संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ५५

द्वापरयुगसन्तानः - अध्यायः ५५

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां चान्यां सुपावनीम् ।
गुरुतीर्थमयीं सर्वोद्धारिणीं पापहारिणीम् ॥१॥
सौराष्ट्रे चोपलेष्टायां नगर्यां श्वपची सती ।
रक्षानाम्नी हरिभक्ता सुमरस्य हि भामिनी ॥२॥
अवसत् सकुटुम्बा वै पुर्या मलापहारिणी ।
मलानां हारिणीत्वात् सा ह्यशुद्धा वर्तते दिने ॥३॥
मध्याह्ने तु ततः स्नात्वा शुद्धिं कृत्वा स्वहस्तयोः ।
ततो याति गृहं नैजं वृक्षमध्ये विधापितम् ॥४॥
कृत्वा सा रोटकं नैजं भोजयित्वा पतिं हरिम् ।
शुने दत्वा ततो भुंक्ते रक्षा सन्तोषसद्गुणा ॥५॥
विचारयति नित्यं सा गृहे स्थिता दशां निजाम् ।
कथं वै मानवेऽप्यत्र श्वपची ह्यभवं न्वहम् ॥६॥
दारिद्र्यं सर्वदा चास्ते कैंकर्यं सर्वदा तथा ।
मलनिष्कासनं नित्यं ह्यशुद्धिर्नित्यमेव च ॥७॥
तिरस्कारः प्रतिक्षेत्रं चाऽस्पृश्यत्वं च सर्वदा ।
सत्यपि मानवे भावे पाशवं जीवनं मम ॥८॥
भोजनं दृश्यते नैव लभ्यते न रसान्वितम् ।
अम्बराणि निकृष्टानि शृंगारो लभ्यते न च ॥९॥
गृहं तु शोभनं नैव भोग्यजातं न विद्यते ।
मानं यशो न चैवाऽऽस्ते धिक् जन्म पापसंभृतम्॥१०॥
यानं च वाहनं नास्ति धातुपात्राणि सन्ति न ।
विभूषाः सन्ति नैवाऽपि मिष्टान्नं विद्यतेऽपि न ॥११॥
द्रव्यं च नाणकं नास्ति पर्यंको नास्ति शोभनः ।
सुवर्णस्य तु वै स्वप्ने चाशा नास्ति कदाचन ॥१२॥
एवं मे विद्यते सर्वं वैरुप्यं कल्मषं तथा ।
एको गुणो मे श्वपचीज्ञातौ वै विद्यते शुभः ॥१३॥
अस्पृश्यत्वात् परपुंसः स्पर्शो नास्ति कदापि मे ।
पातिव्रत्यं सर्वदाऽस्ति सहजं सर्वतो गुरु ॥१४॥
स्वजातयोऽपि विद्यन्ते दूरे दूरे पुरान्तरे ।
तेषां नारणां योगोऽपि नैवास्ति स्पर्शनं मम ॥१५॥
एवं मेऽस्ति व्रतं शीलं पुण्यं स्वर्गप्रदं सदा ।
निर्मानता विरागश्च निर्बाधताऽपि विद्यते ॥१६॥
नदी त्वास्ते पार्श्वतो मे स्नानं नित्यं भवत्यपि ।
गृहं वने सदा चस्ते निर्बन्धं वानप्रस्थवत् ॥१७॥
चौराणां तु भयं नास्ति राज्ञां भयं न विद्यते ।
सुखं स्वपिमि पत्या मे साकं सेवापरायणा ॥१८॥
साधूनां पार्श्वमार्गेण यातानां दर्शनं क्वचित् ।
जायते मे भाग्यवशात् सूर्यस्य दर्शनं सदा ॥१९॥
आमध्याह्नं मलहारात्मकं कार्यं न वै ततः ।
दिवसार्धं निशायां च निवृत्तिर्मम विद्यते ॥२०॥
परमेशस्य नाम्नां वै भजनार्थं विशेषतः ।
विद्यते मे समयश्च लाभाः सन्ति तथाविधाः ॥२१॥
ग्रामे महोत्सवे दैवे मानुषे वा प्रवर्तिते ।
प्रसादः प्राप्यते चापि पावनो दैवमानुषः ॥२२॥
तत्रापि मम साफल्यं मनुष्यस्य तु जन्मनः ।
श्वपच्या अपि मे शीलं पातिव्रत्यं परं खलु ॥२३॥
अन्यासां जनमध्ये च ग्रामे वा नरयोषिताम् ।
प्रजास्त्रीणां सहवासो दृश्यते शीलनाशकः ॥२४॥
यत्र नरास्तथा नार्यो निवसन्ति मिथोऽभितः ।
तत्र धर्मो हन्यते वै देशकालबलेन ह ॥२५॥
विवाहितानां नारीणां परपुंस्पर्शनं तथा ।
एकान्तसेवनं चापि धर्महं निरयप्रदम् ॥२६॥
यासां तथाविधानां वै संकरीणां तु योषिताम् ।
अद्य वै नरकं नास्ति तासां वै नरकं ततः ॥२७॥
जन्मान्तरे भवेदेव इहाऽधर्मप्रयोजितम् ।
मम श्वपचीरूपायाः प्रत्यक्षं नरकं त्विह ॥२८॥
किन्तु धर्मबलेनैव मृत्यूर्ध्वे नरकं न वै ।
तस्माच्छ्रेष्ठा गतिश्चास्ते प्रजानारीभ्य उत्तमा ॥२९॥
अस्मृद्धयो विरागाय समृद्धयो बन्धनाय वै ।
नैर्जन्यं परलोकाय सौजन्यं बन्धनाय वै ॥३०॥
श्वपच्यहं बन्धशून्या विचरामि सती यथा ।
रथ्यां रथ्यां विचरामि साध्वी पतिव्रता यथा ॥३१॥
निर्भया मे स्थितिश्चाऽऽस्ते सुखाढ्या व्याधिवर्जिता ।
मार्जयामि मलगर्तान् वैराग्यं च लभाम्यपि ॥३२॥
स्वमलं सर्वलोका वै मार्जयन्ति दिने दिने ।
प्रातरुत्थाय सर्वेऽपि क्षालयन्ति निजं मलम् ॥३३॥
नार्यश्चापत्यवत्यश्च क्षालयन्ति हि बालकान् ।
गृहमध्ये वस्त्रमध्ये शय्यामध्ये कृतान्यपि ॥३४॥
बालमलानि वै सर्वा निष्कासयन्ति मद्विधाः ।
विशेषो मे तथा तासां मलशुद्धौ न विद्यते ॥३५॥
सर्वे वै श्वपचा नैजदेहमलापसारणे ।
तस्माच्छ्रैष्ठ्यं ममैवाऽऽस्ते श्वपच्यां निरुपद्रवम् ॥३६॥
राजा स्याद् दुःखभाङ्नित्यं राज्ञी ततोऽपि दुःखिनी ।
कारागारनिभे सौधे रुद्ध्यमाना भटैः सदा ॥३७॥
श्रेष्ठिनार्यो वस्त्रवरुथकैश्छन्नाः प्रयान्ति च ।
श्रेष्ठिनोऽपि सभया नो बहिर्यान्ति विना भटैः ॥३८॥
एवं दुःखनिमग्नास्ते साक्षान्नरकं भुञ्जते ।
को विशेषोऽस्ति वै तेषां श्वपच्याः सन्निधाविह ॥३९॥
अपि तृष्णा पिशाच्येषां हृदयानि निकृन्तति ।
रोगाः साक्षाद् यमदूताः शोषयन्ति धनं वपुः ॥४०॥
भृत्याधीना भृत्यभृत्या जायन्ते धनिनो जनाः ।
पारतन्त्र्यं पराशा च नरकौ द्वौ गृहस्थितौ ॥४१॥
स्वातन्त्र्यं च निराशा च स्वर्गौ द्वौ स्वकरस्थितौ ।
धन्याऽहं श्वपची शुद्धा तादृग्दोषविवर्जिता ॥४२॥
आजीवनं स्वर्गयुक्ता चान्तेऽपि स्वर्गगामिनी ।
हरिणी लभते भोज्यं वनेऽपि फलपत्रवत् ॥४३॥
सिंहिका लभते भोज्यं महारण्येऽपि मांसजम् ।
श्रेष्ठिनी लभते भोज्यं स्वाद्वपि रोगसंभृतम् ॥४४॥
श्वपची लभते भोज्यं शुष्कं चापि बलप्रदम् ।
धन्याऽहं श्वपची चास्मि महासौख्यसमन्विता ॥४५॥
राजा राज्ञी तथा चान्ये ह्यायुषोऽन्तिमभागके ॥
सन्न्यासिनो वानप्रस्था जायन्ते मोक्षसिद्धये ॥४६॥
वने पश्यामि तान् सर्वान् भोगरागविवर्जितान् ।
मादृशाँस्तापसान् सर्वान् धन्याऽहं जन्मतस्तथा ॥४७॥
सन्यासिनी सदैवाऽस्मि सदैव पतिदेवता ।
सदैव शीलयुक्ता च भवामि श्वपची शुभा ॥४८॥
अहो मे बन्धनं नास्ति नास्ति मे धर्मवर्जनम् ।
ग्रामसेवा करोम्यत्र जातियोग्यां हितावहाम् ॥४९॥
साधवो ब्रह्मविज्ञानाः पापिनां पापकल्मषान् ।
उपदेशप्रदानेन हृदो निष्कासयन्ति ते ॥५०॥
श्वपची कर्मविज्ञाना मलिनां मलकल्मषान् ।
देहसेवाप्रदानेन निष्कासयामि गर्त्ततः ॥५१॥
मलनिष्कासनं कार्यं चोभयोर्वै समं यतः ।
सन्यासिनी भवाम्येव कर्मसन्यासिनी यथा ॥५२॥
गुरवः सन्ति लोकेऽत्र मलनाशकराः शुभाः ।
अज्ञानमलनाशेन प्रज्ञानं दीपयन्ति ते ॥५३॥
अहं भूत्वा निजा गुर्वी शोकमलं जहाम्यपि ।
स्वस्या गुर्वी स्वयं भूत्वा निर्मला विचरामि च ॥५४॥
अहो भाग्यमहो भाग्यं श्वपच्या मम मानवे ।
सुखिन्यस्मि सदा चाऽन्याऽपेक्षया कृपया हरेः ॥५५॥
नास्ति मे फलहः कश्चिद् बहूनां संगमे हि यः ।
नास्ति मे धर्मभंगश्च बहूनां संगजस्तु यः ॥५६॥
विना वनं वने वासो विद्यते मे सुखावहः ।
आत्मशान्तिः सदा चास्ते प्रव्रज्यामन्तराऽपि मे ॥५७॥
धन्याऽहं धन्यपात्रं च सुखपात्रं यदुत्तमम् ।
स्वपत्या दीयमानं च सुखं भुञ्जामि सर्वकम् ॥५८॥
यस्या गृहे भवेत् क्लेशो वैमनस्यं नरस्त्रियोः ।
नित्यं शंकास्पदत्वं च रौरवं नरकं तु तत् ॥५९॥
यस्य गृहे भवेत् प्रेम सौमनस्यं नरस्त्रियोः ।
तथा चाऽनभिशंकित्वमैन्द्रं स्वर्गं पदं हि तत् ॥६०॥
तादृशं स्वर्गमेवाऽत्र विद्यते श्वपचीगृहे ।
द्रुमाश्चेमे ममोद्यानो वर्तते च नदी मम ॥६१॥
साध्वीत्वं सर्वमूर्धन्यं वर्तते मम मोक्षदम् ।
धन्याऽहं श्वपची तस्मात् सर्वसौभाग्यशालिनी ॥६२॥
एवं वै वर्तमानायाः पार्श्वमार्गेण गच्छतः ।
जातं वै दर्शनं साधोर्ब्रह्ममग्नस्य योगिनः ॥६३॥
नाम्ना चैतन्यशीलस्य महासिद्धस्य वै प्रभोः ।
रक्षा तूणं ययौ सन्तं प्रति मार्गे स्थिताऽभवत् ॥६४॥
अनमद् दूरतः साधुं कृताञ्जलिर्नतानना ।
साधुः प्राह सदा शान्तिमती मोक्षवती भव ॥६५॥
दिव्या देवी तथा भूत्वा ब्रह्मप्रिया सदा भव ।
हरिभक्ता भव साध्वी साधुसेवाकरी भव ॥६६॥
इत्युक्त्वा चैतन्यशीलो भद्रावतीनदीतटे ।
वृक्षतलेऽतिदूरे च गत्वा ह्युपाविशत् क्षणम् ॥६७॥
नदीजले ततो गत्वा स्नात्वा कृत्वाऽर्हणं हरेः ।
हरये च फलं वारि शर्करां च निवेद्य सः ॥६८॥
श्वपच्यै तत्र यातायै प्रसादं दत्तवान् मुनिः ।
साऽपि प्रसादमासाद्य पतये विनिवेद्य च ॥६९॥
ततश्चखाद शेषं च मत्वा भाग्यं निजं परम् ।
अथ साधुः पादपाऽधो रात्रिवासं व्यधादपि ॥७०॥
शैत्यं च बाधते तस्य वीक्ष्य सा श्वपची ददौ ।
काष्ठानि चाग्निदीप्त्यर्थं साधुर्वह्निमदीपयत् ॥७१॥
मालां चावर्तयच्चापि भजनं प्रचकार ह ।
'हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ॥७२॥
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।
तालिकावादनैः साधुश्चक्रे श्रीनामकीर्तनम् ॥७३॥
श्वपची स्वामिना साकं त्वागत्य वृक्षसन्निधौ ।
दूरं निषद्य भजनं तद्विधं प्रचकार सा ॥७४॥
भजनान्ते च साधुं तं पप्रच्छ विनयान्विता ।
कुत आगम्यते साधो क्व निवासोऽपि नित्यदा ॥७५॥
कुत्र संगम्यते चापि कुशलं न्वस्ति सर्वथा ।
साधुः प्राह हरेर्गेहादागम्यतेऽतिदूरतः ॥७६॥
निवासः श्रीहरौ मेऽस्ति गम्यते श्रीहरिं प्रति ।
कुशलं सर्वथा चास्ते गुरुतीर्थप्रसादतः ॥७७॥
रक्षा प्राह शुभं साधो गुरुतीर्थं हि कीदृशम् ।
येन स्यात् कुशलं सर्वं वद मे कृपया मुने ॥७८॥
साधुः प्राह गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्हरः ।
गुरुः स्वामी हरिः साधुर्गुरुर्माता पतिः पिता ॥७९॥
गुरुर्ज्ञानप्रदाता च पापहर्ता गुरुर्महान् ।
गुरुर्मोक्षप्रदाता च निजात्मा परमो गुरुः ॥८०॥
गुरोर्गुरुश्चान्तरात्मा श्रीहरिः परमेश्वरः ।
तदाश्रयेन पापानां ध्वंसो मोक्षोऽपि शाश्वतः ॥८१॥
अपि पापसमाचारः श्वपाकः श्वपचोऽपि वा ।
मद्यमांसाशनश्चापि व्यवायमदिराशनः ॥८२॥
महापापाऽतिपापोऽपि प्रशुद्ध्यति गुरुश्रयात् ।
न व्रतं नैव तीर्थं च प्रायश्चित्तं न तत्परम् ॥८३॥
आप्ता गुरोः कृपा येन सद्यो मुच्येत बन्धनात् ।
गुरोर्मन्त्रं हरेर्नाम्नो गृह्णीयात्पावनं परम् ॥८४॥
पीत्वा गुरोः पदाम्भोजं ध्यात्वा मूर्तिं गुरोर्गुरोः ।
सेवयित्वा गुरुं देवं प्रसादयित्वा तत्क्षणम् ॥८५॥
सर्वस्वं प्रसमर्प्यैव सद्यो मोक्षमवाप्नुयात् ।
साधुर्नौका गुरुर्नौका हरिर्नौका सतीपतिः ॥८६॥
ज्ञानं नौका परानौका भक्तिश्च शरणागतिः ।
रक्षा पप्रच्छ साधुं तं देहि मे शरणागतिम् ॥८७॥
देहि मन्त्रं श्वपच्यै मे स्वामिने श्वपचाय मे ।
चैतन्यशीलः पूर्वं तां पाययामास वै शुभम् ॥८८॥
निजं पादजलं तत्र निक्षिप्य श्रीहरेर्जलम् ।
पवित्रां पावनीं कृत्वा ददौ मन्त्रं ततः परम् ॥८९॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे ॥९०॥
 'हरे कृष्ण हरे विष्णो हरे नारायण प्रभो ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥९१॥
इति मन्त्रान् ददौ साधुः श्वपच्यै श्वपचाय च ।
भजनं कारयामास रात्र्यर्धं च ततः परम् ॥९२॥
पादसंवाहनं साधोश्चक्राते दम्पती ह्युभौ ।
चाण्डालत्वं विलीनं च साधोः संसेवया तदा ॥९३॥
प्रातःपर्यन्तमेवाऽऽभ्यां पादसंवाहनं कृतम् ।
प्रातर्हरिः समायातो दिव्यविमानराजितः ॥९४॥
पार्षदैः प्रवरैर्युक्तो राधालक्ष्म्यादिराजितः ।
साधुं रक्षां सुमरं च हरिः प्राह ममाऽनुगाः ॥९५॥
त्रयोऽपि मम भक्ताः स्थो दिव्यभावमुपागताः ।
गुरुतीर्थप्रपूता मे चारोहत विमानकम् ॥९६॥
इत्युक्तास्ते त्रयो नत्वा त्यक्त्वा देहान् भुवस्तले ।
दिव्यौ च पार्षदौ भूत्वा पार्षदानी तथाविधा ॥९७॥
दिव्या चतुर्भुजा भूत्वा स्थित्वा विमानकं तदा ।
हरिणा सह वैकुण्ठं प्रययुर्मोक्षमुत्तमम् ॥९८॥
एवं लक्ष्मि गुरुतीर्थं पावनं सद्य एव ह ।
वधूनां चाप्यशुद्धानां श्वपाकीतुल्ययोषिताम् ॥९९॥
मोक्षदं चोत्तमं चास्ते तस्माद् गुरुं निषेवयेत् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदिह ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे चैतन्यशीलगुरोः प्रतापात् सुमरपत्न्याः रक्षाश्वपच्याः पतिना सह गुरुणा सह च
मोक्षप्राप्तिरित्यादिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP