द्वापरयुगसन्तानः - अध्यायः २०
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मे ततः परम् ।
सर्वेश्वरेश्वरेशानां विनियन्तुः परात्मनः ॥१॥
त्रयोविंशे वेधसश्च सनातनाख्ये वत्सरे ।
द्विपञ्चाशत्तमे कल्पे प्रथमे च मनौ पुरा ॥२॥
पृथिव्यां सुरनद्याश्च तटे कालादने वने ।
मधुमच्छृंगवत्पार्श्वे क्ष्मासुराः स्म वसन्ति वै ॥३॥
तापसा ध्यानपरमा यज्ञयागपरायणाः ।
ब्रह्मकार्यपराश्चापि परमार्थपरायणाः ॥४॥
गृहधर्मे स्थिताः कर्मज्ञानमुख्याः विभक्तिकाः ।
मन्वते न बहुभक्तिं स्म ते मोक्षस्य साधनम् ॥५॥
धर्मयुक्तं हि विज्ञानं विवेकं बहु मन्वते ।
जडाजडविवेका ये निजधर्मपरायणाः ॥६॥
तरन्ति सर्वभोगाढ्या अपि ज्ञानेन बन्धनम् ।
अकर्ताऽऽत्मा चाप्यभोक्ता नित्यशुद्धोऽस्ति वर्ष्मसु ॥७॥
अहंममत्वरहितो रागद्वेषविवर्जितः ।
सुखदुःखविमुक्तश्च मुक्त एव न संशयः ॥८॥
वासनाऽऽशयहीनश्च क्रियायत्नविवर्जितः ।
बहिर्बुद्धिविहीनश्च मुक्त एव न संशयः ॥९॥
रजोभावविहीनश्च कामक्रोधादिवर्जितः ।
वृथाचेष्टाविहीनश्च मुक्त एव न संशयः ॥१०॥
स्त्रीपुत्रगृहयुक्तोऽपि वनवाटीसमन्वितः ।
महिषीगोवृषयुक् च निर्बन्धो मुक्त एव सः ॥११॥
लोकाचारयुतो नित्यं शास्त्राचारपरायणः ।
मर्यादायां वर्तमानो मुक्त एव न संशयः ॥१२॥
इत्येवं वृषमुख्यास्ते क्ष्मासुरा मखकर्मिणः ।
सुस्त्रीपुत्रीपुत्रयुक्ता वर्तन्ते स्म सरित्तटे ॥१३॥
फलमूलदलाहाराः सूर्यपक्वाशनास्तथा ।
ऋतुपक्वाशनाश्चापि वर्तन्ते स्म निराशयाः ॥१४॥
ब्रह्मशीलपराश्चापि चीरवल्कलधारिणः ।
जटाभस्मादियुक्ताश्च पर्णकुट्यादिवासिनः ॥१५॥
ब्रह्मचर्यं यथायोग्यं पालयन्ति व्रतानि च ।
यज्ञोत्सवान् प्रकुर्वन्ति स्मोत्सवान् ज्ञानिनामपि ॥१६॥
एवं वै वर्तमानास्ते जनेषु भूतलादिषु ।
स्थापयन्ति स्म वै ज्ञानं सकर्म मोक्षसाधनम् ॥१७॥
भक्तिं स्मरन्ति नैवैते धर्मे समाश्रयन्ति च ।
ततो वै चैकदा भक्त्या पत्न्याऽतिकृशया पतिः ॥१८॥
धर्मदेवोऽर्थितः पुष्ट्यै निजायाः प्राणरक्षकः ।
कान्त रक्षक लोकानां पत्नीव्रतोऽस्ति वै भवान् ॥१९॥
तव पुष्टिं प्रकुर्वन्ति क्ष्मासुराः कल्पकेऽत्र च ।
मम स्थानं न तत्राऽस्ति मृतिं यास्यामि वै ततः ॥२०॥
मां विहाय त्वया नाथ न गन्तव्यं कदाचन ।
तव पुष्टिर्मम हानिर्नैतद् युक्तं कदाचन ॥२१॥
