द्वापरयुगसन्तानः - अध्यायः २३
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं कथां मे चातिपावनीम् ।
प्राकट्यरूपां दिव्यां च वेधसोऽनलवत्सरे ॥१॥
अष्टाविंशे त्वष्टशते कल्पे च प्रथमे मनौ ।
राजाऽऽसीत् सूर्यवर्चाख्यो ब्रह्मणा त्वनुबोधितः ॥२॥
वेदमार्गरतः सर्वस्तराणां मण्डलेश्वरः ।
व्योमचारिविमानेन देवानां सदसि स्थितः ॥३॥
पातालेषु तथा मेरौ ग्रहेषु गतिमान् व्रती ।
मम पूजापरो नित्यं सिद्धानां सेवको युवा ॥४॥
प्रजानां मम भक्त्यर्थं यत्नवान् साधुसद्गुणः ।
स त्वेकदाऽचिन्तयद्धि राज्ञ्या समं निजालये ॥५॥
मानवोऽयं मम देहः प्रिये नृपाऽभिबोधितः ।
नॄन्पातीतियथार्थं वै कदा प्रवर्तते प्रिये! ॥६॥
राज्ञी प्राह मनुष्याणां देहोऽयं मोक्षसिद्धये ।
नॄणां मोक्षप्रदातृत्वे नृपः स्वार्थे प्रवर्तते ॥७॥
नृपशब्दोऽन्यथा नैव सार्थकः शासने मतः ।
भूत्वा भूत्वा विलीयन्ते मानवाः कर्मसंहृताः ॥८॥
तेषां पालनकार्ये च कृतेऽपि यान्ति संक्षयम् ।
देहरक्षा न वै रक्षा देहपत्वं न पालनम् ॥९॥
अन्नानि च जलं वह्निर्वायुः पान्ति स्वभावतः ।
राज्ञां तत्राऽऽवश्यकता नास्ति स्वभावपालिते ॥१०॥
श्रेष्ठयुगे न वै चौर्यं न छद्म नाऽपहर्तृता ।
तेन युगः प्रयात्येव राज्ञां तत्र न पालिता ॥११॥
कृते युगे सत्यधर्मे राजा निरर्थको यतः ।
सार्थकत्वं नृपत्वं तु मार्गणीयं भवेद् यदि ॥१२॥
मम बुद्धौ मोक्षदानप्रदानेन नृपालिता ।
सार्थकेति प्रजानाथ! प्रतिभात्येव तत्कुरु ॥१३॥
राजा भक्त्या स्वयं मोक्षं प्रयात्येव यथा तथा ।
प्रजाश्चापि पराभक्त्या मोक्षमाप्नुयुरेव चेत् ॥१४॥
नृपतित्वं कृतं तेन सार्थकं जन्मवेदिना ।
एतादृशं नृपत्वं त्वं राजन् कुरु प्रमुक्तिदम् ॥१५॥
श्रुत्वैवं महिषीवाक्यं नृपो मुमोद चान्तरे ।
श्रुतितुल्यां सतीं मत्वा पत्नीं मोक्षसहायिनीम् ॥१६॥
पुनः पप्रच्छ तां मुद्गायनीनाम्नीं निजां प्रियाम् ।
कया रीत्या नृणां 'मोक्षकरणं स्यात् प्रशाधि मे ॥१७॥
मुद्गायनी तदा प्राह ऋषीन् सिद्धान् तपस्विनः ।
साधून् साध्वीः समाहूय लोकान्तरेभ्य इत्यपि ॥१८॥
मन्दिरं कारयित्वा च मोक्षदां पारमेश्वरीम् ।
प्रतिमां स्थापयित्वा त्वं सदा कुरु महोत्सवान् ॥१९॥
प्रजाः सेवां पूजनं च दर्शनं स्मरणं तथा ।
कीर्तनं श्रवणं भृत्यं दास्यं च वन्दनं स्तवम् ॥२०॥
करिष्यन्ति भजनं च नर्तनं भावनाऽर्पणम् ।
अन्नवस्त्रार्पणं पात्राऽर्पणं च चन्दनार्पणम् ॥२१॥
शृंगाराणामर्पणं च सुगन्धानां तथाऽर्पणम् ।
पञ्चामृताऽर्पणं चापि गीतार्पणं जपाऽर्पणम् ॥२२॥
आत्मार्पणं करिष्यन्ति गमिष्यन्ति परं पदम् ।
मार्जनं लेपनं चापि दीपार्पणं ध्वजार्पणम् ॥२३॥
वाद्यार्पणं वादनं च फलपुष्पार्पणं तथा ।
कुंकुमाऽक्षतहाराणामर्पणं धूपकाऽर्पणम् ॥२४॥
नैवेद्यार्पणमेवापि तथा नीराजनार्पणम् ।
प्रदक्षिणं स्तुतिं नमो दण्डवच्च तथाऽञ्जलिम् ॥२५॥
हावं भावं च वै हरेरालोचनं च चिन्तनम् ।
मननं निर्णयं चापि करिष्यन्ति जनाः कथाम् ॥२६॥
धनं स्वर्णं तथा रौप्यं ताम्रं वा यष्टिकां च वा ।
आभरणानि दिव्यानि मणीन् रत्नानि हीरकान् ॥२७॥
मञ्जरीः पुष्पमालाश्च गुच्छान् वेषान् सुशोभनान् ।
मुकुटं कटकं मालां शृंखलां मेखलां तथा ॥२८॥
ऊर्मिकां चापि हेतींश्च शंखचक्रादिकानि च ।
नक्तकं सुखशय्यां च पादुके यानमुत्तमम् ॥२९॥
वाहनं च विमानं च गोधनं च रसादिकम् ।
सुमिष्टं शर्कराद्यं च मधु घृतं कणादिकम् ॥३०॥
घटं सुकलशं स्थालीं पूजापात्राणि वर्त्तिकाः ।
उत्सवोपकरणानि दास्यन्ति मानवाः खलु ॥३१॥
हरये त्वर्पणं कृत्वा यास्यन्ति परमं पदम् ।
कर्मठा अपि सत्राणि कृत्वा वै मन्दिरे हरेः ॥३२॥
भिक्षुकाश्च प्रसादान्नं भुक्त्वा यास्यन्ति तत्पदम् ।
अपराधकृतः क्षमां याचित्वाऽपि हरेः पुरः ॥३३॥
पापाः पापं निवेद्याऽपि यास्यन्ति परमां गतिम् ।
व्रती व्रतानि प्रार्प्यैव गमिष्यति परं पदम् ॥२४॥
नार्यो नारायणं देवं भजित्वा परमेश्वरम् ।
कान्तं सर्वेश्वरं तं च यास्यन्ति परमं पदम् ॥२५॥
बाला वृद्धाः सधना वा निर्धना अपि सर्वथा ।
भजित्वा भगवन्तं तं यास्यन्ति परमं पदम् ॥३६५॥
तस्माद् राजन्नृणां मोक्षमार्गस्योद्घाटनाय वै ।
नृपतित्वं सार्थकं वै कर्तुं श्रीहरिमन्दिरम् ॥३७॥
प्रकारय शुभं श्रेष्ठं सहस्रैकघटान्वितम् ।
सहस्रशिखरं रम्यं सौवर्णकलशान्वितम् ॥३८॥
गगनस्पर्शि शोभाढ्यं तत्रैव विधिना हरिम् ।
भगवन्तं प्रभुं देवं प्रतिष्ठापय कानकम् ॥३९॥
प्रतिमारूपिणं देवं देवर्षिगणबोधितम् ।
सुरूपं सुन्दरं जगत्कर्तारं परमेश्वरम् ॥४०॥
निजशक्तियुतं निजैश्वर्यपार्षदसेवितम् ।
निजाऽऽयतनसंयुक्तं प्रतिष्ठापय तत्र च ॥४१॥
सर्वदृश्यं सर्वसेव्यं सर्वपापप्रणाशकम् ।
सर्वशान्तिप्रदं देवं श्रीपतिं पुरुषोत्तमम् ॥४२॥
इत्युक्त्वा स्वामिने राज्ञी तूष्णीमास क्षणं ततः ।
राजा पथ्यं च तथ्यं च मेने मोक्षप्रदं वचः ॥४३॥
जपसत्रं चकाराऽसौ मासिकं कीर्तनान्वितम् ।
आह्वयामास सिद्धाँश्च ऋषीन्देवांश्च मानवान् ॥४४॥
अखण्डनामभजनं कारयामास मासिकम् ।
हरे कृष्ण हरे कृष्ण श्रीपते पुरुषोत्तम ॥४५॥
अन्तरात्मन् प्रभो विष्णो परमेश नमोऽस्तु ते ।
इत्येवं भजनं राजा कारयामास चानिशम् ॥४६॥
भोजनानि विचित्राणि सुधास्वादूनि वै ददौ ।
सेवां सर्वविधां सर्वसत्रिणां विदधे मुदा ॥४७॥
नित्यमायान्ति लोकेभ्यः प्रयान्ति च सुरादयः ।
भजनं सततं तत्र जायतेऽविरतं प्रिये! ॥४८॥
एवं मासे श्रावणे वै व्यतीते चान्तिमे दिने ।
पूर्णातिथौ सभामध्ये प्रश्नं चकार भूपतिः ॥४९॥
मानुषाणां मोक्षगतिरखण्डिता भवेदिह ।
यथा तथा सुराद्या मे दर्शयन्तु प्रथां शुभाम् ॥५०॥
अथ सिद्धास्तदा प्राहुर्मन्दिरं त्वत्र कारय ।
ऋषयश्च सुराश्चापि मानवा जगदुस्तथा ॥५१॥
मन्दिरेण परा पुष्टिर्मोक्षस्याऽत्र भविष्यति ।
तत्प्रकारय राजेन्द्र प्रतिष्ठापय तत्र च ॥५२॥
श्रीपतिं परमात्मानं परब्रह्म परेश्वरम् ।
प्रतिमारूपिणं देवं सर्वमोक्षप्रदं प्रभुम् ॥५३॥
ओमित्युक्त्वा जपयज्ञं पूर्णं कृत्वा ततो नृपः ।
कारयामास सौवर्णं सहस्रशिखरान्वितम् ॥५४॥
नक्षत्रस्पर्शि सुदृश्यं मन्दिरं प्रथमं भुवि ।
सांगोपांगसमस्तं वै जातं पूर्णं ततः परम् ॥५५॥
चिन्तयामास मूर्त्यर्थं कुतः कस्माद् भवेदिति ।
रात्रौ राजाऽचिन्तयच्च निर्विण्णो मानसेऽभवत् ॥५६॥
सस्मार मां परब्रह्म श्रीपतिं पुरुषोत्तमम् ।
अहं भक्तस्मृतिं ज्ञात्वा साकं त्वया तु पद्मजे! ॥५७॥
गतवान् यत्र राजाऽसौ प्रत्यक्षतां गतोऽभवम् ।
सूर्यवर्चास्तदा दृष्ट्वा नत्वा मां गोचरं पुरः ॥५८॥
प्रणनाम मधुपर्कं ददौ चकार दण्डवत् ।
आसनं प्रददौ मह्यं सर्वाभरणशालिने ॥५९॥
सर्वतेजोऽभिदीप्ताय सर्वैश्वर्यान्विताय च ।
सर्वप्रसन्नतावृष्टिकारकायाऽऽन्तरात्मने ॥६०॥
प्रददौ भोजनं पानं पूजनं च निजार्पणम् ।
सर्वस्वाऽर्पणमेवाऽपि चक्रे भक्त्यान्वितो नृपः ॥६१॥
प्रार्थयामास मां तत्र निर्मिते मन्दिरे शुभे ।
नित्यवासस्य योग्ये वै महोद्यानाभिसंवृते ॥६२॥
प्रत्यक्षं भगवन्नत्र वस स्थिरः सदा भव ।
सलक्ष्मीकः पार्षदाद्यैश्चोपकरणैरन्वितः ॥६३॥
मया लोकस्य मोक्षार्थं तथाऽस्त्वेवं समीरितम् ।
अथोक्तं याहि राजेन्द्र! वनान्ते शिंशपाद्रुमम् ॥६४॥
ऋषीणामाश्रममध्ये स्थितं महान्तमुत्तमम् ।
तत्पार्श्वस्थं वामगं च वटवृक्षं शुभोत्तमम् ॥६५॥
मन्दिरेऽत्र यथावासो मम तत्र तथैव च ।
तौ वृक्षौ तव राज्येऽत्र नौ मूर्तिरूपिणौ नृप! ॥६६॥
स्वेच्छयैव मया लक्ष्म्या चोभाभ्यां कल्पितौ कृतौ ।
नित्यौ दिव्यौ मम रूपौ प्राचीनौ बहुवत्सरौ ॥६७॥
नित्यपुष्टौ देवपूज्यौ वर्तेते श्रीनरायणौ ।
तानिभौ नृप चावां स्वो याहि पूजय मानय ॥६८॥
ऋषिभिः पूजितौ नित्यौ वर्तामहे द्रुरूपिणौ ।
अथ मूर्तिस्वरूपौ वै ताभ्यां प्रकाशिताविह ॥६९॥
स्थास्यावश्चात्र विधिना प्रतिष्ठितौ स्वयं नृप ।
इत्युक्तः स ययौ राजा महोद्याने वटान्तिकम् ॥७०॥
शिंशपाद्रुमसंयुक्तं दिव्यॆ दिव्यरसान्वितम् ।
वटं शुभ्रं समालोक्य नृपस्त्वाश्चर्यमाप्तवान् ॥७१॥
ऋषीन् प्रणम्य विधिवन्महर्षिगणकारिताम् ।
पूजां चक्रे द्रुमयोः संयुक्तयोश्च नृपः स्वयम् ॥७२॥
धूपं दीपं जलदानं नैवेद्यं कुसुमाञ्चलिम् ।
दत्वा चारारेत्रिकं चक्रे तदाऽहं शिंशपाद्रुमे ॥७३॥
स्तम्बे नारायणः साक्षात्परमात्मा सनातनः ।
शंखचक्रगदापद्मधारी श्रीपुरुषोत्तमः ॥७४॥
श्यामलः श्यामवर्णश्च दिव्यरूपोऽभवं पुरः ।
शिंशपास्तम्ब एवाऽहं चाऽहं स्तम्बो न वै पृथक ॥७५॥
शाखा मे पार्षदाः सर्वे पार्षदाण्यश्च वै तदा ।
मद्देहयोगवन्तस्ते ह्यदृश्यन्त मदात्मकाः ॥७६॥
अथ वृक्षे वटे स्तम्बे भवतीगोचरा प्रिये! ।
स्तम्बाऽभिन्ना स्तम्बगर्भा वटकारणरूपिणी ॥७७॥
शाखाश्च तव सख्यश्च मुक्तान्यः शोभनाः प्रियाः ।
अदृश्यन्त त्वदभिन्नास्त्वद्योगिन्यस्त्वदात्मिकाः ॥७८॥
एवं मां त्वां वीक्ष्य राजा सूर्यवर्चा मुदान्वितः ।
प्रकृत्वा दण्डवत्तूर्णं संप्रोक्ष्य वेदमन्त्रकैः ॥७९॥
मां त्वां सम्मानपूर्वं चारोहयामास वै रथे ।
सौवर्णे शतकलशे विमानवत्सुशोभिते ॥८०॥
शतैकहस्तिवाह्ये च महोत्सवसमन्वितः ।
आनीय मन्दिरभूमौ मण्डपे विधिवत्तदा ॥८१॥
संस्थाप्य विधिना कृत्वा प्रतिष्ठां सर्वकर्मभिः ।
मन्दिरे मां त्वां तथा च पार्षदान् त्वत्सस्वीस्तथा ॥८२॥
संप्रतिष्ठापयामास दिव्यं प्रत्यक्षमागतम् ।
आकल्पं न्यवसं नैजे मन्दिरे वै त्वया सह ॥८३॥
दिव्यरूपो दिव्यनेत्रवतां भक्तिजुषां कृते ।
मूर्तिरूपश्चर्मचक्षुष्मतां मायाजुषां कृते ॥८४॥
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।
अनादिश्रीशिंशपानारायणः श्यामलोऽभवम् ॥८५॥
अनादिश्रीश्यामनारायणेतिख्यातिमाप्तवान् ।
त्वं वटश्रीख्यातिमाप्ता मम पार्श्वेऽतिसुन्दरी ॥८६॥
गौरश्वेतसुवर्णा वै दिव्यदेहा मनोरमा ।
मानवास्तु ततो नित्यं सुरा महर्षयोऽपि च ॥८७॥
पितरश्चाऽसुराश्चापि मां त्वां प्रसेव्य मुक्तिगाः ।
बभूवुस्तत्र कल्पे वै लक्ष्मि! नृपता सार्थिका ॥८८॥
राज्ञा तेन कृता राज्ञ्युपदेशेन प्रमोक्षदा ।
सर्वाभयप्रदानं वै कृतं राज्ञा मदर्पणात् ॥८९॥
एतज्जानाम्यहं लक्ष्मि! श्यामलं मम रूपकम् ।
गौरं रूपं तव लक्ष्मि! स्मर तन्मन्दिरं ह्यपि ॥९०॥
स्मर तं पार्षदं चापि राजानं च सखीं नृपीम् ।
स्मराऽसंख्याँस्तदा जातान्मुक्तान् कोट्यर्बुदाब्जकान् ॥९१॥
अन्ये तदाऽप्यवतारा मम जाता ह्यनेकशः ।
यथाकार्यानुरूपा वै जानाम्येतानहं प्रिये! ॥९२॥
एवं श्यामलरूपेण भक्तानां भक्तिमुत्तमाम् ।
श्रवणं कीर्तनं पादसेवनं वन्दनं तथा ॥९३॥
अर्चनं सख्यमेवाऽपि तथा चात्मनिवेदनम् ।
लेपनं मार्जनं पादसंवाहनं च भोजनम् ॥९४॥
जलपानं वस्त्रभूषादानं शृंगारकं तथा ।
आराधनं नमस्कारं सहयानं च नर्तनम् ॥९५॥
गायनं रमणं वाट्यां विहारं हसनं तथा ।
सर्वं त्वंगीचकाराऽहं भूत्वा प्रसन्न एव तान् ॥९६॥
निनाय मम धामाऽपि त्वक्षराख्यं परं पदम् ।
वैष्णवी पृथिवी सर्वा नरा नार्यश्च वैष्णवाः ॥९७॥
पशवः पक्षिणश्चापि मद्योगान्मुक्तिमाययुः ।
श्यामलः श्यामलश्चेति नारायणः परेश्वरः ॥९८॥
गायन्तो जीववृन्दा मामीयुः कल्पे तदा प्रिये! ।
पापिनोऽपि हरे श्याम वन्दतो धर्मिणोऽभवन् ॥९९॥
पठनाच्छ्रवणाच्चास्य स्मरणान्मुक्तिमाप्नुयात् ।
अन्ते राजा सदेशश्च सगोत्रः सप्रजाजनः ॥१००॥
साश्रितः सभृत्यकश्च सस्त्रीको मुक्तिमाप ह ।
अपि गोऽश्वप्रभृतयश्चापि मुक्तिं ययुः पराम् ॥१०१॥
तस्मान्मन्दिरनिर्माणं प्रतिमास्थापनं मम ।
श्रेष्ठमभयदानं तज्जीवानां जायते क्षितौ ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टाविंशे वत्सरे सूर्यवर्चानृपद्वारा मन्दिरेऽनादिश्रीशिंशपा(श्याम)नारायणस्य वटश्रीसहितस्य प्राकट्यमित्यादिनिपरूणनामा त्रयोविंशतितमोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : May 03, 2021
TOP