संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १४१

द्वापरयुगसन्तानः - अध्यायः १४१

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
अक्षराधिपतेऽनादिकृष्णनारायणेश मे ।
गोलोकाधिपते कृष्ण वैकुण्ठेश नरायण ॥१॥
भूमन्नव्याकृतनाथ वासुदेवाऽमृतेश्वर ।
श्रीपते श्रीपुरवासिन् व्रतानि यानि तानि वै ॥२॥
कर्तुं नैव हि शक्तो यस्तस्य मुक्तिः कथं भवेत् ।
स्त्रिया बालस्य वृद्धस्य रुग्णस्य पशुपक्षिणाम् ॥३॥
श्रीपुरुषोत्तम उवाच-
मम नामस्मरणेन तस्य मुक्तिर्भवेद् रमे ।
अनादिश्रीकृष्णनारायण श्रीकृष्णसत्पते ॥४॥
श्रीकृष्ण श्रीपते श्रीमन्नारायण नरायण ।
गोविन्द माधव विष्णो स्वामिन्नरेश्वराऽच्युत ॥५॥
हरिकृष्ण नीलकण्ठ महालक्ष्मीसुखावह ।
बालकृष्ण दयासिन्धो श्रीमद्गोपालनन्दन ॥६॥
कंभराश्रीनन्दन त्वमश्वपट्टसरोऽधिप ।
कुंकुमवापिकातीर्थकृतावास हृदि स्थित ॥७॥
राम श्रीपुण्डरीकाक्ष ब्रह्मप्रियापते विभो ।
हरिप्रियाधिनाथ त्वं रक्ष मोक्षय बन्धनात्" ॥८॥
इत्येवं मम नाम्नां वै कीर्तनं मोक्षदं भवेत् ।
अथापि मम वासस्य क्षेत्रस्याऽक्षरसंज्ञिनः ॥९॥
अश्वपट्टसरसश्च कुंकुमवापिकाभुवः ।
तीर्थस्याऽस्य च माहात्म्यं शृणुयाच्च गृणीत च ॥१०॥
लक्ष्मीनारायणसंहितायाः शृण्वीत वै कथाः ।
श्लोकानां लक्षमेकं च तदूर्ध्वं पञ्चविंशतिः ॥११॥
सहस्राणीति शृणुयात् सपादलक्षसंहिताम् ।
धर्मार्थकाममोक्षेच्छापूरिकां भुक्तिमुक्तिदाम् ॥१२॥
अनादिश्रीकृष्णनारायणोऽहं संहितात्मकः ।
द्वितीयेनाऽऽगमेनैव रूपेणाऽस्मि स्थितो भुवि ॥१३॥
जीवलोकेषु सर्वत्रेश्वरलोकेषु वै तथा ।
अक्षरेऽपि संहितात्मा स्थितोऽस्मि शब्दमूर्तिकः ॥१४॥
अध्यायं वा प्रकरणं सन्तानं श्लोकमेव वा ।
यः पठिष्यति भूतात्मा मुक्तात्मा स भविष्यति ॥१५॥
श्रोष्यति स्थिरचित्तात्मा ब्रह्मात्मा स भविष्यति ।
वाचकं ये नमस्यन्ति मे भविष्यन्ति पावनाः ॥१६॥
पूजां चाऽस्य करिष्यन्ति ते यास्यन्ति दिवं परम् ।
लोमशस्याश्रमःतीर्थं गत्वा वत्स्यन्ति येऽनिशम् ॥१७॥
तेषां भुक्तिस्तथा मुक्तिः कृपया मे करं गता ।
अर्कवर्णविमानेन प्रयास्यन्ति पराऽक्षरम् ॥१८॥
प्रशंसां ये करिष्यन्ति ते यास्यन्ति श्रियाः पुरम् ।
नार्यस्तीर्थं करिष्यन्ति यास्यन्ति ललितापुरम् ॥१९॥
नारायण्या श्रिया साकं मोदिष्यन्तेऽक्षरे हि ताः ।
शिवराज्या तथा लक्ष्म्या साकं स्थास्यन्ति धामनि ॥२०॥
कृष्णं कान्तं च मां लब्ध्वा मोदिष्यन्ते निरन्तरम् ।
अहं तीर्थं परं लक्ष्मि त्वं तीर्थं मम सदृशम् ॥२१॥
आवयोर्वासभूमिश्च तीर्थं चाक्षरसदृशम् ।
सौराष्ट्रे आनर्तदेशे चाश्वपट्टसरोऽभितः ॥२२॥
भद्रावत्या दक्षिणे च शत्रुंजयायाः पश्चिमे ।
रैवताद्रेः पूर्वभागे व्याघ्र्यारण्योत्तरक्षितौ ॥२३॥
शतक्रोशप्रविस्तारवर्तुलक्षेत्रमेव मे ।
मोक्षदं पापहं लक्ष्मि पुरुषार्थसमस्तदम् ॥२४॥
अश्वपट्टसरःस्नाता दिवं मोक्षं प्रयान्ति वै ।
मण्डलं कुंकुमवापीक्षेत्रात्मकं हरिर्ह्यहम् ॥२५॥
रक्षामि सर्वथा देवैर्मुक्तैरीशानकोटिभिः ।
कुंकुमवापिकाबद्रीं रक्षाम्यहं प्रियां मम ॥२६॥
तां स्मरन् पापदाहे वै शक्तो भवति मानवः ।
दर्शनात् तद्बदर्यास्तु नामसंकीर्तनादपि ॥२७॥
मृत्तिकालंभनात्तस्या नरः पापात्प्रमुच्यते ।
योजनानां सहस्रेषु बदर्याः स्मरणान्नरः ॥२८॥
नारी वा बालभावो वा लभते परमां गतिम् ।
बदरीपत्रपुष्पाणां स्पर्शाद् भद्राणि विन्दते ॥२९॥
अवगाह्य च पीत्वा तु पुनात्यासप्तमं कुलम् ॥
मनसा चिन्तयन् बद्रीं कामानाप्नोति पुष्कलान् ॥३०॥
कुंकुमवापिकां गत्वा बद्रीश्रीसमशोभिताम् ।
ब्रह्मचारी वसेन्मासं पितॄन् देवांश्च तर्पयेत् ॥३१॥
ईप्सितांल्लभते कामान् यत्र यत्र स जायते ।
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः ॥३२॥
बद्रीं दृष्ट्वा जलं पीत्वा प्रयाता धाम मेऽक्षरम् ।
आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् ॥३३॥
कुंकुमवापिकाबद्रीतुल्यं चान्यन्न मोक्षदम्।
व्याधितो यदि वा दीनो वृद्धो बद्रीनिषेवणात् ॥३४॥
बदर्याः सन्निधौ यद्वा प्राणाँस्त्यजेत्तु दैवतः ।
दीप्तकाञ्चनवर्णाभैविमानैः सूर्यसन्निभैः ॥३५॥
कृष्णधामानि यात्येव मोदते शाश्वतीः समाः ।
ईप्सितान् लभते सर्वान् कामान् भोग्यादिसंभृतान् ॥३६॥
सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमायुतैः ।
विमानैश्चांगनाकीर्णैर्मोदते शाश्वते पदे ॥३७॥
सर्वकामफला वृक्षा मही यत्र हिरण्मयी ।
सर्वरसाश्च क्षितयस्तत्र लोके महीयते ॥३८॥
बदरीं स्मरमाणोऽपि तथा कुंकुमवापिकाम् ।
प्राणं त्यक्त्वा ब्रह्मलोकं प्रयात्येव परात्परम् ॥३९॥
कर्मणा मनसा वाचा धर्मसत्यावलम्बनः ।
कुंकुमवापिकाक्षेत्रे यस्तु गां सम्प्रयच्छति ॥४०॥
सुवर्णमणिमुक्ताश्च धनं धान्यं तथाऽम्बरम् ।
स्वकार्ये पितृकार्ये च देवाऽर्हणेऽपि वाऽर्पयेत् ॥४१॥
अनन्तगुणितं तस्य सम्पद्यतेऽक्षरे स्थले ।
गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् ॥४२॥
पुत्रान् दासाँस्तथा भृत्यान् गौर्दत्ताऽत्रैव तारयेत् ।
कुंकुमवापिकाक्षेत्रे यस्तु कन्यां प्रयच्छति ॥४३॥
विवाहविधिना तस्य धाम्नि पुण्यमनन्तकम् ।
श्रीकृष्णस्य मणिश्चायं सौराष्ट्रो नित्यविग्रहः ॥४४॥
प्रलयेऽपि न नाशोऽस्य मम वासेन पद्मजे ।
अश्वपट्टसरस्येव राजसूयाश्वमेधयोः ॥४५॥
स्नात्वा फलं लभ्यते वै शाश्वतं चाऽपुनर्भवम् ।
दशतीर्थसहस्राणि षष्टिकोट्यस्तथा रमे ॥४६॥
वसन्ति तानि सर्वाणि मम वासात्मकेऽत्र तु ।
स्वर्णनारीप्रदाताऽत्र स्वर्गगो जायते ततः ॥४७॥
उर्वशीसदृशीनां तु कन्यानां लभते शतम् ।
मध्ये नारीसहस्राणां बहूनां स पतिर्भवेत् ॥४८॥
अश्वपट्टसरो यत्र सिद्धक्षेत्रं हि तन्मम ।
तत्राऽवलुण्ठ्य पापात्मा जायते पंक्तिपावनः ॥४९॥
पवित्राणां पवित्रं च मंगलानां सुमंगलम् ।
मोक्षदानां मोक्षदं च कुंकुमवापिकास्थलम् ॥५०॥
सरसश्चोत्तरे भागे पातालादक्षयाऽऽपगा ।
श्वेतद्वीपमहागंगा लक्ष्मीनारायणेरिता ॥५१॥
वहत्यन्तर्जले श्वेता भुक्तिमुक्तिप्रदायिनी ।
विष्णुपदी स्वयं स्वर्गाददृश्याऽत्र निमीलति ॥५२॥
ब्रह्मह्रदश्च मे पादान्नित्यं तटागगोऽस्ति च ।
सुधासरिद् दिवः स्थानाद् वारिष्वस्य प्रवर्तते ॥५३॥
अमरास्तेन सर्वे वै वर्तन्तेऽश्वसरःक्षितौ ।
अनाशकफलं चात्र लभते तीर्थकृज्जनः ॥५४॥
मासमेकं तु यः स्नायादश्वपट्टसरोजले ।
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ॥५५॥
अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ।
सर्वकामसमृद्धे स स्वर्गलोके महीयते ॥५६॥
ह्येकदा लोमशो देवो ययौ प्रयागभूतलम् ।
प्रयागस्तत्र नासीद्वै भरद्वाजोऽभवन्मुनिः ॥५७॥
भरद्वाजाय चाऽपृच्छल्लोमशस्तीर्थराजकः ।
क्व यातोऽद्य मुने तस्य दर्शनं मे न जायत ॥५८॥
भरद्वाजस्तदा प्राह कुंभयोगेन मानवैः ।
महापापातिपापानि स्नात्वाऽर्पितानि यानि तु ॥५९॥
तानि क्षालयितुं यातः प्रयागोऽश्वसरोवरम् ।
यत्र कुंकुमवापीति तीर्थं लक्ष्मीः स्वयं स्थिता ॥६०॥
अनादिश्रीकृष्णनारायणो यत्र वसत्यपि ।
तत्र गतः प्रयागोऽस्ति पश्य चायास्यति द्रुतम् ॥६१॥
लोमशस्तत्र वाटं च दृष्ट्वा मुहूर्तमावसत् ।
प्रयागस्तावदायातो विधूयाऽघानि सर्वथा ॥६२॥
लोमशस्तं प्रपूज्यैव ययौ बदरिकावनम् ।
तत्र नाऽऽसीद्धि बदरी दिव्या नारायणाश्रया ॥६३॥
नाऽऽलोकिता लोमशेन तदा तनुऋषिः स्वयम् ।
पृष्ठः क्व बदरीयात्रा कदा चाप्यागमिष्यति ॥६४॥
तनुः प्राह गता चास्ते सौराष्ट्रेऽश्वसरोवरम् ।
कुंकुमवापिकाक्षेत्रे श्रीपतिं पुरुषोत्तमम् ॥६५॥
प्राणपतिं सेवयितुं बालकृष्णं प्रियं प्रभुम् ।
कन्यारूपा वर्तते सा ब्रह्मप्रियासु शोभना ॥६६॥
वधूर्भूत्वा हरेर्दासी लक्ष्म्या सह विराजते ।
तापसी सा क्वचित्तत्र कुंकुमवापिकातटे ॥६७॥
बदरीवृक्षरूपेण वर्तते मुक्तकोटिका ।
दीर्घिकाया उपर्यैव विमानं वै वितन्वती ॥६८॥
उत्तरे भूतले चास्ते यच्छाखा दीर्घिकोपरि ।
वर्तन्ते छत्ररूपा वै श्रीकृष्णप्रेरिता सदा ॥६९॥
विशालाक्षी हरेः पत्नी या सा तत्र विराजते ।
बदरी सा स्वयं याऽत्र सा तत्र राजते मुने ॥७०॥
रूपान्तरेण चात्रापि वर्तते भगवत्कृते ।
हरेर्निवासवेलायां छायाप्रदाऽत्र जायते ॥७१॥
सेयं मध्याह्नवेलायामत्रागमिष्यति द्रुतम् ।
एवं तनोर्महर्षेर्वै ज्ञात्वा श्रीलोमशो मुनिः ॥७२॥
तस्थावामध्यदिवसं कन्या सा बदरी सती ।
तूर्णं व्योमपथेनाप्यायाता बदरिकाऽऽभवत् ॥७३॥
लोमशस्तां प्रपूज्यैव तदधः श्रीनरायणम् ।
प्रपूज्यैव ययौ बालकृष्णसरोवरं महत् ॥७४॥
मानसं च सरः स्नात्वा व्योम्ना सौराष्ट्रमाययौ ।
निश्चितं च ततः कृत्वोवास नित्यं ममालये ॥७५॥
अश्वपट्टसरोभूमौ माहात्म्यं प्रविदन् क्षितेः ।
बदरी सा महालक्ष्मीर्नारायणेन वै मया ॥७६॥
नित्यं स्थातुं समाज्ञप्ता वर्तते दीर्घिकातटे ।
कालान्तरे दृश्यरूपाऽप्यदृश्याऽपि भविष्यति ॥७७॥
भक्तानां समवाये तु पुनर्दृश्या भविष्यति ।
ब्रह्मप्रियास्तथाऽन्याश्च बदरीरूपधारिकाः ॥७८॥
दीर्घिकासहसख्यस्तु भूत्वा तज्जलवृत्तयः ।
दृश्यास्तत्र भविष्यन्ति रिक्ता भूमिर्न जायते ॥७९॥
हरिप्रियास्तथा देव्यो वर्तन्ते चात्र वल्लिकाः ।
अनारकलिकानाम्नी दाडिमीरूपधारिणी ॥८०॥
उत्तेजिनी मम पत्नी चिञ्चारूपेण वर्तते ।
स्नेहिली सुभगा चेति हीङ्गुदीद्वयमस्ति च ॥८१॥
जाम्बुवती मम पत्नी जाम्बिका तत्र वर्तते ।
राविणी गायिका तत्र रावणिकाऽपि वर्तते ॥८२॥
एवमन्या मम कान्ताः सख्यस्तासां तथाऽपराः ।
दुग्धिकानामवल्ली च कन्यका तत्र वर्तते ॥८३॥
पुष्पिका ह्युद्यानरूपा बह्व्यः सन्ति द्रुमालिकाः ।
सेवन्ते मां सदा मुक्तानिका दिव्यसुविग्रहाः ॥८४॥
क्वचित्ता वृक्षवल्ल्यश्च क्वचित् कान्ताः सुविग्रहाः ।
क्वचिद् दृश्या भवन्त्येवाऽदृश्याः क्वचिद् भवन्त्यपि ॥८५॥
क्वचिन्मे शयने सन्ति क्वचिन्मे वै गजासने ।
क्वचिन्मे व्योमयाने ता विहरन्ति मया सह ॥८६॥
क्वचित् पार्श्वे रासभूमौ क्वचिन्मे मण्डपेऽपि च ।
क्वचिन्मे हृदये लीना भवन्त्यानन्दभक्षिकाः ॥८७॥
एकरस्यं क्वचित्प्राप्ता मोदन्ते मत्तदात्मिकाः ।
भोजने क्रीडने पाने पृथग् भवन्ति सेवने ॥८८॥
लक्ष्मि यथा वर्तसे त्वं हृदि पार्श्वे च सन्निधौ ।
तथा ता मम वर्तन्ते त्वादृशाः कमलाः शुभाः ॥८९॥
तासां यत्र निवासोऽस्ति सा भूमिश्चाऽक्षरं मम ।
सर्वतीर्थोत्तमं लक्ष्मि तीर्थमूर्धन्यमुत्तमम् ॥९०॥
कुंकुमवापिकातीर्थं कल्पे कल्पे सुराष्ट्रके ।
मदिच्छया भवत्येव ब्रह्माण्डादौ मया कृतम् ॥९१॥
सुराष्ट्रं तव राज्यं च स्वतन्त्रं द्वीपकल्पके ।
कृष्णभूमिः कृष्णतुल्या कार्ष्णी सा मत्स्वरूपिणी ॥९२॥
मोक्षद्वारवती भूमिर्युगे युगेऽपि पावनी ।
सुभद्रा भद्रिकानाम्नी नदी यत्राऽस्ति मत्कृता ॥९३॥
यज्जलस्य स्मरणाच्च स्पर्शनात् कणभक्षणात् ।
पापनाशो भवत्येव स्वर्गं तथाऽक्षरं व्रजेत् ॥९४॥
ममाऽर्धस्य नरस्यापि मम वियोगिनि क्षणे ।
यदैश्वर्याणि लीयन्ते लुट्यन्ते स्त्रीविभूतयः ॥९५॥
दस्युभिश्च तदा भद्रा सुभद्रा सरिदुत्तमा ।
नरपत्नी महत्तीर्थस्वरूपा वर्तते जले ॥९६॥
स्नातॄणां भद्रदा नित्यं सर्वभद्रप्रकारिणी ।
कार्यरूपा नदी चास्ते मूर्तिः श्रीपुरुषोत्तमे ॥९७॥
दिव्यरूपा बदर्यां च सन्तुष्टा च स्वसा मम ।
मुक्तानिका मम धाम्नि पञ्चरूपा प्रवर्तते ॥९८॥
सागराः सागरतुल्यसरांसि सरितस्तथा ।
पुण्याः कुंकुमवाप्यां मे वर्तन्ते ब्रह्मरूपिकाः ॥९९॥
सर्वे वेदाश्च यज्ञाश्च मूर्तिमन्तोऽक्षरेऽत्र वै ।
महर्षयः पितरश्च सिद्धाश्च साधवोऽमलाः ॥१००॥
सत्यः साध्व्यश्चक्रधर्यश्चक्रधराश्च पार्षदाः ।
मामनादिमुपासन्ते श्रीकृष्णं पुरुषोत्तमम् ॥१०१॥
सिद्धिक्षेत्रं महच्चैतद्धामक्षेत्रं परात्परम् ।
इदं धन्यमिदं स्वर्ग्यमिदं सत्यमिदं सुखम् ॥१०२॥
इदं पुण्यमिदं धर्म्यं पावनं कार्ष्ण्यमुत्तमम् ।
श्रुत्वाप्येतत्तीर्थतीर्थं नाकपृष्ठे सुमोदते ॥१०३॥
जातिस्मरत्वं लभते सर्वस्मरत्वमित्यपि ।
त्रैकालिकं प्रवेत्ति यत् सार्वज्ञ्यं चापि विन्दति ॥१०४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कुंकुमवापिकातीर्थस्मरणदर्शनादिभिरपि पापिनां मोक्षणमिति निरूपणनामैकचत्वारिंशदधिकशततमोऽध्यायः ॥१४१॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP