द्वापरयुगसन्तानः - अध्यायः ४५
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
देवदेव कृपासिन्धो पुरुषोत्तम माधव ।
निर्गुणो भक्तियोगस्ते सत्या कार्यः कथं त्वयि ॥१॥
श्रोतुमिच्छामि लोकानां हितार्थं सर्वयोषिताम् ।
ब्रह्मप्रियाभिः सर्वाभिरस्माभिः कार्य एव यः ॥२॥
तथाऽन्याभिश्च योषिद्भिर्नरैश्चापि कृतो भवेत् ।
यथा तथाऽऽकर्णयितुं सम्यगिच्छामि तद्वद ॥३॥
एताः सर्वाः स्वसारो मे कोट्यर्बुदाब्जसंख्यकाः ।
श्रोतुमिच्छन्ति कान्तास्ताः प्रेरितास्ताभिरत्र ह ।
पृच्छामि निर्गुणं भक्तियोगं तव वदाऽत्र नः ॥४॥
श्रीपुरुषोत्तम उवाच-.
गुणवन्ति हि कर्माणि सफलानि भवन्ति वै ।
तान्येव मयि संत्यक्तफलानि निर्गुणानि वै ॥५॥
फलाकांक्षायुतं कर्म बन्धकृज्जायते प्रिये ।
अफलेच्छायुतं कर्म मोक्षदं सम्प्रजायते ॥६॥
सात्त्विकाः सत्त्वकर्माणि कृत्वा यान्ति दिवं जनाः ।
राजसा नरलोके च कृत्वा राजससत्क्रियाः ॥७॥
तामसाः कल्मषलोकान् यान्ति तमोलया जनाः ।
निर्गुणं मां तु सम्प्राप्य ममाऽक्षरं प्रयान्ति वै ॥८॥
पञ्चाग्नयो वनेवासा निष्कल्मषा जनाः प्रिये ।
लोकं सप्तऋषीणां ते प्रयान्ति फलभागिनः ॥९॥
सन्यासाश्रमवासाश्च दण्डादिधारिणस्तथा ।
जितेन्द्रियमनोधर्माः सत्यलोकं प्रयान्ति ते ॥१०॥
अष्टांगयोगसम्पन्नाः स्ववशा ऊर्ध्वरेतसः ।
महर्लोकं जनलोकं प्रयान्ति गतकल्मषाः ॥११॥
याज्ञिका यजमानाश्च प्रयान्तीन्द्रपदं चिरम् ।
दातारो यान्ति सोमस्य लोकं चामृतवर्षिणम् ॥१२॥
व्रतिनस्तु प्रयान्त्येव सूर्यलोकं सुतेजसः ।
तैर्थिका वह्निलोकं चोज्ज्वलं प्रयान्ति पुण्यतः ॥१३॥
सत्यव्रतास्तथा यान्ति वारुणं लोकमुत्तमम् ।
विष्णुभक्तियुता यान्ति वैकुण्ठं चाऽपुनर्भवम् ॥१४॥
शंभुभक्तियुता यान्ति नित्यकैलासमूर्ध्वगम् ।
पितॄणां याजिनः पुत्रसुखैश्वर्यादिवाञ्च्छया ॥१५॥
दक्षिणेन पथाऽर्यम्णा पितृलोकं प्रयान्ति ते ।
स्मृतिधर्मपराः स्वर्गं प्रयान्ति पुण्यकारिणः ॥१६॥
पञ्चदेवप्रपूजाढ्या दिवं प्रयान्ति दैविकम् ।
प्रजापतियजो यान्ति दक्षादींश्च प्रजापतीन् ॥१७॥
भूतयज्ञकरा यान्ति भूतानि विविधानि च ।
भ्वादितत्त्वोपासकाश्चाऽऽवरणेषु व्रजन्ति वै ॥१८॥
यक्षलोकाँस्तथा यान्ति कौबेरयक्षयाजिनः ।
ईश्वराणां च यज्वानो यान्तीश्वरपदानि ते ॥१९॥
तापसा बदरीं यान्ति श्वेतद्वीपं तु साधवः ।
ब्रह्मव्रतास्तु वैराजान् लोकान् यान्ति प्रशीलिनाम् ॥२०॥
साध्व्यः सतीनां लोकांश्च प्रयान्ति सूर्यवर्चसः ।
लक्ष्मीलोकाँस्तथा यान्ति श्रीलोकान् धर्मयोषितः ॥२१॥
पतिव्रता हरेर्लोकान् पतिलोकान् प्रयान्ति च ।
ब्रह्मचारिण्य एवापि लोकाँस्तु ब्रह्मचारिणाम् ॥२२॥
गणिका गणलोकाँश्च प्रयान्ति कर्मवेदिनाम् ।
ईशभक्ता ईशलोकान् प्राणभक्ता मरुत्स्थलीम् ॥२३॥
आसुरा निर्ऋतलोकान् यमलोकाँस्तु पापिनः ।
आर्षांल्लोकान् संयमिनो यन्ति तपोजनादिकान् ॥२४॥
वेदविद्यारता यान्ति सत्यलोकं विरागिणः ।
त्यागिनो यान्ति वैकुण्ठं जलावृत्त्यूर्ध्वसंस्थितम् ॥२५॥
ऐश्वर्ययाजका यान्ति सिद्धिलोकान् सुयोषिताम् ।
द्रव्यदा वसुलोकाँश्च भस्मिनो रुद्रमन्दिरम् ॥२६॥
पञ्चाग्नितापसा यान्ति चादित्यमण्डलं जनाः ।
कामिनश्चान्द्रलोकं च शीतदानपरायणाः ॥२७॥
क्रूकर्मकरा यान्ति राक्षसानां गृहाणि तु ।
वासनावन्त एवापि यान्ति पिशाचयोनिषु ॥२८॥
दीपदानादिकर्तारः प्रयान्ति वह्निमण्डलम् ।
स्मृद्धिदा यान्ति वै स्वर्गं नाक्षत्रं सुविलासवत् ॥२९॥
वाटिकाक्षेत्रदातारो यान्ति सम्राट्पदं क्षितौ ।
विद्यावन्तस्तथा सारस्वतं पदं प्रयान्ति च ॥३०॥
धर्मस्य नाशका यान्ति दारुणं दानवं पदम् ।
अधर्मिणो भवन्त्येव दैत्या उद्वेगशालिनः ॥३१॥
क्रुद्धाश्च क्रूरकर्माणो नागाः सर्पा भवन्ति च ।
जलहानिकरा यान्ति यादसां योनिसंभवान् ॥३२॥
पुनरावर्तिनः सर्वे लोकाः सत्यान्तिनो मताः ।
कर्मणां सनिमित्तानां मार्गो गतागतात्मकः ॥३३॥
तावन्मोदः प्रमोदश्च यावत्पुण्यं प्रविद्यते ।
क्षीणे पुण्ये समायाति निम्नलोकं हि कालतः ॥३४॥
तस्माल्लक्ष्मि कृतं कर्माऽर्पणीय परमेश्वरे ।
कर्मफलस्य संत्यागान्निर्गुणं जायते मयि ॥३५॥
भक्ता निष्कारणा भूत्वा ज्ञानवैराग्यसंयुता ।
प्रेमभक्त्या युता कृष्णहरिभक्तजनप्रिया ॥३६॥
भज मे चरणौ हंससेवितं निर्भयं प्रिये ।
मृत्युर्यत्र न सबलस्तं मां भज प्रिये सदा ॥३७॥
भक्तियोगो द्विधा लक्ष्मि सगुणश्चापि निर्गुणः ।
सगुणोऽस्ति बहुधा वै निर्गुणस्त्वेकधा मतः ॥३८॥
भावो विभिद्यते स्त्रीणां गुणयुक्तो हि सर्वदा ।
गुणत्रिकाद् भवन्त्येव भक्तास्त्रिभेदशोभनाः ॥३९॥
हिंसां दम्भं च मात्सर्यं कपटं स्वार्थशालिताम् ।
आलम्ब्य कुरुते भावं क्रुद्धा सा तामसी मता ॥४०॥
यश ऐश्वर्यविषयानभिसन्धाय यत्नतः ।
अर्चयेन्मां शिवराज्ञि! राजसी सा प्रकीर्तिता ॥४१॥
कर्तव्यमिति मत्वा या करोति रागवर्जिता ।
मोक्षार्थं भजते मां सा सात्त्विकी सेविका स्मृता ॥४२॥
दुःखी स्वार्थी विवेकी च मनिषी भजते तु माम् ।
पुण्यपात्राणि वै नार्यो निमित्तेन भजन्ति माम् ॥४३॥
स्नेहेन मम भक्ताश्च मां भजन्ति सदा सुखाः ।
गुणैर्दोषैश्चाऽपरेऽपि मां भजन्ति स्मरन्ति च ॥४४॥
निर्गुणं भक्तियोगं तु कुर्वन्ति मयि साधवः ।
साध्व्यश्च रागशून्या यास्ता भजन्ति हरिं वरम् ॥४५॥
परिपूर्णतमे सर्वकारणानां च कारणे ।
अनादिश्रीकृष्णनारायणे श्रीकान्तवल्लभे ॥४६॥
प्रेमगतिरविच्छिन्नाऽखण्डिताऽहेतुकी शुभा ।
सा भक्तिर्निर्गुणा दिव्या मयि प्रसन्नताफला ॥४७॥
यः स्नेहो दुःखनाशार्थो न स्वार्थो न निरर्थकः ।
हरेः प्रसन्नताऽऽलभ्यस्तद्वती निर्गुणा मता ॥४८॥
भक्तिर्यथा निर्गुणाऽस्ति दासी तथा च निर्गुणा ।
निसर्गप्रेमधारा यं प्रति श्रीपुरुषोत्तमम् ॥४९॥
वहति प्रेमरूपा सा निर्गुणा मयि योजिता ।
आनन्दात्म फलं तृप्तिः शाश्वती फलमित्यपि ॥५०॥
प्रफुल्लता फलं समुत्साहः फलं प्रमोदनम् ।
अहो अहो स्थितिर्या च सुधामिष्टा विशारदी ॥५१॥
पीयूषरसदात्री च निर्गुणायाः फलं मतम् ।
नववध्वा युवत्याश्च विवाहोत्तरमेव यत् ॥५२॥
स्वकान्तसंगमेच्छाया यथा धारा प्रवर्तते ।
नवानन्दः प्रमोदश्च प्रफुल्लता प्रसन्नता ॥५३॥
स्नेहभरः सुतृप्तिश्च सन्तोषो निर्वृत्तिस्तथा ।
मिष्टं सुष्ठु समस्तं वै यथा वध्वाः प्रभासते ॥५४॥
तथा भक्तिमतीनार्या मयि सर्वं प्रभासते ।
सैषा वेदप्रसूर्विद्या निर्गुणा मत्स्वरूपिणी ॥५५॥
नैषा मद्व्यतिरेकेण क्वचित् कुत्रापि जायते ।
सैषा भागवती विद्या शाश्वती पुरुषोत्तमी ॥५६॥
सैषा प्रसन्नतालभ्या ममाऽऽन्तरे निवासतः ।
नान्यसाधनलभ्या वै निर्गुणा निर्गुणं विना ॥५७॥
नृपस्नेहो नृपकृपां विना भृत्यस्य नास्ति वै ।
तथा मम कृपां हित्वा योगोऽयं नैव जायते ॥५८॥
लक्षणं निर्गुणानां मे भक्तानां शृणु पद्मजे! ।
आक्षरं चापि गोलोकं वैकुण्ठं श्वेतभूतलम् ॥५९॥
क्षीरस्थानं बद्रिकां वा पारमेष्ठ्यपदं च वा ।
अव्याकृतं चामृतं च लक्ष्मीलोकं प्रकुण्ठकम् ।
वैराजं वेश्वराणां च स्थानानि विविधान्यपि ॥६०॥
शक्रधिष्ण्यं सार्वभौमं रसाधिपत्यमित्यपि ।
दिक्पालत्वं याम्यभावं योगर्द्धिं वैश्वरोत्तमम् ॥६१॥
चमत्काराँस्तथा सिद्धीरैश्वर्याणि महान्त्यपि ।
नाऽभिलषन्ति ये भक्ता मम पादप्रसेवकाः ॥६२॥
दीयमानं मया लक्ष्मि सालोक्यं चापि वोत्तमम् ।
न गृह्णन्ति कदाचित्ते मत्सेवानन्दसंभृताः ॥६३॥
सामीप्यं चापि नेच्छन्ति प्रेम्ण औन्यात् क्षतेः खलु ।
विरहोऽपि संगविघ्नः स्पर्शविघ्नो महान् हि सः ॥६४॥
सन्निकृष्टे तु यत्प्रेम दूरत्वं लभते क्वचित् ।
तस्मान्मत्संगतौल्ये न सान्निध्यं वर्तते क्वचित् ॥६५॥
अथापि दीयमानं च सारूप्यं मानसंभृतम् ।
गृह्णन्ति नैव भक्ता मे समानत्वाभिमानतः ॥६६॥
दास्ये समानता विघ्नो नैरपेक्ष्यं च विघ्नता ।
मम सेवोत्सुकास्तस्मान्न गृह्णन्ति सरूपताम् ॥६७॥
अथैकत्वं दीयमानं नैव वाञ्च्छन्ति मामकाः ।
द्रवीभावे विलीनीभावे चैकत्वं भवेत् खलु ॥६८॥
तथासति कथं सौख्यं स्वामिसेवकसंभवम् ।
दासीलभ्यं सुखं नैव कान्ताद्धरेर्भवेन्ननु ॥६९॥
अमूर्तभावे त्वेकत्वं भक्तस्य संभवेन्ननु ।
सत्येवं योगजं सौख्यं मूर्तेर्मूर्तौ कथं भवेत् ॥७०॥
सेवासुखं न लभ्येत नेच्छत्येकत्वमित्यतः ।
निरपेक्षाश्च शान्ताश्च समदर्शनसंगताः ॥७१॥
कान्तसुखानुसुखिन्यो भवन्ति निर्गुणाः स्त्रियः ।
नैरपेक्ष्यं महासौख्यं नैरपेक्षा हरिश्रिताः ॥७२॥
सकामास्तु महासौख्यं निष्कामाया विदन्ति न ।
निष्कामो भक्तियोगो वै भवेदात्यन्तिकं पदम् ॥७३॥
निरपेक्षाः प्रिया नित्यं मां भजन्ति प्रकारकैः ।
स्मृत्या संकीर्तनेनापि श्रवणेन च सेवया ॥७४॥
पूजया वन्दनेनापि दास्येन सख्यकेन च ।
आत्मनिवेदनेनापि प्रेम्णा भक्तिं चरन्ति ह ॥७५॥
दुर्लभा भक्तिमत्यो मे मद्भावभावनान्विताः ।
महतीनां मानभावं कुर्वन्त्यश्च दयां तथा ॥७६॥
दीनास्वथ समानासु मैत्रीं चरन्त्य एव याः ।
मम पादाऽब्जमधुपा मम संयोगलालसाः ॥७७॥
मां प्रस्मरन्ति प्राणेशं यथा प्रोषितभर्तृकाः ।
मम स्मृतेः रोमहर्षो यासां स्वेदः प्रजायते ॥७८॥
आनन्दाश्रुकलाश्चापि वैवर्ण्यं प्रेमसंभृतम् ।
अनादिश्रीकृष्णनारायणं गृणन्त्य एव च ॥७९॥
दिवानिशं मयि सक्तास्ता वै भागवतीतमाः ।
मन्मानस्यो मद्धृदया मय्येवाऽङ्गसमर्पणाः ॥८०॥
मय्येवाऽऽनन्दभोक्त्र्यश्च महाभागवतीतमाः ।
भुवि जलेऽनले वायौ गगने तारकासु च ॥८१॥
वनेऽरण्ये जंगमेषु पश्यन्त्यः परमेश्वरम् ।
अनादिश्रीकृष्णनारायणं मां च प्रहर्षिताः ॥८२॥
विलोकयन्त्यः कामिन्यो रुदन्ति च वदन्ति च ।
क्वचिन्नन्दन्ति धावन्ति हसन्ति मार्गयन्ति च ॥८३॥
गायन्ति चाऽऽह्वयन्त्युग्रं नृत्यन्ति रमयन्ति च ।
विहरन्ति च जल्पन्ति पश्यन्ति मां द्रुमान्तरे ॥८४॥
क्वचित्तूष्णीं भवन्त्येता मत्स्वरूपा मदात्मिकाः ।
कृतकृत्याः कृतार्थाश्च सर्वानन्दपरिप्लुताः ॥८५॥
यासां दर्शनमात्रेण चान्या यान्ति कृतार्थताम् ।
दिव्या दिव्यक्रिया वध्वो दिव्यरूपा हि ता यतः ॥८६॥
शाश्वतीनां च तासां वै न कालो न यमस्तथा ।
न भूमा न महारुद्रो दण्डं दातुं क्षमः क्वचित् ॥८७॥
यासां वामे गदा कौमुदकी दक्षे सुदर्शनम् ।
अग्रे शार्ङ्गं धनुः पश्चे पाञ्चजन्यस्तु कम्बुकः ॥८८॥
नन्दकश्च महाखड्गः शतचन्द्रः पुरस्तथा ।
इषवः परितश्चापि छत्रं चोर्ध्वे व्यवस्थितम् ॥८९॥
यष्टिश्च पादयोश्चापि पार्श्वे त्वैश्वर्यकोटयः ।
मूर्तौ च सिद्धयः सर्वा मम रक्षन्ति ताः प्रियाः ॥९०॥
ऊर्ध्वं छत्रं महापद्मं छायां करोति शोभनाम् ।
गरुडः पक्षवातैश्च श्रमहर्ता भवत्यपि ॥९१॥
यत्र यत्र गताः सत्यस्तत्र तत्र हरिः प्रभुः ।
अनादिश्रीकृष्णनारायणोऽहं विचरामि च ॥९२॥
तीर्थीकरोमि भूभागान् श्रीमत्पादाब्जरेणुभिः ।
क्षणं यत्र स्थिताः सत्यस्तत्र तीर्थानि सन्ति हि ॥९३॥
पापा मृता भवेत्तत्र साऽपि याति परां गतिम् ।
कृष्णप्रिया वीक्ष्य दूरान्नाऽऽधयो व्याधयोऽपि च ॥९४॥
भूतप्रेतपिशाचाद्या ग्रहा विघ्नाश्च राक्षसाः ।
आसुरा दोषभागाश्च पलायन्ते भयान्मम ॥९५॥
नद्यो नदाः पर्वताश्च प्राकाराः खातभूमयः ।
गर्ताश्च गह्वराश्चापि समुद्रा वह्नयस्तथा ॥९६॥
मार्गं ददति साध्वीभ्यो निरपेक्षाभ्य एव मे ।
साध्वीनां ज्ञाननिष्ठानां विरक्तानां हि योषिताम् ॥९७॥
मदात्मिकानां तासां वै प्रतिबन्धो न कुत्रचित् ।
शतजन्मतपःपूता पुण्यपुञ्जसमन्विता ॥९८॥
संगमासां सा लभते दुर्लभं पुण्यहानिभिः ।
यत्कुले मम भक्ता वै जायते ब्रह्मलक्षणा ॥९९॥
तत्कुलं विमलं बोध्यं निकृष्टमपि चोर्ध्वगम् ।
लक्ष्मि मे भक्तियुक्ता तु सर्वैश्वर्यसमन्विता ॥१००॥
पितॄन् दशकुलोद्भूतान्निजाँश्च पतिपक्षगान् ।
मातृपक्षगताँश्चापि तावतश्चोद्धरत्यपि ॥१०१॥
अपि ब्रह्माण्डमखिलं समुद्धर्तुं बलान्विता ।
निरयान् पापबन्धाँश्च क्षेप्तुं शक्ता तु सा मता ॥१०२॥
ये याश्च देहवत्यो वै सम्बन्धिनश्च ये च याः ।
भृत्याद्याः सुहृदश्चापि कर्मचाराश्च ये च याः ॥१०३॥
पक्षिणः पशवश्चापि जन्तवो मशकादयः ।
पिपीलिकाः पतंगाश्च कीटाश्च मक्षिकादिकाः ॥१०४॥
मम भक्ता गृहे ये यास्तेषां तासां प्रमोक्षणम् ।
भवत्येव न सन्देहो मखतीर्थवृषैर्विना ॥१०५॥
साध्वीसंसर्गतस्तेऽपि ता यान्ति हरिमन्दिरम् ।
मलिनेऽपि प्रदेशे वै भक्ता लोकान् पुनाति मे ॥१०६॥
मयि केनापि भावेन मनो लग्नं करोति या ।
याति मद्रूपतां साऽपि ममाऽभ्यासाद् यथा तथा ॥१०७॥
स्नेहकामभयक्रोधैरैक्यसौहार्दमोहनैः ।
भूत्वा मन्मयभावा तु याति मद्भवनं सती ॥१०८॥
स्नेहात् पितरौ ग्राम्याश्च कामाद् ब्रह्मप्रियास्तथा ।
भयाद् दैत्या दानवाश्च क्रोधाद् रणांगणे भटाः ॥१०९॥
ऐक्यात् कुटुम्बिनोऽसंख्याः सौहार्दाद् ऋषयोऽमलाः ।
मोहान्नार्यः कोटिशश्च भूत्वा मन्मयभावनाः ॥११०॥
मद्रूपगुणसामर्थ्यभावसंलग्नमानसाः ।
अनादिश्रीकृष्णनारायणं प्राप्ता हि मां प्रभुम् ॥१११॥
तस्मात् केनापि भावेन मनो मयि निवेशयेत् ।
सततं स्मरणं मे स्यात् तेन मद्भावमृच्छति ॥११२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां निर्गुणभक्तियोगनिरूपणनामा पञ्चचत्वारिंशोऽध्यायः ॥४५॥
N/A
References : N/A
Last Updated : May 03, 2021
TOP