खण्डः २ - अध्यायः १२६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
पुष्कर उवाच॥
संहितां वैष्णवीं जप्त्वा विष्णुं प्रीणाति मानवः॥
सर्वकाममवाप्नोति तथा हुत्वा च भार्गव ॥१॥
स्कन्दस्य संहितां जप्त्वा स्कन्दात्कामानुपाश्नुते॥
आस्यदघ्ने जले तिष्ठन्नघेनाकीर्णमानसः ॥२॥
त्रिःसप्तकृत्वो जप्त्वा च सर्वान्कामानुपाश्नुते ॥
तथा च संहितां पित्र्यां तत्प्रसादमुपाश्नुते ॥३॥
गुरुगोब्राह्मणादीनामुक्त्वा नाम प्रियं नरः॥
सोपवासो जपेत्तोये त्विदं विष्णुर्विचक्रमे ॥४॥
सदा गावश्च शुचयः प्रयाज्ययजने जपेत्॥
अमेध्यदर्शने जापोः पन्था अमे दिवः ॥५॥
एतदिन्द्रस्तवामीति सर्वपापहरं जपेत्॥
शुक्रं तेऽन्यद्यजतं जप्त्वा स्तेयाद्विमुच्यते ॥६॥
चक्रानिति तथा जप्त्वा पारयायी विमुच्यते॥
सहन्तः सोममित्येतज्जप्त्वा मुच्येत्प्रतिग्रहात् ॥७॥
यत्तत्सोम इन्द्र इति हिंसादोषविनाशनम्॥
अग्नेर्भयात्प्रमुच्येत अग्निस्तिग्मेति वै जपन् ॥८॥
सर्वपापहरं ज्ञेयं परितो षिञ्चतामिति॥
पर्वासुसोमेति जपेज्जीवितुं तु सुकर्मणा ॥९॥
अविक्रेयं च विक्रेयं जपेद्घृतवतीत्विति॥
अप्यानी देवसवितो ज्ञेयं दुःस्वप्ननाशनम् ॥१०॥
त्रातारमिन्द्रमित्येव महि त्रीणामवोस्त्विति॥
उदुत्तमं वरुणपाशेत्यायुष्याणि जपेत्सदा ॥११॥
शुक्रचन्द्रेति जाप्येन पूतो भवति मानवः॥
शुद्धाशुद्धीयमेतच्च तं वचोसूक्तमेव च ॥१२॥
न्यग्रोधशृङ्गमादाय शरमूलं तथैव च॥
त्रिवृतं तु मणिं कृत्वा जुहुयाच्च सहस्रशः ॥१३॥
बोध्यासिरिति मन्त्रेण घृतं राम यथाविधि॥
अभ्यज्य घृतशेषेण मेखलाबन्ध इष्यते ॥१४॥
स्त्रीणां यासां तु गर्भाणि पतन्ति भृगुसत्तम॥
वणिग्जातस्य बालस्य बध्नीयात्तदनन्तरम् ॥१५॥
गोर्वै स्वरूपवत्सायाः शुक्लाया जुहुयाद्घृतम्॥
उग्रप्रिया तु शरणं मंत्रेणानेन मन्त्रवित् ॥१६॥
रक्षसा मुच्यते जन्तुर्मणिं शिरसि धारयेत्॥
कौत्स्यं घृतं तु प्राश्नीयान्नित्यमेव विचक्षणः ॥१७॥
विश्वापृतन्निति मन्त्रेण व्याधिभिर्विप्रमुच्यते॥
चर्षणीवृतमेतेन घृतं हुत्वा यथाविधि ॥१८॥
शतायारिमणिं बद्ध्वा न सर्पैः परिभूयते॥
समत्यायन्तीति जपेन्न म्रियेत पिपासया ॥१९॥
इष्ट्याहोत्रितयं जप्त्वा सलिले नाप्नुयाद्भयम्॥
त्वमेमा ओषधीत्वेतज्जप्त्वा व्याधिं न चाप्नुयात् ॥२०॥
यत्ते पयांसि पूर्वेण ग्रासं वै प्रक्षिपेन्मुखे॥
निगिरेदुत्तरेणैतन्नित्यमारोग्यमाप्नुयात् ॥२१॥
देवव्रतेन हुत्वाज्यमुच्छेषेण विचक्षणः॥
करवीरकमभ्यज्य दण्डहस्तगतेन तु ॥२२॥
स्वस्तिमांस्तेन भवति यत्र क्वचन गच्छति॥
पथि देवव्रतं जप्त्वा भयेभ्यो विप्रमुच्यते ॥२३॥
यदिन्द्रो अनयत्वेति हुतं सौभाग्यवर्धनम्॥
भद्रान्नो अग्निरिति च दन्तकाष्ठं च भक्षयेत् ॥२४॥
संवत्सरमनिष्ठीवन्मध्वाज्यसहितं सदा॥
सौभाग्यं महदाप्नोति यत्र क्वचन गच्छति ॥२५॥
भगो न चित्र एतेन नेत्रयोरञ्जनं स्मृतम्॥
सौभाग्यवर्धनं राम नात्र कार्या विचारणा ॥२६॥
जपन्निन्द्रेति वर्गं च तथा सौभाग्यमाप्नुयात्॥
करिप्रियो दिवः कविः काम्यां संश्रावयेत्स्त्रियम् ॥२७॥
सा तं कामयते राम नात्र कार्या विचारणा॥
रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनम् ॥२८॥
यशसामेति जुहुयात्पुष्पेण तु प्रियङ्गुकम्॥
यशसा योगमाप्नोति कर्मणानेन मानवः ॥२९॥
प्राशयेद्बालकं नित्यं वचाचूर्णं घृताप्लुतम्॥
इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ॥३०॥
हुत्वा रथन्तरं जप्त्वा पुत्रमाप्नोत्यसंशयम्॥
गीर्वाणः पाहि सततं जप्तं स्यादघतारकम् ॥३१॥
मयि श्रीरिति मन्त्रेण जप्तव्यं श्रीविवर्धनम्॥
दानाविशति देवोऽपि मन्त्रेणानेन धर्मवित् ॥३२॥
क्रीत्वा घृतं तु पुष्पेण सुषुमाणीत्यतः पिबेत्॥
अलक्ष्मीनाशनं कर्म मयैतत्ते प्रकीर्तितम् ॥३३॥
पुष्पेण सर्षपान्गौरांश्चूर्णयित्वा विचक्षणः॥
इन्द्रेहिमत्स्यं धर्मेति कुर्यादुत्सादनं बुधः ॥३४॥
घृतस्नानं बुधः कृत्वा सर्षपाञ्जुहुयात्ततः॥
अद्येत्वीडाविन्द्रियेति मन्त्रेणानेन मन्त्रितम् ॥३५॥
पुष्टिदं कर्म कथितं मयैतत्तव भार्गव॥
मिश्रान्व्रीहि यवानग्नौ हुत्वा भृगुकुलोद्भव ॥३६॥
मुनीशो धाम एतेन धान्यभागी भवेत्सदा॥
मध्वाज्यदधिमिश्राणि विप्राणीति जुहोति यः ॥३७॥
साष्टं सहस्रं धर्मज्ञ श्रावयन्तीह मानवाः॥
मासोपवासी लभते कनकं बहु भार्गव ॥३८॥
गव्येषुणेति च द्वाभ्यां यस्तु संवत्सरं नरः॥
न्यग्रोधजपनिष्ठीवं भक्षयेद्दन्तधावनम् ॥३९॥
सहस्रसङ्ख्यं स धनं लभते नात्र संशयः॥
भद्रो न अग्न इत्येतत्तथा हुत्वा सहस्रशः ॥४०॥
औदुम्बरेध्महोमेन मन्त्रेणानेन गां लभेत्॥
हुत्वा व्रीहियवानग्नौ धान्यमाप्नोति मानवः ॥४१॥
एवासि वीरेयुरिति द्वादशाहमुपोषितः॥
सर्पिषा त्वयुतं हुत्वा ग्राममाप्नोति मानवः ॥४२॥
वैरूपाष्टकवन्नित्यं प्रयुञ्जानः श्रियं लभेत्॥
श्रान्ताष्टकं प्रयुञ्जानः सर्वान्कामानवाप्नुयात् ॥४३॥
गव्येषुणेति यो नित्यं सायं प्रातरतन्द्रितः॥
उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे ॥४४॥
अग्ने विवस्वदुषसा मन्त्रेणानेन मन्त्रवित्॥
भाजनस्योपनीतस्य यस्त्वग्रं जुहुयात्सदा ॥४५॥
उत्तरेण बलिं दत्त्वा सर्वान्कामानवाप्नुयात्॥
क्षीरैकवृक्षमासाद्य मणिभद्राय मानवः ॥४६॥
अष्टरात्रोषितः पूजां कृत्वा दद्यात्ततो बलिम्॥
सुसंस्कृतेन मांसेन कृष्णपक्षं क्षपेद्बुधः ॥४७॥
एषस्यतेति मधुमन्निन्द्र एतेन भार्गव॥
सुवर्णमाप्नोति नरो यावदिच्छति शत्रुहन् ॥४८॥
शुक्लपक्षचतुर्दश्यां त्रिरात्रोपोषितो नरः॥
मौनं मासं पायसं च रसत्रय समन्वितम् ॥४९॥
सप्तधेनवो दुदुहुर्मन्त्रेणानेन मन्त्रवित्॥
कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितस्तथा ॥५०॥
मत्स्यानुपहरेद्रात्रावासुरीमाप्नुयाच्छ्रियम्॥
बलयुक्तश्च भवति दीप्ततेजास्तथैव च ॥२१॥
धानावन्तं करम्भिणं मन्त्रेणानेन पायसम्॥
हुत्वा दिगष्टके दद्याद्दिक्पालानां ततो बलिम् ॥५२॥
वास्तुदोषहरं कर्म मयैतत्परिकीर्तितम्॥
राजा समाचरेत्स्नानं पुष्येण श्रवणेन च ॥५३॥
आप्रातृव्य इति सदा रहस्यं स्नानमाचरेत्॥
स्वेच्छापतितजीवन्तीगवां शृङ्गसमुद्भवैः ॥५४॥
काशैर्मध्वाज्यसम्पूर्णैर्दधिक्षीरयुतैस्तथा॥
निःसपत्नमवाप्नोति राज्यं निर्गतकण्टकम् ॥५५॥
घृताक्तं तु यवद्रोणं वात आवतभेषजम्॥
अनेन हुत्वा विधिवत्सर्वान्दोषान्व्यपोहति ॥५६॥
प्रादेवो दास एतेन कृष्णान्हुत्वा तथा तिलान्॥
कृत्वा कर्माणि तीर्थोदैः स्तैन्यात्क्षिप्रं विमुच्यते ॥५७॥
अभि त्वा पूर्वपीतं ये वषट्कारसमन्वितम्॥
बाधकेध्मसहस्रं तु हुतं युद्धे जयप्रदम् ॥५८॥
हस्त्यश्वपुरुषान्कुर्याद्बुधः पिष्टमयाञ्छुभान्॥
परकीयानथोद्दिश्य प्रधानपुरुषाँस्तथा ॥५९॥
स्वस्त्यन्नापिष्टपचने क्षुरेणोत्कृत्य भागशः॥
अभित्वा शूर नो नुमो मन्त्रेणानेन मन्त्रवित् ॥६०॥
कृत्वा सर्षपतैलाक्तान्क्रोधेन जुहुयात्ततः॥
एतत्कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् ॥६१॥
आषाढ्यां पौर्णमास्यां तु सोपवासो विचक्षणः॥
सायं धान्यानि वस्त्राणि सस्यानि तोलयेद बुधः ॥६२॥
इध्ममिद्देवतामन्ने मन्त्रेणामन्त्रयेत्तु ताम्॥
पूजितां वासयेद्रात्रौ देशे परमपूजिते ॥६३॥
देशानां भूमिपालानां तथा देवचतुष्पदाम्॥
मृन्मयानां तु कर्तव्यं तथा रात्र्याधिवासनम् ॥६४॥
तुलितानां द्वितीयेह्नि तत्तद्वृद्धि प्रवर्धने॥
हीनस्य क्षयमादेश्यं समस्य समता तथा ॥६५॥
गोव्रतं तु बुधः कुर्यादादौ मासचतुष्टयम्॥
ततस्त्वरण्यं प्रविशेत्तत्र कुर्याज्जपं शुभम् ॥६६॥
तपः सदृशमासाद्य जाप्त्वैतदिति वै सदा॥
सहस्रकृत्वस्तु जपेत्सप्तरात्रत्रये गते ॥६७॥
मनसा कांक्षितान्कामान्ध्रुवमाप्नोति मानवः॥
अन्तरिक्षेण वा याति रूपान्यत्वं करोति वा ॥६८॥
अदृश्यत्वमवाप्नोति दैत्यत्वमथ वा पुनः॥
तंतं काममवाप्नोति यंयं वा मनसेच्छति ॥६९॥
साम्नस्तु देवतां ज्ञात्वा तेन साम्ना तु देवताम्॥
आराधयेत्सुप्रसन्ना साम्ना स्यात्संशयं विना ॥७०॥
अमूषु पूर्वं तु सदा मन्त्रमावर्तयेच्छुचिः॥
चन्दनेनानुलिप्तांगो जातिपुष्पधरस्तथा ॥७१॥
श्वेतोष्णीषः श्वेतवासाः सर्वान्कामानवाप्नुयात्॥
एवं दुदुहकेत्येतत्सोपवासस्तु यो जपेत् ॥७२॥
अक्षतैः सुमनोभिश्च तथा वा गौरसर्षपैः॥
अवकीर्य शुभं देशं त्वेकाकी प्रस्वपेन्निशि ॥७३॥
वाग्यतस्तु तथा स्वप्ने पश्यतीति शुभंशुभम्॥
यथावद्भृगुशार्दूल भविष्यद्भूतमेव वा ॥७४॥
भारुण्डं वामदेव्यं च रथन्तरबृहद्रथौ॥
सर्वपापप्रशमनाः कथिताः संशयं विना ॥७५॥
साम्नां विधिस्ते कथितो नृवीर संक्षेपतः कर्मकरो मयैषः॥
आथर्वणं वच्मि निबोध तन्मे चेतः समाधाय महानुभाव ॥७६॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सामविधिकथनन्नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥१२६॥
N/A
References : N/A
Last Updated : December 20, 2022
TOP