खण्डः २ - अध्यायः १५६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच॥
इन्द्रध्वजशिरो भज्येत्पतेदिन्द्रध्वजो यदि॥
भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः ॥१॥
यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च॥
मातृकायास्तथा भङ्गे परचक्रे भयं द्विज ॥२॥
दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा॥
तेषां तीव्रतमं ज्ञेयं फलमत्यन्तदारुणम् ॥३॥
निलीयते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज॥
राजा वा म्रियते तत्र स वा देशो विनश्यति ॥४॥
इंद्रध्वजोपकरणं यत्किंचिद्द्विजसत्तम॥
विनश्यति तदा ज्ञेया पीडा नगरवासिनाम् ॥५॥
इंद्रवाजिनिमित्ते तु प्रायश्चित्तमिदं स्मृतम्॥
इन्द्रयागं पुनः कुर्यात्सौवर्णेनेन्द्रकेतुना ॥६॥
राज्यं दत्त्वा च गुरुवे बन्धनानि प्रमोचयेत्॥
सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ॥७॥
शान्तिरैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः॥
महाभोज्यानि कार्याणि ब्राह्मणानां दिनेदिने ॥८॥
गावश्च देया द्रिजपुङ्गवेभ्यो हिरण्यवासोरजतैः समेताः॥
एवं कृते शान्तिमुपैति पाप वृद्धिस्तथा स्यान्मनुजाधिपस्य ॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे इन्द्रध्वज निमित्तशमनवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥१५६॥
N/A
References : N/A
Last Updated : December 20, 2022

TOP