खण्डः २ - अध्यायः १८३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच॥
सन्नद्धैश्चर्मिभिर्भाव्यं तथा बद्धकृपाणिभिः॥
चर्माणि तत्र वैयाघ्रमाहिषाण्यृषभाणि च ॥१॥
खेटकाद्यथ वा राम चर्माणि प्रभवन्ति तु॥
तथा वरणमुख्यानि खड्गानि विविधानि च ॥२॥
बद्धादिभिः सतूणीरैस्तथा राम सतोमरैः॥
बद्धगोधाङ्गुलित्राणैर्बद्धादर्शैर्विभीषणैः ॥३॥
तथा परश्वधोपेतै राम स्वासनयोधिभिः ॥४॥
गदाधरास्तथैवात्र सकृत्पाणिपरिच्छदाः॥
सुसंनद्धा सुमनसो भवेयुर्विपुलौजसः ॥५॥
यत्र यस्य विशेषेण शस्त्रास्त्रैर्वातकौशलम्॥
तदेव तस्य निर्दिष्टं यथावन्मनुजोत्तम ॥६॥
सखलीनाः सपर्याणास्तथा सास्तरणा हयाः॥
कार्याः सकवचा युद्धे चामरापीडधारिणः ॥७॥
अश्वी भवेत्सुसन्नद्धो रश्मिप्रग्रहकोविदः॥
तथा सावरणो राम सकृपाणी परिच्छदः ॥८॥
बद्धासिर्बद्धजीवश्च तुरगारूढपिण्डकः॥
ससुप्रासो भवेद्राम नानायुधधरस्तथा ॥९॥
रथः कार्यस्तथा युक्तः ईषादण्डकबन्धुरैः॥
सुचक्रोपस्करयुतः सर्वरूपः पताकराट् ॥ ॥१०॥
त्रिवेणुसंततश्चैव वैयाघ्रपरिवारणः॥
किंकिणीजालनिर्घोषस्तथा वै सुप्रतिष्ठितः ॥११॥
उपासङ्गैर्निषङ्गैश्च तूणीरैर्वरकार्मुकैः॥
सर्वायुधैरुपेतश्च तथा वृक्षादनीयुतः ॥१२॥
तोयजीरकपिण्डीभिर्युक्तः शृङ्गैस्तथैव च॥
सन्नद्धः सारथिस्तत्र भवेद्राम प्रतोदवान् ॥१३॥
रश्मिग्रहणविच्चापि तथा मण्डलकोविदः॥
तथाश्वहृदयज्ञश्च दूरदृष्टिः सुयन्त्रितः ॥१४॥
स्वासनः कालविच्चैव बद्धासिः पाशसंयुतः॥
पार्ष्णिः स्यादायुधज्ञस्य तथैवायुधकोविदः ॥१५॥
चिरेण मूले यस्य स्यादवस्थानं महाभुजः॥
पताकावरणं यस्य आयुधानां समर्पणम् ॥१६॥
समायान्तं महाभागं तथा सारथिरक्षणम॥
स्यातां धनुर्धरौ तत्र तथा च रथिनावुभौ ॥१७॥
योधौ धनुर्भृतां श्रेष्ठ सर्वायुधविशारदौ॥
तुरगाश्च सुसंनद्धा दान्ताः कार्यास्तथा रथे ॥१८॥
तुल्यवेगबलाश्चैव तथा लघुपरिच्छदाः॥
अतः परं प्रवक्ष्यामि तव नागेन्द्रकल्पनम् ॥१९॥
कुञ्जरः स्यात्सुसन्नद्धः सपर्याणः कुथा वृतः॥
सर्वायुधधरश्चैव तथा योधा वरायुधाः॥ ॥२०॥
परश्वधकराश्चैव तोयजीरकसंयुताः॥
सम्यग्विभाज्याश्च तथा शृङ्खलावततास्तथा ॥२१॥
पताका च तथा कार्या कुञ्जरस्य सुशोभना॥
वराङ्कुशधरौ तत्र स्यातां मनुजपुङ्गवौ ॥२२॥
एकः पृष्ठस्थितस्तत्र द्वितीयः स्कन्धगो भवेत्॥
योधौ द्वौ वरधानुष्कौ द्वौ च खड्गधरौ दरौ ॥२३॥
तयोरनुभवेतां वै तथा रक्षापरायणौ॥
एकः पार्ष्णिस्थितस्तत्र वरशक्तिपताकधृक् ॥२४॥
पालयेज्जघनं यद्वत्कुञ्जरस्य महामते॥
एवं परस्परायत्ता रक्षा तेषां यथा भवेत् ॥२५॥
महामात्रस्य धर्मज्ञ तथा च गजयोधिनः॥
एवमेव तथा रक्ष्यो रथिनः स रथी भवेत् ॥२६॥
कुञ्जरस्य तु रक्षार्थं भवेद्रथचतुष्टयम्॥
रथेरथे गजे वापि तुरगाणां त्रयं भवेत् ॥२७॥
धानुष्काणां त्रयं प्रोक्तं रक्षार्थं तुरगस्य च॥
धन्विनो रक्षणार्थाय वर्मिणोऽपि नियोजयेत् ॥२८॥
कार्यं सर्वं सुसंबाधं तथा तोरणरक्षणम्॥
योजना च तथा कार्या यथा तु स्याद्धृतिक्रमः ॥२९॥
संबाधश्च तथा राम न भवेच्च परस्परम् ॥ ॥३०॥
नागेन्द्रकल्पं तव सर्वयुक्तं संक्षेपतो भार्गववंश मुख्य॥
एतत्तु कृत्वापि नरः सयुद्धे जयत्यवश्यं समुपार्जने च ॥३१॥
इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदे वाहनसज्जीकरणो नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥१८३ ॥
समाप्तोऽयं विष्णुधर्मोत्तरद्वितीयखण्डः ।
N/A
References : N/A
Last Updated : December 21, 2022
TOP