यथा पुष्टिर्मम स्याच्च तथा पाल्या तव प्रिया ।
अप्रिया चेत् तवाऽहं वाऽस्त्रीति त्याज्या सदा खलु ॥२२॥
येन मे मरणं श्रेयःकरं स्यान्न तु जीवनम् ।
इत्युक्तो धर्मदेवो वै शुशोच क्षणमान्तरे ॥२३॥
भक्तिपुष्टिं हृदि कृत्वा निर्णयामास तत्कृतिम् ।
ययौ नारायणं विष्णुं परब्रह्म सनातनम् ॥२४॥
अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ।
अक्षराख्ये परे धाम्नि चागत्य च पुपूज माम् ॥२५॥
प्रार्थयद् भक्तिदेव्यास्तु स्थापनार्थं क्षितौ वृषः ।
परब्रह्म हरेकृष्ण नारायण परेश्वर ॥२६॥
अद्य कल्पे क्षितौ लोका धर्ममात्रपरायणाः ।
कर्मकाण्डपराश्चापि भक्तिहीना विवेकिनः ॥२७॥
जडचेतनभेदज्ञाः कैवल्यार्था भवन्ति वै ।
उपासना न चैवास्ति नारायणस्य ते प्रभो ॥२८॥
अर्चागन्धोऽपि नैवाऽस्ति क्ष्मायां क्वापि हरेस्तव ।
ततश्चार्चास्वरूपस्याऽर्हणमुपासनादिकम् ॥२९॥
प्रवर्तयितुं भगवन् भक्तिं पोषयितुं तथा ।
जीवयितुं भक्तिभेदान् प्रयासं वह माधव ॥३०॥
श्रुत्वैवं प्रार्थनां धर्मदेवस्य भक्तिपोषिणीम् ।
द्रुतं लक्ष्मि! सदायुक्तयोगिनं हि सदाशिवम् ॥३१॥
प्रेरयामास पृथ्व्यां वै गन्तुं खण्डयितुं तथा ।
केवलं कर्मवादं च ज्ञानवादं च केवलम् ॥३२॥
भक्तिं विना निष्फलं वै कर्म ज्ञानं न मोक्षदम् ।
इत्येवमुपदेशार्थं प्रेषयामास शंकरम् ॥३३॥
स च भूमौ द्रुतं गत्वा दृष्ट्वा लोकांश्च कर्मठान् ।
भक्तिहीनान् क्ष्मासुरादीन् रचयामास कौतुकम् ॥३४॥
दिगम्बरो युवा भूत्वोज्ज्वलो मोहकविग्रहः ।
देव्या युक्तो हरः पुष्टो ययौ क्ष्मासुरखर्वटम् ॥३५॥
यत्र वसन्ति सर्वे ते कर्मठाः क्ष्मासुरादयः ।
तत्पत्न्यश्चापि तत्कन्याः कुमाराश्च द्विजोद्भवाः ॥३६॥
कर्मठाः सर्व एवैते भेदज्ञानपरा अपि ।
भक्तिहीना दिव्यदृष्टिविहीना देहमानिनः ॥३७॥
कामक्रोधपराश्चापि देवमाहात्म्यवर्जिताः ।
योगिसाधुप्रतिमादिमाहात्म्यवर्जितास्तथा ॥३८॥
आतिथेयविहीनाश्च ब्राह्मदशाविवर्जिताः ।
संसारदृष्टियुक्ताश्च दोषभद्धृदयान्विताः ॥३९॥
एवंविधाः क्ष्मासुरास्ते यत्र वसन्ति संहताः ।
नरा नार्यो ग्रामवासाः पर्णकुट्यादिवासिनः ॥४०॥
तत्राऽयं शंकरो नग्नो ययौ चेष्टां तु कामिनः ।
कुर्वन् गृहं गृहं याति कन्यास्तथा कुमारकाः ॥४१॥
युवत्यश्च तथा नार्यो मत्तं विलोक्य देहिनम् ।
प्रमत्तं सुन्दरं पुष्टं मोहकं तमनुद्रुताः ॥४२॥
नर्मवाक्यानि जगदुर्वीक्षयामासुरीश्वरम् ।
कामुकं हसमानाश्च चिक्षिपुर्धूलिकादिकम् ॥४३॥
काश्चित्तु ताडयामासुर्नितम्बे दण्डयष्टिभिः ।
मोहिताः श्मासुरपत्न्योऽनुजग्मुर्भानवर्जिताः ॥४४॥
पस्पर्शुः सुखालोभेन निन्युर्निर्जनकुंजके ।
विप्रा वीक्ष्य तथा श्रुत्वा कर्मकाण्डपरायणाः ॥४५॥
मृषाविवेकध्वजिनोऽनुपेतुर्हननाय तम् ।
प्राप्य दण्डैर्यष्टिभिश्च ताडयामासुरत्यति ॥४६॥
शंकरो युक्तयोग्येव दुःखं जानाति नैव ह ।
ताडनं बलवत् प्राप्य ममार पतितो भुवि ॥४७॥
शवीभूतोऽभवत् तत्र श्वासं गृह्णाति नैव ह ।
समाधौ वर्तते यद्वन्मृतो यथाऽभवत्तदा ॥४८॥
ते च सन्त्यज्य पतितं विप्राः स्वस्वालयान् ययुः ।
सती देवी ततः क्रुद्धा शशाप तान् प्रताडकान् ॥४९॥
यतो मिथ्याज्ञानकरा विवेकध्वजिनो द्विजाः ।
आत्मसत्ताविहीनाश्च निजाऽकर्तृत्वमानिनः ॥५०॥
अकर्तृत्वमभोक्तृत्वं नित्यशुद्धत्वमात्मनि ।
अंशमात्रं न मन्वाना वागाडम्बरवेदिनः ॥५१॥
कर्मठा देहरूपाश्च कामक्रोधपरायणाः ।
योगिनां च सतां दिव्यमाहात्म्यस्याऽविदस्तथा ॥५२॥
कामक्रियापरा यूयं स्ववत्परेऽभिशंकिनः ।
निर्दया ब्रह्महत्याका मृतिं यान्तु यथा हरः ॥५३॥
इति सत्या चाभिहिते खेटे खर्वटके वने ।
क्ष्मासुरा नरवर्गास्ते द्रुतं क्रमान्मृतिं ययुः ॥५४॥
शवा गृहे गृहे जाता नराणां वसतिष्वपि ।
हाहाकारो महान् जातो विप्रावासेषु चाभितः ॥५५॥
विप्रा मृतिं प्रयान्त्येव नग्ननार्याः प्रशापनात् ।
किं कर्तव्यं क्व गन्तव्यं रक्षणार्थमिहाऽद्य वै ॥५६॥
नार्यो रुदन्ति परितो बालाः कन्या रुदन्त्यपि ।
मानवाश्चापि संश्रुत्वा रुदन्ति च स्थले स्थले ॥५७॥
आत्मभावविहीनाश्च विवेकज्ञानवर्जिताः ।
वाङ्मात्रज्ञानकर्तारो भेदज्ञानविवर्जिताः ॥५८॥
कर्मठाः क्रोधकामादिदोषयुक्ताः शुचान्विताः ।
सर्वत्र मानवे लोके क्षितौ देशेषु वै तदा ॥५९॥
क्ष्मासुरा गतभानाश्च गतासवोऽभवँस्तदा ।
दिनमध्ये तु सर्वस्यां पृथिव्यां कमले तदा ॥६०॥
कोट्यर्बुदशवानां वै श्मशानान्यभवँस्तदा ।
गृहे गृहे शवस्तत्र क्षणे क्षणे प्रजायते ॥६१॥
कोपोऽयं कश्चिदेवाऽपि महत्तम इति स्त्रियः ।
अन्ये जना अविप्राद्या मेनिरे सर्वनाशकः ॥६२॥
यत्र यत्राऽभवन् विप्राः कर्मठा भिन्नवादिनः ।
भक्तिहीनाश्च ते सर्वे शवतां भेजिरे तदा ॥६३॥
हाहाकारे तथा जाते नरा नार्योऽवशेषिताः ।
आराधनां परेशस्य चक्रुर्मे परमात्मनः ॥६४॥
त्वं प्राणस्त्वं जीवनं च त्वं रक्षाकर माधव ।
त्वं स्त्रीणां शरणं नाथ जीवयाऽस्मत्पतीन् जनान् ॥६५॥
इत्येवं स्तवनं श्रुत्वा निमित्तं चागमे मम ।
अहं साकं त्वया लक्ष्मि! चाययौ पुरुषोत्तमः ॥६६॥
भुवं शीघ्रं शंखचक्रगदापद्मादिशोभितः ।
स्वर्णभूषाम्बरशाली दिव्यतेजोऽभिराजितः ॥६७॥
यत्र हरशवश्चास्ते यत्र द्विजशवास्तथा ।
तत्र प्रदर्श्य मद्रूपं समाश्वास्य च योषितः ॥६८॥
तथा नरान् द्विजभिन्नानहं धैर्यं परं ददौ ।
कर्मठा ज्ञानकर्तारो विवेकाचारवर्जिताः ॥६९॥
शुष्कज्ञाना भक्तिहीनाः साध्वपराधकारिणः ।
सद्यः फलमिमे प्राप्ताश्चाऽविदित्वाऽपराधिनः ॥७०॥
शुष्कज्ञाने महत्पापं ज्ञातुश्चाचारवर्जिनः ।
ज्ञायते यत् प्रोच्यतेऽपि नाचर्यते न धार्यते ॥७१॥
तत्पापसदृशं पापं नान्यद् भवति देहिनाम् ।
कर्मकाण्डरताश्चेमे विवेकध्वजिनस्तथा ॥७२॥
रागद्वेषविहीनत्वं पालयन्ति न सर्वथा ।
मारितस्त्ववधूतोऽयं योगी विवेकवाँश्च तैः ॥७३॥
साधोर्भक्तिविहीनैश्च मृतिश्चामन्त्रिता निजा ।
अथ लोका जना नार्यः पप्रच्छुः परमेश्वरम् ॥७४॥
कथमेषा महापत्तिर्विलीयेत प्रशाधि नः ।
अहं तदाऽवद्ं तेभ्यो लक्ष्मि! तत्पूजनाय वै ॥७५॥
शवं तं मारितं गत्वा पूजयन्तु प्रतिष्ठितम् ।
प्राणप्रतिष्ठां कुर्वन्तु तन्मूर्तिं पूजयन्तु च ॥७६॥
षोडशाद्युपचारैर्वै नैवेद्यार्पणसेवनैः ।
नीराजनादिभिश्चापि स्तवनैः पूजयन्तु तम् ॥७७॥
तदा प्रयास्यति ध्वंसं मृत्योरुपद्रवस्त्वयम् ।
श्रुत्वा नार्यो नराश्चापि मृषाविवेकवर्जिताः ॥७८॥
सर्वे नीत्वा सुसामग्रीश्चन्दनाक्षतमालिकाः ।
धूपदीपसुनैवेद्यवस्त्रालंकारपादुकाः ॥७९॥
आवाहनादिकं कृत्वा प्रपूज्य सर्ववस्तुभिः ।
प्राणप्रतिष्ठां चक्रुस्ते मत्पूर्वाः स्त्रीनरादयः ॥८०॥
नीराजनं प्रचक्रुश्च तावच्छंभुः सचेतनः ।
भूत्वा नेत्रे समुन्मिल्योत्थितोऽभवत् क्षणान्तरे ॥८१॥
नैवेद्यं च ददुस्तस्मै जलपानं ददुस्ततः ।
हरस्तदा प्रसन्नश्चाऽभवद् वरार्थमाह तान् ॥८२॥
सर्वे तदाऽर्थयामासुर्मृतानां जीवनं पुनः ।
हरः प्राह प्रपूज्यैनां देवीं लब्ध्वा शुभाशिषः ॥८३॥
जीवितास्ते भविष्यन्ति नान्यथा तु कदाचन ।
अथ देवीं पुपूजुस्ते लक्ष्मि! नार्यो नरास्तथा ॥८४॥
अर्थयामासुरेवाऽपि मृतानां जीवनं पुनः ।
शिवा प्राह यथा चात्र पूजिता शंकरान्विता ॥८५॥
तथा लक्ष्मीमिमां श्रीमन्नारायणसमन्विताम् ।
पूजयन्तु ततः सर्वे मृता यास्यन्ति जीवनम् ॥८६॥
इत्युक्ताश्च नरा नार्यः पुपूजुर्मां त्वयाऽन्वितम् ।
ततः सर्वे चोत्थिताश्चाऽपराधमृतिवर्जिताः ॥८७॥
ते जीवं प्राप्य मां जीवन्नारायणेति वै जगुः ।
ख्यातिं प्राप्तस्तदाऽनादिजीवन्नारायणोऽप्यहम् ॥८८॥
त्वया साकं मम मूर्ति भक्तिनारायणात्मिकाम् ।
सर्वदा तु ततो भक्त्या मत्प्रदर्शितया जनाः ॥८९॥
सेवयामासुरत्यर्थं त्यक्त्वा शुष्कं विवेचनम् ।
कर्मकाण्डं च वै सर्वसमर्पणात्मकं व्यधुः ॥९०॥
शंकरस्तान् समस्ताँश्चोपादिदेश मदर्पणम् ।
सर्वविधं कर्मकाण्डं मम भक्त्यात्मकं ततः ॥९१॥
धर्मयुक्तं भक्तियुक्तं ज्ञानं तु वेदनं मम ।
ततः प्रवर्तितं तत्र कल्पे मोक्षप्रदं शुभम् ॥९२॥
भक्तेरुज्जीवनं जातं भक्तिमार्गः प्रवर्तितः ।
मूर्तयो मम शंभोश्च सशक्तिकाश्च भूतले ॥९३॥
ततस्तैर्जीवमापन्नैः स्थापिता दर्शिता यथा ।
पूजिताश्चापि सर्वत्र भक्तिः पुष्टिं जगाम ह ॥९४॥
एवं शंभुः सतीयुक्तः कृत्वा कौतुकमुत्तमम् ।
स्थापयित्वा क्षितौ मूर्तिपूजां भक्तिं तथोत्तमाम् ॥९५॥
ययावदृश्यतां चाऽहं जीवनारायणः प्रभुः ।
त्वया साकं क्षितौ कल्पान्तकं कालमुवास ह ॥९६॥
इत्येवं शिवराज्ञीश्रि! प्राकट्यं कीर्तितं मम ।
अनादिश्रीकृष्णनारायणस्य परमात्मनः ॥९७॥
धर्मस्य भक्तियुक्तस्योपासनायाश्च पुष्टये ।
पूजाया मम मूर्तेश्च मूर्तेश्च शंकरस्य च ॥९८॥
नासील्लिंगं च तत्कल्पे मूर्तिरासीद्धरस्य वै ।
मम मूर्तिस्तदैवासीन्नासीद्विष्णुशिला तदा ॥९९॥
एवं पूर्वं तु यज्जातं वेद्म्यहं सर्वमेव तत् ।
स्मर त्वं मम पूजादि तदा प्राकट्यमित्यपि ॥१००॥
पठनाच्छ्रवणाच्चास्य स्मरणाच्चिन्तनादपि ।
मम पूजाफलं लक्ष्मि! भवेदेव न संशयः ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसस्त्रयोविंशे वत्सरे भक्तेः प्रार्थनयाऽनादिश्रीजीवनारायणस्य प्राकट्यं शंकरद्वारा भक्तिमार्गप्रवर्तनं चेत्यादिनिरूपणनामा विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : May 03, 2021
TOP