द्वापरयुगसन्तानः - अध्यायः ११६
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि ततः सैन्यानि योषिताम् ।
मातॄणां दिव्यदेहानां रेजिरे च विनिर्ययुः ॥१॥
महाक्ष्मीस्तथा लक्ष्मीः सरस्वती च शारदा ।
दुर्गा गङ्गा यमी रेवा राधा रमा च पद्मिनी ॥२॥
कमला श्रीः पाशवती रमा माणिकी मंजुला ।
सुखदा कंभरालक्ष्मीः सन्तुष्टा विजया जया ॥३॥
सुपर्णा माधवी हंसी भार्गवी सुगुणा सती ।
नारायणी वासुदेवी हरिणी च हिरण्मयी ॥४॥
शार्दूलवाहना मत्ता गजानना च हंसिनी ।
विश्वा भूतिः पिंगलाक्षी कामाक्षी वल्लभा दया ॥५॥
कार्ष्णी वृन्दा वैष्णवी च ज्योष्ट्री कामदुघाऽनघा ।
भूर्द्यौर्धरिणी धात्री च भारती करिणी कृतिः ॥६॥
ब्राह्मी रौद्री रेवती च माहेश्वरी कुमारिका ।
शाक्री सौरी नैर्ऋती च सौम्या शिखण्डिनी शिवा ॥७॥
वाराही नारसिंही च बला रक्ता सुनन्दिनी ।
शकुनी रेवती काली जयन्ती चादितिस्तथा ॥८॥
श्यामा विनायकी सिद्धिः ऋद्धिश्च विनता स्वधा ।
उषा स्वाहा वषट्कारा ज्येष्ठालक्ष्मीश्च मुक्तिका ॥९॥
माया रतिर्मंगला चाऽमृता षष्टिश्च मानसा ।
शान्तिरेकादशी हैमी चोर्जस्का पुरुषोत्तमी ॥१०॥
एताः सर्वा हि वैष्णव्यो मूर्धन्या योद्धृनाशिकाः ।
तथाऽपराश्च शांकर्यो कातरो निर्ययू रणे ॥११॥
शांकरी मालिनी चण्डी वायव्या दूतिका खगा ।
चामुण्डा च शतानन्दा चलच्छिखा सुपिच्छला ॥१२॥
बला चातिबला मातृनन्दा नन्दाऽपराजिता ।
महाकाली भैरवी च कराली च गणी तथा ॥१३॥
मृत्युर्मारी महामारी दितिर्घटोदरी दनुः ।
उलूकी कर्णमोटी च वज्रहस्ता कपालिका ॥१४॥
पिशाची राक्षसी खेटा भृशुण्डी लांगली तथा ।
धूम्रा करालिनी चैकवीरोदुम्बरी कुक्कुटी ॥१५॥
केकरी प्रेतयाना च क्रौंची शैलमुखी सखी ।
कपर्दिनी कामरूपा रोचना केशिनी तथा ॥१६॥
दंष्ट्रालोल्कामुखी धूम्रशिखा क्ष्वेला प्रकम्पिनी ।
सर्पकर्णी विशोका च निकुंभा बगलामुखी ॥१७॥
माकरी कच्छपी चित्रा कोणा च लांगलावती ।
अयोमुखी क्रोधना चाशनी हूंकारिणी तथा ॥१८॥
महादेवी रुद्रसटा कात्यायनी करालिनी ।
गौरी सांकर्षिणी देवी प्रालेयी भूतडामरी ॥१९॥
सृष्टिगर्भा महामाया खटीयारी च पाशिनी ।
एताश्चान्यास्तमोभूषा रुद्राण्यो निर्ययुर्मृधे ॥२०॥
अथ सर्वाः पारमेष्ठ्यो ब्रह्माण्यश्चापि निर्ययुः ।
संक्रान्तयः सुसिद्धान्यः सिद्धयः ब्रह्मसारसाः ॥२१॥
दण्डनाथा मन्त्रनाथा धूमोर्णा मन्त्रनायिका ।
श्यामला यन्त्रिणी घनश्यामा संगीतयोगिनी ॥२२॥
त्रिपुरा चक्रनाथा च साम्राजी चक्रवर्तिनी ।
महाविद्याऽऽम्नायनाथा वैदिकी सिमगास्तथा ॥२३॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चण्डिका शोणविग्रहा ॥२४॥
क्षोभिणी द्राविणी चाकर्षिणी वशंकरी तथा ।
उन्मादिनी खेचरा च यष्टिर्महांकुशा तथा ॥२५॥
सर्वबीजाधिवासिन्यश्चान्यास्तत्त्वादिशक्तयः ।
कोट्यर्बुदाऽब्जसंख्याका निर्ययुर्युद्धदुर्मदाः ॥२६॥
मात्राकर्षणिका देव्यश्चित्ताकर्षणिकास्तथा ।
आत्माकर्षणिकाश्चापि शरीराकर्षिकास्तथा ॥२७॥
अनंगलेखा सर्वजृंभणा मृत्युप्रदायिनी ।
सर्वव्याधिहरा रक्षानाम्नी रहस्ययोगिनी ॥२८॥
वशिनी जीवनी वह्निवासिनी कुलसुन्दरी ।
शोषिणी च रतिः प्रीतिः कान्तिः शान्तिश्च तुष्टिका ॥२९॥
पुष्टिः श्रद्धा च भूः प्रमाथिनी च नागवीथिका ।
मातंगी सिद्धलक्ष्मीश्च दुर्गाऽम्बा पोत्रिणी तथा ॥३०॥
यक्षिणी शंखिनी चापि लाकिनी हाकिनी तथा ।
शाकिनी डाकिनी धातुनाथा वार्तालिकाऽन्धिनी ॥३१॥
एता अन्या अर्बुदाब्जाः शक्तयो निर्ययुर्मृधे ।
अथेन्द्रोऽप्सरसश्चापि साध्याश्च विश्वदेवताः ॥३२॥
विश्वकर्मा मयोऽग्निश्च रुद्राः पिशाचकास्तथा ।
राक्षसाश्चापि गन्धर्वा मित्राश्च किन्नरास्तथा ॥३३॥
विद्याध्राश्चापि गोविन्दो भगवान् कमलापतिः ।
ब्रह्माऽश्विपुत्रौ गणका धन्वन्तरिश्च वासुकिः ॥३४॥
नागाश्च भूसुराश्चापि पुरोहिताश्च निर्ययुः ।
तदा मृदंगमुरजाः पटहोऽतुकुलीगणाः ॥३५॥
सेलुका झल्लरी रान्द्या हुडुका हुड्डुका घराः ।
आनकाः पणवाश्चापि गोमुखाश्चार्धचन्द्रिकाः ॥३६॥
यवमध्या मर्दलाश्च डिण्डिमा झर्झरास्तथा ।
वरीताश्चोद्धकाश्चापि तुहुण्डा बर्बरास्तथा ॥३७॥
हुँकारा भेरयश्चापि दध्वनुः समरोद्यमे ।
सर्वाऽशेषास्त्रशस्त्रैश्च हेतिभिर्मन्त्रकोटिभिः ॥३८॥
सहिताः सर्वयोद्ध्र्यश्च रथवाजिगजादिभिः ।
महायानविमानैश्चाययुर्भण्डासुरस्थलीम् ॥३९॥
अम्बरं सैन्यसम्व्याप्तं युद्धघोषसमन्वितम् ।
वीक्ष्याऽसुरास्तदा त्रेसुर्ललितागमसंभ्रमात् ॥४०॥
तदाऽसुराणामभवन्नरीष्टानि पदे पदे ।
अकाल इव निर्भिन्ना भित्तयो दैत्यपत्तने ॥४१॥
घूर्णमानाः पतन्ति स्म महोल्का गगनस्थलात् ।
भूकम्पो हृत्कम्पनानि तदाऽभवन् पुनः पुनः ॥४२॥
ध्वजाग्रवर्तिनः कंका गृध्रा बकाः खगास्तथा ।
आदित्यमण्डले चक्रं नाशसूचकमास च ॥४३॥
वामांगानि नराणां नारीणां दक्षांगभूमयः ।
स्फुरितान्यभवँस्तत्र दृश्यन्ते केतवोऽम्बरे ॥४४॥
दैत्यस्त्रीणां च विभ्रष्टा अकाले भूषणस्रजः ।
दर्पणानां वर्मणां च ध्वजानां खड्गसम्पदाम् ॥४५॥
मणीनामम्बराणां च मालिन्यमभवत्तदा ।
अपतन् वेदिमध्येषु बिन्दवः शोणिताम्भसाम् ॥४६॥
उत्पातान् वीक्ष्य सन्त्रस्ता दैत्याः प्राहुर्हि भण्डकम् ।
भण्डोऽपि क्रोधमापन्नश्चाहूय मन्त्रिणौ तदा ॥४७॥
सभायां मन्त्रणां शीघ्रं चक्रे युद्धावलम्बिनीम् ।
विशुक्रश्च विषंगश्च मन्त्रिणो बुद्धिदायिनौ ॥४८॥
तथा सामन्तदैत्येन्द्रा आज्ञार्थं समुपागताः ।
अवोचत विशुक्रश्च सर्वेषां शृण्वतां तदा ॥४९॥
सुराद्या लब्धकालाश्चाऽस्राक्षुः स्त्रीं बलगर्विताम् ।
सज्जीकृत्य च तां देवास्तया साकं समागताः ॥५०॥
अस्मान् जेतुं समायाता हा कष्टं विधिनोदितम् ।
अबला जेष्यतेऽस्माँश्चेत् परिहासाय तद् भवेत् ॥५१॥
अस्माकं विजयायाऽद्य स्त्रीजातिरभिधावति ।
यद्यपि स्त्री भवेच्छत्रुर्हन्तव्या विजिगीषुभिः ॥५२॥
सकचग्रहमाकृष्य साऽऽनेतव्या सदासिका ।
तवैव चेटिकाभावं सा दुष्टा संश्रयिष्यति ॥५३॥
एवमुक्त्वा स भण्डस्य क्रोधं तत्र व्यवीवृधत् ।
विषंगश्च ततः प्राह बुद्धियुक्तं सुखावहम् ॥५४॥
सर्वं विचार्य कर्तव्यं विवेकः परमा गतिः ।
अविवेकेन यत्कार्यं विनाशायोपपद्यते ॥५५॥
चारैर्बलाऽबले ज्ञेये जयसिद्धिमभीप्सता ।
तिर्यगित्यपि नारीति क्षुद्रा चेत्यपि राजभिः ॥५६॥
नाऽवज्ञा वैरिणां कार्या शक्तिः सर्वत्र विद्यते ।
शक्तिरेव हि सर्वत्र कारणं विजयश्रियः ॥५७॥
केयं च किंबला किंसहायिकेति विचार्यताम् ।
श्रुत्वैवं तु विषंगस्य भण्डः प्राह रुषान्वितम् ॥५८॥
अरे विद्वन् मतिं त्यक्त्वा किमेवं शंकसे स्त्रियम् ।
ललितेयं मया चारैर्ज्ञाता बलविवर्जिता ॥५९॥
मायया स्त्रीकदम्बं सा कृत्वोत्पाद्य समागता ।
नास्ति भयं हि मे तस्या धृत्वाऽऽनयन्तु मां प्रति ॥६०॥
त्रैलोक्याऽऽलंघिमहिमा भण्डः केन विजीयते ।
मया प्रदण्डिता देवाः श्वसितुं प्रभवोऽपि न ॥६१॥
पातालेऽब्धौ गह्वरेषु प्रच्छन्नास्ते वसन्ति वै ।
न जानन्ति स्त्रियो मूढा वृथा कल्पितसाहसा ॥६२॥
विनाशमनुधावन्ति ह्यकार्यकृतदर्पिकाः ।
अथवा ताः पुरस्कृत्य यद्यागच्छन्ति नाकिनः ॥६३॥
सर्वे संभूय शंभ्वाद्यास्तान् सम्पेष्टुमहं क्षमः ।
मलकश्च कुरण्डश्च करटको बलाहकः ॥६४॥
विकटः कर्कटकश्च हुम्बको हलमल्लुचः ।
कर्कशः कुक्कुरश्चापि जृंभणो घोषकस्तथा ॥६५॥
शिरालकः कूपकश्च लडुनो मारकस्तथा ।
विषेणश्च परूषश्च द्रघणः कोल्लटस्तथा ॥६६॥
दासेरो मूषको महाण्डश्च कुभाण्डकस्तथा।
एते दैत्या हिरण्याक्षहिरण्यकशिपुप्रभाः ॥६७॥
तेषामग्रे सहस्राक्षौहिण्यः स्युर्भस्मशेषिताः ।
मायाविलासा नार्यास्तु हास्या समरसीमनि ॥६८॥
तस्मात्तां केशपाशेन धृत्वाऽऽनयन्तु मां प्रति ।
अन्याः सर्वाश्च गृह्णन्तु यथाप्राप्तां निजां निजाम् ॥६९॥
कुटिलाक्षोत्तिष्ठ सैन्यं सन्नाह्य समन्ततः ।
इत्याभाष्य चमूनाथं सहस्रत्रितयाधिपम् ॥७०॥
कुटिलाक्षं महासत्त्वं भण्डश्चान्तःपुरं ययौ ।
ततः सज्जाः किलाऽऽरावाः समनह्यन्त दानवाः ॥७१॥
पट्टिशैर्मुद्गरैश्चापि भिंदुरैर्भिण्डिपालकैः ।
द्रुहणैश्च भूशुण्डीभिः कुठारैर्मुसलैरपि ॥७२॥
गदाभिश्च शतघ्नीभिस्त्रिशिखैर्विशिखैरपि ।
अर्धचक्रैर्महाचक्रैर्धनुर्भिः शार्ङ्गधन्विभिः ॥७३॥
दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः ।
कटारैः फणिदन्तैश्च शरैश्च खण्डलैस्तथा ॥७४॥
पाशाऽऽयुधैर्गदाभिश्च वह्निगोलैश्च खड्गकैः ।
एवंविधैरायुधैस्ते सज्जा दैत्या विनिर्ययुः ॥७५॥
सन्नद्धनिजहस्ताग्रा वर्मिता दैत्यकोटयः ।
अश्वारोहा गजारोहा गर्दभारोहिणस्तथा ॥७६॥
उष्ट्रारोहा वृकारोहाः शुनकारोहिणस्तथा ।
काकारोहास्तथा गृध्रारोहा व्याघ्रादिरोहिणः ॥७७॥
सिंहारोहा शरभस्था गेन्डकारोहिणस्तथा ।
सूकरारोहिणो व्यालारोहिणः प्रेतवाहनाः ॥७८॥
यानविमानगाश्चापि प्रचेलुर्ललितां प्रति ।
कुटिलं सैन्यभर्तारं दुर्मदं चापि दानवम् ॥७९॥
दशाऽक्षौहिणिकायुक्तं प्राहिणोल्ललितां प्रति ।
कुटिलाक्षस्तालजंघस्तालभुजस्तालकटिः ॥८०॥
एते भण्डपुरस्यैव ररक्षुर्गोपुराणि वै ।
चत्वारिंशदक्षौहिणिकान्वितास्तस्थुरुल्बणाः ॥८१॥
एकाऽक्षौहिणिकां नैजमन्दिरस्याऽभितोऽकरोत् ।
विशुक्रः प्रेषयामास दूतं तु कपिशीर्षकम् ॥८२॥
भण्डासुराज्ञया तूर्णं सोऽपि गत्वा न्यवेदयत् ।
पत्नी भण्डमहाराजस्यैव भव सुशोभने ॥८३॥
अन्यथा ते वधो भावी यथेष्टं कुरु भामिनि ।
श्रुत्वाऽऽह च महालक्ष्म्याः सखी दुर्गा हरप्रिया ॥८४॥
भण्डतां जहि निकृष्ट पातालं याहि सत्वरम् ।
अन्यथा तव नाशोऽत्र नारीकृतो भविष्यति ॥८५॥
दूतश्चाह यथार्थं तद् भण्डाय सोऽपि सत्वरम् ।
विशुक्रस्य शृण्वतो वै जगादाऽथ च रोषवान् ॥८६॥
भण्डासुरस्तत आज्ञां चकार योधनाय तान् ।
सेनापतीन् समस्ताँश्च दैत्यान् रणप्रहर्षितान् ॥८७॥
कृत्वा किलकिलारावं भटास्तत्र सहस्रशः ।
ललितासैन्यमभितो निपेतुर्युद्धदुर्मदाः ॥८८॥
मारयध्वं घातयध्वं भेदयध्वं हि चुक्रुशुः ।
दोधूयमानैरसिभिर्निपेतुः स्त्रीमहाऽर्णवे ॥८९॥
देव्यश्चापि तदोद्दण्डाः समयुध्यन्त दानवैः ।
अनर्गलायुधैर्देव्यो व्यमृद्गुर्दानवीं चमूम् ॥९०॥
शक्तिभिः पात्यमानानां दानवानां रसैर्मही ।
रक्तारुणाऽभवत् पेतुर्दैत्यानां मुण्डराशयः ॥९१॥
इतस्ततः शक्तिशस्त्रैर्भेदिता दानवा मृताः ।
तदन्तरे तु बाणानां वृष्टयश्चाऽभवन् रणे ॥९२॥
अम्बरं सर्वथा बाणैर्व्याप्तं जातं नीरन्ध्रकम् ।
दुर्गा मुमोच वह्निं चाऽज्वालयच्छरजालकम् ॥९३॥
दैत्यानज्वालयद्वह्निर्वर्धितो हरिणीबलात् ।
दुर्मदस्तु मृतस्तत्र विशुक्रोऽपि विपाटितः ॥९४॥
प्राकाररक्षिणः सर्वे दिव्यशस्त्रैर्निपातिताः ।
गोपुराणां रक्षिकाश्च चत्वारिंशत्तदा तु याः ॥९५॥
अक्षोहिण्यः समग्रास्ता लक्ष्मीसैन्यैर्विभेदिताः ।
भण्डासुरस्य सौधस्य रक्षार्थं सैन्यमेव यत् ॥९६॥
दशाऽक्षौहिणिकारूपं देवीभिस्तद्विनाशितम् ।
नगरं शून्यवज्जातं भण्डस्य प्रेतवासवत् ॥९७॥
सर्वे सैन्यप्रणेतारो नष्टा भण्डस्य कारणात् ।
स्वप्नेऽपि यन्न संभाव्यं यन्न श्रुतमितः पुरा ॥९८॥
यच्च नाऽऽशंकितं दैत्यैस्तत्कष्टं त्वागतं तदा ।
विचार्येत्थं शतं चाक्षौहिणीनां समप्रेषयत् ॥९९॥
दिवानिशं महायुद्धं शस्त्रास्त्रबलनोदितम् ।
व्यवर्तताऽसुरैः साकं लक्ष्मीनां दिव्ययोषिताम् ॥१००॥
शतमक्षौहिणीनां च पपातैकदिनेन ह ।
शोणितं नगरं सर्वं भग्नं शोणितसम्प्लुतम् ॥१०१॥
अथ भण्डस्त्रिशताऽक्षौहिणीसेना असज्जयत् ।
अप्रेषयत् सर्वदेवीसैन्यं नाशयितुं ततः ॥१०२॥
वीक्ष्य तल्ललितादेव्याः षष्टिकोट्यात्मकं तदा ।
सैन्यं क्रुद्धमभूद् दृष्ट्वा निर्दैत्यं कर्तुमापतत् ॥१०३॥
पाशिन्यो मुशलिन्यश्च चक्रिण्यः शक्तिधारिकाः ।
मुद्गरिण्यः पट्टिशिन्यः कोदण्डिन्यस्त्रिशूलगाः ॥१०४॥
पिबन्त्य इव दैत्याब्धिं सन्निपेतुर्हि कोटिशः ।
अस्पृष्टपरशस्त्रास्ता दिव्या विभेदुरासुरान् ॥१०५॥
अभ्यन्तरं द्वयोः सैन्ये विवशतुः परस्परम् ।
संकुलाकारतां प्राप्तावास्तां वै सैन्यसागरौ ॥१०६॥
त्रिशताऽक्षौहिणिकास्ता देवीभिर्वै निकृन्तिताः ।
महालक्ष्म्याः प्रसादेन भिद्यन्ते नैव योषितः ॥१०७॥
प्रहारा नैव जायन्ते शस्त्राणि न स्पृशन्त्यति ।
जयोऽभवन्महालक्ष्म्या भण्डः शुशोच वै तदा ॥१०८॥
विजयो वा कथं स्यान्मे भवेयं जीवितः कथम् ।
एवं भूविवरे गत्वा व्यचिन्तयन्मुहुर्मुहुः ॥१०९॥
कैकसान् खलु दैतेयान् सस्मार भण्डकस्तदा ।
पूर्वे सूर्याद्वरं प्राप्तान् जये योग्यान् महाहवे ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महालक्ष्म्याः सैन्यानि भण्डनाशार्थं निर्ययुः, भण्डासुरस्य मन्त्रणा, भण्डसैन्यानां विनाशो भण्डस्यकैकसादिस्मरणमित्यादिनिरूपणनामा षोडशाधिकशततमोऽध्यायः ॥११६॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP