तरुणि तवेयं कुचतटिमति गुरुं कुरु मम ह्रदि सादरं ।
मनो मे भवति मनोभवदरं ॥ध्रु०॥’
अधरमधुरमधुरसरसिक मामुज्जीवय तावकं ।
प्रिये मे शमय विरहपावकं ।
मुंचति मदन: स्वीकृतकदनो मयि विषमं सायकं ।
निवारय तं सखि रतिनायकं ।
कोपादरुणं कुरु मयि करुणं रुचिनिर्जितधावकं ।
दिगंतं पाहि निज सेवकं ।
जहि जहि मानं मात्रज मौनं अनुकुलरुपे किं बकं ।
त्त्वदियं लपितं सुखयति न कं ।
॥चाल॥
त्त्वं मुधा भजसि मयि रुपं किमिती कातरे ।
किं कृतं मया वर गामिनी रुजिराधरे ।
कुरु कृपामरुण रुचिपल्लव कोमल करे ।
साहसं किमिदमति कोपभरे मंडप ।
मंजुळतरमृदुसिंजित मणिमयत मंजिर च्युतिधरं ।
नतोहं तावकपटपुष्करं ॥१॥