खण्डः २ - अध्यायः १११
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
राम उवाच ॥
भगवञ्छ्रोतुमिच्छामि पापानां कर्मणां फलम्॥
त्वत्तः कमलपत्राक्ष तन्ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच॥
भुक्त्वैवान्नमभोज्यं तु नरकं याति मानवः॥
व्रतलोपे तदर्धं च प्रकीर्णे तु दशाहकम् ॥२॥
अग्निहोत्रसमिद्यादीन्सहस्रं याति वत्सरान्॥
महापातकिनः सर्वे कल्पं पश्यन्ति भार्गव ॥३॥
मन्वन्तरं तु तां कृत्वा नरकं प्रतिपद्यते॥
चतुर्युगं क्षत्त्रियहा वैश्यहा त्रियुगं तथा ॥४॥
शूद्रं हत्वा महाभाग युगं तु नरकं व्रजेत्॥
यावन्ति पशुरोमाणि तावत्कृत्वेह मानवः ॥५॥
वृथापशुघ्नः प्राप्नोति वर्षाणि नरकं नरः॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ॥६॥
याति संवत्सरशतं गुरुब्राह्मणताडनात्॥
तच्छस्त्रवर्ती नृपतिः कल्पं पश्यति मानद ॥७॥
पक्षपाती तथा सभ्यस्तावदेव भृगूत्तम॥ ब्राह्मणस्य च शूद्रस्य सहस्रं भृगुसत्तम ॥८॥
शोणितं यावतः पांसून्निगृह्णाति महीतले॥
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ॥९॥
राजनि प्रहरेद्यस्तु कृतगाम्याति दुर्मतिः॥
अराजा नरकं याति स तु कल्पशतं नरः ॥१०॥
नित्यान्यकुर्वन्धर्माणि तथा वर्षशतं व्रजेत्॥
द्रुमाणां छेदने राम पञ्चाशद्वर्षमेव तु ॥११॥
गुल्मवल्लीलतानां तु दशवर्षाणि भार्गव॥
अनागसामथाक्रोशे तिरश्चामथ ताडने ॥१२॥
तावदेव यथाकालं नरकं प्रतिपद्यते॥
अगम्यागामिनः सर्वे महापातकिभिः समाः ॥१३॥
अनिविष्टां भृतिं भुक्त्वा द्वे शते प्रतिपद्यते॥
तथा पुस्तकहारी च सहस्रं याति वत्सरान् ॥१४॥
सस्यानां नाशकारी च नरकं प्रतिपद्यते॥
अगारवनदाही च नास्तिकश्च तथा नरः ॥१५॥
कल्पमेकं प्रपद्यन्ते नरकं नात्र संशयः॥
देवतानां द्विजातीनां शास्त्राणां निन्दकस्तथा ॥१६॥
श्रुतीनां दूषकश्चैव तावदेव द्विजोत्तम॥
प्रतिश्रुत्य तथा चार्थं यो न दद्यान्महाभुज ॥१७॥
आश्रितस्य परित्यागं वृथा कुर्याद्द्विजोत्तम॥
अपराधं तथा राम वृथा भार्यावमन्तकः ॥१८॥
क्रतुहा चैव धर्मज्ञ सहस्रं पतिपद्यते॥
बहूनि राम पापानि पापेषूक्तेषु भार्गव॥
अन्तर्भावं प्रपद्यन्ते तानि चिन्त्यानि धर्मतः ॥१९॥
नरकाणां गणनमुदितं पापानां ते मया राम॥
एतच्च भवति घोरं त्वनुबन्धकृतं मनुष्याणाम् ॥२०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पापनिश्चयो नामैकादशोत्तरशततमोऽध्यायः ॥१११॥
N/A
References : N/A
Last Updated : December 16, 2022
TOP