॥१०॥ सुरेशे नौमि * गोपतिम् ॥
सुरेशः शुभदातॄणां, देवानां परमेश्वरः ॥८५॥
देव स्त्वं शरणं सत्य मार्ताना मार्तिनाशकः ॥८६॥
त्वय्येव शोभते शर्मः, परमानंदरूपकम् ॥८७॥
विश्वस्य कारणत्वात्त्वं, विश्वरेताः प्रकीर्तितः ॥८८॥
उद्भवंति प्रजाः सर्वा, यस्मा त्स त्वं प्रजाभवः ॥८९॥
अहः शोभनज्योति स्त्वं, ह्वद्याविर्भव हे प्रभो ॥९०॥
त्वंहि संवत्सरो विष्णुः, कालरूपतया स्थितः ॥९१॥
त्वं जनै र्गद्यसे व्यालः, शक्यो धर्षयितुं न यत् ॥९२॥
सदा प्रतीयमानत्वात्, विश्वाक्षः सर्वदर्शनः ॥९३॥
सर्वाणि दर्शनान्यस्य, विश्वाक्षः सर्वदर्शनः ॥९४॥
युगांकै स्तं हृषीकेशं, वंदेहं सर्वदर्शनम् ॥१०॥९४॥
सुरेश देव हृषीकेशा । सर्वदर्शना जगदीशा ॥
सुरेशः शुभदातार । देव देवांचा ईश्वर ॥८५॥
शरणं भक्तां सुखदाता । सदा संतां संरक्षिता ॥८६॥
शर्म मंगल आनंदि । देव केवळ परमानंदि ॥८७॥
विश्वरेता जगां हेतु । विश्वकारक समर्थु ॥८८॥
प्रजाभवः स्वरूपतां । सर्व प्रजां उत्पादिता ॥८९॥
अहः स्वयंप्रकाशित । योगिहृययीं आविर्भूत ॥९०॥
संवत्सरः कालविभू । विश्व उद्भविता प्रभु ॥९१॥
व्यालः संहरिता काळ । जयापुढें नचलें बळ ॥९२॥
प्रत्ययः स्वरूपानुभूती । होय अंतरीची स्फूर्ति ॥९३॥
सर्वदर्शनः सुन्दर । विश्वसाक्षी परमेश्वर ॥९४॥
माधवकृपां भूकवाचा । परा हृषीकेशा अवाचा ॥१०॥९४॥