ये ह्यकार्यत्वं दुष्टकार्यत्वमित्यपि ।
दर्शयन्त्यपरेभ्यश्च कलिं कुर्वन्त्यहेतुकम् ॥३९॥
अनेन साधुना चेदं कृतं तद् योग्यमेव न ।
अयं साधुर्हि नैवाऽस्ति साधुता चात्र नास्ति च ॥४०॥
तस्य पादौ स्पृशेत् कस्तु को वन्देत तथाविधम् ।
को नमेत्तं कः सेवेत दृष्टा बहवस्तादृशाः ॥४१॥
भवादृशा विवलया मन्वते तादृशान् सतः ।
नाऽस्मादृशास्तु पश्यन्ति तेषां मुखान्यपि क्वचित् ॥४२॥
एवं निन्दां प्रकुर्वन्ति गृह्णन्त्यवगुणान् सदा ।
ग्राहयन्त्यवगुणकान् स्वेतरान् दुष्टवार्तया ॥४३॥
तथा नारायणीश्रि त्वं समाकर्णय चासुरीम् ।
रीतिं तथाऽसुराणां वै येषां स्नेहो न साधुषु ॥४४॥
येषां च कामनादोषः क्रोधश्चौर्यमसत्यता ।
कापट्यं चापि पैशुन्यं व्यवायो राजसी स्थितिः ॥४५॥
ते जना दोषवन्तो वै दोषाँस्त्यक्तुं तु निर्बलाः ।
प्रत्युत दोषमग्नास्ते विषयासक्तचेतसः ॥४६॥
अतस्तेषां हि दोषाणां खण्डनं साधवो यदा ।
त्याजयितुं प्रकुर्वन्ति तदा ते दुष्टमानसाः ॥४७॥
साधोर्निन्दां प्रकुर्वन्ति दोषखण्डनकारिणः ।
वाचाऽवाच्याऽनभिज्ञोऽयं साधुर्वक्तुं न वेत्ति वै ॥४८॥
एकादेशिज्ञानवाँश्च विशालज्ञानवान्नहि ।
पण्डितंमन्यमानः स्वं वर्तते भानवर्जितः ॥४९॥
नाऽनुसरति मां क्वापि न गृह्णाति मयोदितम् ।
स्वोक्तोत्कर्षप्रमन्ताऽयं नश्च खण्डनकार्यसौ ॥५०॥
आश्रमं नैव जानाति न जानाति वृषांश्च नः ।
खण्डयत्येव भोगादीन् गार्हस्थ्योचितवैभवान् ॥५१॥
तस्माद् विवेकहीनोऽयं साधुर्मूखोऽयमस्ति वै ।
एवं निन्दन्ति साधुं वै हितोपदेशकारिणम् ॥५२।
एवंविधानां नैव स्यात् स्नेहः साधुष्वपि क्वचित् ।
अस्नेहेन न विश्वासो साधुवाक्येषु जायते ॥५३॥
अविश्वासान्न वै श्रद्धा माहात्म्यज्ञानवर्धिनी ।
अश्रद्धया ह्यनभ्यासोऽनभ्यासाद् ध्यानमेव न ॥५४॥
न सेवा भावना नैव न च तादात्म्यवेदिता ।
आकर्षणं ततो नैव माहात्म्यं तु कुतस्तदा ॥५५॥
न कथाश्रवणे तस्य न वार्ताश्रवणेऽपि मुत् ।
नाऽऽज्ञाग्रहणे चोत्साहः प्रीतिर्गाढा कुतस्तदा ॥५६॥
शृणु लक्ष्मि यथा तेऽस्ति मयि स्वामित्वभावना ।
त्वयि दासीत्वमेवाऽस्ति तत्र भेदो न विद्यते ॥५७॥
ताडिता धर्षिताऽऽक्रुष्टा वन्दिता वा तिरस्कृता ।
तथापि त्वं कदाचिन्न विरुद्धा किन्तु सेविका ॥५८॥
मयि सर्वस्वभावेन चासत्ता मुदिता सदा ।
निसर्गगुणगृहिणी भक्ता दासी प्रसेवसे ॥५९॥
न तत्र निम्नताभावो मयि ते स्वामिनि क्वचित् ।
तथा येषां साधुवर्गे निम्नभावो न वै क्वचित् ॥६०॥
साम्यभावोऽपि येषां न किन्तूत्कृष्टा हि भावना ।
माहात्म्यं दिव्यता येषां निर्गुणत्वं च साधुषु ॥६१॥
साधुक्रियासु सर्वासु कल्याणदत्वभावना ।
शुभाऽशुभायां प्रवृत्तौ पुण्यप्रदत्वभावना ॥६२॥
येषां वै वर्तते तेषां स्वामित्वं सत्सु वै सदा ।
भावितं दिव्यफलदं दिव्यमोक्षप्रदं भवेत् ॥६३॥
मायाकालादिकर्मादिबन्धच्छेदकरं भवेत् ।
यथा स्नेहो निजपत्न्यां यथा पुत्रे कुटुम्बिषु ॥६४॥
यथा पित्रोर्यथा पुत्र्यां यथा भृत्यासु सेवके ।
सेविकायां यथा स्नेहस्तथा कुर्याद्धि साधुषु ॥६५॥
लौकिकोऽपि स्नेहभावो दिव्यतां याति साधुषु ।
साधोः प्रसन्नतालब्ध्या सर्वं कार्यं प्रसिद्ध्यति ॥६६॥
यथा पत्न्या निजे कान्ते दृश्यन्ते दूषणानि न ।
कुचेष्टाः कुस्वभावाश्च दृश्यन्ते सद्गुणा यथा ॥६७॥
तथा साधुषु वै लक्ष्मि येषां दृष्टिस्तु निर्मला ।
दृश्यन्ते दुर्गुणाश्चापि सद्गुणा एव सर्वथा ॥६८॥
ते एव प्राप्य संयोगं प्रसन्नतां सतां शुभाम् ।
आशीर्वादान् समर्ज्याऽपि सेवालाभमवाप्य च ॥६९॥
स्नेहं लब्ध्वा तथा प्रीतिं लब्ध्वा चात्मनिवेदिताम् ।
आत्मरतिं परां प्राप्य तरन्ति भवसागरात् ॥७०॥
तेषां स्नेहो भवेदेव सस्तु स्त्रीपुत्रतोऽधिकः ।
स एव मायां तरति साधुस्नेहेन पावितः ॥७१॥
नरो वा स्त्री च वा षण्ढः साधौ स्नेहात् प्रमुच्यते ।
सत्यं सत्यं वदाम्येतत् साधुरूपो भवाम्यहम् ॥७२॥
मन्माहात्म्यं तु साधुभ्यो ज्ञायते नाऽन्यतः क्वचित् ।
साधवो हृदयं मह्यं साधौ वासः सदा मम ॥७३॥
साधुसन्तोषणे तृप्तिर्ममैव जायते रमे ।
साधवः पावनाः सन्ति नखशिखान्तमूर्तयः ॥७४॥
शृणु लक्ष्मि परे दुष्टा साधूनुद्वेजयन्ति वै ।
भोजने जलपाने चासने सत्कारकर्मसु ॥७५॥
आतिथ्ये शुश्रूषणे च श्रमयन्ति सतो जनान् ।
भृत्यत्वं कारयन्त्येव साधून् गुरून् महाजनान् ॥७६॥
धीहीनास्ते पापपुञ्जं त्वर्जयन्ति तथाक्रियाः ।
केचित् साधून्निजपत्नीसमान् मत्वा सुभोजने ॥७७॥
योजयन्ति स्वभोज्यार्थं पाचयन्ति च भोजनम् ।
केचिज्जलस्य पानार्थं पात्रं जलं च शीतलम् ॥७८॥
उभयं तद्धि याचन्ते यथा भृत्यात्तथा सतः ।
केजिदज्ञा गेन्दुकादि निजासनं तु सुप्तये ॥७९॥
कारयन्ति सारयन्ति यथा दास्यास्तथा सतः ।
केचिदज्ञा ऊष्णजलं तथोष्णं भोजनं नवम् ॥८०॥
कारयन्ति निजार्थं वै यथा भृत्यात्तथा सतः ।
केजिदज्ञा वाचयन्ति निजां पुष्टिं सभासु वै ॥८१॥
प्रशंसां कारयन्त्येव यथा दूतात्तथा सतः ।
यथा तु चारणात् तद्वत् सूताद्वा च तथा सतः ॥८२॥
केचिन्मदान्विता नैजां पेटिकां वस्तुगौरवाम् ।
वाहयन्ति सतां हस्तैर्मस्तकेनाऽभिमानिनः ॥८३॥
केचिद् दुष्टा दीनसाधून् नामयन्ति प्रसह्य वै ।
स्तवनं तु निजं दुष्टाः कारयन्ति मुहुर्मुहुः ॥८४॥
एतादृशास्तु पापा वै पापपर्वतसंभृताः ।
धनाऽन्नवर्जिताश्चात्र भ्रमन्तो विरमन्ति च ॥८५॥
साधुद्वारोपदेशेन साधयन्ति स्वमर्थकम् ।
स्वार्थपरास्ते कुशलाश्चान्ते यान्ति यमालयम् ॥८६॥
साधुषु निजसत्तां ये धारयन्ति च मानिनः ।
आहंकारिकवृत्तान्तास्तेऽपि यान्ति यमालयम् ॥८७॥
साध्वालये चाकस्मिकीं कुर्वन्ति मार्गणां तु ये ।
साधुषु च मृषा दोषं कलङ्कं च ददत्यपि ॥८८॥
कुख्यातिम च प्रकुर्वन्ति साधूनां ये तु निर्दयाः ।
द्वेष्टारः साधुवर्गस्य ते यान्ति वै यमालयम् ॥८९॥
शृणु लक्ष्मि तथा साधून् निन्दन्ति वेषधारणे ।
जीर्णवस्त्रमपि खण्डं नैव ददति ये क्वचित् ॥९०॥
निन्दन्ति तु परैर्दत्तं सूक्ष्मं सुमूल्यमम्बरम् ।
शुद्धं च रंगसंशोभं निन्दन्त्युक्त्वा तु राजसम् ॥९१॥
पात्रं यानं वाहनं च निन्दन्ति वै सतां तथा ।
साधोः शालां भवनं च कुटीं निन्दति वै तथा ॥९२॥
औज्ज्वल्यं चापि निन्दन्ति निन्दन्ति दानमर्पितम् ।
द्रव्यार्पणं च निन्दन्ति गन्धसारं च मर्दनम् ॥९३॥
ओषधाद्यं च निन्दन्ति रक्षणं च यथाकृतम् ।
निन्दन्ति गोमहिष्यादिधनं साधुभिरर्जितम् ॥९४॥
परोपकारप्रभृति निन्दन्ति साधुसेवितम् ।
भिक्षाटनं तपश्चापि निन्दन्ति मत्सरान्विताः ॥९५॥
प्रज्वलन्ति समीक्ष्यैव सतो देवालयं सतीः ।
दिव्यसंस्था विलोक्यापि प्रोज्ज्वलन्त्यासुरा जनाः ॥९६॥
त एते कमले यान्ति देहान्ते पापसंसृतिम् ।
पीड्यन्ते याम्यलोकेषु दुःखियोनिषु वै मुहुः ॥९७॥
तस्मात् साधुं मम वेषधरं वै पूजयेत् सदा ।
मां विभाव्याऽभिसेवेत प्रसन्नयेत् शुभार्पणैः ॥९८॥
प्रसादयेदनुवृत्त्या सर्वस्वार्पणकैस्तथा ।
भक्तिं कृत्वा हरेश्चापि प्रसादयेत् सतो जनान् ॥९९॥
गुरुं प्रसेवयेन्नित्यं पितरौ सेवयेत् सदा ।
पतिं प्रसेवयेद्भक्त्या साधुं भक्त्याऽभिरञ्जयेत् ॥१००॥
प्रभुं भजेत भावैश्च श्रद्धया कीर्तयेद्धरिम् ।
देवार्पणं सदा कुर्यात् कुटुम्बं तु प्रपोषयेत् ॥१०१॥
सर्वं कृष्णाय नैवेद्यं धृत्वा भुञ्जीत नान्यथा ।
एवं वै वर्तमानानां भुक्तिर्मुक्तिः करे स्थिता । ॥१०२॥
पठनाच्छ्रवणादस्य स्मरणाद्धारणादपि ।
साधुसेवाफलं स्याच्च भोगान्ते मोक्षणं भवेत्। ॥१०३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसमागमेन भगवच्चिन्तामणिलब्ध्या सर्वकामनापूर्त्त्यादिनिरूपणनामा नवाशीत्यधिकशततमोऽध्यायः ॥१८९॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP