संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ११२

द्वापरयुगसन्तानः - अध्यायः ११२

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रिं! त्वं गौर्देया विधिना सदा ।
गौर्बोध्या त्रिविधा श्रेष्ठा पृथ्वी धेनुः सरस्वती ॥१॥
शिष्याय देया विद्यागौर्ब्राह्मीविद्या मुमुक्षवे ।
कलाज्ञानं शिल्पिने च, भौतिकं रसवेदिने ॥२॥
खज्ञानं गणकायाऽपि नार्यै पाककलामपि ।
शास्त्रज्ञानं च विदुषे देयं गोभूसमं हि तत् ॥३॥
धेनुदानं प्रदातव्यं मातरो धेनवः सदा ।
वृद्धिमाकांक्षता नित्यं गावः कार्याः प्रदक्षिणाः ॥४॥
सन्ताड्या नहि पादेन देव्यः पूज्याः सुमङ्गलाः ।
गोवाहका गवादाश्च राक्षसा निरयंगमाः ॥५॥
तृषिताः क्षुधिता गावो जनं हन्युः सबान्धवम् ।
पितृसद्मानि सौधाश्च देवतायतनानि च ॥६॥
पूयन्ते शकृता यासां पूतं किमधिकं ततः ।
घासमुष्टिं चान्नमुष्टिं वर्षं दद्याद् गवे तु यः ॥७॥
अकृत्वा स्वयमाहारं व्रतं तत् सार्वकामिकम् ।
फलं पुत्रान् यशोऽर्थाश्च श्रियं चाप्यधिगच्छति ॥८॥
विनश्यत्यशुभं तस्य दुःस्वप्नं नैव जायते ।
दुष्टाय गौर्न दातव्या लुब्धाय नास्तिकाय न ॥९॥
वत्से दयारहिताय क्रूराय घातिनेऽपि च ।
घाससेवारहिताय न दातव्या कदाचन ॥१०॥
गृहस्थानरहिताय तृणादिरहिताय च ।
भक्तिधर्मविहीनाय न दातव्या कदाचन ॥११॥
साधवे बहुपुत्राय भिक्षवे देवतार्थिने ।
क्षेत्रवते प्रदातव्या तृणसेवाकृते च गौः ॥१२॥
गोसेवा गुरुसेवा च पितृसेवा सदा रमे! ।
घ्नन्ति पापप्रपुञ्जानि तारयन्ति समर्पकान् ॥१३॥
सतां समागमो लक्ष्मि तथा तारयति ध्रुवः ।
अलाभे तु गवां दद्याद् घृतधेनुं शुभावहाम् ॥१४॥
तस्यैता घृतवाहिन्यः क्षरन्ति वत्सला इव ।
घृतालाभे क्षीरधेनुं दद्यादुत्साहश्रद्धया ॥१५॥
स कष्टात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ।
क्षीरालाभे तिलधेनुं दद्यात्तिलैः प्रमोदते ॥१६॥
तिलालाभे फलधेनुं दद्यात् फलैः प्रमोदते ।
फलालाभे कणधेनुं दद्यादन्नैः प्रमोदते ॥१७॥
अन्नालाभे गूडधेनुं दद्यान्मिष्टैः प्रमोदते ।
गूडाऽभावेऽम्बरधेनुं दद्याद् वस्त्रैः प्रमोदते ॥१८॥
सर्वाभावे जलधेनुं दद्यान्नदीषु मोदते ।
एकापि कपिला दत्ताऽमृताऽऽपगाऽस्य जायते ॥१९॥
अप्येका साधवे दत्ता देवतार्चनयोगिनी ।
प्रापयत्येवाऽक्षरं मे दातारं धाम शाश्वतम् ॥२०॥
गोप्रदाता यत्र याति लोकास्ते नित्यमोदिनः ।
न तत्र क्रमते कालो न जरा न च पावकः ॥२१॥
अशुभं तत्र नाऽऽस्ते च न व्याधिर्न च वै क्लमः ।
यदिच्छन्त्युपतिष्ठन्ति गवां पुण्यबलेन वै ॥२२॥
कामगाः कामचारिण्यो गावस्तत्रोपयन्ति च ।
वाप्यः सरांसि सरितो घृतदुग्धमयास्तथा ॥२३॥
गृहाणि पर्वताश्चारण्यानि वनानि यन्ति च ।
मनोज्ञमिष्टं मिष्टं च रसोपेतं प्रपद्यते ॥२४॥
तत्र सर्वसहाः क्षान्ता गोदातारः प्रयान्ति ह ।
गुरुशुश्रूषका यान्ति दानिनोऽतिथिपूजकाः ॥२५॥
न पापा गोप्रहर्तारः पुण्यलोकं प्रयन्ति वै ।
दायद्रव्येण गां क्रीत्वा प्रयच्छेच्छ्रेयसां कृते ॥२६॥
श्रमाप्तनाणकैः क्रीत्वाऽर्पयेन्मोक्षार्थमेव तु ।
द्यूते जित्वा धनं तेन क्रीत्वा दद्यात् स्वराप्तये ॥२७॥
दायभागां च गां दद्याद् दद्याद् दानाऽऽगतां च वा ।
सत्यव्रतस्य गोदातुः सहस्रगोसमं फलम् ॥२८॥
नित्यं प्रातर्नमेद् गां च तृणग्रासाँस्तथाऽर्पयेत् ।
जलं प्रपाययेद् यश्च राजसूयफलं लभेत् ॥२९॥
अनाहारोऽग्रभक्तं यो गवे दद्याद्धि गोव्रती ।
वर्षेण गोसहस्रस्य फलं लभते सेवया ॥३०॥
एकभक्तो हि गां क्रीत्वा दद्याद्वै गुरवे स तु ।
तस्या यावन्ति रोमाणि तावद्गोफलमाप्नुयात् ॥३१॥
यस्त्वात्मविक्रयं कृत्वा धेनुं क्रीत्वा प्रयच्छति ।
रोम्णि रोम्णि धेनुदातुर्लोका भवन्ति चाक्षयाः ॥३२॥
अरण्ये गां भूसुरं च साधुं यस्त्रायतीति सः ।
अश्वमेधक्रतोस्तुल्यं फलं लभते मोदते ॥३३॥
मृत्युकाले यथेच्छाऽस्य भवेद् दिव्यविभूतिगा ।
तत्सर्वं समवाप्नोति परित्राणेन रक्षकः ॥३४॥
सुवर्णं परमं दानं दक्षिणा च गवा सह ।
दातव्या वै यथाशक्ति स्मृद्धिदा पावनी सदा ॥३५॥
दरिद्रो निर्धनश्चैवाऽपरिग्रहस्तु यो भवेत् ।
कुर्याद् व्रतं व्रतान्येव लभेत स परं पदम् ॥३६॥
इन्द्रियाणां नियमो वै व्रतं श्रेष्ठतमं रमे! ।
जितेन्द्रियो ब्रह्मभक्तो ब्रह्मलोके प्रमोदते ॥३७॥
दमः सुखप्रदो दान्ता निर्वृत्ता विषयव्रजात् ।
प्रत्याहृत्य मनोवेगं ब्रह्मणि यान्ति पाविताः ॥३८॥
विक्रमेण च तपसा यज्ञैर्दानैः प्रसेवया ।
भक्त्या शान्त्या विद्यया च सन्ति लोकाः सनातनाः ॥३९॥
ऋषिलोकान् देवलोकान् सिद्धलोकान् गवां गृहान् ।
मुक्तलोकानीशलोकान् शीलव्रताः प्रयान्ति हि ॥४०॥
अध्यापको होमकर्ता गुरुसेवापरस्तथा ।
सतीसाध्वीपूजकश्च याति धामाऽक्षरं मम ॥४१॥
भक्तौ धर्मे व्रते शूरा दानेऽध्ययनकर्मणि ।
यजने संगरे शुश्रूषायां चोपार्जनेऽपि च ॥४२॥
दमे शूराः ऋते ज्ञानेऽरण्ये त्यागे गृहेऽपि च ।
शमे च नियमे शान्तावार्जवे शूरकर्मिणः ॥४३॥
गुरोर्मातुः पितुः पत्युः शुश्रूषायां तथाऽपरे ।
भैक्ष्येऽतिथौ तपस्येव शूराः सन्ति च केचन ॥४४॥
सर्वे यान्त्यैश्वरान् लोकान् यथाकर्मफलभृतान् ।
सत्यव्रतिनो भक्ताश्च यान्ति वैकुण्ठमुत्तमम् ॥४५॥
आजन्ममरणाद् यस्तु ब्रह्मचारी भवेदिह ।
न तस्य किञ्चिदप्राप्यं नारायणस्य वै यथा ॥४६॥
ब्रह्मचर्यं दहेद् दोषान् सर्वपापान्युपासितम् ।
ब्रह्मधामगतः स्याद्वै ब्रह्मचारी बलैधितः ॥४७॥
मातरं पितरं वाऽपि गुरुमाचार्यमच्युतम् ।
सेवते यस्तस्य धामाऽक्षरं मे शाश्वतं पदम् ॥४८॥
नाऽबीजं जायते किञ्चिन्न बीजेन विना फलम् ।
यादृशं वपते बीजं लभते तादृशं फलम् ॥४९॥
बीजं पुरुषाकरो वै सेवात्मको वृषात्मकः ।
क्षेत्रं सद्गुरवो माता पिता गौदैवतेश्वरः ॥५०॥
भक्तश्च कर्षुको यादृग् वपते चैति तादृशम् ।
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ॥५१॥
कृतं लभते सर्वत्र स्वर्गं स्वर्गसुखानि च ।
रूपं भाग्यं प्रसौभाग्यं रत्नानि विविधानि च ॥५२॥
तारकास्त्रिदशाः सिद्धा यक्षाश्चन्द्रार्कमारुताः ।
सर्वे कृतेन धर्मेण मानुष्याद् देवतां गताः ॥५३॥
नाऽदातारं भजन्त्यर्था निष्क्रियं न भजन्त्यपि ।
अपुण्यं न भजन्त्यर्था भजन्ति त्वर्थकारिणम् ॥५४॥
अकृत्वा मानुषं यत्नं दैवमात्रं प्रतीक्षते ।
न तस्य सिद्धिः कमले! क्लीबपत्न्या इवोभये ॥५५॥
सेवायां शूरता यस्य बलं शीलमयं तथा ।
यत्नो दैवं यस्य चास्ते सिद्धिस्तस्याऽञ्जलिस्थिता ॥५६॥
न केवलं रमे! दैवं पुष्णात्यवति रक्षति ।
निजयत्नसमायुक्तं दैवं साधु विवर्धते ॥५७॥
निःस्नेहः खलु वै दीपः स्वयमेव प्रशाम्यति ।
विना पुण्यं विना यत्नं भाग्यं स्वयं प्रशाम्यति ॥५८॥
तस्माल्लक्ष्मि! सदा यत्नः कर्तव्यस्तपसि व्रते ।
पुण्ये दानेऽर्जने भक्तौ सेवायां भूतिमिच्छता ॥५९॥
धनं विपुलं भोगांश्च योषितो भोजनानि च ।
पुण्यहीनो न वै भोक्तुं समर्थो जायते क्वचित् ॥६०॥
व्ययशीलं दानशीलं चोपैति विपुलं धनम् ।
पूर्वदत्तेन चायाति विना यत्नं क्वचित् प्रिये ॥६१॥
दातव्यं सर्वथा सर्वं यद् यदिष्टतमं भवेत् ।
दानस्यैव फलं भुंक्ते लोकोऽयं कर्मबन्धनः ॥६२॥
नाऽदत्ता प्राप्यते लक्ष्मीर्नाऽदत्ता प्राप्यते प्रिया ।
नाऽदत्ता प्राप्यते धेनुर्नाऽदत्ता प्राप्यते मही ॥६३॥
नाऽदत्ता प्राप्यते बुद्धिर्नाऽदत्ता स्मृद्धिराप्यते ।
नाऽकृता प्राप्यते सेवा नाऽदत्तं प्राप्यते सुखम् ॥६४॥
नाऽकृतं प्राप्यते चाऽऽयुर्नाऽदत्तं राज्यमाप्यते ।
नाऽदत्तं चाप्यते लक्ष्मि सुखमैन्द्रियिकं बहु ॥६५॥
तस्माद् दानानि देयानि भूषाम्बरगृहाणि च ।
भोज्यप्रेयप्रभोग्यानि यानि स्वेष्टतमानि वै ॥६६॥
मया सृष्टीः समुत्पाद्याऽवतारेश्वरदेवताः ।
कन्यादानैस्तोषिता वै तत्फलं स्त्र्यर्बुदाब्जकम् ॥६७॥
यद्यप्यहं समर्थोऽस्मि नित्यपुण्याश्रयो हरिः ।
ममांऽगात् प्रमद्य वामाज्जायन्तेऽर्बुदकोटयः ॥६८॥
न मे दानफलापेक्षा समर्थस्य परात्मनः ।
तथापि लोकरक्षार्थं निदर्शनं प्रदर्शितम् ॥६९॥
सर्वं जगच्छरीरं मे नरा नार्योऽर्धमूर्तयः ।
नरा नारायणार्धा मे नार्यो मेऽर्धांगनास्तथा ॥७०॥
एवं संसारनिर्वाहो दानेनाऽऽसाद्यते फलम् ।
तपोनियमसंयुक्ताः साधवः संशितव्रताः ॥७१॥
फलं प्राप्य भवन्त्येव नारायणसमेश्वराः ।
येन लोकास्त्रयः सृष्टा मया श्रीपतिना पुरा ॥७२॥
सोऽहं तपामि क्षीरोदे बदर्यां च चिरं रमे ।
सोऽहं कृत्वा दर्शयामि कुर्वन्तु तप उत्तमम् ॥७३॥
वामनोऽहं क्षितिं प्राप्य पर्शुरामस्तथा पृथुः ।
दानं पृथ्व्याश्चकारैव रामादित्योऽपि वै पुरा ॥७४॥
शिक्षयामास भगवान् भूत्वाऽपि दानमुत्तमम् ।
प्रजाभ्यो यज्ञकार्यैश्च यज्ञनारायणोऽप्यहम् ॥७५॥
मया राधा प्रदत्ता वै श्रीकृष्णाय मदात्मने ।
नारायणी तथा दत्ता नारायणात्मने तु मे ॥७६॥
भूर्दत्ता च वराहाय श्रीर्दत्ता विष्णवे पुरा ।
लक्ष्मीर्महाविष्णवे च सावित्री ब्रह्मणेऽर्पिता ॥७७॥
प्रकृतिर्या मूलरूपा पुरुषाय पुरार्पिता ।
एवं कृत्वा संकलनं दानरीतिः प्रवर्तिता ॥७८॥
तस्माल्लक्ष्मि दानफलं प्रमोदाः सर्व एव ह ।
येन येन शरीरेण यद्यद् दानं करोति यः ॥७९॥
तेन तेन शरीरेण तत्तत् फलमुपाश्नुते ।
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ॥८०॥
तस्यां तस्यामवस्थायां भुंक्ते कर्ता तु तत्फलम् ।
चक्षुर्दद्यान्मनोदद्याद् वाचं दद्यादृतंभराम् ॥८१॥
आत्मानं सम्प्रदद्याद्वै सेवेत सततं गुरुम् ।
एवं दानं परं प्रोक्तं देहं दद्याद् यथोचितम् ॥८२॥
एवमपि प्रदानेन तरत्यब्धिं हि कर्मणाम् ।
शृण्वत्र कथयाम्येव ज्ञानेन दानमुत्तमम् ॥८३॥
यत्फलं ब्रह्मलोकाख्यं प्राप्ता ब्रह्मसती पुरा ।
योगिन्यासीद् ब्रह्मसती ब्राह्मणी सा कुमारिका ॥८४॥
सोमनाथे शुभे तीर्थे भजमाना तु शंकरम् ।
युवती च सुरूपा च शीलयुक्ता तपोधना ॥८५॥
सरस्वत्यां करोत्येषा त्रिषवणं जपादिकम् ।
तैर्थिकाः सूर्यतुल्यां तां पश्यन्ति यन्ति मुग्धताम् ॥८६॥
सा न दृष्टिं ददात्येव क्वापि कुत्रापि सर्वथा ।
एकदा तां तु संवीक्ष्य दैत्यः स्थण्डिलघोषकः ॥८७॥
उज्जहार बलेनैव व्योम्नाऽब्धौ निजमन्दिरम् ।
तस्या भोगं प्रसह्यापि चक्रे वै ब्रह्मयोषितः ॥८८॥
साऽप्यनाथा च निर्विण्णा ज्ञात्री देहविरागिणी ।
शोकं तथाऽप्यशोकं च मेने चात्मप्रतिष्ठता ॥८९॥
शीलं व्रतं सदा रक्ष्यं तद्भंगः शोक एव सः ।
आपत्काले न चेद् रक्षा देहोऽहं नेत्यशोचनम् ॥९०॥
विवेकेन शरीराद्वै भिन्नात्मानममन्यत ।
देहं भिन्नं तथा मत्वा शोकं जहौ पराश्रया ॥९१॥
एवं विधां तु तां वीक्ष्य दैत्यः पप्रच्छ तां मुहुः ।
कथं न कुरुषे शोकं प्रधर्षिताऽपि भामिनि! ॥९२॥
सा तु प्राह मलिनोऽयं देहो वै धर्षितस्त्वया ।
नाऽहं प्रधर्षिता दैत्य! शुद्धाऽहं चेतनात्मिका ॥९३॥
त्वयि नारायणश्चास्ते ब्रह्म यत्परमः प्रभुः ।
तदधिष्ठितदेहेन भुक्तो देहो न चेतनः ॥९४॥
त्वमज्ञो वर्तसे दैत्य! नाऽहमज्ञाऽऽपदि स्थिता ।
शोचनीयः सदा देहस्तं शोचाम्यवशा कथम् ॥९५॥
आत्मा न स्त्री पुमान्नैव पृथ्वीपाषाणरूपिणौ ।
देहौ तथाऽभिधानो वै तत्र का परिदेवना ॥९६॥
श्रुत्वैवं स्थण्डिलघोषस्त्वाश्चर्यं परमं ययौ ।
ज्ञानमासाद्य च ततो ययाचे कर्मणः क्षमाम् ॥९७॥
तां स्कन्धे स्वे निधायैव सोमनाथं समानयत् ।
ज्ञानयोगेन दैत्योऽपि तपोभक्तिं चकार ह ॥९८॥
तस्या योगेन तपसा शुद्धो भूत्वा हरस्य सः ।
कालेन गणतां प्राप्तो ययौ कैलासमुत्तम् ॥९९॥
ब्रह्मसती शुशोचापि यत्र मे परवश्यता ।
तत्राऽधीनाऽभवं चाऽब्धौ दैत्यहस्तगता तदा ॥१००॥
ज्ञानाग्निना मया पापं ज्वालितं किन्तु लौकिकम् ।
प्रायश्चित्तं विधातव्यं न लुप्येत वृषो यथा ॥१०१॥
सा ययौ योगिनं शान्तं किरीटिनं हराश्रितम् ।
पप्रच्छ शौचं शीलस्य किरीट्युवाच तां तदा ॥१०२॥
रूपं ते विद्यते साध्वि! शंकरस्यापि मोहकम् ।
तस्मात् पुनः पुनर्विघ्नं ते भविष्यति यौवने ॥१०३॥
तस्मादाश्रय कान्तं त्वं स्वेष्टं ब्रह्मविदं जनम् ।
येन विघ्नविलोपः स्यात् पापं शान्तं भवेत्ततः ॥१०४॥
देहशुद्ध्या तथा चैवोद्वाहेन विधिनाऽपि च ।
प्रायश्चित्तं तवैव स्याद् राजस्वल्यं च शोधकम् ॥१०५॥
इत्युक्ता सा ज्ञानकोशा भक्ता तमेव योगिनम् ।
किरीट्याख्यं पतिं वव्रे गुरुं पतिं चकार सा ॥१०६॥
दीक्षां जग्राह गार्हस्थ्यशोभनां शंकरान्तिके ।
पार्वत्या कृततिलका दत्तसौभाग्यचन्द्रिका ॥१०७॥
समर्था योगिनी जाता दिव्या शंभोः शुभाशिषा ।
एवं देहेनाऽर्पिता सा गणपत्नी सुयोगिनी ॥१०८॥
दिव्या सामर्थ्यसम्पन्ना व्यवर्तत हि शाश्वती ।
एकदा शंभुना साकं विष्णुलोकं गता सती ॥१०९॥
तया दासीस्वरूपा सा नीता ब्रह्मसती सह ।
नारायणं तु मां दृष्ट्वा मुमोह स च भामिनी ॥११०॥
सत्या निवेदिता मह्यं सा मुक्ता संबभूव ह ।
दिव्यरूपेण वै नित्या रमया सह राजते ॥१११॥
ब्राह्मीसतीतिनाम्नैव पत्नी मे साऽभवत्ततः ।
अपरेणाऽपि रूपेण किरीटस्यापि भामिनी ॥११२॥
वर्तते नित्यकैलासे मोदते शंभुसेविका ।
इत्येतत् कथितं लक्ष्मि रहस्यं तेऽर्पणे विधौ ॥११३॥
देहदानं प्रकर्तव्यं लभ्यते चेन्नरायणः ।
नारायणप्रदाता च लभ्यते मोक्षदः प्रभुः ॥११४॥
देहदानं विधातव्यं मोक्षार्थं सार्वकालिकम् ।
अन्यैर्यो भुज्यते देहो भुज्यतां परमात्मना ॥११५॥
तदर्पणेन वै लक्ष्मि लक्ष्मीतां लभते सती ।
पठनाच्छ्रवणाच्चाऽस्य भुक्तिर्मुक्तिर्गतिर्भवेत् ॥११६॥
रहस्यं परमं त्वेतत् कथितं ते पुराऽभवत् ।
ततश्चान्या रूपवत्यश्चार्पणं चक्रुरात्मनाम् ॥११७॥
नारायणेऽभवन् साध्व्यः कोटिशो वै शुभांगनाः ।
मम योगेन संसारं तीर्त्वा ब्रह्मपदं ययुः ॥११८॥
ब्रह्मप्रियाश्च ताः सर्वा वर्तन्तेऽत्र तवाऽग्रतः ।
ब्रह्मप्रियासु योगिन्यो मुक्तान्यो दिव्यविग्रहाः ॥११९॥
अपात्राभ्यो न दातव्यं ज्ञानमेतन्नरायणि ।
श्रुत्वा च निन्दिकाभ्यश्च न दातव्यं कदाचन ॥१२०॥
मोक्षार्थकृतसर्वस्वाभ्यो दातव्यं शुभं त्विदम् ।
यत्प्राप्य मत्पदं दिव्यं लभन्ते मामनुश्रिताः ॥१२१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गोदानगोकल्पदानविविधव्रताचारार्पणफलनिरूपणे ब्रह्मसत्या योगिन्या देहदाननिदर्शनं मोक्षणं चेत्यादिनिरूपणनामा द्वादशाधिकशततमोऽध्यायः ॥११२॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP