द्वापरयुगसन्तानः - अध्यायः २०८
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भक्तं किरातजातिजम् ।
सागराख्यं महाशाटीनगरीवासिनं शुभम् ॥१॥
कुटुम्बसहितश्चाऽयं महीनदीतटे वने ।
चरति देहयात्रार्थं कुरुते सञ्चयं गृहे ॥२॥
वन्यानां कन्दमूलानां चान्नानां कणिनां तथा ।
शिम्बीनां च फलानां च बीजानां रसिनां तथा ॥३॥
क्वचिदन्नं फलं पत्रं क्वचित् कन्दं भुनक्ति सः ।
देहयात्रासु निर्वाहं करोति भजते च माम् ॥४॥
वाटगानां धनाढ्यानां भारवाही भवत्यपि ।
श्रेष्ठिनां भृत्यतां चापि क्वचित् करोति भीलकः ॥ ५॥
एवं कुर्वन् स निर्वाहं क्वचिन्नाप्नोति भोजनम् ।
तदोपवासे निरतो भजते मां मुदा युतः ॥६॥
मालिकाऽऽवर्तनं चापि करोति कृष्णकृष्ण च ।
व्रतं साहजिकं तद्वै मत्वा च जागरं निशि ॥७॥
करोति कीर्तनं रात्रौ क्षुधातृषान्वितः स वै ।
पत्नी पुत्रास्तथा पुत्र्यः सर्वे कुर्वन्ति वै व्रतम् ॥८॥
एकदा कमले तेषां श्रवणे शुक्लपक्षके ।
एकादशीदिने नैव मिलितं भोजनं मनाक् ॥९॥
व्रतं जातं सहजं चैकादशीजं सजागरम् ।
निर्जलं ते प्रचक्रुश्च पूजनं कीर्तनं च मे ॥१०॥
अथ प्रातस्तु ते सर्वे भाजीं निवेद्य मे रमे ।
जलं समर्प्य मह्यं च बुभुजुर्भाजीमेव ह ॥११॥
पपुर्जलं कृष्णकृष्णकृष्णनारायणप्रभो ।
गृणन्तश्च मुदा लक्ष्मि तदाऽहं करुणालयः ॥१२॥
तेषामग्रे गोधुमानां शकट्या सह संययौ ।
ते सर्वे मां विक्रयिणं मत्वा श्रेष्ठिनमुत्तमम् ॥१३॥
नेमुर्जलं ददुश्चापि विश्रान्त्यर्थं जगुः क्षणम् ।
अहं मत्वा च तद्वाक्यं शकरीं तद्गृहांगणे ॥१४॥
अवस्थाप्य वृषभौ च निर्बध्य तत्कृतासने ।
उपाविशं च ते सर्वे पादसंवाहनं मम ॥१५॥
व्यधुश्च कृष्ण कृष्णेति वदन्तो मग्नमानसाः ।
अथ पृष्टा मया सर्वे किंवृत्ताः किंप्रजीवनाः ॥१६॥
ते प्रोचुर्जीवनं कृ६णो ददाति जीव्यते तथा ।
अद्य भाज्या कृतं कृष्यपूजनं च जलेन च ॥१७॥
भुक्ता भाजी जलं पीतं शान्तिस्तत्र हि नः सदा ।
वर्तते सुखदा श्रेष्ठिन् किं लक्षैः कोटिभिर्धनैः ॥१८॥
भजामः श्रीहरिं नित्यं ददात्येव स भोजनम् ।
सर्वार्पणं प्रकुर्मश्च हरये निर्गुणायितम् ॥१९॥
भवान् श्रेष्ठी वर्ततेऽद्य महीमानो गृहेऽत्र नः ।
भवद्योग्यं महान्नं तु नास्ति स्वागतकारकम् ॥२०॥
ततो भाजीं प्रदद्मस्ते रोचते संगृहाण ताम् ।
इत्युक्तोऽहं तदा लक्ष्मि प्रेम्णा भाजीं चखाद ताम् ॥२१॥
जलपानं चकाराऽपि तृप्तिं जगाम भक्तिजाम् ।
अथाऽहं प्रददौ तेभ्यो गोधुमानां समस्तकम् ॥२२॥
धनं च प्रददौ तेभ्यो सहस्रं रूप्यमुद्रिकाः ।
ततस्ते मां पप्रच्छुश्च नाम ग्रामं कुटुम्बकम् ॥२३॥
अहमाह हरिकृष्णो बालकृष्णो भवाम्यहम् ।
ग्रामं धामाऽक्षरं मे च कुटुम्बं भक्तमण्डलम् ॥२०॥
तेषां गृहे मम यात्रा महीमानो भवाम्यहम् ।
भवद्भिर्यत् कृतं त्वेकादश्या व्रतं सजागरम् ॥२५॥
भाज्या चाद्भिस्तोषितोऽहं रक्षार्थं समुपाययौ ।
कृपया त्वागतोऽस्म्यत्र दातुं सर्वांश्च गोधुमान् ॥२६॥
अक्षयास्ते मम हस्तस्पृष्टा गोधुमका इमे ।
भविष्यन्ति कुसुले च निक्षिप्योपरि छादनम् ॥२७॥
कृत्वा छिद्रात् निष्कासनीया न चान्यथा ।
अक्षयास्ते भविष्यन्ति मम प्रतापतः खलु ॥२८॥
भवन्तु सुखिनो भक्ता वंशपरम्पराभवाः ।
यदा मे पूजनं नैव भविष्यति गृहेऽत्र वै ॥२९॥
तदा क्षयमवाप्स्यन्ति गोधुमास्ते मयाऽर्पिताः ।
इत्युक्त्वा प्रददौ सर्वान् दर्शनं दिव्यमित्यपि ॥३०॥
ददौ चतुर्भुजं मे च श्रिया युक्तं मनोहरम् ।
तुष्टुवुर्मां तु ते सर्वे निपेतुः पादयोर्मम ॥३१॥
मुमुचुः प्रेमभावेनाऽश्रूणि सर्वे तु विह्वलाः ।
वव्रिरे रक्षणं चापि मोक्षं त्वन्ते परं पदम् ॥३२॥
अहं धैर्यं वचो दत्वा शकटेन समं तथा ।
वृषभाभ्यां समं लक्ष्मि तूर्णं तत्र तिरोऽभवम् ॥३३॥
आजीवनं किरातो मे भक्तो गोधुमपोलिकाः ।
कारयित्वा निजपत्न्या भाज्या साकं न्यवेदयत् ॥३४॥
यतयः साधवश्चान्ये सत्यः साध्व्यश्च भिक्षुकाः ।
ये चाऽऽयान्ति लभन्ते ते भाजीं गोधुमपोलिकाः ॥३५॥
अन्नसत्रं सागरस्य प्रावर्तत निरन्तरम् ।
तार्थयात्रालवोऽप्यस्य गृहे शान्तिं प्रयान्ति हि ॥३६॥
सतां सेवां महालाभं लभते सागरः सदा ।
बहुपुण्ययुतो जातः सागरः सागरोपमः ॥३८॥
यद्गृहे मुनयो यान्ति देवप्रसादभोजिनः ।
देवताः साधुवेषाश्च भोक्तुं गोधुमपोलिकाः ॥३८॥
मत्वा प्रसादं दिव्यं च समायान्ति हि भिक्षुकाः ।
श्रीकृष्णदत्तगौधुम्यः पोलिकाः सुधया समाः ॥३९॥
भुज्यन्ते देवताभिश्च पितृभिर्भिक्षुकात्मकैः ।
सिद्धैश्च दिव्यदेहैश्च भुज्यन्ते पुण्यपोलिकाः ॥४०॥
प्रातरारभ्य चाऽऽसायं प्रवर्तन्ते हि पोलिकाः ।
अक्षया गोधुमाः सर्वे वर्धन्ते कुसुलोदरे ॥४१॥
सागरस्य गृहं तीर्थं जातं जगत्प्रसिद्धकम् ।
त्रैलोक्यां ख्यातमेवापि पावनं जायते तदा ॥४२॥
अथ श्रुत्वा तु दुर्वासा अक्षयं चान्नसत्रकम् ।
दशसाहस्रशिष्यैश्चाऽकस्मात् प्रातरुपाययौ ॥४३॥
सागरेण कृतमानः कृतस्वागत आदरात् ।
भोजनार्थं ततः पंक्तीः कृतवान् समकालिकीः ॥४४॥
सागरश्चिन्तयामास भीतः श्रीपतिमीश्वरम् ।
मां तदाऽहं श्रिया साकं प्राविरासं गृहोदरे ॥४५॥
सागरश्चातिमुमुदे दृष्ट्वा मां च श्रियं तथा ।
लक्ष्मीर्मया तदाऽऽज्ञप्ता पोलिकानिर्मितौ द्रुतम् ॥४६॥
सा निर्ममे तु पञ्चैव पोलिकाः सहसा रमा ।
चुल्याश्च वह्निना पक्ता मया धृता करेण सा ॥४७॥
अक्षयाः पञ्च चैताश्च न्यूना भवन्ति नैव ह ।
सागरेण करे धृत्वा स्थालीं ताः परिवेषिताः ॥४८॥
एकैकस्मै दशसख्याः सहस्रेभ्यः समर्पिताः ।
एवं दशसहस्रेभ्यः पोलिकाः परिवेषिताः ॥४९॥
भाजाऽपि स्थालतो दत्ता सर्वेभ्यः परिवेषिता ।
मया स्पृष्टा स्वादवती भाजा च पोलिकास्तथा ॥५०॥
बुभुजुश्च समस्तास्ते दुर्वाससोऽनुयायिनः ।
तृप्तास्ते चुलुकं कृत्वा महाश्चर्यं हि मेनिरे ॥५१॥
अथ स्थाल्यां पोलिकाश्चावशिष्यन्ते तु पञ्च वै ।
एवं दृष्ट्वा महाश्चर्यं दुर्वासा गृहमाययौ ॥५२॥
पराक्षार्थं हरिश्चाहं लक्ष्म्या साकं तिरोऽभवम् ।
दुर्वासाः कुसुलं नत्वा नत्वा भक्तं च सागरम् ॥५३॥
तत्पत्नीं सारिकानाम्नीं दत्वाऽऽशीर्वादमुत्तमम् ।
अक्षयं ते धनं चाऽस्तु धान्यमक्षयमस्तु ते ॥५४॥
भाजा ते चाऽक्षयाऽप्यस्तु श्रद्धा तेऽस्तु तथाऽक्षया ।
अन्नसत्रं चाऽक्षयं तै पुण्यं ते चाऽक्षयं तथा ॥५५॥
मुक्तिस्ते त्वक्षया चास्तु भक्तिस्ते चाऽक्षयाऽपि च ।
दानधर्मश्चाऽक्षयस्ते भवत्वेवं प्रयाम्यहम् ॥५६॥
इत्युक्त्वा पूजितश्चातिप्रसन्नः प्रययौ वनम् ।
एवं लक्ष्मि मया तत्र सागरः परिरक्षितः ॥५७॥
अथ श्रुत्वा वालखिल्या ब्रह्मपुत्रा महर्षयः ।
अष्टाशीतिसहस्राणि वामनास्तत्र चाययुः ॥५८॥
प्रसादपोलिका भोक्तुममायां प्रातरेव ह ।
तेषां चक्रे सागरश्च सम्मानं स्वागतं तथा ॥५९॥
आमन्त्रणं भोजनार्थं पंक्तिशस्ते ततोऽभवन् ।
तदा नारायणं विष्णुं सस्मार मां च सागरः ॥६०॥
द्रागेव चागतस्तत्र लक्ष्म्या साकं जनार्दनः ।
ब्राह्मणश्चाऽभवं तत्र लक्ष्मीश्च ब्राह्मणी तथा ॥६१॥
कृत्वा हस्ततलमानाः पोलिकाः सहसा दश ।
अष्टाशीतिसहस्रेभ्यः प्रत्येकं दश वै दश ॥६२॥
भाजया सहिता अददां बुभुजुस्तेऽतिहर्षिताः ।
तृप्तास्ते वै ततो जाताः कृत्वा च चुलुकं ययुः ॥६३॥
प्रशसन्तः सागरस्य भक्तिं प्रसन्नतां हरेः ।
एवं लक्ष्मि मया तत्र त्वया साकं स सागरः ॥६४॥
रक्षितः सुसहायेन भोजिताः ऋषयोऽखिलाः ।
अथ ज्ञात्वा शंकरस्तद्गृहं पावनमुत्तमम् ॥६५॥
दशलक्षगणैः साकं मध्याह्ने समुपाययौ ।
सर्वे साधुस्वरूपास्ते जटाचर्मधराः खलु ॥६६॥
अन्नसत्रं परं ज्ञात्वा चाऽक्षयं तद् ययाचिरे ।
भोजनं पोलिकानां च भाजानां कृष्णपावनम् ॥६७॥
सारिकासागरौ तत्र भीतौ सस्मरतुश्च माम् ।
लक्ष्म्या साकं तदा तूर्णमुपस्थितोऽभवं गृहे ॥६८॥
शतं च पोलिकाः कृत्वाऽददां प्रत्येकसाधवे ।
दशलक्षयतिभ्यो वै दत्तवानहमेव ह ॥६९॥
बहुरूपधरश्चाऽह शतं त्वन्तेऽवशेषिताः ।
भुक्त्वा ते पोलिका भाजास्तृप्ताः प्रशंस्य सागरम् ॥७०॥
ययुर्निजं हि कैलासं शंकरो ध्यानमाचरत् ।
ददर्श कारणं विष्णुं बालकृष्णं श्रिया युतम् ॥७१॥
आश्चर्यं परमं प्राप भक्ताधीनं विलोक्य माम् ।
इत्येवं वै मया लक्ष्मि सागरश्चाऽवितस्तदा ॥७२॥
अथ श्रुत्वा स्वयं ब्रह्मा पोलिकार्थमुपाययौ ।
कोटिसिद्धैरुपेतो वै प्रसादलब्धये द्रुतम् ॥७३॥
ययाचे व्योममार्गेण प्रसादं पोलिकोद्भवम् ।
कोटिसिद्धप्रतृप्त्यर्थं सागरश्च पुनर्हरिम् ॥७४॥
सस्मार मां रक्षकं चोपस्थितोऽहं तदाऽभवम् ।
लक्ष्म्या साकं श्रिया साकं राधया साकमित्यपि ॥७५॥
साकं ललितया चापि माणिक्या रमया सह ।
पद्मावत्या सह ब्रह्मप्रियाभिः सह वै तदा ॥७६॥
कोट्यर्बुदाभिः पत्नीभिश्चाऽम्बरेऽवस्थितोऽभवम् ।
सहस्रं पोलिकाः कारयित्वा कोटिप्रियायुतः ॥७७॥
सिद्धेभ्यश्चाददां प्रत्येकाय सहस्रपोलिकाः ।
सहस्रं चाऽवशिष्टाश्चेत्याश्चर्यं विश्वसृट् ययौ ॥७८॥
अथैवं सागरश्चापि मत्वा भाग्यं महत्तमम् ।
कृष्णनारायणाधीनं सर्वं कृत्वा हि वर्तते ॥७९॥
महीमानस्वागतं च ' रात्रिंदिवं करोति सः ।
अक्षया कुसुला तस्य त्रैलोक्ये ख्यातिमाप ह ॥८०॥
आयान्ति च परायान्ति महीमानास्त्रिलोकतः ।
आयासं परमं प्रोह्य सागरः सेवते मुदा ॥८१॥
नाऽयाचत सहायार्थं चापरं बलमैश्वरम् ।
मामेव स्मरति भक्तो यदा भीतिं स गच्छति ॥८२॥
एवमात्मनिवेदस्य भक्तस्य वीक्ष्य भावनाम् ।
सेवां त्रिलोकिजीवानां प्रसन्नोऽहं ततोऽभवम् ॥८३॥
विशेषेण मया भक्तकृते तत्र विचिन्तितम् ।
देयमस्मै कल्पपात्रं यत्राऽसंख्यास्तु पोलिकाः ॥८४॥
आविर्भवेयुः सततं भाजापात्रं तथाऽपरम् ।
भाजा यत्राप्यनन्ताश्चाऽऽविर्भवेयुः सुपाचिताः ॥८५॥
विचार्येत्थं ददौ तस्मै पात्रद्वयं सुतैजसम् ।
प्रातरेव सुपक्त्वाऽत्र पोलिका भाजिकास्तथा ॥८६॥
नित्यं रक्षति चाच्छाद्य पात्रयोरुभयोरपि ।
मयोक्तः सागरस्तत्र त्वं वा ते स्त्री पतिव्रता ॥८७॥
पूर्णपात्राण्यनन्तानि यावदिष्टानि तानि वै ।
सकल्पयसि तावन्ति पूरितानि शुभानि च ॥८८॥
निस्सरिष्यन्ति रम्याणि चाऽऽभ्यां संकल्पमात्रतः ।
परिवेषणयत्नो वा पात्रदानक्रिया अपि ॥८९॥
कर्तव्या न भविष्यन्ति पंक्तौ यास्यन्ति वै स्वतः ।
एवमुक्त्वा पूजितोऽहं दत्वा जलस्य भाजनम् ॥९०॥
तादृशं चाऽक्षयं पूर्णं पूर्णकलशकारणम् ।
तिरोऽभवं ततः स्थानात् सागरो मुमुदे ह्यति ॥९१॥
अथ ज्ञात्वा महाश्चर्यं भाद्रामावास्यसद्दिने ।
कोट्यर्बुदाश्च पितरो महर्जनतपोभवाः ॥९२॥
आययुः सुप्रसादस्येच्छया तृप्त्यर्थमुत्सुकाः ।
शरीरिणः समस्तास्ते पंक्तिशोऽवस्थितास्तदा ॥९३॥
सारिका स्नानशुद्धा च कृत्वा भाजाश्च पोलिकाः ।
दुग्धपाकं श्राद्धयोग्यं न्यधात् तयोस्तु पात्रयोः ॥९४॥
आच्छाद्य विष्णवे प्रार्प्य यथोक्तं समकल्पयत् ।
सागरोऽपि कृतस्नानः पात्रान्तिकमुपाययौ ॥९५॥
अचिन्तयत् कोट्ययुताऽर्बुदपात्राणि वै तदा ।
पूरितानि ह्यसंख्यानि निर्ययुः पात्रयुग्मकात् ॥९६॥
प्रत्येकपितृदेवाय प्रत्येकं समुपस्थितम् ।
पात्रं पूर्णं पोलिकाभिः पायसान्नैस्तथा रमे ॥९७॥
भाजाभिश्च तथा वारिकलशश्चेति तृप्तिदः ।
कोट्यर्बुदाब्जपितरो भुक्त्वा तृप्तास्ततो ययुः ॥९८॥
रिक्तपात्राणि विलयं स्वभावात् समुपाययुः ।
एवं स सागरो भक्तो मया गोधुमसत्रके ॥९९॥
वर्धितोऽतिकृपया वै सर्वस्वागतकृद् यथा ।
किरातोऽन्वभवद् भक्त्या देवरातो हि सर्वथा ॥१००॥
अथ कालान्तरे चाऽहं दम्पती दिव्यपार्षदैः ।
सहितः सुविमानेनाऽनयं धामाऽक्षरं मम ॥१०१॥
महीशाटीनगरी च पश्चाद् गोधुमभाजिका ।
इतिनाम्नाऽभवल्लक्ष्मि तथा गोधुमसारिका ॥१०२॥
गोधुमरा ततश्चापि कथ्यते पावनी धरा ।
इत्येवं तन्महत्तीर्थं कृतं मया कृपालुना ॥१०३॥
दम्पत्योर्मोक्षणे पश्चाद् राज्ञा गोधरसूरिणा ।
कुसुला सा निजायत्ता कृता तावत्तु गोधुमाः ॥१०४॥
अदृश्यतां गताः पात्रत्रयं चाऽदृश्यतां गतम् ।
अन्नसत्रं समाप्तं च चमत्कारो लयं ययौ ॥१०५॥
इत्येवं गोधरसूरिर्वीक्ष्य दैवकृतं हि तत् ।
कुसुलं नित्यदा रिक्तं ह्यपूजयत् स्मरन् हरिः ॥१०६॥
तथापि तु चमत्कारो गतो यस्तु गतो हि सः ।
पठनाच्छ्रवणादस्य लक्ष्मि दिव्यगतिं लभेत् ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सागराख्यकिरातभक्तस्य भक्त्या प्रसन्नेन श्रीहरिणा श्रेष्ठिरूपेण गोधुमपुञ्जोऽर्पितः कुसुलस्थोऽक्षयश्च कृतस्तत्पोलिकाभाजाजलपात्राण्यक्षयाणि कृतानि मोक्षश्चकृत इत्यादिनिरूपणनामा अष्टाऽधिकद्विशततमोऽध्यायः ॥२०८॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP