संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ४०

द्वापरयुगसन्तानः - अध्यायः ४०

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
पुरुषोत्तमकान्तानां धर्मकर्माणि नो वद ।
येन गार्हस्थ्यदोषाणां संभवो न भवेदिह ॥१॥
भवानास्ते परब्रह्म वयं ब्राह्म्यः स्त्रियस्तव ।
दिव्यता सर्वथा यत्र दोषलेशो न विद्यते ॥२॥
तथापि गृहधर्माणां देहिनां नरयोषिताम् ।
धर्मलाभो भवेत् तस्माद् गृहधर्मान् हि नो वद ॥३॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं शृण्वन्तु सर्वमत्प्रियाः ।
गृहधर्मान् दोषहरान् वदामि श्रेयसां प्रदान् ॥४॥
गृहं धामाऽक्षरं ज्ञेयं पतिः श्रीपुरुषोत्तमः ।
पुत्रा बोध्याः पञ्चदेवाः क्रियाश्च पूजनं मम ॥५॥
एवं या संप्रवर्तन्ते नार्यो गार्हस्थ्यसंस्थिताः ।
मयि सर्वार्पणभावास्तासां धर्मः सवैष्णवः ॥६॥
ध्यायेत् पत्यौ हरिं नित्यं मां पतिं पुरुषोत्तमम् ।
नार्यां ध्यायेत् सदा लक्ष्मीं श्रीं सतीं पुरुषोत्तमीम् ॥७॥
पुत्रेषु पार्षदान् ध्यायेत् पुत्रीषु श्रीरमादिकाः ।
वाहनेषु गरुडाद्यान् मुक्तान् वै बान्धवादिषु ॥८॥
ध्यायेदेवं निजे देहे श्रीकृष्णं पुरुषोत्तमम् ।
तस्मै समर्पयेत् सर्वं निजान्तरनिवासिने ॥९॥
एवं वै कर्मयोगोऽयं भवतीनामुदाहृतः ।
नैष्कर्म्यभावनायुक्तो मोक्षदो मम भक्तियुक् ॥१०॥
कर्मयोगेषु सर्वेषु त्वयं योगो विशिष्यते ।
हरेः सेवात्मको योगः कर्मणा मनसा गिरा ॥११॥
हरिरेव सदाऽऽराध्यो नामजपादिभिस्तथा ।
प्रदक्षिणां प्रकुर्याच्च प्रतिमां मम पूजयेत् ॥१२॥
मम प्रासादिकं भुञ्ज्यान्मत्पादयोर्मनो न्यसेत् ।
हरेरग्रे स्वनैरुच्चैर्नृत्येत्तथा समालपेत् ॥१३॥
करतालादिसन्धानैः सुस्वरैर्गायनं चरेत् ।
कथां शृणुयात् सततं निर्माल्यं मस्तके धरेत् ॥१४॥
अर्चनीयो नमस्कार्यः सदाऽहं मोक्षदः प्रभुः ।
ततोऽनादिकृष्णनारायणं श्रीकान्तमच्युतम् ॥१५॥
श्रीहरिं मां पूजयध्वं प्रपश्यध्वं क्षणे क्षणे ।
भक्तिमत्यो हरौ पत्यौ सर्वदा भवत प्रियाः ॥१६॥
कर्मयोगेन सततं समार्चयत मां हरिम् ।
यजध्वं मां हरिं लक्ष्म्यः स्नानभोजनसेवनैः ॥१७॥
प्रातर्मत्पूर्वमुत्थाय सुप्तस्य मेऽङ्गमर्दनम् ।
पादसंवाहनं ब्रह्मप्रियाः कुरुत नित्यशः ॥१८॥
यथेष्टं मां पतिं देवं चानन्दयत सेवया ।
आशया निजदेहादिशुद्ध्यर्थं यात वै ततः ॥१९॥
मां स्मरन्त्यो हरिं कृष्णं स्नात मत्पादवारिभिः ।
मन्नामकीर्तनं चापि कुर्वन्त्यस्तर्पणं जलैः ॥२०॥
अञ्जलिभिः प्रकुरुत सुरान् संस्मृत्य वै पितॄन् ।
नमस्कुरुत वृद्धांश्च विप्रान् साधून् सतीश्च गाः ॥२१॥
दैववृक्षाँश्च तीर्थानि देवान् नमत सर्वदा ।
स्नात्वा दानानि योग्यानि योग्यपात्रेभ्य एव तु ॥२२॥
अर्पयत धनान्नादि वस्त्रभूषाद्यपेक्षितम् ।
दर्शनानि च देवानां विधाय च ततो गृहम् ॥२३॥
समायात च मे सेवां स्नानाद्यंगमयीं शुभाम् ।
प्रकुरुत यथावद्वै स्नापयतोष्णवारिभिः ॥२४॥
तैलसुगन्धलेपाद्यैर्मर्दयित्वा यथोचितम् ।
अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ॥२५॥
वेषयत स्वर्णरौप्यताराम्बरादिभिस्तथा ।
आभूषयत भूषाभिः शृंगारयत सद्द्रवैः ॥२६॥
सुगन्धिपुष्पहाराद्यैर्गन्धसारादिभिस्तथा ।
धूपदीपादिभिर्मां च केशप्रसाधनादिभिः ॥२७॥
पूजयस्त्वं भोजयध्वं दुग्धपायसभोजनैः ।
जलं ताम्बूलकं चार्पयध्वं प्रेम्णा तु मे सदा ॥२८॥
मार्जयध्वं गृहस्थलीः शय्याः संहरताऽपि च ।
वार्याहरत च तथा चरताऽऽदोहनं गवाम् ॥२९॥
तर्कदध्यादि कुरुत वृद्धानर्चयताऽपि च ।
पाकादिकं प्रकुरुध्वं भोजयध्वं च देवताः ॥३०॥
ऋषीनतिथीन् विप्रांश्च साधून् भोजयताऽपि च ।
गोभ्योऽर्पयत ग्रासादीन् अग्निभ्यो हवनादिकम् ॥३१॥
अनाथदीनबालादीन् भोजयध्वं सुभोजनम् ।
परोपकारं कुरुत सूर्यं नमत सर्वदा ॥३२॥
अभ्यागतान् भोजयध्वं कुरुत स्वागतादिकम् ।
शृंगारयत देहाँश्च निजान् भूषादिभिः सदा ॥३३॥
भवत्यो मत्प्रियाः सर्वा मदात्मिका मदर्थिकाः ।
मत्प्रसादमनुप्राप्ता भवन्तु भावनाभराः ॥३४॥
भुञ्जन्तु मिष्टमिष्टान्नं प्रसन्नाः संभवन्तु च ।
वृद्धाज्ञां सम्मानयन्तु ज्येष्ठाज्ञां च सुभाषितम् ॥३५॥
कुलधर्मांश्च रक्षन्तु ज्ञातिधर्मांस्तथाऽपरान् ।
देशधर्मांश्च गृह्णन्तु मद्धर्मान् मुख्यतोऽधिकान् ॥३६॥
वस्त्रादीनां सदाशुद्धिं क्षालनाद्यैर्मृदादिभिः ।
प्रकुर्वन्तु सदा लक्ष्म्योऽनुसरन्तु वरीयसीः ।
कथां ज्ञानं कलां चापि कौशल्यं विविधं सदा ॥३७॥
अधियन्तु सदा लक्ष्म्यः पाकादिककलास्तथा ।
मातृसेवाः स्वसृसेवा श्वश्रूसेवाश्चरन्त्विति ।
सपत्नीस्नेहबाहुल्यं वर्धयन्तु दिने दिने ॥३८॥
महीमानान् पालयन्तु सत्कारयन्तु भोजनैः ।
सर्वप्रदानकैश्चापि भिक्षून् सम्मानयन्त्वपि ॥३९॥
साधून् साध्वीः पूजयन्तु वैष्णवांश्च विशेषतः ।
आनुकूल्येन भोगांश्च भुञ्जन्तु मपि चार्पितान् ॥४०॥
सन्ध्यां देवीं च गायत्रीं जपन्तु मयि योजिताम् ।
जपं कुर्वन्तु मन्नाम्ना स्मृत्वा मां परमेश्वरम् ॥४१॥
गृहकार्याणि कुर्वन्तु वैशद्यानि शुभानि च ।
रक्षन्तु गृहवस्तूनि सर्वविधानि चांजसा ॥४२॥
नृत्यं गीतं सुवेषादि विधापयन्तु मत्कृते ।
सेवयन्तु गवादीनि गोवत्सादीनि भावनैः ॥४३॥
शुकमेनाहंसचित्रगरुडादीन् प्रपान्तु च ।
गजवाजिवृषभादीन् प्रपान्तु महिषीस्तथा ॥४४॥
अन्नादिशुद्धिं कुर्वन्तु वेषवारादिशोधनम् ।
पालयन्तु सूतकादि संस्कुर्वन्तु च विकृतीः ॥४५॥
गृहशुद्धिं प्रकुर्वन्तु पोषयन्तु कुटुम्बिनः ।
यशः कीर्तिं वर्धयन्तु भवन्तु सहनाऽन्विताः ॥४६॥
दयाक्षमाकृपासेवागुणवत्यो भवन्तु च ।
परोपकारशालिन्यो भवन्तु सर्वदा प्रियाः ॥४७॥
विभज्य स्वार्थयायिन्यो भवन्तु निस्पृहास्तथा ।
परार्थवृत्तयश्चापि परमार्थपरायणाः ॥४८॥
दैवपैव्यक्रियाश्रद्धावत्यो भवन्तु सर्वदा ।
लोकसेवापराश्चापि शिष्यासेवापरायणाः ॥४९॥
प्रजासेवापराश्चाप्याशीर्वादादिपरायणाः ।
शुभाशयाः सदा सन्तु परोत्कर्षप्रदायिकाः ॥५०॥
परस्मृद्धिप्रमुदिताः स्वस्मृद्ध्यर्पणभावनाः ।
अपरिग्रहशीलाश्च भवन्तु मयि चार्पिताः ॥५१॥
अन्यायवर्जिता न्यायमग्नाः शीलव्रतान्विताः ।
तृष्णागृध्नाविहीनाश्च रागद्वेषविवर्जिताः ॥५२॥
धर्मवंशसमायुक्ता अधर्मान्वयवर्जिताः ।
नारायणीस्वभावाश्च भवन्तु ब्रह्मयोषितः ॥५३॥
मायावत्यो भवन्तु स्वसम्बन्धिबान्धवादिषु ।
स्नेहिल्यश्च सदा सन्तु नैजकौटुम्बिकेषु च ॥५४॥
अस्पृश्यधर्मचारिण्यो वधूरीतिमुपाश्रिताः ।
स्पृश्यधर्माऽभिचारिण्यो मातृधर्ममुपाश्रिताः ॥६५॥
भवन्तु च सदा देव्यो वृद्धाऽग्रे निम्नतान्विताः ।
अनुच्चासनसंस्थाश्च कराञ्जलिसमन्विताः ॥५६॥
भवन्तु मधुरालापा नम्रकंधरमानसाः ।
दृष्ट्वा स्वगृहकार्यं चाऽकृतं त्वग्रे ह्युपस्थितम् ॥५७॥
प्रकुर्वन्तु विना मानं स्तब्धतामन्तराः प्रियाः ।
परस्परं जनयन्तु हर्षं सहाय्यताप्रदम् ॥५८॥
सहाय्यं चापि कुर्वन्तु सपत्नीकाः परस्परम् ।
परस्परं सेवयन्तु केशप्रसाधनादिभिः ॥५९॥
अस्वास्थ्येऽन्योन्यसेवादि चरन्तु भावभाविताः ।
पात्रादिशोधनार्थं च दासीः रक्षन्तु सर्वदा ॥६०॥
दासीनां रक्षणं भोज्याम्बरवेतनदानकैः ।
यथायोग्यं प्रकुर्वन्तु मानदानादिभावनैः ॥६१॥
राजस्वल्यं पालयन्तु शुद्धिं रक्षन्तु दैहिकीम् ।
क्रोधादिदोषजाताँश्च वर्जयन्तु हि दुःखदान् ॥६२॥
सुखनाशकरान् लोभादिकाँस्त्यजन्तु सर्वथा ।
मा मारयन्तु लिक्षाद्याः स्वेदजाश्चाण्डजा अपि ॥६३॥
मा हि घ्नन्तु जीवजातान् जन्तुन् सूक्ष्मानपि क्वचित्॥
गालयित्वा जलं दुग्धं रसान् पिबन्तु शोधितान् ॥६४॥
रोगदान् मा भक्षयन्तु जाड्यालस्यकरानपि ।
चित्तभ्रामणकाँश्चापि दुष्टगन्धादिसंभृतान् ॥६१॥
मद्यं मांसं व्यवायं च स्तैन्यं कुर्वन्तु मा क्वचित् ।
असत्यं चाऽनृतं चापि कापट्यं मा चरन्तु वै ॥६६॥
निन्दनं त्वन्यहान्यर्थं मा वदन्तु क्वचित् प्रियाः ।
अप्रियं क्लेशदं चापि क्रूरं वदन्तु मा क्वचित् ॥६७॥
सरोषं तु मुखं नैजं मा कुर्वन्तु कदापि वै ।
सहसा मा क्वचित् कार्यं कुर्वन्तु त्वविचारितम् ॥६८॥
अयोग्यं चापि मा यान्तु प्रदेशं परमन्दिरम् ।
त्यजन्तु संशयापन्नं कुर्वन्तु निश्चयोर्जितम् ॥६९॥
अफलं माऽनुतिष्ठन्तु वृथावादं वृथाक्रियाम् ।
वृथानिद्रां च मा प्रकुर्वन्तु वृथाऽटनं तथा ॥७०॥
वृथाविघ्नानि केषाञ्चिन्मा कुर्वन्तु कदाचन ।
पशुचर्यां मा चरन्तु मौर्ख्यं त्यजन्तु दूरतः ॥७१॥
विचारं च विवेकं च गृह्णन्तु शिक्षणं सुखम् ।
आनुकूल्येन तिष्ठन्तु श्रेष्ठे पूज्ये च साधुषु ॥७२॥
अभ्यासेन मनो नित्यं नियमयन्तु सर्वथा ।
इषणा दुःखदा याश्च तास्त्यजन्तु समन्ततः ॥७३॥
सुखदा चैषणाः नार्यः सफलयन्तु धार्मिकीः ।
अविश्वासस्थलानां मा विश्वासं प्राचरन्तु वै ॥७४॥
अनावरणदेहाश्च मा भवन्तु निरम्बराः ।
सौभाग्याभूषणहीना मा भवन्तु कदाचन ॥७५॥
नातिभोगान् प्रकुर्वन्तु रोगदुःखकरान् प्रियान् ।
व्रतहानिं नाचरन्तु लाभं त्यजन्तु नैव च ॥७६॥
अकर्मण्यतां प्रमादं च त्यजन्तु दूरतः स्त्रियः ।
मार्दवं चापि नैपुण्यं समुत्साहं चरन्तु च ॥७७॥
प्रीतिं मिथो भावयन्तु त्यजन्तु च दुराग्रहम् ।
हठं त्यजन्तु विफलं हानिदं दुःखदं तथा ॥७८॥
तवेदं न ममेदं वै ममेदं न तवेति च ।
मत्वा हानिकरं नैव कुर्वन्तु स्वे परेऽपि च ॥७९॥
पश्यन्तु निजवत् सर्वा नारायणस्य सेविकाः ।
अनादिश्रीकृष्णनारायणस्य मम यद् भवेत् ॥८०॥
तत्सर्वं चापि पश्यन्तु नैजं नैजं स्वकं यथा ।
स्वकमेव न पारक्यं भवत्यश्च यथा हि तत् ॥८१॥
पक्षपातं न कुर्वन्तु सर्वभोग्येषु वै क्वचित् ।
सम्पत्स्मृद्धिं सुरक्षन्तु दिव्यां कृत्वा नवां नवाम् ॥८२॥
व्ययं कुर्वन्तु योग्यं च यथेष्टं सुखदं तथा ।
निजजन्मदिनादौ च दानं कुर्वन्तु भूरिशः ॥८३॥
पातिव्रत्यं पालयन्तु पत्नीव्रतैधितं सदा ।
देवार्पणं प्रकुर्वन्तु वैश्वदेवादिकाऽर्पणम् ॥८४॥
नग्नान्नरान् क्वचिन्नैवाऽवलोकयन्तु सत्स्त्रियः ।
विवादं च कलिं चापि शामयन्तु परोत्थितम् ॥८६॥
जलवह्न्योघविश्वासं मा कुर्वन्तु कदाचन ।
पशूनां तत्समानां च मा विश्वासं चरन्तु वै ॥८६॥
वञ्चिकानां सहवासं धूर्तानां चापि योषिताम् ।
मा कुर्वन्तु नास्तिकीनां प्रसंगं द्विष्टयोषिताम् ॥८७॥
नीतिक्षतौ न कुर्वन्तु चात्मघातं विभेदनम् ।
ताडनं छेदनं वापि चांऽगानां तु विनाशनम् ॥८८॥
श्रेयः कुर्वन्तु सर्वेषां वधूट्यो जननीदृशः ।
आत्महितं प्रकुर्वन्तु पत्युर्हितं सदा तथा ॥८९॥
मालिन्यं मा प्ररक्षन्तु पात्रे वस्त्रे च वर्ष्मणि ।
ओषधानि प्रसेवन्तां पथ्यानि हितदानि च ॥९०॥
समाजेषु यथायोग्यं प्रयान्तु मण्डलान्विताः ।
स्त्रीसमाजे त्वग्रगण्यपदार्थं प्रयतन्त्वपि ॥९१॥
अग्रगण्यगुणाढ्याश्च भवन्तु स्त्रीजनादिषु ।
बाल्यभावान् माऽऽचरन्तु विखेलनानि यानि च ॥९२॥
सुखेलनानि गृह्णन्तु द्यूतं मा स्वीचरन्त्वपि ।
अतिनिद्रां चात्यशनं वर्जयन्तु च रोगकृत् ॥९३॥
सर्वविधानि भोग्यानि भुञ्जन्तां तृप्तिहेतवे ।
न्यायोपेतानि सर्वाणि पञ्चविषयकाणि च ॥९४॥
यानवाहनशिबिकाविमानानि शुभानि च ।
अधिरुह्य वनोद्देशान् पश्यन्तु व्योमदृष्टयः ॥९५॥
जैह्व्यान् रसान् समस्तान् वै भुञ्जन्तां च मदर्पितान् ।
स्पार्शनानि सकामानि चानुभवन्तु वै मयि ॥९६॥
अर्पयन्तु समस्तानि कर्माणि मयि माधवे ।
न्यूनं मत्तः प्रगृह्णन्तु चापेक्ष्यं सर्वमेव तु ॥९७॥
मदधीना अपि सर्वाः स्वतन्त्राः सन्तु नित्यशः ।
यथायोग्यं बहिर्दृशो मा भवन्तु कदाचन ॥९८॥
परगन्धसहाश्चापि मा भवन्तु प्रिया मम ।
लज्जान्विताः सुखिन्यश्च भवन्तु सततं शुभा ॥९९॥
ब्रह्मदृश्यो दिव्यदृश्यो भवन्तु मुक्तकोटिकाः ।
भूवारिवह्निवाय्वादौ शुद्धिं पश्यन्तु चार्तवीम् ॥१००॥
एवंविधान् वृषान् पत्न्यः प्रियाश्चरन्तु शोभनान् ।
श्राद्धदानादिसहितान् भक्तियुक्तान् गतिप्रदान् ॥१०१॥
धनधान्यप्रदान् पुत्रपुत्रीवंशप्रदानपि ।
आयुःकीर्तिप्रदाँश्चापि सौभाग्यवर्धकानपि ॥१०२॥
तेजःप्रदान् सौमनस्यप्रदानानन्ददानपि ।
प्रसन्नताऽऽपादकान्मे भवन्तु मोदवार्धयः ॥१०३।'।
सर्वसौख्यान्विताश्चापि सर्वेच्छातोषसंगताः ।
विजयन्तु सदा साध्व्यो मम प्राणप्रियाः स्त्रियः ॥१०४॥
अन्या या जगति नार्यो वर्तिष्यन्ते यथोदितम् ।
रमण्यस्ते पुण्यभूमिखनयो देविका मताः ॥१०५॥
स्वर्गं तासां गृहेष्वेव मोक्षस्तासां करेष्वपि ।
सौभाग्यं शाश्वतं तासां भविष्यन्ति न संशयः ॥१०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने
वधूगीतायामनादिश्रीकृष्णनारायणोपदिष्टगृहस्त्रीकर्तव्यता-
निरूपणनामा चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP