संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७३

विष्णोर्नाम गीता - भजन ७३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७३॥ स्तव्यं त्रिसप्ततिं वंदे ॥
स्तव्यः प्रकीर्त्यसेयस्मात् स्तूयसे ऋषि दैवतैः ॥६७९॥
उक्तः स्तवप्रियः स्तुत्या यतःप्रीतोsसि हेप्रभो ॥६८०॥
स्तूयते येन तत् स्तोत्रं गुणसंकीर्तनात्मकम् ॥६८१॥
स्तोत्रेणस्तूयमानत्वात् स्तुतिः कीर्तन तत्परा ॥६८२॥
शक्तोसि स्तोतुमात्मानं त्वंहि स्तोता स्मृतो यतः ॥६८३॥
आयुधानि रणे धत्ते रक्षणार्थं रणप्रियः ॥६८४॥
पूर्णः कल्पद्रुमः कामैः सम्पन्नः शक्तिभिः सदा ॥६८५॥
उक्तः पूरयिता sसित्वं भक्तकामान् प्रपूरयन् ॥६८६॥
कल्मषं क्षपयन् पुण्यः स्मृतिमात्रेण कीर्तितः ॥६८७॥
यस्य पुण्य तमाकीर्तिः पुण्यकिर्ति रुदीरितः ॥६८८॥
व्याधिभिः पीडयते नैव ह्यन्तर्बाह्यै रनामयः ॥६८९॥
अंक नागारि भिर्वंदे केशवं तमनामयम् ॥७३॥६८९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP