संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०३९

खण्डः २ - अध्यायः ०३९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


सावित्र्युवाच॥
धर्मो हि दैवतं स्त्रीणां पतिरेव परायणम्॥
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥१॥
धर्मार्जने सुरश्रेष्ठ कुतो ग्लानिः कुतः क्लमः॥
त्वत्पादमूलमेवेदं परमं धर्मकारणम् ॥२॥
धर्मार्जनं सदा कार्यं पुरुषेण विजानता॥
तल्लाभः सर्वलाभेभ्यो यतो देव विशिष्यते ॥३॥
धर्मश्चार्थश्च कामश्च त्रिवर्गं जीवतः फलम्॥
धर्महीनस्य कामार्थौ वन्ध्यासुतसमावुभौ ॥४॥
धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा॥
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥५॥
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति॥
एको हि जायते जन्तुरेक एव विपद्यते ॥६॥
धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः॥
रूपसौभाग्यलावण्यं सम्पद्धर्मेण लभ्यते ॥७॥
ब्रह्मेन्द्रोपेन्द्रशर्वेन्द्रयमार्काग्न्यनिलाम्भसाम्॥
वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः ॥८॥
धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक॥
मनोहराणि द्वीपानि वर्षाणि सुमुखानि च ॥९॥
प्रयान्ति धर्मेण नरास्तथैवामरतामिताः॥
नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ॥१०॥
तानि पुण्येन लभ्यन्ते नाकपृष्ठं तथा नरैः॥
विमानानि विचित्राणि तथैवाप्सरसः शुभाः ॥११॥
तैजसानि शरीराणि सदा पुण्यवतां फलम॥
राज्यं नृपतिपूजा च कामसिद्धिस्तथेप्सिता ॥१२॥
उपस्कराणि मुख्यानि फलं पुण्यस्य दृश्यते॥
रुक्मवैडूर्यदण्डानि चन्द्रांशुसदृशानि च ॥१३॥
चामराणि सुराध्यक्ष भवन्ति शुभकर्मणाम्॥
( पूर्णेन्दुमण्डलाभेन रक्तांशुकमितेन च ॥१४॥
धार्यतां यान्ति छत्रेण नरः पुण्येन कर्मणा॥)
जयशङ्खस्वनादेव सूतमागधनिःस्वनम ॥१५॥
वरासनं सभृङ्गारं फलं पुण्या कर्मणः॥
वरान्नपानं गीतं च नृत्यमाल्यानुलेपनम् ॥१६॥
रत्नवस्त्राणि मुख्यानि फलं पुण्यस्य कर्मणः॥
रूपौदार्यगुणोपेताः स्त्रियश्चातिनोहराः ॥१७॥
वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मणाम्॥
सुवर्णकिंकिणी मिश्रचामराः पीठधारिणः ॥१८॥
वहन्ति तुरगा देव नरं पुण्येन कर्मणा॥
हेमकक्षैः समातङ्गैश्चलत्पर्वतसन्निभैः ॥१९॥
खेलांघ्रिपदविन्यासैर्यान्ति पुण्येन कर्मणा॥
सर्वकामप्रदे देवे सर्वापद्दुरितापहे ॥२०॥
वहन्ति भक्तिं पुरुषास्सदा पुण्येन कर्मणा॥
तस्य द्वाराणि यजनं तपो दानं दया क्षमा ॥२१॥
ब्रह्मचर्यं च सत्यं च तीर्थानुसरणं शुभे॥
स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम् ॥२२॥
गुरूणां चैव शुश्रूषा ब्राह्मणानां च पूजनम्॥
इन्द्रियाणां जयश्चैव मार्दवं ह्रीरमत्सरम् ॥२३॥
तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता॥
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥२४॥
बाल एवाचरेद्धर्ममनित्यं देव जीवितम्॥
को हि जानाति कस्याद्य मृत्युः केन भविष्यति ॥२५॥
पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम्॥
अमरस्येव चरितमत्याश्चर्यं सुरोत्तम ॥२६॥
युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा॥
मृत्योरुत्सङ्गमारूढः स्थविरः किमपेक्षते ॥२७॥
भुवः शैलं समारूढः ततो वृक्षाग्रमाश्रितः॥
तत्राप्यविन्दतस्त्राणं मृत्योद्भीतस्य का गतिः ॥२८॥
न भयं मरणादेव प्राणिनामधिकं क्वचित॥
तत्रापि निर्भयाः सन्तः सदा सुकृतकारिणः ॥२९॥
यम उवाच॥
तुष्टोऽस्मि ते विशालाक्षि वचनैर्धर्मसङ्गतैः॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥३०॥
सावित्र्युवाच॥
वरयामि त्वया दत्तं पुत्राणां शतमौरसम्॥
अनपत्यस्य लोकेषु गतिः किल न विद्यते ॥३१॥
यम उवाच॥
कृतेन कामेन निवर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम्॥
ममोपरोधश्च तव क्लमः स्यात्तथाधुना तेन तव ब्रवीमि ॥३२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने तृतीयवरलाभो नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP