संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ७९

द्वापरयुगसन्तानः - अध्यायः ७९

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
साध्वी पतिव्रता कृष्ण गार्हस्थ्ये वर्तते यदि ।
ऋद्धिमाप्नोति किं कृत्वा वद मे कान्त सौख्यकृत् ॥१॥
श्रीपुरुषोत्तम उवाच-
साध्व्या गार्हस्थ्यमाश्रित्य श्रीकृष्णपुरुषोत्तमः ।
आराधनीयः सततं स वै ऋद्धिं ददाति ह ॥२॥
ऋषयः पितरो देवा मनुष्याः साधवो द्विजाः ।
वृद्धाश्चाऽतिथयः साध्व्यः पूजनीया विशेषतः ॥३॥
पूजायज्ञेन देवाँश्च सदातिथ्येन मानवान् ।
ऋषीन् पितृन् श्राद्धपिण्डैश्चाग्नौ हुत्वा समर्चयेत् ॥४॥
पयोमूलफलैः श्राद्धं कुर्याच्च भोजयेत् सतः ।
द्विजेभ्योऽप्यर्चयेद् द्रव्यं भोजनं चाम्बरादिकम् ॥५॥
अतिथीन् भोजयेत् साध्वी साध्वीः सतीश्च भोजयेत् ।
ऋत्विजं स्नातकं साधुं गुरुं श्वशुरमित्यपि ॥६॥
स्वामिनं च पतिं मिष्टैर्मधुपर्कैः समर्चयेत् ।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चाऽऽवपेद् भुवि ॥७॥
दद्यान्नारायणायेह स्वाहेतिवचनान्विता ।
गोभ्यो दद्याद् घासपूलान् बालेभ्यः शर्करादिकम् ॥८॥
जलं दद्याच्च वृक्षेभ्यो मत्स्येभ्यश्चणकादिकान् ।
कणान् पक्षिगणेभ्यश्च प्रसादं पार्श्ववर्तिने ॥९॥
दद्यादेवं यथाशक्ति कथाश्रवणमाचरेत् ।
मालावर्तनमेवाऽपि कुर्याच्च देवदर्शनम् ॥१०॥
जलदानं प्रकुर्याच्च स्नानध्यानार्चनादिकम् ।
नामसंकीर्तनं कुर्याद् भजनं स्मरणं तथा ॥११॥
देहशुद्धिं धर्मशुद्धिं मनःशुद्धिं समाचरेत्॥
सतां सेवां सतीसेवां कुर्याच्छक्त्या यथायथम् ॥१२॥
सुमनोधूपदीपानां दानं दद्याद् यथाविधि ।
सोमांशा ओषधयश्च सदाऽमृतसमन्विताः ॥१३॥
विषं तापोद्भवं चोग्रं हरन्ति पुष्पजातयः ।
अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददत्यपि ॥१४॥
विषं हरन्ति पुष्पाणि सुगन्धेन हि देहिनाम् ।
ह्लादयन्ति मनो लक्ष्मीं कुर्वन्ति सुमनांसि वै ॥१५॥
पुष्पैस्तुष्यन्ति देवाद्यास्तुष्टाः पुष्टिं ददत्यपि ।
इष्टगन्धानि देवानां पुष्पाणीति विभावय ॥१६॥
अकंटकानां श्वेतानि देवेष्टानि सुमानि वै ।
जलीयपद्ममाल्यानि यक्षगन्धर्वभोगिनाम् ॥१७॥
कटुकण्टकरक्तानि पुष्पाण्यभिचरार्थिनाम् ।
तीक्ष्णवीर्याणि भूतानां कृष्णानि कण्टकानि च ॥१८॥
मनोनयननन्दानि मानुषाणां प्रियाणि वै ।
अशुद्धभूमिपुष्पाणि वर्ज्यानि सर्वथा प्रिये ॥१९॥
गन्धेन देवास्तुष्यन्ति दर्शनाद् यक्षराक्षसाः ।
नागाः समुपभोगेन त्रिभिरेव तु मानुषाः ॥२०॥
सद्यो देवान् प्रीणयन्ति गन्धाः पौष्पाश्च चान्दनाः ।
प्रीताश्च भावयन्त्येतान् मर्त्यान् सिद्धीश्च सम्पदः ॥२१॥
धूपो निर्यासरूपो वै गुग्गुलुः प्रवरो मतः ।
देवास्तुष्यन्ति धूपेन गार्हस्थ्ये सम्पदां प्रदाः ॥२२॥
अगुरुः श्रेष्ठ एवापि यक्षराक्षसभोगिनाम् ।
दैत्यानां कृत्रिमा धूपाः सल्लकीयाश्च तद्विधाः ॥२३॥
हरिद्राया धूपदानैर्भूतास्तृप्ताः प्रयान्ति च ।
सर्जरसादिधूपाश्च मानवेष्टा भवन्ति वै ॥२४॥
दीपदानं सदा तेजोवर्धनं जायते प्रियम् ।
अन्धं तमश्च तामिस्रं दक्षिणायनमेव च ॥२१॥
पराभाव्योत्तरमार्गं दीपो ददाति चार्षितः ।
दीपस्तूर्ध्वगतेर्दाता तमोनाशस्य भैषजम् ॥२६॥
दीपदानेन वै देवाः प्रभावन्तः प्रकाशकाः ।
तेजस्विनः स्वर्गलोके जाता दीपं ततोऽर्पयेत् ॥२७॥
आलोकदानाच्चक्षुष्मान् बुद्धिप्रकाशवान् भवेत् ।
दीपहर्ता भवेदन्धस्तमोगतिः प्रभाक्षयः ॥२८॥
हविषा चौषधीनां च रसैर्निर्यासकैस्तथा ।
पूर्णचन्द्रप्रतीकाशा दीपदाः संभवन्ति वै ॥२९ ॥
यावदक्षिनिमेषाणि ज्वलन्ति तावतीः समाः ।
दृष्टिमान् रूपवान् शक्तिमान् प्रदीपप्रदो भवेत् ॥३०॥
तस्माद् दीपाः प्रदातव्याः साध्व्या गार्हस्थ्यलग्नया ।
तपश्चापि प्रकर्तव्यमुत्तरायुषि सर्वथा ॥३१॥
येन वै तपसा ब्रह्माऽक्षरधामगतिर्भवेत् ।
शृणु लक्ष्मि कथयामि साध्वीधर्ममनुत्तमम् ॥३२॥
यत् कृत्वा मोक्षमागच्छेत् पूर्वकल्पकथानकम् ।
पूर्वकल्पेऽभवत्त्वाद्यो मनुर्नाम्ना हरिप्रथः ॥३३॥
तस्य ब्रह्मप्रथा पत्नी साध्वीदीक्षान्विताऽभवत् ।
कण्डायनमहर्षेर्वै पुत्री ब्रह्मपरायणा ॥३४॥
कण्डायनगृहे सा च मानसी संव्यजायत ।
ज्ञानपूर्णा तपःपूर्णा मनोविकारवर्जिता ॥३५॥
युवती वनवासा च साध्वीदीक्षां पितुर्गृहे ।
जग्राह ब्रह्मचर्यस्था यतिनी साऽभवद् गृहे ॥३६॥
अक्षतदेहा चाऽस्पृष्टा नरेण केनचिद्धि सा ।
वने वै वैष्णवे साध्वी चन्द्रोज्ज्वला नदीतटे ॥३७॥
स्नातुं पित्रा समं याता स्नाताऽऽर्द्रवस्त्रधारिणी ।
पुष्टा युवती शीलस्था त्यागधर्माऽन्विताऽपि सा ॥३८॥
दृष्टा व्योम्ना हि मनुना हरिप्रथेन गच्छता ।
ब्राह्मी ब्रह्मतपोभाभिर्व्याप्ता मनोहरा शुभा ॥३९॥
देवी दिव्या यथायोग्या गृहशोभाकरी सती ।
तेजसा व्याप्तदेहा च सूर्यकान्त्यतिकान्तिका ॥४०॥
सर्वश्रीसंभृता सवैश्वर्यलक्ष्मीनिवासिनी ।
सर्वनारायणीस्त्रीषु मूर्द्धन्या रूपभादिभिः ॥४१॥
विलोक्यैव विचार्यैव नदीतीरे द्रुतं नृपः ।
अवातरद् विमानाद्वै तमृषिं प्राणमन्मुदा ॥४२॥
पितृवत् पूजयामास ददौ परिचयं निजम् ।
श्रुत्वा काण्डायनर्षिश्च जहर्षाऽऽद्य मनुं तदा ॥४३॥
राजानं वैधसं पुत्रं दृष्ट्वा प्रतिपुपूज तम् ।
कन्याऽपि तूर्णमागत्य मनोः सत्कारमाचरत् ॥४४॥
मिथश्च कुशलं पृष्ट्वा प्रशशंसुर्हि दर्शनम् ।
मनुश्च ब्राह्मणं नत्वा मौनं क्षणं स्थिरोऽभवत् ॥४५॥
ऋषिश्चोवाच तूर्णं वै मनो! किं करवाणि ते ।
मनुः प्राह हृदये मे वाञ्च्छा या वर्तते गुरो ॥४६॥
यदि शक्तो भवस्यत्र तां पूरयितुमर्हसि ।
ऋषिर्ध्यानेन नितरां विज्ञाय मानसं मनोः ॥४७॥
पुत्री पप्रच्छ साध्वीं तां त्यागिनीं दानहेतवे ।
वद पुत्रि मनुस्तु त्वां समीहते करोमि किम् ॥४८॥
पुत्री प्राह समे धर्मो पित्रादेशो यथा भवेत् ।
शीलं मे रोचते शश्वत् साध्वीधर्मं यतो गता ॥४९॥
तथापि पितृवशगा कन्या पितृवचश्चरेत् ।
पितृवचनमासाद्य पत्यधीना हि कन्यकाः ॥५०॥
सत्यः साध्व्यो भवन्त्येव वध्वस्ताश्च पतिव्रताः ।
यथेष्टं चर चात्राऽर्थे प्रसन्नाऽस्मि निदेशने ॥५१॥
काण्डायनः प्रसन्नोऽभूद् ददौ मनवे पुत्रिकाम् ।
मान्योऽभवत् त्रिलोकेषु मनोः सम्बन्धयोगतः ॥५२॥
ब्रह्मप्रथां विवाह्यैव निन्ये मनुर्निजालयम् ।
ब्रह्मप्रथायै त्रैलोक्ये ददौ राज्यनिरीक्षणम् ॥५३॥
मनुवन्मनुपत्नी सा राज्यं चकार चोत्तमम् ।
गृहसंस्कारवशगा सदाऽसेवत वै सतः ॥॥५४॥
साध्वीरसेवताऽप्येषा जग्राहाऽऽशीर्वचांसि च ।
मनोः काले चकारैषा यज्ञान् सर्वविधान् सती ॥५५॥
दानव्रतानि श्रेष्ठानि पुण्यानि विविधानि च ।
सर्वसत्कारकर्माणि शोभनानि चकार सा ॥५६॥
साधुसाध्वीसेवनं सा महर्षिसेवनं तथा ।
त्यागिनीतापसीसेवां तपस्विसेवनं व्यधात् ॥५७॥
मनोश्चाधिकारपूर्णे समये मनुना सह ।
ययौ साध्वी विमानेन धामाऽक्षरं हरेर्मम ॥५८॥
तत्र पृष्टा मया साध्वी सत्कृता मुक्तकोटिभिः ।
केन पुण्येनाऽक्षरं त्वं चाऽऽयाता वद सुन्दरि ॥५९॥
सा च प्राह महाभक्ता सात्वती साधुसेविका ।
भगवन् कान्त कान्तेश पूजयामि ननामि च ॥६०॥
सर्वज्ञोऽसि हरे कृष्ण तथाप्याज्ञाकरी त्वहम् ।
यथानियुक्ता कान्तेन स्वामिना परमात्मना ॥६१॥
भवता हि तथा सर्वं निवेदयामि मे शृणु ।
शतसहस्रसौवर्णमुद्रादानं द्विजातये ॥६२॥
अददां रत्नदानानि रूप्यकार्बुदकार्पणम् ।
ब्राह्मं व्रतं चाऽकरवं नेहाऽगां तत्फलादहम् ॥६३॥
यज्ञान् पञ्चदशरात्रान् दशैकरात्रानध्वरान् ।
ज्योतिष्टोमशतं चक्रेऽपीह नाऽगां हि तत्फलात् ॥६४॥
गंगातटे शतवर्षं तपस्तप्त्वा सुदारुणम् ।
अददामश्वलक्षं च नाऽहमागां हि तत्फलम् ॥६५॥
दशाऽयुताश्वान् विंशत्ययुतगाश्च पयस्विनीः ।
नारीपुरमदां दाने नाऽहमागां हि तत्फलात् ॥६६॥
स्वर्णचन्द्रान्वितकन्यासहस्रमददां तथा ।
सर्वभूषाभूषितस्त्रीषष्टिसहस्रकाण्यपि ॥६७॥
दशार्बुदान्यददां गाः सवत्सा गोसवेषु च ।
स्वर्णकांस्यादियुक्ताश्च नाऽहमागां हि तत्फलात् ॥६८॥
आप्तोर्यामेषु नियतं गोदशकं द्विजायते ।
प्राऽदां लक्षं दशगुणं गवां नाऽगां हि तत्फलात् ॥६९॥
दशाऽयुताश्वानददां बाह्लिजातान् मनोरमान् ।
हेममालापल्लहाढ्यान् नाऽहमागां हि तत्फलात् ॥७०॥
अष्टादशकोटिहेममुद्रा प्रादां तथाऽन्वहम् ।
एकैकस्मिन् क्रतौ चापि नाहमागां हि तत्फलात् ॥७१॥
वाजिनां श्यामकर्णानां हरितानां परेश्वर ।
प्राऽदां हेमस्रजां कृष्णा कोटीर्दश च पञ्च च ॥७२॥
पद्मिनोऽन्यान् सहस्राणि प्रांशून् महाशरीरिणः ।
दीर्घदन्तान् स्वर्णभूषान् प्राऽदां दश च पञ्च च ॥७३॥
काञ्चनांगरथान् स्वलंकृतान् दशायुतानि च ।
वाजियुक्तान् स्वर्णभूषाभूषितानददां मखे ॥७४॥
दक्षिणांऽवयवाँश्चापि वेदोदितान् तथा परान् ।
वाजपेयेषु दशसु प्राऽदां चांगसमन्विताम् ॥७५॥
निष्ककण्ठान् महादासान् दासीश्च दक्षिणास्तथा ।
राजसूयदशके वै प्राऽदां नाऽगां हि तत्फलात् ॥७६॥
स्रोतश्च ब्रह्मपुत्रायाश्छन्नोऽभूद् दक्षिणादिभिः ।
स्वर्णदानै रत्नदानैर्नागामत्र हि तत्फलात् ॥७७॥
ग्रामाऽर्बुदं च विप्रेभ्यः सप्तद्वीपेषु चाऽददम् ।
शम्याक्षेपैरयजं च साद्यस्कनियुतैः सुरान् ॥७८॥
त्रयोदशद्वादशाहैः पौण्डरीके क्रतौ त्वहम् ।
तथापि तज्जपुष्पैश्च नाऽहमत्र समागता ॥७९॥
ककुद्म्यष्टसहस्राणि द्विजेभ्यश्चाऽददां क्रतौ ।
श्वेताँश्च वृषभान् श्वेता गाश्च स्वर्णविभूषिताः ॥८०॥
हिरण्यरत्ननिचयानददां मौक्तिकद्रुमान् ।
सधान्यसस्यवाटीश्च खण्डदानं तथाऽददाम् ॥८१॥
एकादशाहैरयजं द्वादशाहैः पुनः पुनः ।
सदक्षिणैरश्वमेधैः षोडशार्कायणैस्तथा ॥८२॥
योजनानां शतं दीर्घमरण्यं पर्वतान्वितम् ।
निष्कैककण्ठप्रत्यग्रं महोद्यानानि चाऽददम् ॥८३॥
तथापि तज्जपुण्यैश्च नाऽहमत्र समागता ।
व्रतानि चाऽकरवं च नित्त्यनैमित्तिकान्यपि ॥८४॥
त्रिंशदग्नीनयजं चाऽष्टाभिस्तथा च सोमकैः ।
सर्वमेधैर्नरमेधैः सप्तभिर्दशभिस्तथा ॥८५॥
अष्टोत्तरशतविश्वजिद्भिस्तथाऽजमेधकैः ।
न चापि तेषां पुण्यैश्च भगवन्निह चाऽगमम् ॥८६॥
गंगायां ब्रह्मपुत्रायां चेरवत्यां तथा पुनः ।
मेनकांगामहानद्यां बालकृष्णसरस्यपि ॥८७॥
श्वेतवार्धौ शीतवार्धौ नारायण्यां तथा पुनः ।
तपस्तप्तवती चाऽहं साधुसेवापरायणा ॥८८॥
तत्र तत्र सेविता वै साधवः कृष्णभूषणाः ।
साध्व्यश्च सेविता सन्तोषिताः सर्वप्रदानकैः ॥८९॥
भोजिताः पूजिता दृष्टाः स्पृष्टा देहेषु मर्दिताः ।
संवाहिताः पादयोश्च नताश्च परिचारिताः ॥९०॥
हरे कृष्ण हरे विष्णो कृष्णनारायण प्रभो ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥९१॥
एवं कीर्तनगातारः सन्तः साध्व्यो ह्यनुसृताः ।
साधवो मे ततस्तुष्टाः साध्व्यस्तुष्टाः सदा मम ॥९२॥
विप्राश्च ऋषयश्चाप्यतिथयो भक्तिशालिनः ।
सात्त्वता भगवत्यश्च योगिन्य सम्प्रतोषिताः ॥९३॥
पिता प्रतोषितश्चापि वचोऽनुवर्तनेन वै ।
तेषां तासां महतीभिराशीर्भिः पुण्यमाप्य ह ॥९४॥.
सिद्धा साध्वी पावनी च दिव्या जाताऽस्मि तत्क्षणात् ।
दिव्यदेहा हरियज्ञैर्जाता ब्रह्मप्रियासखी ॥९५॥
प्रियेण पतिना सार्धं मायापारं गताऽस्ति च ।
साधुसाध्वीभिरुक्ताऽस्मि याहि धामाऽक्षरं हरेः ॥९६॥
अनादिश्रीकृष्णनारायणस्य परमात्मनः ।
साऽहं धामाऽक्षरं कृष्णनारायण परेश्वर ॥९७॥
इमं लोकमनुप्राप्ता सेवया तोषलाभया ।
गृहाण मे करं कृष्ण निवासय सदाऽत्र माम् ॥९८॥
विधेहि स्वां किंकरीं माणिक्यासखीमनुत्तमाम् ।
इत्युक्ता च ततो लक्ष्मि मया सखी कृता च वः ॥९९॥
साधुसेवासमं नास्ति परं कर्तव्यमेव ह ।
ऋद्धिदं मोक्षदं चापि स्वर्गदं शान्तिदं तथा ॥१००॥
इत्येतत् कथितं तेऽत्र दानोत्तरं हि सेवनम् ।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिर्भवेत्तथा ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साध्व्याः कर्तव्ये पूजादानादिः, हरिप्रथमनोर्ब्रह्मप्रथायाः पत्न्याः साध्व्याः स्वर्गे स्थित्युत्तरं साधुसाध्वीसेवा-
फलं चाऽक्षरधामगमनमित्यादिनिरूपणनामा नवसप्ततितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP