संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २१४

द्वापरयुगसन्तानः - अध्यायः २१४

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं रथकारस्य शोभनम् ।
वृत्तान्तं मम भक्त्याढ्यं सुतारग्रामवासिनः ॥१॥
रङ्गमयीसरित्तीरे रथकारोऽतिपावनः ।
सुतारपुर्यामभवन्मम भक्तः कुटुम्बवान् ॥२॥
काष्ठयानानि सर्वाणि गन्त्रीश्च शकटानि च ।
अनश्चक्राणि सर्वाणि काष्ठासनानि मंचकान् ॥३॥
बृसीः खद्वाश्च पर्यंकान् कपटान् प्रकरोति सः ।
काष्ठपात्राणि रम्याणि काष्ठपुत्तलपुत्तलीः ॥४॥
कारुवर्यः करोत्येव नौका गजाश्वगोवृषान् ।
विविधान्युपकरणान्यपि स्वकलया तथा ॥५॥
करोति पेटिकाश्चापि पेटकान् सुचतुष्किकाः ।
तत्र सर्वत्र कार्येषु हरेर्नाम लिखत्यपि ॥६॥
स्वनाम हरिदासेति लिखित्वा च ततः परम् ।
हरिश्चेति हि सर्वेषु वस्तुष्वयं लिखत्यपि ॥७॥
गृहे च काष्ठशालायां लिलेख श्रीहरे प्रभो ।
गृहजालान्तरे काष्ठप्रतिमां परमात्मनः ॥८॥
अनादिश्रीकृष्णनारायणस्याऽस्थापयद्धि सः ।
प्रातः समूजयत्येनां प्रतिमां मम शोभनाम् ॥९॥
श्रिया साकं पुष्पपत्रचन्दनाऽक्षतकुंकुमैः ।
भूषावस्त्रद्रवधूपदीपनैवेद्यवारिभिः ॥१०॥
एवं सम्पूज्य नित्यं वै प्रसादं ग्रसते ततः ।
अन्येभ्यः सम्प्रदायाऽपि ततः कार्ये प्रवर्तते ॥११॥
उद्यमे स्मरति मां लक्ष्मीनारायणं प्रभुम् ।
हरिकृष्णं बालकृष्णं हरिदासः सुभक्तराट् ॥१२॥
अथैकदा विचारोऽस्याऽभवद् देवादिगोचरः ।
अन्योद्योगं विहायैव प्रतिमोद्योगमावहे ॥१३॥
यासां निर्माणकार्ये वै ध्यानं देवात्मकं भवेत् ।
स्मरणं चापि देवानां रूपरङ्गादिकर्मसु ॥१४॥
सततं स्यात् कीर्तनं चार्पणं मूर्तिमयं भवेत् ।
एवं विचार्य च हरिदासो हर्यर्थमुत्सुकः ॥१५॥
हरिमूर्तिमयोद्योगं समारभत भावतः ।
पुरुषोत्तममूर्तिं स व्यरचयत् सुशोभनाम् ॥१६॥
अनादिश्रीकृष्णनारायणमूर्तिं समाणिकीम् ।
राधाकृष्णयुगलं च लक्ष्मीनारायणोभयम् ॥१७॥
वासुदेवं श्रिया साकं विष्णुं च कमलायुतम् ।
नरं नारायणं चापि शेषशायिनरायणम् ॥१८॥
श्रीपतिं श्रीगरुडस्थं गजस्थं माणिकीस्थितम् ।
विमानस्थं रथस्थं चाऽरचयद् दिव्यशोभनम् ॥१९॥
दुःखहाश्रीसहितं च गोभिश्च सहितं प्रभुम् ।
मत्स्यं कूर्मं च वाराहं कपिलं च हरिं तथा ॥२०॥
वासुदेवं राजराजं पृथुं दत्तं नृसिंहकम् ।
हंसमृषभं परशुधरं यज्ञं च वामनम् ॥२१॥
रामं कुमारं व्यासं च हयग्रीवं च नारदम् ।
बालकृष्णं च बुद्धं च कल्किं नारायणीपतिम् ॥२॥
हरं सतीं च ब्रह्माणं सावित्रीं च सरस्वतीम् ।
प्रज्ञां पारावतीं दुर्गां गंगां च कालिकां तथा ॥२३॥
सूर्यं वह्निं चन्द्रमसं गणेशं कालभैरवम् ।
नन्दं सुनन्दं लिङ्गं चाऽरचयत् प्रतिमाः शुभाः ॥२४॥
काष्ठानां सवनानां वै ससर्जानां सागशाखिनाम् ।
वटानां शिंशपानां च करोति प्रतिमाः शुभाः ॥२५॥
स्वल्पा मध्याश्चोत्तमाश्च विविधाः स करोति वै ।
रंगशृंगारयुक्ताश्च संस्कृताश्चिह्नितत्वचः ॥२६॥
भजन् रटन् हरिं नाम निर्माति प्रतिमाः सदा ।
यासां रूपाणि हृदये भासन्ते न तदा तु सः ॥२७॥
रहो निषद्य मां स्मृत्वा रूपं धारयते मम ।
हृदये स्वे चैकतानो मन्मूर्तौ स प्रजायते ॥२८॥
समस्तेन्द्रियवृत्तीनां लयो भवति वै मयि ।
यथा तथा स यतते योगिवद् ध्यायति स्थिरः ॥२९॥
दिनार्धं वा दिनं याति समाधाविव तस्य वै ।
तथापि प्रेममग्नोऽसौ न निर्याति समाधितः ॥३०॥
मूर्तिश्चिन्तामणिकल्पा वर्तते माधवस्य यत् ।
तस्याः सकाशात् संकल्पाः पूर्णा भवन्ति धारिताः ॥३१॥
इतिनिश्चययुक्तस्य हरिदासस्य सर्वथा ।
यावन्नोदेति रूपं वै कर्तव्यप्रतिमात्मकम् ॥३२॥
तावत् समाधौ मन्मूर्तौ स्थिरस्तिष्ठति तन्मयः ।
इच्छन् द्रष्टुं नूत्नरूपं रचनार्हं सुशोभनम् ॥३३॥
अथ मे कृपया मूर्तेः रूपं यदाऽभिजायते ।
कर्तव्यप्रतिमारूपं दृष्ट्वा धृत्वा पुनः पुनः ॥३४॥
अभ्यस्य च ततो भक्तो बहिर्याति न चान्यथा ।
यादृग् दृष्टं स्वरूपं वै साध्यमूर्तेस्तथाविधम् ॥३५॥
काष्ठाच्छिल्पकलाभिश्च निष्कासयति शोभनम् ।
सौम्यं सुहास्यवदनं सर्वयोग्यसुशस्त्रकम् ॥३६॥
योग्यशृंगारभूषाढ्यं तथोत्करोति काष्ठजम् ।
दारवं सुन्दरं रूपं यादृशं हृदि वीक्षितम् ॥३७॥
तादृशं संविधायैव विक्रीणाति सुरंगितम् ।
एवं समस्तदेवानां हनुमद्यतियोगिनाम् ॥३८॥
साध्वीनां देवतानां च कृत्वा करोति विक्रयम् ।
ध्यायति देवताः सर्वा विशेषतस्तु वल्लभम् ॥३९॥
लक्ष्मीं नारायणं श्रीशं ध्यायति पुरुषोत्तमम् ।
ततोऽहं मत्प्रतिमातस्तदिष्टं पूरयाम्यपि ॥४०॥
ख्यातिस्तस्याऽभवल्लोके हरिदासो हरेस्तनुः ।
राजानश्चापि तस्माद्वै कारयन्तीष्टदेवताः ॥४१॥
हरिदासोऽपि कृत्वैव ददात्येव शुभोत्तमाः ।
हरिदासेन नियमः कृतो नारायणं विना ॥४२॥
नारायणांशं च विना मानवी प्रतिमा मया ।
न वै कार्या क्वचिद् भक्तिविरोधिनी तु मायिकी ॥४३॥
निम्नचिन्तनदा नैव कार्या मानुषपुत्तली ।
अभक्तानां नैव कार्या तथा मानुषपुत्तली ॥४४॥
भक्तानां तु शुभा कार्या तदिष्टदेवतायुता ।
एवमात्मनिवेदित्वं ररक्ष नित्यदा हि सः ॥४५॥
प्रसन्नोऽहं ततो लक्ष्मि परीक्षार्थमुपाययौ ।
चक्रवतीश्वरो भूत्वा तीर्थव्याजेन मार्गगः ॥४६॥
हस्त्यश्वरथवान् पारेसहस्रसैनिकान्वितः ।
राज्ञीदासीदासवर्गसहस्रपरिसेवितः ॥४७॥
रत्नहीरकहाराद्यैर्भूषितश्छत्रशोभितः ।
महाश्वेतगजपृष्ठे स्वर्णाम्बालिकयाऽन्विते ॥४८॥
निषण्णश्चामरैर्युऽक्तो जयशब्दाभिपूजितः ।
अस्त्रशस्त्रधरैश्चापि भटैः सम्परिवारितः ॥४९॥
गुर्वमात्यप्रधानाद्यैर्वन्दितः सेवितस्तथा ।
लक्ष्मि त्वं च मम पत्नी साम्राज्ञी शोभनोत्तमा ॥५०॥
सहस्रशोभनादासीयुवतीगणमण्डिता ।
मया प्रेरितभृत्याभिरक्षिता भृत्यपूजिता ॥५१॥
महासौवर्णरत्नाढ्यनरयानस्थिता तथा ।
उपाययिथ साकं वै मया पूर्वप्रप्रेषिता ॥५२॥
एवंविधोऽहं सम्राट् वै रङ्गमयीनदीतटे ।
तीर्थयात्रामिषेणाऽग्रे वृक्षषण्डे विनिर्ययौ ॥५३॥
तीर्थतटं महाशालग्रामतीर्थाऽभिधं वरम् ।
समाश्रित्य स्थिरतार्थमवातरं गजान्मम ॥५४॥
ससैन्योऽहं न्यवसंश्च स्नानपूजादिमानसः ।
अथाऽऽययुः सुताराख्यनगरस्थाः प्रजाजनाः ॥५५॥
गुरवश्चापि विप्राश्च भिक्षुकाः सकुतूहलाः ।
लिप्सया दक्षिणादेश्च विक्षणेच्छान्विता अपि ॥५६॥
आययौ नगरं सर्वे द्रष्टुं राजानमित्यपि ।
तथापि भक्तराजोऽसौ नाऽऽयाति मायिकं विदन् ॥५७॥
अथाऽहं तीर्थविधिना कृत्वा तीर्थं ततः परम् ।
दत्वा दानान्यनेकानि शुश्राव प्रतिमाः शुभाः ॥५८॥
ददर्श प्रतिमाश्चापि तीर्थतटे स्थिरीकृताः ।
पप्रच्छ मानवाँस्तत्रागतान् शिल्पिवरं प्रति ॥५९॥
ते प्राहुरत्र नगरे वर्तते शिल्पिराण्ननु ।
आकारितो मया दूतैर्हरिदासोऽपि नाययौ ॥६०॥
विना भागवतं सन्तं विना नारायणं हरिम् ।
विना भक्तं हरेरन्यस्याऽन्तिकं नैमि सोऽवदत् ॥६१॥
ततोऽहमुक्तवान्नाम मदीयं कृष्णदासवत् ।
श्रीकृष्णदासवर्याऽहं कृष्णभक्तो भवामि ह ॥६२॥
आयाहि शिल्पिवर्य त्वं प्रतिमार्थं मदिच्छया ।
दूतैर्गत्वा तथैवोक्तः सोऽपि श्रुत्वा ह्युपाययौ ॥६३॥
पुष्पहारान् गृहीत्वैव न्यधारयन्नृपोरसि ।
राजानं कृष्णभक्तं वै ज्ञात्वा नेमेऽतिभावतः ॥६४॥
राजाऽपि तस्य सम्मानं प्रचकार सुविज्ञवत् ।
शिल्पी लक्ष्मि मया राज्ञा पृष्टो मूर्तिविधापने ॥६५॥
क्रीणनार्थं च मूर्तीनां मूल्येऽपि पृष्ट एव सः ।
सोऽपि कृष्णस्य मूर्तिं वै ददौ मे राधया युताम् ॥६६॥
सहस्ररूप्यमुद्राभिस्तथा लक्ष्मीं नरायणम् ।
लब्ध्वाऽहं मुद्रिका दत्वा स्वर्णशतं तथोत्तरम् ॥६७॥
पारितोषिकमेवापि दत्वाऽकथयं मत्कृते ।
ममैकां मम राज्ञ्याश्च मूर्तिमेकां विधापय ॥६८॥
दास्ये यथेष्टं कनकं रत्नानि हीरकाँस्तथा ।
स प्राह राजन् भक्तोऽस्मि नारायणपरायणः ॥६९॥
नारायणविभूतीनां नारायणस्य वै तथा ।
देवानां देवतानां च करोमि प्रतिमाः सदा ॥७०॥
मानवीं न करोम्येव मायिकीं न करोमि च ।
यस्याः संक्लृप्तने वृत्तिर्नारायणं न चिन्तयेत् ॥७१॥
मायां च मायिकीं चापि पुत्तलीं न स्मरे क्वचित् ।
तव राजन्महिष्याश्च पुत्तल्याः करणे तु मे ॥७२॥
स्मरणं मानवं स्याद्वै भक्तौ क्षतिर्भवेन्मम ।
ततोऽहं न करिष्ये वै पुत्तलीं ते क्षमस्व माम् ॥७३॥
यद्यपि त्वं प्रभक्तोऽसि तथापि राजसोऽसि वै ।
राज्ञो चेयं महामाया मोहिनी वर्तते तव ॥७४॥
तत्स्मृतिं न करिष्येऽहं विना लक्ष्मीं नरायणम् ।
यदि लक्ष्म्या समं राज्ञी त्वं साकं माधवेन तु ॥७५॥
भक्ताविवोभौ तिष्ठन्तौ सेवायां स्तश्च रोचते ।
ते यदि तर्हि कुर्वेऽहं मूर्तिं श्रीपतिना सह ॥७६॥
केवलां नैव कुर्वेऽहं नेच्छामि पारितोषिकम् ।
नमस्ते च क्षमस्वाऽपि राजा मान्यः प्रजाजनैः ॥७७॥
इत्युक्त्वा भक्तराट् लक्ष्मि हरिदासो गृहं ययौ ।
राजाऽहं मम भक्तं सम्परीक्ष्यैवं तु पृष्ठगः ॥७८॥
पद्भ्यां तस्य गृहं प्राप्तो लोकाश्चाश्चर्यमाप्नुवन् ।
ददौ स भक्तराण्मह्यं काष्ठासनं विवेकतः ॥७९॥
अन्नं जलं श्रीहरयेऽर्पितं ददावदर्शयत् ।
प्रतिमा मे 'समस्ताश्च ध्यानार्थं स उपाविशत् ॥८०॥
अविगणय्य मे भीतिं धैर्यं धृत्वा हरेः शुभम् ।
समाधौ हृदये मग्नस्तदाऽहं हृदयेऽभवम् ॥८१॥
राजरूपस्तथा लक्ष्मी राज्ञीरूपा यथायथम् ।
लक्ष्मीं नारायणं मां च ज्ञात्वा शीघ्रं समुत्थितः ॥८२॥
स्वागतं दण्डवच्चापि चक्रे प्रदक्षिणं तु माम् ।
कीर्तनं सहसा चक्रे ननर्त मोदविह्वलः ॥८३॥
अथाऽन्ये तु जनास्तत्र दर्शका येऽभवँस्तदा ।
सर्वे दृष्ट्वा महाश्चर्यं श्रुत्वा भक्तोदितं तथा ॥८४॥
नारायणो हि सम्राण्मे भूत्वा गृहमुपागतः ।
लक्ष्मीर्भूत्वा महाराज्ञी चाययौ भाग्यवानहम् ॥८५॥
अहो भाग्यमहो भाग्यं सुतारग्रामवासिनाम् ।
अहो भाग्यं मम पत्न्याः श्रीमानव्याः शुभोत्तमम् ॥८६॥
कुटुम्बस्य च मे भाग्यं भृत्यानां भृत्ययोषिताम् ।
भाग्यं श्रेष्ठतमं त्वद्य यद्गृहे वल्लभोहरिः ॥८७॥
यद्गृहे श्रीः समायाता राज्ञीरूपा हरेः प्रिया ।
श्रीमानव्याः श्रेयसे च हरिदासस्य मुक्तये ॥८८॥
अहो प्रतिमानिर्मातुः फलं साक्षाद्धरिर्गृहे ।
आत्मनिवेदितालाभश्चाहो साक्षात्प्रभुर्गृहे ॥८९॥
कला मे सुकला जाता जीवनं मे सुजीवनम् ।
प्राप्तः साक्षान्मया कृष्णनारायणः श्रिया युतः ॥९०॥
श्रुत्वैवं जनताश्चापि पुपूजुः श्रीपतिं नृपम् ।
दण्डवत् ताः प्रचक्रुश्च भक्तः पपात पादयोः ॥९१॥
तावल्लक्ष्मि मया नैजं रूपं चतुर्भुजं परम् ।
प्रकाशितं त्वया लक्ष्म्या साकं दिव्यमनोहरम् ॥९२॥
नदीतटे तु यत् सैन्यं सर्वं तत्र क्षणान्तरे ।
तत्तिरोभावितं तत्र महाश्चर्यं ततोऽभवत् ॥९३॥
गृहेऽहं भगवान् साक्षाद् दत्वा मे दर्शनं ततः ।
लब्ध्वा पूजां वरदानं मोक्षार्थं सम्प्रदाय च ॥९४॥
प्रसन्नतां समर्प्यैव ततस्तूर्णं त्वया सह ।
क्षणं स्थित्वा जगादाऽहं भक्ताय चात्मवेदिने ॥९५॥
यो मामेवं हि भजते तत्कृते सर्वथा त्वहम् ।
कल्पलतासमश्चाऽस्मि पूरयामि मनोरथान् ॥९६॥
शिल्पिनो ये मम मूर्तिं मम ध्यानपरायणाः ।
लोभस्वार्थविहीनाश्च करिष्यन्ति शुभाशयाः ॥९७॥
तेषां मोक्षं करिष्यामि यथा ते भक्तराडिह ।
इत्युक्त्वा स्वस्वरूपं च कृष्णे लक्ष्म्यां गृहान्तरे ॥९८॥
पूजनार्थं स्थापिते च स्थापितायां तिरोभवम् ।
अथ भक्तोऽपि नित्यं मां ध्यायति स्मरते तथा ॥९९॥
काले 'प्राप्ते विमानेन तद्गृहं समुपस्थितः ।
श्रीमानवीं स्त्रियं तस्य हरिदासं च तं तथा ॥१००॥
आरोहयित्वा दिव्यौ तौ कृत्वाऽनयं ममाऽक्षरम् ।
अन्यान् कालेन तद्वच्चाऽनयं धामाऽक्षरं मम ॥१०१॥
एवं लक्ष्मि मया भक्तो रथकारो हि तारिताः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद् ध्रुवा ॥१०२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हरिदासाख्यस्य रथकारस्य भक्त्या सकुटुम्बस्य भगवता मोक्षः कृत इत्यादिनिरूपणनामा चतुर्दशाधिकद्विशततमोऽध्यायः ॥२१४॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP