संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ११३

द्वापरयुगसन्तानः - अध्यायः ११३

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं तपांसि विविधानि वै ।
केवलानि तथा भक्तियुतानि प्रवदामि ते ॥१॥
यत्कृतेन भवेत् स्वर्गं पुण्यं च सम्पदोऽमलाः ।
भक्तियुक्तेन तेनैव लभ्यते धाम मेऽक्षरम् ॥२॥
औदार्यं परमं प्रोक्तं तपो व्ययात्मकं सदा ।
धनं दद्याद् वनं दद्याद् गृहं दद्याच्छुभाश्रयम् ॥३॥
कुलं दद्यात् कणान् दद्यादौदार्ये दानमास्थितम् ।
उदारस्य भवेल्लोको दानिनां धनदाधिकः ॥४॥
भक्तियुक्तं महौदार्यं मम धामप्रदं भवेत् ।
स्थण्डिले शयनं नित्यं तपः परमकं मतम् ॥५॥
तस्य फलं महत् स्वर्गे प्रासादाः स्वर्णशोभनाः ।
शयनानि च रम्याणि जायन्तेऽमृतदान्यपि ॥६॥
चीरवल्कलधारित्वं तपः परं प्रकथ्यते ।
फलं तस्य भवेद् रम्यवासांस्याभरणानि च ॥७॥
योगचित्तं तपःश्रेष्ठं फलं विमानकानि वै ।
वाहनानि तथा दिव्याः सिद्धयः स्वर्गवासिता ॥८॥
अग्नितापस्तपः श्रेष्ठं फलं राज्यं दिवं भवेत् ।
रसानां वर्जनं श्रेष्ठं तपस्तस्य फलं शुभम् ॥९॥
सौभाग्यं तु भवेन्नार्या गृहं रसाऽभिपूरितम् ।
अनामिषं व्रतं श्रेष्ठं फलं वंशसुतादिकम् ॥१०॥
अवाक्शिरा वसेद् यश्च तस्येन्द्रपदमुत्तमम् ।
उदवासं वसेद् यश्च चन्द्रलोकोऽस्य सत्फलम् ॥११॥
ब्रह्मचारी भवेद् यः स ब्रह्मलोकं प्रयाति वै ।
पाद्यमासनमन्नं च जलमाश्रयमित्यपि ॥१२॥
दद्यादतिथये यज्ञः पञ्चांगोऽयं तपः परम् ।
एतानि भक्तियुक्तानि ममाऽक्षरप्रदानि वै ॥१३॥
देवार्थे च गवार्थे च गुर्वर्थे वीरशायनम् ।
तपः प्राणप्रदानं तन्मोक्षदं स्वर्गदं परम् ॥१४॥
मौनं व्रतं परं प्रोक्तं चाऽद्रोहः परमं तपः ।
अनिन्दा चाऽवितण्डा च तपः परमकं मतम् ॥१५॥
तेनाऽविच्छिन्नगतिकश्चाज्ञापको भवेद् दिवि ।
उपवासस्तपः श्रेष्ठमुपभोगाः फलं मतम् ॥१६॥
संयमेन तु शीलेन दीर्घायुर्बलवान् भवेत् ।
अहिंसा च तपः श्रेष्ठमैश्वर्याऽऽरोग्यरूपदा ॥१७॥
फलमूलाशनं चापि तपो राज्यप्रदं मतम् ।
पर्णादस्य भवेत् स्वर्गं विघसाशी हरिं व्रजेत् ॥१८॥
प्रायोपवेशिनः स्याद्वै सर्वत्र सुखमुत्तमम् ।
शाकदः शाकवान् स्याच्च महोद्यानसमन्वितः ॥१९॥
गोप्रदो धेनुमान् स्याच्च तृणादोऽमृतभाग् भवेत् ।
स्नानं त्रिषवणं श्रेष्ठतरं तपः फलं परम् ॥२०॥
दिव्याः स्त्रियो भवन्त्यस्य त्रिकालस्नायिनः किल ।
वाय्वाहारः तपः श्रेष्ठं फलं यज्ञफलं भवेत् ॥२१॥
सत्यव्रतं तपः श्रेष्ठं स्वर्गं रत्नान्वितं भवेत् ।
दीक्षा तपः श्रेष्ठतमं कुलं श्रेष्ठतमं भवेत् ॥२२॥
जलाशनं तपः श्रेष्ठं सदा सुधाशनं फलम् ।
अग्निहोत्रं तपः श्रेष्ठं चाग्निलोकं फलं भवेत् ॥२३॥
मन्त्रजापस्तपः श्रेष्ठं राज्यं स्वर्गं च मोक्षणम् ।
एकभुक्तं व्रतं श्रेष्ठं स्वर्गोत्तमं फलं मतम् ॥२४॥
दीक्षोपवासः कमले तपः स्वर्गप्रदं मतम् ।
अभिषेकस्तपः श्रेष्ठं गुरुत्वापादकं हि तत् ॥२५॥
विद्यार्जनं तपः श्रेष्ठं बार्हस्पत्यं स विन्दति ।
मानसं तु चरन् धर्मं धर्मलोकं समश्नुते ॥२६॥
तृष्णानाशस्तपः श्रेष्ठं सुखं वैकुण्ठसदृशम् ।
पूजनं च तपो नित्यं यायाद् गोलोकधाम सः ॥२७॥
पिता ब्रह्मा प्रसूः पृथ्वी गुरुर्ब्रह्म सनातनम् ।
त्रयः सन्तोषिता येन सर्वं तेन कृतं तपः ॥२८॥
सर्वे धर्माः कृतास्तेन व्रतान्यपि कृतानि च ।
भक्त्या युक्तानि चैतानि ममाऽऽक्षरप्रदानि वै ॥२९॥
नार्या कृताः सर्वधर्माः पतिर्यया प्रसादितः ।
पतिनाऽपि कृता धर्मा येन पत्नी प्रतोषिता ॥३०॥
राज्ञा सर्वे कृता धर्मा येन प्रजाः प्रतोषिताः ।
प्रजाभिश्च कृता धर्मा याभिर्नारायणोऽर्चितः ॥३१॥
हिंसकस्य वृथा मन्त्रो मखो वृथा ह्यदक्षिणः ।
विना मन्त्रं वृथा होमः सत्यहीनं व्रतं मृषा ॥३२॥
भावं विना वृथा सेवोपास्तिर्वृथा हरिं विना ।
शीलं विना वृथा धर्मो वृथाऽस्तित्वं सुखं विना ॥३३॥
साधुं विना वृथा दानं भक्तिं विना वृथा जनिः ।
वृथा गृहं विना लक्ष्मीं विना मोक्षं वृथा मृतिः ॥३४॥
विना पात्रं वृथा ज्ञानं जयं विना वृथा मृधः ।
वृथा सर्वं विना स्नेहं कृष्णं विना वृथाऽर्जनम् ॥३५॥
सन्तं विना वृथा वासः पुष्टिः प्रसूं विना मृषा ।
वृथा दृष्टिर्विना देवं वृथा कर्णो विना कथाम् ॥३६॥
वृथा त्वक् श्रीहरेः स्पर्शं विना रूपवती ह्यपि ।
वृथा जिह्वा विना कृष्णप्रसादस्थरसादनम् ॥३७॥
वृथा वाक् कीर्तनं कृष्णगुणानामन्तरा तथा ।
वृथा घ्राणं हरेर्गन्धं विना धीः स्मरणं विना ॥३८॥
देहतत्त्वानि सर्वाणि निरर्थकानि मां विना ।
बलं व्यर्थं धृतिर्व्यर्था यशो व्यर्थं च मां विना ॥३९॥
विद्या च वाग्मिता तर्कबुद्धिर्मतिश्च शेमुषी ।
व्यर्थं सर्वं विना चाराधनं श्रीपरमात्मनः ॥४०॥
षण्ढे यद्वद् भवेन्नारी युवत्यपि च निष्फला ।
तथा सर्वं निष्फलं वै षण्ढे मया निराकृते ॥४१॥
मां विना च तथा लक्ष्मि! मम सन्तं विना तु यत् ।
राज्यं स्मृद्धं कुलं मानं प्राणान्ते निष्फलायते ॥४२॥
शृणु लक्ष्मि कथां पुरातनीं वैवर्तभूभृतः ।
पूर्वेण तपसा राज्यमासमुद्रान्तमस्य यत् ॥४३॥
स्मृद्धमासीत् समग्रं वै त्वेकचक्रं हि शासनम् ।
व्योमवार्तावहा दूताश्चासन् राज्येऽस्य चेतनाः ॥४४॥
शासकानि च शास्त्राणि नैसर्गिकाणि चाऽभवन् ।
तेजसां सुप्रवाहाश्च भास्कराश्चाऽभवन् सदा ॥४५॥
श्रावका व्योमदूताश्च राष्ट्रेऽस्य सर्वतोऽभवन् ।
जलदूता जलयानेष्वधोवाहास्तथाऽभवन् ॥४६॥
विमानान्यभवँश्चाऽस्य लोकान्तरगतान्यपि ।
सर्वं पुण्यप्रतापेन मानवं दैवमित्यपि ॥४७॥
तादात्म्यमिव चापन्नं राज्ये तस्य तदाऽभवत् ।
जडं चेतनरूपाढ्यं कर्मचारं सदाऽभवत् ॥४८॥
स्मृतिस्मराऽभवद्वृष्टिरमृतं च स्मृतिस्मरम् ।
स्मृतिस्मराणि सस्यानि स्मृतिस्मराः समृद्धयः ॥४९॥
स्मृतिस्मरा योषितश्च दासा दास्यः स्मृतिस्मराः ।
उपतिष्ठन्ति भोग्यानि स्मृतिस्मराणि चास्य वै ॥५०॥
एतादृशोऽभवत् सिद्धो वैवर्तो नाम भूपतिः ।
राज्ञी तस्यैकदा प्राह नाम्ना कालंधरा सती ॥५१॥
राजन् यथेश्वरश्चाऽऽस्ते भूतलेऽद्यासमो भवान् ।
तपसा चार्जितं सर्वं विष्णुनेव त्वया क्षितौ ॥५२॥
तथापि श्वेतदुग्धाभं वर्तते सारमन्तरा ।
उद्धृतनवनीतं वै यथा दुग्धं तथा त्विदम् ॥५३॥
विना नारायणं कृष्णं विना सन्तं वृषं विना ।
विना यज्ञं विना दानं विनाऽभ्यागतसत्कृतिम् ॥५४॥
विना भक्तिं हरेश्चापि निःसारं भासते मम ।
तस्मान्नारायणं कृष्णं भज भक्तान् प्रसेवय ॥५५॥
आत्ममोक्षवृषं कृत्वा यास्यस्येवं परं पदम् ।
इत्युक्तः स तु भूनाथो मेने नैव प्रियोदितम् ॥५६॥
स सिषेधैव सर्वं तन्नास्तिक्येन पुनः पुनः ।
न देवो मानवः कृष्णः साधुर्वा कस्यचित् प्रदः ॥५७॥
तपसा लभ्यते सर्वं तदन्यत्तु मृषात्मकम् ।
तपसैव गमिष्यामि स्वर्गं स्वर्गोत्तमं पुनः ॥५८॥
इदं स्वर्गं क्षितावास्ते द्वितीयं तारकामयम् ।
संलप्स्यामि तपसैव मा चिन्तां कुरु भामिनि! ॥५९॥
इत्येवं मानभानेन भ्रान्तो नाऽगणयत् प्रियाम् ।
नास्तिक्येन चिरं कालं यापयामास राज्यकृत् ॥६०॥
अथाऽऽयुष्यस्य विगमे भुक्तपुण्ये ह्यशेषिते ।
निर्ययौ निजदेहाद्वै कालपाशप्रणोदितः ॥६१॥
सहाया नाऽभवन्नस्य केचित् कालाद्धि रक्षणे ।
प्रजा राज्ञ्यः प्रधानाश्च पुत्राः पुत्र्यः सहस्रशः ॥६२॥
तस्थुरेव विलोक्यैव रुदन्तः शोकसम्प्लुताः ।
नास्तिकस्याऽस्य तत्काले न देवा गुरवो न च ॥६३॥
नाऽऽययुः साधवश्चापि प्रेतं नेतुं परत्र ह ।
न धर्मो नापि पुण्यं च न देव्यो नापि सद्गतिः ॥६४॥
मृतं नेतुं नाऽऽययुर्वै भ्रष्टं राज्याच्च देहतः ।
गतिरोघोऽभवत्तस्य विना पुण्यं परे स्थले ॥६५॥
नेन्द्रियाऽधिष्ठितं सूक्ष्मं शक्तं गन्तुं तदाऽभवत् ।
न मनोऽहंमतिप्राणा गन्तुं च प्रभवोऽभवन् ॥६६॥
देहान्निर्गत्य जडवत् सौधाग्रे स स्थितोऽभवत् ।
प्रतीक्षते तु पुण्यार्थं पुण्यं धर्मं परेतकम् ॥६७॥
नास्तिकस्य न वै स्वर्गं नाऽयं लोकः कथं परः ।
देवयानोऽस्य नैवाऽस्ति धूम्रयानोऽपि नास्ति च ॥६८॥
अगतिर्मूर्छितो मृत्वा दुःखितं स्वममन्यत ।
शुशोच न मया दत्तं जलान्नं न मखः कृतः ॥६९॥
नोपकारः कृतः क्वापि न सन्तश्चाप्युपासिताः ।
न देवार्हणनैवेद्यस्तवनादि कृतं मया ॥७०॥
अनाथा रक्षिता नैव तोषिता नापि भिक्षुकाः ।
नाऽभ्यागताः पूजिताश्च साध्व्यः सत्यो न सत्कृताः ॥७१॥
न गोदानं स्वर्णदानं भूदानं च कृतं मया ।
सर्वर्द्धिसंभृतश्चाऽहं कृतवान्न कुतर्कितः ॥७२॥
अद्य पुण्यविहीनस्य गतिर्मे नास्ति सर्वथा ।
नोपतिष्ठन्ति यानानि विमानानि ममापि वै ॥७३॥
विकृतो नैव तिष्ठन्ति पूर्वं या मम चाभवन् ।
शस्त्राणि नोपतिष्ठन्ति चेतनानि यथाऽभवन् ॥७४॥
साम्राज्यर्द्धिः परा सत्ता लुप्तेव नैव दृश्यते ।
गतं साकं स्थूलतत्त्वैर्वर्ष्मणा सह योगि तत् ॥७५॥
सूक्ष्मयोगि कृतं नैव नायाति च सहायदम् ।
कृतं वै लभ्यते सर्वं तपो मे व्ययतां गतम् ॥७६॥
स्थूलं मतं नास्ति सूक्ष्मं कारणं केवलं तु यत् ।
निःसामर्थ्यं वर्ततेऽद्य किं तेन मे गतिश्च का ॥७७॥
तुर्यो नोपासितो देवः का गतिर्मेऽद्य तिष्ठति ।
न चापि यमदूता मे दृष्टिपथं पतन्त्यपि ॥७८॥
येनाऽहं धर्मराजस्य पुरीं गच्छामि नोदितः ।
नास्तिकस्य गतिर्नास्ति नास्त्यकृतस्य सर्वथा ॥७९॥
सुभगा वा विभगा वा नैका नैवाऽपरा गतिः ।
अहो प्रेतशरीरं मे भाव्यं तदपि नास्ति वै ॥८०॥
वायुरूपं परिपूर्णं भूतप्रेतात्मकं न च ।
न चक्षुर्मे पूर्णमत्र न कर्णौ न च जिह्विका ॥८१॥
न पादौ नापि हस्तौ च शक्तिहीनो भवामि ह ।
मनोमात्रं भवाम्यद्य सर्वसामर्थ्यवर्जितः ॥८२॥
यथा कललभावस्य गर्भस्थस्य तथा गतिः ।
भानं मे निर्विकल्पाभं तच्चापि भावनोज्झितम् ॥८३॥
स्वप्ने मे दर्शनं दातुं वक्तुं चापि न वा प्रभुः ।
येन पत्न्यै कथयामि गत्यर्थं पुण्यदानकम् ॥८४॥
अहो नास्ति गतिश्चाऽद्य सम्राजो भूपतेर्मम ।
गतं सर्वं कृतं नैव प्रतारणेन मुष्णता ॥८५॥
पत्न्या मे कथितं पूर्वं स्मर नारायणं हरिम् ।
तं स्मरामि प्रभुं चाऽद्याऽधमोद्धारं स तारयेत् ॥८६॥
इत्येवं मनसि कृत्वा निर्विकल्पे दधार माम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥८७॥
यथा यथा स दध्यौ मां तथा तथा तदान्तरः ।
प्रकाशः समभूत्तस्य तत्र मयोदितं तदा ॥८८॥
अदृश्येन स्वरूपेण यथा व्योमगिरा तथा ।
पुण्यं त्वया कृतं नैव कृतं नैव तथाऽपरम् ॥८९॥
गतिस्तेन च रुद्धा ते याम्या गतिश्च ते न वै ।
तादृक् पापं त्वया नैव कृतं याम्यगतिर्भवेत् ॥९०॥
तस्माद् गर्भं तव पत्न्याः पुनर्याया हि देवरात् ।
तव भ्राताऽनुजो राज्ञीं स्पृशेत् पुत्रो भविष्यसि ॥९१॥
करस्पर्शेन पुत्रस्योत्पत्तिर्युगानुसारिणी ।
भवत्येवेति तादृक् त्वं भव पुत्रोऽनुजस्य ह ॥९२॥
निजक्षेत्रे ततः कृत्वा भजनं दानपूर्वकम् ।
मखान् कृत्वा साधुपूजां परोपकृतिमुत्तमाम् ॥९३॥
गोदानं भूमिदानं च स्वर्णदानमनुत्तमम् ।
दत्वा कृत्वा व्रतान्येव जातिस्मरोऽथ वै चिरम् ॥९४॥
भुक्त्वा भोगान् भजित्वा मां ततो यास्यसि मोक्षणम् ।
याहि स्वप्ने तव पत्न्यास्तथा तवाऽनुजस्य च ॥९५॥
कैवर्त्तस्य ततः पुत्रः कथयित्वा तथा भव ।
एवमुक्त्वा विरराम गर्भवाणी तदाम्बरे ॥९६॥
वैवर्त्तः शक्तियुग् भूत्वा रात्रौ स्वप्ने जगाम ह ।
अनुजाय तथा राज्ञ्यै तथ्यं न्यवेदयत् ततः ॥९७॥
कैवर्तेन करेणापि स्पृष्टा राज्ञी ऋतूत्तरा ।
कालंधराऽभिधाना सा गर्भवती बभूव ह ॥९८॥
सुषुवे चापि कालेन सुतं जातिस्मरं हि तम् ।
सोऽपि बाल्यादेव पद्मे! भक्तिं चकार शार्ङ्गिणः ॥९९॥
दानानि प्रददौ सर्वविधानि निजमुक्तये ।
मखाँश्च कारयामास तडागानि समन्ततः ॥१००॥
अन्नसत्राणि रम्याणि प्रपास्थानानि सर्वशः ।
धर्मशाला वेदशालाः कारयामास सर्वतः ॥१०१॥
गोभूहिरण्यदानानि ददौ कन्यार्पणानि च ।
गृहदानानि देवानामालयान् प्रचकार ह ॥१०२॥
मम लक्ष्मि! मन्दिराणि रचयामास तत्र च ।
साधुवासान् कारयित्वा सेवयामास चात्मना ॥१०३॥
एवं राष्ट्रं समग्रं वै ततो भक्तियुतं शुचि ।
संविधाय प्रभुक्त्वा च भोगान् बहुविधान् सुखान् ॥१०४॥
संवर्त्तो नाम राजर्षिर्भूत्वा त्यक्त्वा वपुर्निजम् ।
ययौ चान्ते मम भक्त्या धामाऽक्षरं परं पदम् ॥१०५॥
तस्माद् दानानि देयानि सेवनीयाश्च साधवः ।
पूजनीया देवताश्च मखाः कार्या यथाधनम् ॥१०६॥
पठनाच्छ्रवणादस्य स्मरणात् करणात्तथा ।
भुक्तिं मुक्तिं दिव्यगतिं लभते नात्र संशयः ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विविधतपसां फलानि, तान्येव भक्तियुक्तानि मोक्षदानि, वैवर्तनृपस्यनास्तिक्येन गत्यभावे निजपत्न्यां देवरात् पुनर्जन्म, तत आस्तिककर्मभिर्भक्त्या च मोक्ष इत्यादिनिरूपणनामा त्रयोदशाधिकशततमोऽध्यायः ॥११३॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP