खण्डः २ - अध्यायः ००४
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच॥
एवं गुणगणाकीर्णं वरयेयुर्नराधिपम्॥
सम्भूय राष्ट्रप्रवराः क्षत्रियं तु कुलोद्गतम् ॥१॥
वृतश्च तैर्व्रतं राजा गृह्णीयाद्विजितेन्द्रियः॥
पालयिष्यामि वः सर्वान्धर्मस्थान्नात्र संशयः ॥२॥
व्रतं गृहीत्वा राज्यार्थी वृणुयाद्ब्राह्मणोत्तमम्॥
सांवत्सरं सुखायास्य सर्वस्य जगतो नृपः ॥३॥
सर्वलक्षणलक्षण्यं विनीतं प्रियदर्शनम्॥
सुरूपं वेशसंपन्नं नित्यमूर्जितदर्शनम ॥४॥
अदीनवादिनं धीरं धर्मनित्यं जितेन्द्रियम्॥
अव्यङ्गं नाधिकाङ्गं च वेदवेदाङ्गपारगम् ॥५॥
चतुःषष्ट्यङ्गतत्त्वज्ञमूहापोहविशारदम्॥
भूतभव्यभविष्यज्ञं गणितज्ञं विशेषतः ॥६॥
विचन्द्रा शर्वरी यद्वन्मुकुटं च च्युतोपलम्॥
गणितेन तथा हीनं ज्योतिषं नृपसत्तम ॥७॥
आस्तिकं श्रद्दधानं च अनुकूलं महीपतेः॥
सांवत्सरं नृपो गत्वा वरयेत्प्रयतः शुचिः ॥८॥
येनाभिषिक्तो नृपतिर्विनष्टस्तु नराधिप॥
सांवत्सरं न तं विद्वान्वरयेन्नृपसत्तम ॥९॥
न हीनाङ्गं न वाचालं न च निष्प्रतिभं नृपः॥
कुवेशमलिनं मुण्डं नास्तिकं पापनिश्चयम् ॥१०॥
भिन्नवृत्तिं च वरयेद्वरयेत्सद्गुणं सदा॥
वरयित्वा तु वक्तव्याः स्वयमेव महीभुजा ॥११॥
यथैवाग्निमुखा देवास्तथा राजमुखाः प्रजाः॥
यथैवाग्निमुखा मन्त्रा राज्ञां सांवत्सरास्तथा ॥१२॥
त्वं मे माता पिता चैव देशिकश्च गुरुस्तथा॥
दैवं पुरुषकारश्च ज्ञातव्यौ सततं त्वया ॥१३॥
समधर्मज्ञ भद्रं ते राज्यं साधारणं हि नौ॥
समानेयः शुभो देवस्त्वयैव मम सत्तम ॥१४॥
पौरुषेण पदं कार्यं समरं च तथा मया॥
स चेत्तदभिमन्येत पार्थिवस्य महागुणम् ॥१५॥
अथवा गुणदोषेण प्रज्ञया चाशु यो नृणाम्॥
दैवोपघातसमरे विज्ञानं पौरुषस्य च ॥१६॥
वाडवं न च प्राज्ञस्तु तस्यैवानुमते तदा॥
तेनोद्दिष्टौ तु वरयेद्राजा मन्त्रिपुरोहितौ ॥१७॥
तेनोद्दिष्टां च वरयेन्महिषीं नृपसत्तमः॥
ततोऽभिषेकसम्भाराँस्तस्य कुर्यात्स दैववित् ॥१८॥
कुञ्जरं तुरगं कुर्यात्तस्य राज्ञः परीक्षितौ॥
भद्रासनं च च्छत्रं च वालव्यजनमेव च ॥१९॥
खड्गरत्नं तथा चापं रत्नानि विविधानि च॥
राज्ञो मृतस्य ये त्वासन्सर्वाणि तु नराधिप ॥२०॥
ते न कार्या नरेन्द्रस्य तेन दैवविदा तथा॥
कामं संवत्सरं कार्या अलाभेऽन्यस्य भूभुजा ॥२१॥
गुणाधिकस्य नो कार्या येऽन्यत्राभिहिता मया ॥२२॥
न तत्र नागाः सुभृता न योधा राज्ञो न माता न पिता न बन्धुः॥
यत्रास्य साध्यं भवतीह विद्वान्सांवत्सरो धर्मविदः प्रमत्तः ॥२३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करकथासु सांवत्सरिक लक्षणं नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : December 06, 2022

TOP