द्वापरयुगसन्तानः - अध्यायः १५७
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
रुचिः प्रजापतिर्विज्ञो ह्यनिच्छन्नपि भामिनीम्।
गार्हस्थ्यं परिजग्राह विस्तरात् तद् वदस्व मे ॥१॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं यथा गार्हस्थ्यमाप्तवान् ।
साधुधर्मान् ररक्षापि गृहधर्मानवाप्तवान् ॥२॥
निर्ममो निरहंकारो मितशायी मिताशनः ।
वर्तते स्म रुचिर्लक्ष्मि! सर्वसंगविवर्जितः ॥३॥
अनग्निमनिकेतं तमेकाहारमनाश्रमम् ।
विमुक्तसंगं तं दृष्ट्वा प्रोचुस्तत्पितरो रुचिम् ॥४॥
वत्स कस्माद् भवान्नैव करोति दारसंग्रहम् ।
पुण्यं पवित्रं सुखदं धर्म्यं स्वर्गादिसाधनम् ॥५॥
ऋणहं मोक्षदं वंशयशोलाभप्रदं शुभम् ।
बन्धविनाशनं सर्ववासनाक्षयकारिणम् ॥६॥
सदारः सर्वदेवानां पितॄणां च सतामपि ।
ऋषीणामतिथीनां च सेवाभिः स्वर्गमाप्नुयात् ॥७॥
स त्वं दैवमृणं पितृऋणं ऋषिऋणं तथा ।
अवाप्नोषि विना दारान् बन्धनं च दिने दिने ॥८॥
सुतोत्पत्तिं विना पुत्र देवसन्तर्पणं विना ।
ऋषितृप्तिं विना नैव प्रयास्यसि परां गतिम् ॥९॥
क्लेशो दारग्रहे योऽस्ति विना दारान् ततोऽधिकः ।
ऐहिकश्च परत्राऽपि तस्मात् पुत्र गृही भव ॥१०॥
अदारस्याऽप्ययज्ञस्य वंशविरहितस्य च ।
मृतस्य निरयः स्याद्वै तस्मात्पुत्र गृही भव ॥११॥
श्रुत्वा रुचिः प्रत्युवाच पितॄन् धर्म्यं वचः शुभम् ।
मन्येऽहं पितरो वोऽस्तु नमो यथा वदामि तत् ॥१२॥
ब्रह्मचर्यं ब्रह्मरूपं ब्रह्मतुल्यं च मुक्तिदम् ।
मुक्तिमिच्छामि तेनाऽहं स्वर्गं मे नैव रोचते ॥१३॥
इत्येवं कृतबोधस्य मम दारप्रसंग्रहः ।
पापक्लेशातिदुःखाऽऽर्त्तिव्याध्यधोगतिदो मतः ॥१४॥
आत्मेन्द्रियादितत्त्वानां निग्रहो मोक्षदो मतः ।
दारग्रहे स न स्याच्च कामरागाभिपूरिते ॥१५॥
कर्दमो दारयोगोत्थो वासनात्मा विवर्धते ।
अनेकभवसंभूतः कर्मपंकोऽपि तुष्यति ॥१६॥
कर्दमितश्चाऽयमात्मा ब्रह्मतीर्थाप्लवादिभिः ।
भावनाभक्तितोयाद्यै प्रक्षाल्यो वै विवेकिभिः ॥१७॥
क्षालयामि पुरालग्नं कर्दमं वासनामयम् ।
योग्यं करोमि पितरो ब्रह्मचर्यपरस्त्वहम् ॥१८॥
भवतां तु समुद्धारी मया कर्तुं हि शक्यते ।
ब्रह्मचर्यबलेनैव बन्धं दोषान् जहामि च ॥१९॥
इत्युक्ताः पितरः प्राहुः पुत्र युक्तं हि तत्तथा ।
मोक्षमार्गो ब्रह्मचर्यं भवत्येव न संशयः ॥२०॥
मार्गे विघ्नाः पुरा प्राप्ताः पापाऽशुभदुरीतिकाः ।
अहंममत्वमायाद्याः कर्माण्यसंख्यकान्यपि ॥२१॥
पुराकृतानि सर्वाणि भोगाय कल्पितानि च ।
पुण्याऽपुण्यानि चात्रैव क्षालनीयानि सर्वथा ॥२२॥
तानि भुञ्जन् क्षालयँश्च नवं कुर्वन् सुनिर्गुणम् ।
सर्वार्पणात्मकं कृष्णे बन्धं जहन् विमुक्तये ॥२३॥
यो यात्रां वर्तयत्यत्र तस्य बन्धो न जायते ।
प्राक्कृतस्य समाप्तिश्च फलं निर्विघ्नमोक्षणम् ॥२४॥
एवं प्रक्षालनं युक्तं क्रमेण कर्मणां सुत ।
नाऽयं वै गण्यते पुत्राऽविवेकः पापपंकदः ॥२५॥
तस्माद् दारान्वितो भूत्वा भुंक्ष्व त्यज विमोचय ।
उपकारं परं कृत्वा याहि शाश्वतमक्षरम् ॥२६॥
इतिपितृवचः श्रुत्वा रुचिराह पितामहान् ।
कर्ममार्गोऽस्त्यविद्या वै तत्र मा योजयन्तु माम् ॥२७॥
अज्ञानं चापि कर्मापि नरकं तुल्यमेव तत् ।
नैष्कर्म्यं प्रोच्यते सिद्धिर्नैर्ष्कर्म्यं साधयाम्यहम् ॥२८॥
श्रुत्वैतत् पितरस्तस्य सत्यं जगदुरुत्तरम् ।
कर्म तादृक् प्रकर्तव्यं येन विद्या समर्ज्यते ॥२९॥
विद्यया विलयं यायादविद्याऽज्ञानसंज्ञिका ।
विहिताऽकरणात् पुत्राऽविद्याऽज्ञानं प्रपुष्यति ॥३०॥
विहिताऽकरणं चान्यत्करणं बन्धदं भवेत् ।
विहिताऽकरणे चेत् स्यात् संयमः सोऽपि धर्महा ॥३१॥
स न स्यान्मुक्तये किन्तु चाऽन्तेऽधोगतिकारकः ।
प्रक्षालनं न पापानां प्रत्युताऽर्जनमेव तत् ॥२२॥
विहिताऽकरणोद्भूतैः पापैः सर्वं प्रदह्यति ।
प्रत्यवायाऽनुद्भवार्थं विहितं त्वाचरेच्छुभम् ॥३३॥
ब्रह्मचर्योत्तरं पुत्र गार्हस्थ्यं विहितं यतः ।
तत्कर्म यदि निरयो विषवद् विषहारकम् ॥३४॥
गार्हस्थ्यविषयोगेन प्रत्यवायविषं जहि ।
गार्हस्थ्यं समनुष्ठाय वनिना तद्विषं जहि ॥३५॥
सन्न्यासेन ततः पुत्र वनिविषं सदा जहि ।
ब्रह्मात्मार्पणलाभेन देहेन्द्रियादिकं जहि ॥३६॥
परमात्मप्रसंगेन स्वात्मभावं ततो जहि ।
एवं क्रमं समारुह्य परमारोहणं कुरु ॥३७॥
इत्युक्त्वा पितरः सर्वेऽदृश्या ययुर्निजालयम् ।
रुचिर्मनसा सञ्चिन्त्य भार्यार्थं मतिमादधात् ॥३८॥
ब्रह्माणं पितरं स्मृत्वा तपो व्यधात् पुनर्बहु ।
ब्रह्मा त्वागत्याऽऽह रुचिं भविता त्वं प्रजापतिः ॥३९॥
प्रजाः सृष्ट्वा सुतान् लब्ध्वा कृत्वा च वैदिकी क्रियाः ।
चातुराश्रम्यमास्थाय संस्थाप्य च प्रजासु तत् ॥४०॥
दारयोगोत्तरं कर्मफलं भुक्त्वा नवं नवम् ।
पितृतृप्तिं ततः कृत्वा परां सिद्धिमवाप्स्यसि ॥४१॥
तुष्टास्ते पितरः पत्नीं सुतान् दास्यन्ति चेप्सितान् ।
आज्ञांकिते प्रसन्तुष्टाः किन्न दद्यः पितामहाः ॥४२॥
इति वाक्यं वेधसोऽपि लक्ष्मि श्रुत्वा रुचिः स्वयम् ।
तुष्टाव वेधसं चापि पुपूज जलपुष्पकैः ॥४३॥
ब्रह्मा तिरोऽभवत्तत्र नदीतीरे रुचिस्ततः ।
पितॄन् सन्तर्प्य तुष्टाव प्रणतो भक्तिगौरवः ॥४४॥
नमस्ये श्रीहरिकृष्णं शाश्वतं वै पितामहम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥४५॥
नमस्ये श्रीब्रह्मधामाऽक्षरं मुक्तान् महेश्वरान् ।
नमस्ये सर्वशक्त्यैश्वर्याणि गुणान् पितामहान् ॥४६॥
हेतीन् समस्तभूतीश्च विभूतीरीश्वरींस्तथा ।
मुक्तानिका अवतारान् मातॄँश्च श्रीरमादिकाः ॥४७॥
नमस्ये व्यूहसंज्ञाँश्च नमस्ये च विराजकान् ।
नमस्ये सत्यलोकस्थान् साधून् ब्रह्मविदः सतः ॥४८॥
नमस्ये तान् श्राद्धपितॄन् श्राद्धे ये चाधिदेवताः ।
देवैरपि च तर्प्यन्ते ये श्राद्धे तान्नमाम्यहम् ॥४९॥
नमस्येऽहं च तान् स्वर्गे तर्प्यन्ते ये महर्षिभिः ।
तथा सिद्धजनैश्चापि तर्प्यन्ते तान्नमाम्यहम् ॥५०॥
गुह्यकैरपि येऽऽर्च्यन्ते ऋद्ध्यर्थं तान्नमाम्यहम् ।
नमस्येऽहं च तान् पितॄन् येऽर्च्यन्ते मानवैर्भुवि ॥५१॥
नमस्येऽहं च तान् पितॄन् स्वेष्टलोकप्रदायिनः ।
येऽर्च्यन्ते श्रद्धया विप्रैः श्राद्धकर्मसु तर्पिताः ॥॥२॥
प्राजापत्यपददातॄन् नमस्ये वनितर्पिताः ।
तान्नमस्ये नैष्ठिकानां फलदातॄन् प्रपूजितान् ॥५३॥
राजन्यतर्पितान् पितॄन्नमस्ये मखपूजितान् ।
वैश्यप्रपूजितान् पितॄन् नमस्ये कव्यभोजनान् ॥५४॥
शूद्राऽर्चितान्नमस्ये तान् सुकालिनोऽन्नपूजितान् ।
आसुराऽर्चितपितॄँश्च रवधाहारान्नमामि च ॥५५॥
पातालवासिनो यान् ये तर्प्यन्ते श्राद्धकर्मसु ।
स्वधाहारान् नमस्येऽहं रासातलैः प्रपूजितान् ॥५६॥
भोगैरशेषैर्नागाद्यैः सर्वैश्चापि प्रपूजितान् ।
पितॄन्नमस्ये द्युस्थाँश्चाऽन्तरिक्षास्थान् महीस्थितान् ॥५७॥
विमानस्थान् मूर्तरूपान् पितॄन्नमामि सर्वदा ।
योगिजनैः पूजिताँस्तान् क्लेशमुक्तिप्रदान् शुभान् ॥५८॥
पितॄँस्ताँश्च नमस्येऽहं मूर्तान् स्वधाभुजः सदा ।
काम्यफलप्रदान् सर्वान् स्वर्गस्थान् मोक्षदानपि ॥५९॥
तृप्यन्त्विच्छावतां कामप्रदाः सुरत्वपुत्रदाः ।
ऐन्द्रसौरपददाश्च पशुस्वगृहशक्तिदाः ॥६०॥
चन्द्रे सूर्ये रश्मिवासा विमानस्था जलान्नकैः ।
गन्धरसादिभिः सर्वे तृप्यन्तां चामृतप्रदाः ॥६१॥
अग्नौ हुतान्नभोक्तारो हविर्भुजोऽपि येऽपरे ।
विप्रदेहनिवासाश्च साधुदेहनिवासिनः ॥६२॥
पिण्डादास्तृप्तिमायान्तु मयाऽर्पिताऽप्कलादिभिः ।
कृष्णतिलैः शाकपत्रैः प्रीणिता यन्तु ते मुदम् ॥६३॥
कव्यादाश्चामरपूज्याः पुष्पगन्धान्नभोजनैः ।
तृप्तिमायान्तु ते सर्वे पितरः स्वर्गदायिनः ॥६४॥
प्रत्यहं पूजिता मासपूजिता येऽष्टकासु च ।
समान्तेऽभ्युदये पूज्यास्तृप्यन्तु पितरोऽपि मे ॥६५॥
श्वेता विप्राऽर्चितास्वाऽर्कवर्णाः क्षत्रियपूजिताः ।
स्वर्णवर्णा वैश्यपूज्या नीलाः शूद्रप्रपूजिताः ॥६६॥
पुष्पगन्धरसैर्धूपैस्तोयान्नफलपत्रकैः ।
अग्निहुतेन चाज्येन तृप्तिं यान्तु नतोऽस्मि तान् ॥६७॥
देवपूर्वाः कव्यभुजो भूतिस्रजो भवन्ति ये ।
भूतप्रेताऽसुररक्षउग्रपितॄन् नमाम्यपि ॥६८॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
तेऽपि तृप्तिं प्रपद्यन्तां तर्पिताः श्रद्धया मया ॥६९॥
प्राचीं रक्षन्त्वग्निष्वात्ता याम्यां बर्हिषदस्तथा ।
प्रतीचीमाज्यपा रक्षन्त्वुदीचीं सोमपा मम ॥७०॥
रक्षोभूतपिशाचेभ्यो दुष्टाभिचारमन्त्रतः ।
आसुरप्रेतदेहिभ्यो यमो रक्षतु मां सदा ॥७१॥
एकत्रिंशत्पितृगणास्तुष्टा यच्छन्तु मे हितम् ।
विश्वा विश्वभुजो धर्मा धन्याः शुभाननास्तथा ॥७२॥
आराध्या भूतिदा भूतिकृतश्च भूतयो नव ।
कल्याणाः कल्यताः कर्तारश्च कल्पत्वहेतवः ॥७३॥
कल्यतराश्रयाश्चेति षट्टेपितृगणास्तथा ।
वरा वरेण्या वरदाः पुष्टिदास्तुष्टिदास्तथा ॥७४॥
धातारो विश्वपातारः सप्त पितृगणाश्च ते ।
महान्तश्च महात्मानो महिताश्च महाबलाः ॥७५॥
महिमवन्तइत्येते पञ्च पितृगणास्तथा ।
सुखदा धनदश्चापि धर्मदा भूतिदास्तथा ॥७६॥
गणाश्चत्वार एवापि सर्वे तुष्यन्तु मेऽर्चिताः ।
एवं वै स्तुवतस्तस्य रुचेस्तु तेजसां चयः ॥७७॥
समुत्थितः पुरतश्च तं तुष्टाव रुचिस्तदा ।
अमूर्तानर्चितानत्र तेजोमयानुपस्थितान् ॥७८॥
नमस्यामि ध्यानगम्यान् पितॄँस्तान् दिव्यविग्रहान् ।
इन्द्रादीशान् दक्षमारीचर्षिनेतॄन् नमामि च ॥७९॥
मनुमुनीन्द्रचन्द्राऽर्केश्वरान् पितॄन्नमामि च ।
जलेवासान् ग्रहनक्षत्रेशान् वाय्वग्निपूजितान् ॥८०॥
नभःस्थान् भूस्वर्गवासान् नमस्यामि कृताञ्जलिः ।
देवर्षिजनकाँश्चाप्यक्षय्यदातॄन् नमामि च ॥८१॥
प्रजेशाय कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यः सिद्धेभ्यः सद्भ्यो नमामि साञ्जलिः ॥८२॥
सप्तलोकगणेभ्यश्च स्वयंभूपरमेष्ठिने ।
सोमध्रेभ्यश्च नमः सोमाय च नमो नमः ॥८३॥
अग्निरूपान् योगिनश्च नमस्याम्यध्वरस्थितान् ।
तेजःस्थान् सोमसूर्याग्निमूर्तीन्नमामि वै पितॄन् ॥८४॥
व्रह्मस्वरूपिणः सिद्धान् ब्रह्मचर्यपरायणान् ।
नमामि सत्यलोकस्थानीश्वरानावृतिस्थितान् ॥८५॥
वैराजान् वैष्णवान् भौमान् श्रीपुरस्थाः श्रीयोषितः ।
अव्याकृताऽमृतस्थाँश्च गोलोकस्थान् नमानि च ॥८६॥
वैकुण्ठस्थानक्षरस्थानवतारान् नमामि च ।
अवतारिणीश्च सर्वा मुक्तानिका नमामि च ॥८७॥
मुक्ताँश्च पार्षदान् सर्वानैश्वर्याणि नमामि च ।
अनादिश्रीकृष्णनारायणं श्रीवल्लभम् प्रभुम् ॥८८॥
ब्रह्मप्रियाः समस्ताश्च मातॄर्हरिप्रियास्तथा ।
हेतीन् गुणान् विभूतींश्च नमामि प्रसीदन्तु मे ॥८९॥
इतिस्तुतास्ते पितरस्तेजसो निर्ययुः शुभाः ।
निवेदितान्नपुष्पाद्यैर्युक्ताश्च पुरतः स्थिताः ॥९०॥
पुनर्नतास्तु ते प्राहुः पुत्र पत्नीयुतो भव ।
तस्यां सुतस्ते भविता रौच्यो नाम महामनुः ॥९१॥
अन्ये सुता भविष्यन्ति तेऽपि ते पृथिवीभुजः ।
त्वं च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ॥९२॥
क्षीणाधिकारो भक्तो नः सिद्धिमाप्स्यसि मुक्तिगाम् ।
एतत्स्तोत्रप्रवक्तृँश्च करिष्यामः समृद्धिगान् ॥९३॥
एतत्स्तोत्रप्रपाठेन तृप्तिर्द्वादशवार्षिकी ।
विकलेऽपि कृते श्राद्धे सगुणं स्तोत्रकीर्तनात् ॥९४॥
इत्युक्ते सहसा लक्ष्मि नदीमध्यात् प्रम्लोचना ।
अप्सरा वै समुत्तस्थौ सकन्या शुभदर्शना ॥९५॥
वरुणस्य तु पुत्रस्य पुष्करस्य प्रिया हि सा ।
उवाच तं रुचिं रुचे! भार्यां गृहाण मत्सुताम् ॥९६॥
मया दत्तां मम पुत्रीं मनुरस्यां भविष्यति ।
तथेति रुचिणोक्ता सा मालिनीं पुत्रिकां ददौ ॥९७॥
रुचिः पाणिं प्रजग्राह पुत्रस्तस्यां ततोऽभवत् ।
रौच्यो देवो मनुः सोऽयं भविता वै त्रयोदशः ॥९८॥
महाभागवतो भक्तोऽधिकारान्ते विमोक्ष्यते ।
एतत्पवित्रमनघं पित्राख्यानार्चनादिकम् ॥९९॥
पठित्वा मुच्यते कष्टाद् विभूत्या युज्यते तथा ।
लक्ष्मि भुक्तिं लभेताऽत्र मुक्तिं चान्ते लभेदपि ॥१००॥
पितृपूजाफलं चापि वंशं स्वर्गं लभेदपि ।
सम्पल्लक्ष्मीं लभेतापि परं मोक्षमवाप्नुयात् ॥१०१॥
धर्मवृद्धिं तथाऽऽरोग्यं धनं धान्यादिकं लभेत् ।
सर्वान् कामानवाप्नोति पितृप्रसन्नतार्जितान् ॥१०२॥
सर्वानन्दप्रमोदाँश्च सर्वसौख्यानि चाश्नुते ।
गार्हस्थ्यं निर्गुणं तस्य जायते पितृभक्तितः ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने रुचिप्रजापतेः पितृदर्शनं स्तवनं गार्हस्थ्यार्थमादेशो गार्हस्थ्यं चेतिनिरूपणनामा सप्तपञ्चाशदधिकशततमोऽध्यायः ॥१५७॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP