द्वापरयुगसन्तानः - अध्यायः १९७
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं पितृहणः कथां तथा ।
सौराष्ट्रे कर्षुको भक्तो वृद्धोऽभवत् कुटुम्बवान् ॥१॥
कोटिनारनगरस्याऽभ्याशे ग्रामे पटोलके ।
नाम्ना शाणधरश्चेति पञ्चपुत्रप्रपौत्रवान् ॥२॥
सप्तपुत्रीपिता चापि वाटिकाक्षेत्रगोधनः ।
भजते श्रीहरिं मां च नित्यं कृषेश्च कर्मसु ॥३॥
यदुत्पन्नं भवेद् सर्वं मह्यं निवेद्य वै ततः ।
भुङ्क्ते कुटुम्बसहितो नवान्नादीनि यान्यपि ॥४॥
शाकपत्राणि सर्वाणि पक्वाऽपक्वकणाँस्तथा ।
कन्दमूलादि यद्योग्यं भाजीपल्लवसत्फलम् ॥५॥
भूषाम्बरादिकं दुग्धदधिगूडरसादिकम् ।
यद्यत् प्राप्नोति यत्नेन मह्यं समर्प्य सर्वथा ॥६॥
भुंक्ते यानं वाहनं च तथोपकरणान्यपि ।
नित्यं निवेद्य मह्यं च जलान्नमपि सर्वथा ॥७॥
गृह्णात्येवेति भक्तो मे श्रद्धाभक्तिपरायणः ।
मूलकृष्णपुरीतीर्थं प्राचीसारस्वतं तथा ॥८॥
सोमनाथमहातीर्थं गोपनाथादितीर्थकम् ।
स्वर्णरेखानदीतीर्थं तथा कुंकुमवापिकाम् ॥९॥
प्रयात्येव प्रगच्छन् वै भक्तिश्रद्धासमन्वितः ।
एवंविधस्य भक्तस्य पूर्वकर्मकृतं तु यत् ॥१०॥
जन्मान्तरे च तत्प्राप्तमेतज्जन्मनि चोल्बणम् ।
पूर्वमासीत् स गोपालो गोरक्षातत्परः सदा ॥११॥
तदा तु वृषदंशान् स प्रगृह्य गोवृषात् ततः ।
पक्षौ विच्छिद्य सर्वान् गोवृषदंशान् विपक्षकान् ॥११॥
कृत्वा क्षिपति भूमौ वै दंशास्ते पक्षवर्जिताः ।
भूतले पतिताः सर्वे क्षुधातृषार्दितास्तथा ॥१३॥
म्रियन्ते चातिदुःखेन शापं दत्वा पुनः पुनः ।
हस्तहीनान् नः कुरुषे तथा त्वं भव दुःखितः ॥१४॥
दंशानां म्रियमाणानां प्रत्यहं शापकारणात् ।
अत्र जन्मनि तस्यापि शाणधरस्य हस्तयोः ॥१५॥
पादयोश्चापि सर्वांगुष्ठांगुलीषु गदो महान् ।
गलत्कुष्ठात्मको जातो दुर्गन्धस्राववाहकृत् ॥१६॥
ओषधानि कृतान्येव वैद्यानां सुबहून्यपि ।
गलत्स्रावो न वै नष्टो रोगनाशो मनाङ् न च ॥१७॥
मानता अपि देवानां बहुधा च कृतास्तथा ।
दानपुण्यादिकं चापि कृतं तु बहुधा मुहुः ॥१८॥
गदस्तथापि ववृधे नखा नष्टाः शनैः शनैः ।
अंगुल्यग्राणि नष्टानि मध्यभागा गलन्ति च ॥१९॥
आमूलं गलिताः सर्वाङ्गुलिकांगुष्ठकास्ततः ।
पूर्वकर्मानुरोधेन परं दुःखमवाप सः ॥२०॥
पुत्राद्यैर्वाटिकाक्षेत्रे घासगृहं विधाय च ।
तत्र पिता सुखट्वायां रक्षितः सर्वदा रमे ॥२१॥
घृष्ट्वा घृष्ट्वा नितम्बौ स प्रयाति पार्श्वभूमिषु ।
मलं च कुरुते तत्र मूत्रं च कुरुतेऽभितः ॥२२॥
थूत्कारं चापि कुरुते पार्श्वे कश्चिन्न गच्छति ।
परितोऽतीव दुर्गन्धा भूमिर्जाता च तद्गृहम् ॥२३॥
दुर्गन्धमलयुक्तं च मक्षिकाकाकवासितम् ।
एवंविधाय वृद्धाय पुत्रास्तु भोजनं सदा ॥२४॥
दूरात् क्षिपन्ति सलिलं दूराद् ददत्यभाविताः ।
मक्षिकाणां पक्षहीणीकृतानां क्रमशः फलम् ॥२९॥
भुंक्ते शापधरो वृद्धो जीवो देहात् प्रयाति न ।
निरयं चेह देहेऽस्याऽऽगतं भोगाय दारुणम् ॥२६॥
मार्ज्यते नैव केनापि चिकित्सितं तु वर्धते ।
हस्तपादफणाश्चापि गलत्कुष्ठेन खादिताः ॥२७॥
प्रकोष्ठप्रान्तमाप्तश्च गदोऽपि वेगवानति ।
लक्ष्मि चाऽराजना लोके पक्षिजन्तुसरीसृपान् ॥२८॥
पशून् कीटान् मारयन्ति कुमृत्युना ह्यघं महत् ।
उन्दुरुं नकुलं गोधां चटकां मण्डूकं च वा ॥२९॥
तत्फलं क्रूरमेवाऽत्र लभन्ते सर्वनाशकृत् ।
अपत्यानि च जन्तूनां मारयन्ति तथाऽबुधाः ॥३०॥
वृथा निरपराधान् वै शापस्तेषां प्रजायते ।
वाहनानामश्ववृषगजोष्ट्राणां वृथा ह्यपि ॥३१॥
प्रवृत्तानां स्वकार्येऽपि कुर्वन्ति ताडनं मुहुः ।
तेषां शापेन सर्वस्वं नश्यति स्वामिनः सुखम् ॥३२॥
नार्यस्त्वज्ञैः प्रताड्यन्ते बालैश्च श्वान इत्यपि ।
तेषां तासां प्रशापेन दग्धा भवन्ति ताडकाः ॥३३॥
रोगिणश्चापि दीनाश्च जलान्नवर्जिता अपि ।
दरिद्रा द्रव्यहीनाश्च गृहसम्पद्विहीनकाः ॥३४॥
कृतं कर्म चिरं वाऽद्योपतिष्ठत्येव सर्वथा ।
एवमस्य कृतं कर्म समुपपन्नमुल्बणम् ॥३५॥
म्रियते नातिदुःखेऽपि पुत्राद्या भग्नमानसाः ।
कुटुम्बं भग्नवाञ्च्छं च हताशं समजायत ॥३६॥
भग्नश्रद्धास्ततः पुत्रा मन्त्रणां सप्रचक्रिरे ।
म्रियते न पिता रुग्णो वाटिका रोगवायुना ॥३७॥
रुग्णसस्यान्नरूपा च जाता रुग्णस्य वासतः ।
गलत्पित्तस्रावकुष्ठी म्रियेत चेच्छुभं भवेत् ॥३८॥
पूर्वेषां चाऽस्य पापानां बाहुल्यान्मरणं न वै ।
समायाति न रोगोऽपि शान्तो भवति वर्धते ॥३९॥
किं कर्तव्यं क्व गन्तव्यं ह्युपायो भासते न वै ।
अथापि हिंसनं कार्यं पितुः पुत्रैरशोभनम् ॥४०॥
मारयितव्य एवाऽत्र क्षेप्तव्योऽन्यत्र गर्तके ।
जले प्रवाहणीयो वा जीवन् पितेति वैशसम् ॥४१॥
रक्षणं युज्यते नाऽत्र किं कार्यं दुःसहे व्रते ।
इत्येवं पञ्चपुत्राणां विचारः सम्प्रवर्तते ॥४२॥
कनीयाँस्तत्र सहसा धर्मस्नेहयुतो यतः ।
पितृसेवाफलं जानन् भ्रातृमध्ये ह्युवाच ह ॥४३॥
पिता नारायणः साक्षात् पिता ब्रह्मा तथाऽपरः ।
पितृतीर्थं परं प्रोक्तं पिता सेव्यो हि वंशजैः ॥४४॥
पुत्राणां पितृसेवायाः फलं स्वर्गं च मोक्षणम् ।
तस्मात् प्रसेवनीयश्च रुग्णो दुर्वृत्त इत्यपि ॥४५॥
द्वितीयोऽपि ततः प्राह श्रुत्वा कनीयसो वचः ।
योग्यं त्वयोक्तं शुभदं किन्तु स्वास्थ्ये सुवर्तिते ॥४६॥
मरणादधिकं चास्य दुःखमत्र विलोक्यते ।
तस्मात् सेवा दुःखदाऽस्य सर्वस्वरोगवर्धिनी ॥४७॥
योऽस्य सेवापरः स्याद्वै तस्य रोगो भवेदपि ।
संक्रमणादिजातीयो गदोऽयं परसंक्रमः ॥४८॥
तस्मात् सेवाऽस्य योग्याऽपि सर्वारोग्यविनाशिनी ।
दुष्टफला भवेत् तस्मात्तां सेवां नाऽनुमोदये ॥४९॥
तृतीयस्तु ततः प्राह सेवायां त्वपरं जनम् ।
भृत्यं वा भृत्यिकां नित्यं योजयामः सुवेतनाम् ॥५०॥
चतुर्थः प्राह योग्यं तत्तथापि प्रमदा नरः ।
कश्चिदपि न चाप्येत सेवाकृद् वेतनैरपि ॥५१॥
तदा कर्तव्यमेवाऽत्र किं भवेत्तद् विचार्यताम् ।
पञ्चमः प्राह वै श्रेष्ठस्तदा तु जीवनः पितुः ॥५२॥
प्रवाहणं तीर्थजले नद्यां वा सागरेऽपि वा ।
भृगुपाता विविधा वै शास्त्रेषु दर्शिता यथा ॥५३॥
पर्वतात् पतनं वह्नौ ज्वलनं वारिगाहनम् ।
भूमिगर्ते शयनं वाऽनशनं तीर्थभूमिषु ॥५४॥
असाध्यरोगिणां विरागिणां च न्यासिनां तथा ।
स्वर्गेच्छूनां भगुपातास्तादृशा इष्टसिद्धिदाः ॥५५॥
अन्ततः खलु कर्तव्यं पितृर्भृगुप्रपातनम् ।
यदि भृत्यो मिलेन्नैव न च सेवेत वेतनैः ॥५६॥
एवं विचार्य पञ्चैते कनीयांसं न्ययोजयत् ।
सेवायां किन्तु घृणया विमनाः स व्यजायत ॥५७॥
वीतश्रद्धोऽभवच्चापि भृत्यं न्ययोजयत्ततः ।
भृत्याश्च बहवो जाता दिनं वा द्विदिनं च वा ॥५८॥
केचित् पञ्चदिनं भृत्याश्चान्येऽर्धदिनमात्रकम् ।
घृणान्विता न कुर्वन्ति सेवनं ते प्रयान्ति हि ॥५९॥
एवं भृत्याऽनभिलाभे पुत्रास्ते पञ्च सम्मताः ।
पर्वतात् पातनं त्वस्य रोचतेऽस्मै विधीयताम् ॥६०॥
पृष्टः पिताऽपि श्रुत्वैव नेत्युवाचाऽतिरागवान् ।
वह्नौ प्रज्वलनं पृष्टस्तथापि नेत्युवाच तान् ॥६१॥
गलपाशं प्रतिपृष्टस्तथापि नेत्युवाच तान् ।
देहाऽहंभावयुक्तोऽयं मरणं स्वीकरोति न ॥६२॥
भूगर्ते क्षेपणं पृष्टस्तथापि नेत्युवाच तान् ।
मरणं रोचते नाऽस्य सरित्प्रवाहणं न च ॥६३॥
जीवनं रोचते त्वस्य रुग्णदेहस्य वै पितुः ।
अतिनिकृष्टदेहेऽपि तस्य जीवात्मनस्त्विह ॥६४॥
नित्याश्रयत्वं स्नेहश्च तादात्म्यं वै पशोरिव ।
मनुष्यस्याऽपि देवस्य ज्ञानिनोऽपि प्रवर्तते ॥६५॥
अज्ञानिनां विशेषेण किमाश्चर्यं हि संसृतौ ।
एवं पिताऽपि रुग्णे स्वदेहे वृद्धे गलद्द्रवे ॥६६॥
तादात्म्यं समभिप्राप्तस्त्यक्तुं नोत्सहते स्म वै ।
प्राह पुत्रान् दीनवच्च नाऽहं मर्तुं समुत्सहे ॥६७॥
यथा मे दीयते त्वन्नं जलं च दूरतस्तथा ।
दीयतां वाटिकायां वा पार्श्वे वनेऽथवा तु मे ॥६८॥
आत्मघातो मया नैवेष्यते पुत्रा भयं महत् ।
दृश्यते जायते प्राणत्यागे प्रसह्य चाप्यधि ॥६९॥
स्मरिष्यामि परात्मानं दूरं क्षिपन्तु मामितः ।
कर्मफलं प्रभुक्त्वैव मर्तुमिच्छामि सर्वथा ॥७०॥
इत्युक्तास्ते सुताः प्राहुश्चान्तरे कपटान्विताः ।
एवमस्तु पितस्त्वां वै वने क्षिपाम एव ह ॥७१॥
दास्यामस्तत्र भक्ष्यादि वाटिकायां तु नैव हि ।
किन्तु वै प्रथमं तीर्थं कारणीयं यतः शुभम् ॥७२॥
पुण्यं भवेत् समस्तं च पापप्रक्षालनं भवेत् ।
मूलद्वारावतीतीर्थं समुद्रतीरगं तु यत् ॥७३॥
स्नापयित्वा पितस्तत्र नेष्यामो वाटिकान्तिकम् ।
वने संरक्षयिष्यामो रोगसंक्रमभीतितः ॥७४॥
इत्युक्त्वा ते सुताः सर्वे तीर्थछद्मधरा हि ते ।
शकट्यां पितरं धृत्वा ययुः समुद्रसन्निधिम् ॥७५॥
तटं गत्वा तु वेलायां स्नापयामासुरेव तम् ।
प्राहुः पितः स्मग्णीयं स्मर नारायणं प्रभुम् ॥७६॥
द्रव्यादि भूतले न्यस्तं गर्ते वाऽन्यत्र चेद् यदि ।
दर्शनीयं कथनीयं प्रदर्शय निवेदय ॥७७॥
भृगुपातं समुद्रस्य जले निक्षेपणात्मकम् ।
कुर्मस्ते स्वर्गतिदं तन्मनः कृष्णे निवेशय ॥७८॥
इत्युक्तः स पिता प्राह प्रारब्धं मम तादृशम् ।
पुत्राश्चात्र न वो दोषो मरणं तादृशं मम ॥७९॥
बहूनि पूर्वपापानि यत्फलं चेदृशं त्विह ।
सत्सु पञ्चसु पुत्रेषु सत्यां पत्न्यां सुतासु च ॥८०॥
समुद्रे मरणं मे यद् रुग्णस्य विवशस्य च ।
अस्त्वेवं किन्तु सौवर्णं रूप्यकं नाणकं बहु ॥८१॥
चुल्ल्या अधो मया पूर्वं निहितं तद् विदन्त्वपि ।
लक्षाधिकं भवत्येव बहुवर्षाऽर्जितं तु तत् ॥८२॥
अन्ये नैव प्रजानन्ति पञ्च जानन्तु मे धनम् ।
इत्युक्त्वा श्रीहरिं ध्यात्वा ह्येकबन्धुं प्ररक्षकम् ॥८३॥
सस्मार हृदये शीघ्रं सर्ववृत्तिभिरेकधा ।
एकतानेन मां कृष्ण बालकृष्णं परं प्रभुम् ॥८४॥
देहभानं तिरोभाव्येन्द्रियवृत्तीर्विकुंच्य च ।
आन्तरं सर्वथा भानं जीवात्मनि समादधत् ॥८५॥
स्वे रूपे सच्चिदानन्दं बालकृष्णं श्रियः पतिम् ।
लक्ष्मीनारायणं कृष्णं रमेशं माणिकीपतिम् ॥८६॥
पद्मावतीश्वरं ब्रह्मप्रियानाथं सतां पतिम् ।
तुष्टाव स्वामिनं भक्त्या प्राणान्ते समुपस्थिते ॥८६॥
पुत्रास्तु तं समुत्तोल्य चिक्षिपुर्वार्धिवारिषु ।
वीक्षमाणा ह्यतिष्ठन्त तीरे सस्नुश्च तन्मिषात् ॥८७॥
पितृदेहो जले मग्नो जीवतस्तस्य वै तदा ।
मृतो वा जन्तुना ग्रस्त इत्यमन्यन्त चात्मजाः ॥८८॥
रुरुदुस्तत्र पुत्रास्ते स्नेहाधीनोत्थमायया ।
परमेशं हरिं मां च सस्मरुः पापनुत्तये ॥८९॥
क्षमां कुरु हरेकृष्ण पितृहत्या भयंकरी ।
पुण्यहन्त्री स्वर्गहन्त्री मोक्षहन्त्री क्षयंकरी ॥९०॥
सा कृताऽस्माभिरब्धौ वै तां क्षमस्व परेश्वर ।
विष्णुयज्ञ करिष्यामः पितृद्रव्येण भूरिणा ॥९१॥
पितुरुद्धरणं स्वर्गे मोक्षे वा संविधेहि वै ।
इत्येवं शरणं प्राप्ता मम चान्ते पितुर्मृतौ ॥९२॥
सप्त पुत्र्यस्तथा पत्नी चाऽनशनं गृहे व्यधुः ।
अवलास्ता निर्बलाश्चाऽशक्ता वक्तुं दुरन्तकम् ॥९३॥
बलं त्वनशनं चक्रुर्विदित्वा पितृघातनम् ।
पुपूजुर्मां गृहे ताश्च षोडशोपसुवस्तुभिः ॥९४॥
तुष्टुवुः पितृरक्षार्थं व्रतानां मानता व्यधुः ।
लक्षतुलसीपत्रैश्च पूजां मे चक्रिरे हि ताः ॥९५॥
अथाऽह सहसा लक्ष्मि भक्तानां शुभकृत् प्रभुः ।
प्राविरासं समुद्रे द्राक् पितृदेहस्य सन्निधौ ॥९६॥
मूर्छां प्राप्तो जलमध्ये स्पृष्टो मया हि रोगवान् ।
रोगो नष्टस्तदा शीघ्रं सांगुलिहस्तपादवान् ॥९७॥
शाणधरोऽभवद् वृद्धः पुष्टो दिव्यवपुर्धरः ।
उत्तोलितो मया वार्धौ जलोपरि ततस्तटम् ॥९८॥
पुत्राणां सन्निधौ क्षिप्तः पूर्णांगो रोगवर्जितः ।
शंखचक्रगदापद्मधरं मां तत्सुताश्च सः ॥९९॥
पुपूजुरादरात् सर्वे तिरोभावं द्रुतं ततः ।
गृहे चाविर्भूय तत्राऽनशनार्थे स्थितास्तु याः ॥१००॥
स्त्रियस्ताभ्योऽवदं शाणधरश्चोज्जीवितो मया ।
अरुग्णश्चालयं पुत्रैः साकमायाति सत्वरम् ॥१०१॥
सोमनाथं ततस्तीर्थं कृत्वा चायान्ति तेऽत्र वै ।
इत्युक्तास्ताः पुपूजुर्मां श्रीकृष्णं वल्लभं प्रभुम् ॥१०२॥
प्रतीक्षन्ते स्म वाटं स्वपितुश्चागमदैशिकम् ।
तिरोऽभवं ततश्चाऽहं दिनान्ते तु पिता गृहम् ॥१०३॥
आययौ पुत्रसहितश्चानन्दोत्सवयोगकृत् ।
कुटुम्बं सुप्रसन्नं वै जातं चान्ये जना अपि ॥१०४॥
मम माहात्म्यवेत्तारोऽभवँश्चाश्चर्यसंभृताः ।
भक्तिं ते कारणं प्राहुश्चारोग्ये प्राणरक्षणे ॥१०५॥
अथ पुत्रैः कृतो यज्ञो महान् वैष्णवसंज्ञकः ।
देवर्षिपितरश्चाऽहं तृप्तास्तत्राऽर्पिताऽन्नकैः ॥१०६॥
दक्षिणाभिर्दीनजना भोजनैर्देहधारिणः ।
भक्त्या चाहं श्रीहरिश्च प्रसन्ना ह्यभवन् मखे ॥१०७॥
एवं पितृघातकानां पितुश्च रक्षणं मया ।
कृतं लस्मि प्रभक्तानां दयालुना महात्मना ॥१०८॥
अथाऽन्ते प्रापिता मोक्षं धामाऽक्षरं परं मम ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१०९॥
आरोग्यं जायते चापि सौभाग्यं चापि वर्धते ।
विघ्नानां च विनाशः स्याच्छत्रुनाशो भवेदपि ॥११०॥
क्षेमं च कुशलं चापि विन्देत मम भक्तिमान् ।
स्वर्गं स्मृद्धिं तथा स्वेष्टं जीवनं च लभेत वै ॥१११॥
भक्त्याऽहं सर्वथा तुष्टो ददामि समभीप्सितम् ।
ऐश्वर्यं च तथाऽऽयुष्यं धनं धान्यं सुतं सुताम् ॥११२॥
सर्व ददामि भक्तायै भक्तायाऽपि समुद्रजे ।
इत्येवं भक्तिवशगो वर्ते संरक्षयामि च ॥११३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शाणधराख्यकर्षुकस्य प्राग्जन्मकर्मभिर्जातगलत्कुष्ठरोगस्य भयेन पुत्रैः समुद्रे क्षिप्तस्य भगवता
रोगनाशो रक्षणं पापनाशनं च कृतमित्यादिनिरूपणनामा सप्तनवत्यधिकशततमोऽध्यायः ॥१९७॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP