संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०२८

खण्डः २ - अध्यायः ०२८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥राम उवाच॥
राजरक्षारहस्यानि यानि दुर्गे निधापयेत्॥
कारयेद्वा महीभर्ता कथयस्वाशु तानि मे ॥१॥
पुष्कर उवाच॥
शिरीषोदुम्बरशमीबीजपूरं घृतप्लुतम्॥
क्षुद्योगः कथितो राम मासार्धस्य पुरातनैः ॥२॥
कषेरूत्पलमूलानि इक्षुमूलं तथा विमम्॥
दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परम् ॥३॥
शूलप्रोतं नरं प्राप्य तस्यास्थ्नामरणी भवेत्॥
कल्माषवीणुना तत्र जनयेत्तु विभावसुम् ॥४॥
गृहे त्रिरपसव्यं तत्क्रियते यत्र भार्गव॥
नान्योग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥५॥
कर्पासास्थि भुजङ्गस्य तथा निर्मोचनं परम्॥
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥६॥
सान्द्रसत्त्वा च वयसा विद्युद्दग्धा च मृत्तिका॥
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते द्विज ॥७॥
दिवा च दुर्गे रक्षोऽग्निर्वाति वाते विशेषतः॥
विषाच्च रक्ष्यो नृपतिस्तत्र युक्तिं निबोध मे ॥८॥
क्रीडानिमित्तं नृपतेर्धार्याः स्युर्मृगपक्षिणः॥
अन्नं च प्राक्प्ररीक्षेत वह्नावथ नरेषु च ॥९॥
वस्त्रं पत्रमलङ्कारं भोजनाच्छादने तथा॥
नापरीक्षितपूर्वं तु स्पृशेदपि महीपतिः ॥१०॥
श्यावास्यवक्त्रः सन्तप्तः सोद्वेगं च परीक्षते॥
विषदेन विषं दत्तं यत्र तत्र निरीक्षते ॥११॥
स्रस्तोत्तरीयो विमनाः स्तम्भकुण्ड्यादिभिस्तथा॥
प्रच्छादयति चात्मानं खिद्यते लज्जते तथा ॥१२॥
भुवं विलिखते ग्रीवां तथा चालयते द्विज॥
कण्डूयति च मूर्धानं परिलेढ्यधरं तथा ॥१३॥
क्रियासु त्वरते राम विपरीतास्वपि ध्रुवम्॥
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ॥१४॥
ततो विचायेदग्नौ तदन्नं त्वरयान्वितः॥
इन्द्रायुधसवर्णस्तु वृक्षस्फोटसमन्वितः ॥१५॥
एकावर्तोऽथ दुर्गन्धी भृशं चटचटायते॥
तद्धूमसेवनाज्जन्तोः शिरोरोगश्च जायते ॥१६॥
सविषेऽन्ने निलीयन्ते न च भार्गव मक्षिकाः॥
निलीनाश्च विपद्यन्ते दृष्टे च सविषे तथा ॥१७॥
विरज्यति चकोरस्य दृष्टिर्भार्गवसत्तम॥
विकृतिं च स्वरो याति कोकिलस्य तथा द्विज ॥१८॥
गतिः स्खलति हंसस्य भृङ्गराजश्च कूजति॥
क्रौंचो मदमथाभ्येति कृकवाकुर्विरौति च ॥१९॥
विक्रोशति चकोरश्च शारिका वाशते तथा॥
चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा ॥२०॥
मेहते वानरो राम ग्लायते जीवजीवकः॥
हृष्टरोमा भवेद्बभ्रुः पृषतश्चैव रोदिति ॥२१॥
हर्षमायाति च शिखी सविषे दर्शने द्विज॥
अन्नं च सविषं राम चिरेण च विपच्यते ॥२२॥
तथा भवत्यतिस्रावं पक्वं पर्युषितोपमम्॥
व्यापन्नरसगन्धं च चन्द्रिकाभिस्तथा युतम् ॥२३॥
व्यञ्जनानां च शुष्कत्वं द्रवाणां बुद्बुदोद्भवः॥
ससैन्धवानां द्रव्याणां जायते फेनमालिका ॥२४॥
रसस्य राजी नीला स्यात्ताम्रा च पयसस्तथा॥
कोकिलाभा च सध्यस्य तोयस्य च भृगूत्तम ॥२५॥
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च॥
मधुश्यावा च तक्रस्य नीला पीता तथैव च ॥२६॥
घृतस्योदकसंकाशा कपोताभा च मस्तुनः॥
हरिता साक्षिकस्यापि तैलस्य च तथारुणा ॥२७॥
फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते॥
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा ॥२८॥
मृदुता कठिनानां स्यान्मृदूनां च विपर्ययः॥
सूक्ष्मतन्तूपसदनं तथा चैवातिरोमता ॥२९॥
श्याममण्डलता चैव वस्त्राणामविशेषतः॥
लोहानां च मणीनां च मलपङ्कोपदिग्धता ॥३०॥
अनुलेपनगन्धानां स्नानानां च भृगूत्तम॥
विगन्धता च विज्ञेया पर्णानां म्लानता तथा ॥३१॥
पीता नीला सिता ज्ञेया तथा रामाञ्जनस्य च॥
दन्तकाष्ठत्वचः शान्तास्तन्तुसत्त्वं तथैव च ॥३२॥
एवमादीनि चिह्नानि विज्ञेयानि भृगूत्तम॥
तस्माद्राजा सदा तिष्ठेन्मणिमन्त्रौषधीगणैः ॥३३॥
आप्तैः संरक्षितो राम प्रमाद परिवर्जकैः ॥३४॥
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्वृत्तिमुपैति राष्ट्रम्॥
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या भृगुवंशचन्द्र ॥३५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राजरक्षावर्णनन्नामाष्टाविंशतितमोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : December 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP