संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १०४

द्वापरयुगसन्तानः - अध्यायः १०४

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
गार्हस्थ्यं धर्मसारं मे प्रब्रूहि परमेश्वर ।
स्मृद्धिमाप्नोति किं कृत्वा गृहस्थः सुतदारवान् ॥१॥
किमवश्यं प्रकर्तव्यं किं कृत्वा च कृतं भवेत् ।
येनाऽन्यत् सर्वकर्तव्यसमावेशः प्रजायते ॥२॥
श्रीपुरुषोत्तम उवाच-
साधवः पितरो देवा गुरवश्च महर्षयः ।
साध्व्यो भक्ता अर्चनीया इज्या नित्यं यथाधनम् ॥३॥
अन्नपुष्पप्रणामाद्यैस्तोषणीया हि साधवः ।
सेवया चानुवृत्त्या च प्रसादनीयाः साधवः ॥४॥
जलार्पणेन चान्नेन पयोमूलफलैर्दलैः ।
तोषणीया हि पितरः सिद्धान्नैः सद्रसादिभिः ॥५॥
देवार्पणं कारयेच्च कुर्याद् देवप्रपूजनम् ।
मखं कुर्यान्नित्यमपि देवान् सन्तोषयेत् सदा ॥६॥
गुरूणां सेवनं कुर्यादाज्ञां वहेत नित्यदा ।
गुर्वर्पणं विदध्याच्च मात्रे पित्रे समर्पयेत् ॥७॥
वृद्धेभ्यश्चाऽर्पयेदिष्टं प्रसेवेत मुदा मुदे ।
ऋषिभ्यश्च द्विजेभ्यश्च नमस्कुर्यात्तथाऽर्पयेत् ॥८॥
सामाऽध्यायं पठेच्चापि विद्यादानं च कारयेत् ।
साध्वीभ्यश्च सतीभ्यश्च दद्यादन्नं जलादिकम् ॥९॥
आश्रयं चाम्बरं दद्यात् सन्तोषयेन्निराश्रयाम् ।
भक्तान् सम्पूजयेन्नित्यं सत्संगं च समाचरेत् ॥१०॥
मोक्षमार्गं साधयेच्च 'धर्मं सञ्चिनुयात् सदा ।
गृहागता देहिनो वै यथा स्युः सुखिनस्तथा ॥११॥
प्रवर्तेताऽऽश्रयं दत्वा चोपकृत्वा प्रतोषयेत् ।
हरिर्नारायणश्चाऽयं ह्यभ्यागतो गृहागतः ॥१२॥
तत्र नारायणश्चास्ते तुष्यत्वयं जनार्दनः ।
एवं स्वागतमादध्यात् सर्वं ब्रह्मार्पणं भवेत्। ॥१३॥
भिक्षुकेभ्यः प्रदद्याच्च गोभ्यो दद्यात्तथा गृही ।
श्वभ्यो दद्यात् तथा पारावातेभ्यश्चापि चार्पयेत् ॥१४॥
यादोभ्योऽपि प्रदद्याच्चाऽनाथेभ्योऽपि समर्पयेत् ।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं समर्पयेत् ॥१५॥
नागसर्पादिजीवेभ्यो दद्यात् कीटेभ्य इत्यपि ।
पिष्टं कणान् रन्धितं च घासं पत्रं यथायथम् ॥१६॥
आचार्यस्य पितुः साधोः सख्युराप्तस्य चातिथेः ।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥१७॥
गृहस्थः कमलाकान्तशिष्टाशी वै सदा भवेत् ।
पत्युः स्थाने स्थिता पत्नी गृहिणी गृहरक्षिणी ॥१८॥
धर्मरक्षाकरी नित्यं सर्वधर्मान् निभावयेत् ।
सदा त्वं कुरु कल्याणि दानं मानं प्रसेवयेत् ॥१९॥
आशीर्वादादिलाभेन नारी नारायणी भवेत् ।
नरो नारायणः स्याद् भूलोको गोलोकतां व्रजेत् ॥२०॥
एतद् गृहामृतं प्रोक्तं यत् कृत्वा ऋद्धिमान् भवेत् ।
धर्मसारमिमं श्रुत्वा यः कुर्यात् स दिवं लभेत् ॥२१॥
शृणु संक्षेपतश्चाऽन्यद्धृदयस्थं विभावय ।
अहं पतिस्वरूपोऽस्मि नारायणः सदा गृहे ॥२२॥
त्वं श्रीर्नारीस्वरूपाऽसि पत्नी गृहिगृहे सदा ।
पार्षदा मे सुतकन्यास्वरूपाः सन्ति वै गृहे ॥२३॥
महीमाना अतिथयः साधवोऽभ्यागताश्च मे ।
इत्येवं दिव्यदृष्ट्या वै कुटुम्बं वर्तते गृहे ॥२४॥
कृष्णार्पणस्वरूपेण सेवते स्म परस्परम् ।
भक्त्यार्पणं सर्वमस्य कर्तव्यं नाऽवशिष्यते ॥२५॥
त एव विषयास्तानि खानि भोगास्त एव च ।
कल्पिता मयि कृष्णे स्युर्मोक्षदा निर्गुणाः प्रिये ॥२६॥
धर्मसारः कथितोऽयं गृहामृतफलः शुभः ।
ऋद्धिदः पुण्यदो बन्धवर्जितो मोक्षदः सुखः ॥२७॥
सहस्रजन्मपुण्यस्य ज्ञायते तत्त्वमीदृशम् ।
अपात्रस्य विषयिणः कल्मषिणस्तु दुर्ग्रहम् ॥२८॥
देहेन्द्रियमनोबुद्धिचेतनैः सर्वथा प्रिये ।
तर्पणीयाः साधवश्च तृप्तो भवामि तत्स्थितः ॥२९॥
गृहवाटीक्षेत्रवाजिगजगोमहिषीधनैः ।
तोषणीयाः साधवश्च जलाम्बरान्नसेवनैः ॥३०॥
यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वर्णदक्षिणैः ।
साधून् सेवय साध्वीश्च पितॄन् देवांश्च तर्पय ॥३१॥
ब्रह्मप्रिया रञ्जयस्व वृद्धाँश्च परिसेवय ।
आश्रितान् शुभसत्कारैरर्चयस्व यथार्हतः ॥३५॥
शृणु लक्ष्म्यभवत् पूर्वं नरशायो हि तस्करः ।
पत्नीपुत्रसमेतश्च सदा स्तैन्योपजीवनः ॥३३॥
सिंहारण्ये वसन्नित्यं वसतौ याति वै निशि ।
प्रसह्य धनिसौधादीन् भित्त्वा नीत्वा धनानि च ॥३४॥
अन्नादीनि चाम्बराणि नीत्वा याति वने पुनः ।
एवं सततं चौर्येण निर्वहत्यथ तद्वने ॥३५॥
साधुः श्रीचक्रभासाख्यो वैष्णवो विहरन् पथि ।
मिमेल तं नरशायं चौरं सरोवरान्तिके ॥३६॥
चौरो विज्ञाय तं साधुं निर्दोषं निर्भयं शुभम् ।
गत्वाऽन्तिकं ननामाऽथ निषसाद पुरः क्षणम् ॥३७॥
साधुः पीत्वा जलं तस्मै ददौ वारि प्रसादजम् ।
चौरोऽपि मानयन् भाग्यं तूर्णं पपौ जलामृतम् ॥३८॥
पानमात्रेण हृदयं व्यावर्तत शुभाश्रयम् ।
पूतं च मानसं वर्ष्म विवेकः समपद्यत ॥३९॥
पप्रच्छ तं पावनं वै मत्वा शान्तं सुखप्रदम् ।
पापनाशः कथं स्याद्वै साधो दर्शय सत्पथम् ॥४०॥
श्रुत्वा श्रीचक्रभासस्तं प्राह चौर्यं हि लौकिकम् ।
विहाय कुरु चौर्यं त्वं गुणानां च सतां हरेः ॥४१॥
सेवां साधोर्हरेर्नित्यं समाचर सदाशयः ।
श्रुत्वा पप्रच्छ साधुं तं नरशायः पुनः पुनः ॥४२॥
कया रीत्या मया सेवा कर्तव्या वद मे मुने ।
साधुः प्राह वने वन्यैः प्रसेवय समर्पितैः ॥४३॥
फलमूलकृताहारो भव चौर्यं परित्यज ।
हरेर्मूर्तिं चार्चयाऽत्र भजनं सततं कुरु ॥४४॥
सर्वपापानि नश्येयुश्चैवं प्रसेवनाद्धरेः ।
एवमुक्तः स वै स्तेनः साधुमाह सरोऽन्तिके ॥४५॥
विद्यते मम वासोऽत्र साधो चागच्छ मद्गृहम् ।
सेवयिष्ये भवन्तं च हरिं त्वया प्रदर्शितम् ॥४६॥
नाशमेष्यन्ति पापानि स्युः स्त्रीपुत्राश्च पावनाः ।
श्रुत्वैवं श्रीचक्रभासो जपन्नारायणं हरिम् ॥४७॥
सवल्कलो जटायुक्तो मालां करे दधन्मुदा ।
वृद्धो ययौ त्तेनकुटीं तत्स्त्रीपुत्रादिसंयुताम् ॥४८॥
दत्तासने निषसाद भजन् कृष्णनरायणम् ।
स्तेनस्त्रीपुत्रपुत्र्याद्या मत्वा वृद्धं पितुर्गुरुम् ॥४९॥
जलपात्रं सत्फलानि पक्वाऽऽम्राणि च तत्क्षणम् ।
न्यधुः साधोः समीपे च भुंक्ष्वेति जगदुस्ततः ॥५०॥
पादसंवाहनं चक्रुश्चानन्दिता मुदा मुहुः ।
साधुः फलानि बुभुजे पपौ वारि च शीतलम् ॥५१॥
भुंजन् ददाति मध्ये च मध्ये तेभ्यः पुनः पुनः ।
स्त्रीपुत्राद्याश्च दत्तानि मत्वा प्रसादमुत्तमम् ॥५२॥
भक्षयन्ति सुमिष्टानि स्तेनोऽपि बुभुजे ततः ।
साधुर्नारायणं मां च स्मृत्वा निवेद्य विष्णवे ॥५३॥
भुंक्ते ददाति चैतेभ्यस्ते भुक्त्वा चाघवर्जिताः ।
तूर्णं जाताः पावनाश्च सेवया स्पर्शनेन च ॥५४॥
हृदयानि परावर्तितानि तेषां सतोऽन्तिके ।
प्रोचुः सर्वे भगवन्नः कल्याणं वै यथा भवेत्। ॥५५॥
तथा कुरु वने त्वत्र वसन् कुट्यां च नो गृहे ।
साधुस्तथाऽस्त्विति प्राह चोवास शान्तिमाँश्चिरम् ॥५६॥
शिक्षयामास भजनं नित्यं नारायणस्य मे ।
रात्रौ मिलित्वा भजनं कीर्तयन्ति स्वराऽन्विताः ॥५७॥
'हरेकृष्ण हरेकृष्ण कृष्णनारायण प्रभो ।
अनादिश्रीकृष्णनारायण लक्ष्मीपते विभो' ॥५८॥
इत्येवं कीर्तयित्वा मां स्वपन्ति नित्यमेव ते।
प्रातरुत्थाय भजनं साधुना सह ते तथा ॥५९॥
कृत्वा यान्ति सरः स्नान्ति नमस्कुर्वन्ति भास्करम् ।
साधुं नत्वा मालिकां च पञ्च जप्त्वा वनं प्रति ॥६०॥
यान्ति फलानि चाहर्तुं समायान्ति कुटीं निजाम् ।
मध्याह्ने फलकन्दादि भर्जयित्वा तु वह्निना ॥६१॥
प्रदत्वा गुरवे तस्मै निवेद्य हरये तु मे ।
भोजयित्वा भुंजते ते कुर्वन्ति भजनं ततः ॥६२॥
सायं कुर्वन्ति भजनं सेवन्ते च कथामृतम् ।
पुत्राः साधुं प्रसेवन्ते स्त्री सेवते दिवानिशम् ॥६३॥
स्तेनोऽपि सेवतेऽभीक्ष्णं साधुं नारायणात्मकम् ।
स्त्रीपुत्राद्यैः कृतं यद्यत् कर्म स्तैन्यात्मकं पुरा ॥६४॥
सर्वं निवेदितं तस्मै धनं च यत्समाहृतम् ।
साधुः सर्वं समगृह्य ययौ गोकर्णतीर्थके ॥६५॥
चिक्षेप जलमध्ये श्रीकृष्णार्पणं वदन्निति ।
तावद्द्रव्यं समस्तं तच्छ्रीलक्ष्मीरूपकन्यका ॥६६॥
भूत्वा साधुं प्राह साध्वी त्वया कृष्णाय चार्पिता ।
पावनी खलु जाताऽस्मि मालिन्यं विगतं मम ॥६७॥
अथ चौराँस्तथा पूर्वधनिनोऽपि च पावनान् ।
कृत्वा नयामि कृष्णस्य चरणौ कृत्यमेव मे ॥६८॥
इत्युक्त्वाऽऽदाय साधुं तं ययौ लक्ष्मीश्च तद्वनम् ।
यत्र ते स्तेनकर्माणश्चाऽभवन् तेऽपि विस्मिताः ॥६९॥
पप्रच्छुः कन्यकां दृष्ट्वा साधुं साधुर्जगाद तान् ।
लक्ष्मीः साक्षात् समायाता नेतुं नारायणगृहम् ॥७०॥
सज्जा भवन्तु तूर्णं वै यान्तु नारायणालयम् ।
श्रुत्वा मोदं गताः सज्जा भूत्वा नत्वा गुरुं च तम् ॥७१॥
आगते दिव्यशोभाढ्ये विमाने ते समारुहन् ।
ययुः साधोराज्ञया ते पार्षदैः सह सेविनः ॥७२॥
वैकुण्ठं भगवद्धाम लक्ष्मि! साधोः समागमात् ।
अथ कन्या श्रीस्वरूपा साधुना सह चाग्रगा ॥७३॥
ययौ तद्धनिनां सौधान् दृष्ट्वा च धनिनोऽपि ते ।
ससंभ्रमाः स्वागताद्यैरपूजयन् सुरेश्वरीम् ॥७४॥
साधुं प्रापूजयन्सर्वे ज्ञात्वा वृत्तान्तमादितः ।
चौरहस्तगता लक्ष्मीः साधुहस्तेन चार्पिता ॥७५॥
श्रीकृष्णे दिव्यतां प्राप्ता प्राप्ता कल्याणहेतवे ।
विज्ञाय तेऽपि साधोश्चाऽऽज्ञया सज्जास्ततोऽभवन् ॥७६॥
मोक्षार्थं तावदेवाऽपि विमानं भास्वरं महत् ।
समायातं त्वम्बराद्वै पार्षदादिसमन्वितम् ॥७७॥
लक्ष्मीः सर्वान् धनपाँश्च समादाय विमानके ।
स्थित्वा नीत्वा ययौ नत्वा साधुं श्रीचक्रभासुरम् ॥७८॥
गोलोकं धाम कृष्णस्य पत्युर्हरेः परात्परम् ।
एवं लक्ष्मि त्वया पूर्वं स्तेनश्रेष्ठिकुटुम्बिनाम् ॥७९॥
साधोर्योगेन कल्याणं कृतं योजितया हरौ ।
साधुः श्रीचक्रभासश्च ययौ लोमशभूमिकाम् ॥८०॥
तीर्थार्थं च समाधौ वै निषसाद युगाद् युगम् ।
ददर्श मोक्षमार्गं स यथा यान्ति जनास्त्वितः ॥८१॥
भित्त्वा स्वर्गं महर्लोकं जनं तपश्च सत्यकम् ।
जलोपरि च वैकुण्ठं यान्ति तत्र हरे पुरः ॥८२॥
विश्रान्तिं लभते सौख्यं स्वागताद्यैः सुमाननम् ।
हर्याज्ञया ततो यान्ति परवैकुण्ठमुत्तमम् ॥८३॥
गोलोकं वाऽक्षरं धाम परंधाम प्रयान्ति च ।
दिव्यदेहा दिव्यधर्मा विद्वांसो घनमूर्तयः ॥८४॥
प्रणवाख्यं किरणाढ्यं विमानं सम्प्रविश्य ते ।
ब्रह्मलोकं प्रवर्तन्ते ब्रह्मकाया ह्यनिम्नगाः ॥८५॥
आनन्दं ब्रह्मणः प्राप्य चाऽमृतत्वाय ते गताः ।
ब्रह्मलोकेऽक्षरं ब्रह्म सर्वेषां वै पुरोहितम् ॥८६॥
मुक्तेश्वरं पुरस्कृत्याऽऽनन्दामृतं प्रभुंजते ।
आधिपत्यं विना तुल्या भवन्ति परमात्मना ॥८७॥
रूपप्रभावविजयैश्वर्यसामर्थ्यसदृशाः ।
एवंविधं त्वमृताख्यं ब्रह्मसत्रं सनातनम् ॥८८॥
अपुनर्मारकं स्थानं चामृतत्वाय ते गताः ।
ब्रह्मण्यभ्यासिनो युक्ताः परां काष्ठामुपासते ॥८९॥
वीतरागा जितप्राणा निर्मोहाः सत्यवादिनः ।
शान्ताः प्राणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥९०॥
निःसंगा शुचयो भक्ता ब्रह्मसायुज्यगास्मृताः ।
अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः ॥९१॥
तेषामभ्रंशिनो लोका अप्रमेयसुखाः शुभाः ।
एतद् ब्रह्मपदं दिव्यं परं मे व्योम्नि भास्वरम् ॥९२॥
एतद् गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ।
यस्मादेषां परं वीर्यं परमायुः परं तपः ॥९३॥
परा शक्तिः परो धर्मः परा विद्या परा धृतिः ।
परं ब्रह्म परं ज्ञानं परमैश्वर्यमित्यपि ॥९४॥
तस्मात् परतरं भूतं ब्रह्मणो यन्न विद्यते ।
परे स्थितो ह्येष परः सर्वार्थेषु ततः परम् ॥९५॥
परब्रह्म परो भूत्वा प्रपश्यति न चान्यथा ।
एवं ज्ञानप्रतिष्ठत्वात् सर्वं ब्रह्माऽनुपश्यति ॥९६॥
आक्षरक्षेत्रमुक्तानामाक्षरे धाम्नि संस्थितिः ।
शाश्वती विद्यते लक्ष्मि शाश्वतानन्ददोहिनी ॥९७॥
सतां समागमो नित्यं ब्रह्मलोकप्रदायकः ।
सर्वपापहरो लक्ष्मि लक्ष्म्याः शुद्धिकरस्तथा ॥९८॥
आत्मशुद्धिकरश्चापि मोक्षशुद्धिकरस्तथा ।
ज्ञानशुद्धिकरश्चोपासनाशुद्धिकरस्तथा ॥९९॥
निर्वाणशुद्धिदश्चापि शुभः सार्वज्ञ्यशोधकः ।
आत्मनिवेदितासंशोधकः सेवाप्रशोधकः ॥१००॥
दोषसंशोधकश्चापि मायासंशोधकस्तथा ।
विवेकशोधकश्चापि बन्धनानां च शोधकः ॥१०१॥
एतदमृतसत्रं वै ब्रह्मसत्रमधीत्य ह ।
जायते ब्रह्मधर्माऽत्र परत्रापि न संशयः ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गार्हस्थ्यधर्मसारे नरशायतस्करस्य श्रीचक्रभाससाधुयोगेन दिव्यलक्ष्मीद्वारा मुक्तिः पूर्वधनिनामपि मुक्तिर्ब्रह्मसत्रविज्ञानं चेत्यादिनिरूपणनामा चतुरधिकशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP